दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 35, कुल 168 में से
संदर्भ में पढ़ेंइत्यादिना ‘त्यक्तोत्थितः सरभसम्’ इत्यनेन दुर्वचनजलावलोडनाभ्यां दुर्याे-
धनतर्जनोद्वेजनकारिभ्यां पाण्डवविजयानुकूलदुर्योधनोत्थापनहेतुभ्यां भीमस्य
द्युतिरुक्ता ।
अथ प्रसङ्गः—
गुरुकीर्तनं प्रसङ्गश्
यथा रत्नावल्याम् (पृ० १८०)—‘देव, यासौ सिंहलेश्वरेण स्वदुहिता रत्नावली
नामायुष्मती वासवदत्तां दग्धामुपश्रुत्य देवाय पूर्वप्रार्थिता सती प्रतिदत्ता ।’
इत्यनेन रत्नावल्या लाभानुकूलाभिजनप्रकाशिना प्रसङ्गाद्गुरुकीर्तनेन प्रसङ्गः ।
तथा मृच्छकटिकायाम् (पृ० २२९)—‘चाण्डालकः—^१एस सागलदत्तस्स
सुओ अज्जविणअदत्तस्स णत्तू चारुदत्तो वावादितुं वज्झट्ठाणं णीअदि । एदेण
किल गणिआ वसंतसेणा सुवण्णलोभेण वावादिदत्ति । चारुदत्तः—
मखशतपरिपूतं गोत्रमुद्भासितं यत्सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् ।
मम निधनदशायां वर्तमानस्य पापैस्तदसदृशमनुष्यैर्घोष्यते घोषणायाम् ॥’
(मृच्छ० १०।१२)
इत्यनेन चारुदत्तवधाभ्युदयानुकूलं प्रसङ्गाद्गुरुकीर्तनमिति प्रसङ्गः ।
अथ छलनम्—
छलनं चावमाननम् ॥ ४६ ॥
यथा रत्नावल्याम् (पृ० १६२)—‘राजा—अहो निरनुरोधा मयि देवी ।’
इत्यनेन वासवदत्तेष्टासंपादनाद्वत्सराजस्यावमाननात् छलनम् ।
यथा च रामाभ्युदये सीतायाः परित्यागेनावमाननात् छलनमिति ।
अथ व्यवसायः—
व्यवसायः स्वशक्त्युक्तिः
यथा रत्नावल्याम् (४।८)—‘ऐन्द्रजालिकः—
^२किं धरणीए मिअंको आआसे महिहरो जले जलणो ।
मज्झण्हंमि पओसो दाविज्जइ जेहि आणत्ति ॥
अहवा किं बहुणा जंपिएण,—
मज्झ पडिण्णा एसा भणामि हिअएण जं महसि दट्ठुं ।
तं वे दावेमि फुडं गुरुणो मंतप्पहावेण ॥’ ((रत्ना० ४।९)
इत्यनेनैन्द्रजालिको मिथ्याग्निसंभ्रमोत्थापनेन वत्सराजस्य हृदयस्थसागरिकादर्शना-
नुकूलां स्वशक्तिमाविष्कृतवान् ।
१ ‘एष सागरदत्तस्य सुत आर्यविनयदत्तस्य नप्ता चारुदत्तो व्यापादयितुं वध्य-
स्थानं नीयते । एनेन किल गणिका वसन्तसेना सुवर्णलोभेन व्यापादितेति ।’ इति
च्छाया. २ ‘किं धरण्यां मृगाङ्क आकाशे महीधरो जले ज्वलनः । मध्याह्ने प्रदोषो
दर्श्यतां देवाज्ञाप्तिम् ॥ अथवा किं बहुना जल्पितेन । मम प्रतिज्ञाैषा भणामि हृदयेन
यद्वाञ्छसि द्रष्टुम् । तत्ते दर्शयामि स्फुटं गुरोर्मन्त्रप्रभावेण ॥’ इति च्छाया.