दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 36, कुल 168 में से
संदर्भ में पढ़ेंश्लो० ४६-४७ ] अवलोकसमेतम् । २५
यथा च वेणीसंहारे (६।६)—
'नूनं तेनाद्य वीरेण प्रतिज्ञाभङ्गभीरुणा ।
बध्यते केशपाशस्ते स चास्याकर्षणे क्षमः ॥'
इत्यनेन युधिष्ठिरः स्वदण्डशक्तिमाविष्करोति ।
अथ विरोधनम्—
१संरब्धानां विरोधनम् ।
यथा वेणीसंहारे—(पृ० १४७) 'राजा—रे रे मरुत्तनय, किमेवं वृद्धस्य
राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे ? अपि च,—
कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा
प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी ।
अस्मिन्वैराजुबन्धे तव किमपकृतं तैर्हता ये नरेन्द्रा
बाह्रोर्वीर्यातिसारद्रविणगुरुमदं मामजित्लैव दर्पः ॥ (वे० सं० ५।३०)
(भीमः क्रोधं नाटयति ।) अर्जुनः—आर्य, प्रसीद । किमत्र क्रोधेन ।
अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥ (वे० सं० ५।३१)
भीमः—अरे भरतकुलकलङ्क,—
२अद्यैव किं न विसृजेयमहं भवन्तं दुःशासनानुगमनाय कटुप्रलापिन् ।
विघ्नं गुरू न कुरुतो यदि मत्कराग्रनिर्भिद्यमानरणितास्थनि ते शरीरे ॥
(वे० सं० ५।३२)
अन्यच्च मूढ,—
शोकं स्त्रीवन्नयनसलिलैर्यत्परित्याजितोऽसि
भ्रातुर्वक्षःस्थलविदलने यच्च साक्षीकृतोऽसि ।
आसीदेत्तत्तव कुरुपतेः कारणं जीवितस्य
क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥ (वे० सं० ५।३३)
राजा—दुरात्मन् भरतकुलापसद पाण्डवपशो, नाहं भवानिव विकत्थनाप्रगल्भः ।
किंतु,—
द्रक्ष्यन्ति न चिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे ।
मद्गदाभिन्नवक्षोऽस्थिवेणिकामङ्गभीषणम् ॥' (वे० सं० ५।३४)
इत्यादिना संरब्धयोर्भीमदुर्योधनयोः स्वशक्त्युक्तिर्विरोधनमिति ।
अथ प्ररोचना—
सिद्धामन्त्रणतो भाविदर्शिका स्यात्प्ररोचना ॥ ४७ ॥
यथा वेणीसंहारे (पृ० १६५)—'पाञ्चालकः—अहं च देवेन चक्र-
पाणिना' इत्युपक्रम्य 'कृतं संदेहेन,—
१ 'संरम्भोक्तिः' इति पाठः. २ 'अत्रैव' इति पाठः.
द० ३