दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 39, कुल 168 में से
संदर्भ में पढ़ें२८ दशरूपकं [ प्रकाशः १
पाविअत्ति भणिअ अमच्चजोगंधराअणेण मम हत्थे णिहिदा । अदो जेव सागरि-
अत्ति सद्भावीअदि । राजा—( आत्मगतम् ।) यौगन्धरायणेन न्यस्ता । कथमसौ
ममानिवेद्य करिष्यति ।' इत्यनेन रत्नावलीलक्षणकार्यान्वेषणाद्विबोधः ।
यथा च वेणीसंहारे (पृ० २००)—भीमः—मुञ्चतु मुञ्चतु मार्यार्यः क्षण-
मेकम् । 'युधिष्ठिरः—किमपरमवशिष्टम् ? भीमः—सुमहदवशिष्टम् । संयम-
यामि तावदनेन दुःशासनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केश-
हस्तम् । युधिष्ठिरः—गच्छतु भवान् । अनुभवतु तपस्विनी वेणीसंहारम् ।'
इत्यनेन केशसंयमनकार्यस्यानवेषणाद्विबोध इति ।
अथ ग्रथनम्—
ग्रथनं तदुपक्षेपो
यथा रत्नावल्याम् (पृ० १९५)—'यौगन्धरायणः—देव, क्षम्यतां यद्दे-
वस्यानिवेद्य मयैतत्कृतम् ।' इत्यनेन वत्सराजस्य रत्नावलीप्रापणकार्योपक्षेपाद्ग्रथनम् ।
यथा च वेणीसंहारे (पृ० १९६)—भीमः—पाञ्चालि, न खलु मयि जीवति
संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिना । तिष्ठतु तिष्ठतु । स्वयमेवाहं संह-
रामि ।' इत्यनेन द्रौपदीकेशसंयमनकार्यस्योपक्षेपाद्ग्रथनम् ।
अथ निर्णयः—
ऽनुभूताख्या तु निर्णयः ॥ ५१ ॥
यथा रत्नावल्याम् (पृ० १९५)—यौगन्धरायणः—(कृताञ्जलिः ।) देव,
श्रूयताम् । इयं सिंहलेश्वरदुहिता सिद्धादेशेनोपदिष्टा, योऽस्याः पाणिं ग्रहीष्यति स
सार्वभौमो राजा भविष्यति । तत्प्रत्ययादस्माभिः स्वाम्यर्थे बहुशः प्रार्थ्यमानापि
सिंहलेश्वरेण देव्या वासवदत्तायाश्चित्तखेदं परिहरता यदा न दत्ता, तदा लावणके
देवी दग्धेति प्रसिद्धिसुत्पाद्य तदन्तिकं वाभ्रव्यः प्रहितः ।' इत्यनेन यौगन्धरायणः
स्वानुभूतमर्थं ख्यापितवानिति निर्णयः ।
यथा च वेणीसंहारे (पृ० १९८)—भीमः—देव देव अजातशत्रो,
क्वाथापि दुर्योधनहतकः । मया हि तस्य दुरात्मनः,—
भूमौ क्षिप्त्वा शरीरं निहितमिदमसृक्चन्दनाभं निजाङ्गे
लक्ष्मीरायें निक्षिप्ता चतुरुदधिपयःसीमया सार्धमुर्व्या ।
भृत्या मित्राणि योधाः कुरुकलमखिलं दग्धमेतद्रणाग्नौ
नामैकं यद्ब्रवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषम् ॥'
(वे० सं० ६।३९)
इत्यनेन स्वानुभूतार्थकथनान्निर्णय इति ।
अथ परिभाषणम्—
परिभाषा मिथो जल्पः
यथा रत्नावल्याम् (पृ० १९३)—रत्नावली—(आत्मगतम् ।) केआवराहा
१. 'कृतापराधा देव्या न शक्नोमि मुखं दर्शयितुम्' इति च्छाया.