दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 37, कुल 168 में से
संदर्भ में पढ़ें२६ दशरूपकं [ प्रकाशः १
पूर्णन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते
कृष्णाल्यन्तचिरोज्झिते च कबरीबन्धे करोतु क्षणम् ।
रामे शातकुठारभासुरकरे क्षत्रद्रुमोच्छेदिनि
क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥
(वे० सं० ६।१२)
इत्यादिना ‘मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः ।’ (पृ० १६७) इत्यन्तेन
द्रौपदीकेशसंयमनयुधिष्ठिरराज्याभिषेकयोर्भाविनोरपि सिद्धत्वेन दर्शिका प्ररोचनेति ।
अथ विचलनम्—
विकत्थना विचलनम्
यथा वेणीसंहारे (५।२७)—‘भीमः—तात, अम्ब,—
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः ।
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम् ॥
अपि च । तात,—
चूर्णिताशेषकौरव्यः क्षीबो दुःशासनासृजा ।
भङ्क्ता सुयोधनस्योर्वोरभीमोऽयं शिरसाञ्चति ॥’ (वे० सं० ५।२८)
इत्यनेन विजयबीजानुगतस्वगुणाविष्करणाद्विचलनमिति ।
यथा च रत्नावल्याम् (४।१९)—‘यौगन्धरायणः—
देव्या मद्रचनाद्यथाभ्युपगतः पत्युर्वियोगस्तदा
सा देवस्य कलत्रसंघटनया दुःखं मया स्थापिता ।
तस्याः प्रीतिमयं करिष्यति जगत्स्वामित्वलाभः प्रभोः
सत्यं दर्शयितुं तथापि वदनं शक्नोमि नो लज्जया ॥’
इत्यनेनान्यपरेणापि यौगन्धरायणेन मया जगत्स्वामिलानुबन्धी कन्यालाभो वत्स-
राजस्य कृतः । इति स्वगुणानुकीर्तनाद्विचलनमिति ।
अथादानम्—
आदानं कार्यसंग्रहः ।
यथा वेणीसंहारे—‘भीमः—ननु भोः समन्तपञ्चकसंचारिणः,—
रक्षो नाहं न भूतं रिपुरुधिरजलाप्लाविताङ्गः प्रकामं
निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि ।
भो भो राजन्यवीराः समरशिखिशिखादग्धशेषाः कृतं व-
स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥’ (वे० सं० ६।२७)
इत्यनेन समस्तरिपुवधकार्यस्य संगृहीतत्वादादानम् ।
यथा च रत्नावल्याम् (पृ० १८७)—‘सागरिका—(दिशोऽवलोक्य ।)
दिट्ठिआ समंतादो पज्जलिदो भअवं हुअवहो, अज करिस्सदि दुक्खावसाणं ।’ इत्य-
१ ‘दिष्ट्या समन्तात्प्रज्वलितो भगवान्हुतवहोऽद्य करिष्यति दुःखावसानम् ।’ इति
च्छाया.