सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 40, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 40

देवीए ण सक्कुणोमि मुहं दंसिदुं । वासवदत्ता—( सास्रम् । पुनर्बाहू प्रसार्य । )
एंहि अयि णिठुरे, इदाणीं पि बंधुसिणेहं दंसेहि । ( अपवार्य ) अजउत्त, लज्जामि
क्खु अहं इमिणा णिसंसत्तणेण । ता लहुं अवणेहि से बंधणं । राजा—
यथाह देवी । ( बन्धनमपनयति । ) वासवदत्ता—(वसुभूतिं निर्दिश्य । ) अज्ज,
अमच्चयोगंधरायणेण दुज्जणीकदम्हि जेण जाणंतेण वि णाचक्खिदं ।' इत्यनेनान्यो-
न्यवचनात् परिभाषणम् ।
यथा च वेणीसंहारे ( पृ० २०० )—'भीमः—कृष्टा येनासि राज्ञां सदसि
नृपशुना तेन दुःशासनेन ।' इत्यादिना 'क्कासौ भानुमती नोपहसति पाण्डवदारान् ।'
( पृ० २०१ ) इत्यन्तेन भाषणात् परिभाषणम् ।
अथ प्रसादः—
प्रसादः पर्युपासनम् ।
यथा रत्नावल्याम् (पृ० १९५)—'देव, क्षम्यताम् ।' इत्यादि दर्शितम् ।
यथा च वेणीसंहारे ( पृ० २०० )—'भीमः—( द्रौपदीमुपसृत्य । ) देवि
पाञ्चालराजतनये, दिष्ट्या वर्धसे रिपुकुलक्षयेन ।' इत्यनेन द्रौपद्या भीमसेनेनाराधि-
तत्वात् प्रसाद इति ।
अथानन्दः—
आनन्दो वाञ्छितावाप्तिः
यथा रत्नावल्याम् ( पृ० १९३ )—'राजा—यथाह देवी ।' ( रत्नावलीं
गृह्णाति । )
यथा च वेणीसंहारे ( पृ० २०२ )—'द्रौपदी—णाह, विसुमरिदम्हि एदं
वावारं । णाहस्स पसादेण पुणो सिक्खिस्सं । ( केशान्वभ्राति । )' इत्याभ्यां
प्रार्थितरत्नावलीप्राप्तिकेशसंयमनयोर्वत्सराजद्रौपदीभ्यां प्राप्तत्वादानन्दः ।
अथ समयः—
समयो दुःखनिर्गमः ॥ ५२ ॥
यथा रत्नावल्याम् ( पृ० १९२.)—'वासवदत्ता—( रत्नावलीमालिङ्ग्य । )
सँमस्सस समस्सस बहिणिए ।' इत्यनेन भगिन्योरन्योन्यसमागमेन दुःखनिर्गमात्
समयः ।
यथा च वेणीसंहारे ( पृ० २०२ )—'भगवन्, कुतस्तस्य विजयादन्यद्यस्य
भगवान्पुराणपुरुषः स्वयमेव नारायणो मङ्गलान्याशास्ते ।
१ 'एहि अयि निष्ठुरे, इदानीमपि बन्धुस्नेहं दर्शय । आर्यपुत्र, लज्जे खल्वहमनेन
नृशंसत्वेन । तल्लघ्वपनयास्या बन्धनम् ।' इति च्छाया. २ 'आर्य, अमात्ययौगन्धरायणेन
दुर्जनीकृतास्मि येन जानतापि नाचक्षितम् ।' इति च्छाया. ३ 'नाथ, विस्मृतास्म्येतं
व्यापारम् । नाथस्य प्रसादेन पुनः शिक्षिष्यामि ।' इति च्छाया. ४ 'समाश्वसिहि
समाश्वसिहि भगिनिके ।' इति च्छाया.

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक) · पृष्ठ 40, कुल 168 में से · SarvaKosh