दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 62, कुल 168 में से
संदर्भ में पढ़ेंश्लो० २८-३३ ] अवलोकसमेतम् । ५१
यथा च ( गाथा० )—
१सच्चं जाणइ दट्ठुं सरिसम्मि जणम्मि जुज्जए राओ ।
मरउ ण तुमं भणिस्सं मरणं पि सलाहणिज्जं से ॥'
स्वयं दूती । यथा—
२मँहु एहि किं णिवालअ हरसि णिअं वाउ जइ वि मे सिच्चअं ।
साहेमि कस्स सुंदर दूरे गामो अहं एक्का ॥'
इत्याद्यूह्यम् ।
अथ योषिदलङ्काराः—
यौवने सत्त्वजाः स्त्रीणामलंकारास्तु विंशतिः ।
यौवने सत्त्वोद्भूता विंशतिरलंकाराः स्त्रीणां भवन्ति ।
तत्र—
भावो हावश्च हेला च त्रयस्तत्र शरीरजाः ॥ ३० ॥
शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्यं धैर्यमित्येते सप्त भावा अयत्नजाः ॥ ३१ ॥
तत्र भावहावहेलास्त्रयोऽङ्गजाः । शोभा कान्तिर्दीप्तिर्माधुर्यं प्रागल्भ्यमौ-
दार्यं धैर्यमित्ययत्नजाः सप्त ।
लीला विलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम् ।
मोट्टायितं कुट्टमितं विब्बोको ललितं तथा ॥ ३२ ॥
विहृतं चेति विज्ञेया दश भावाः स्वभावजाः ।
तानेव निर्दिशति—
निर्विकारात्मकात्सत्त्वाद्रावस्तत्राद्यविक्रिया ॥ ३३ ॥
तत्र विकारहेतौ सत्यप्यविकारकं सत्त्वम् । यथा कुमारसंभवे ( ३।४० )—
‘श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥’
तस्माद्विकाररूपात्सत्त्वात् यः प्रथमो विकारोऽन्तर्विपरिवर्ती बीजस्योच्छून-
तेव स भावः । यथा—
‘दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा
श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि ।
पुंसामङ्गमपेतशङ्कमधुना नारोहति प्राग्यथा
बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥’
१ ‘सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः ।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयमस्याः ॥’ इति च्छाया.
२ ‘मुहुरेहि किं निवारक हरसि निजं वायो यद्यपि मे सिचयम् ।
साधयामि कस्य सुन्दर दूरे ग्रामोऽहमेका ॥’ इति च्छाया.