दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 129, कुल 168 में से
संदर्भ में पढ़ें८ परिशिष्टम् [ नाट्यशास्त्रे
अर्थस्येच्छाद्योगाद्बहुधा चैवार्थतोऽर्थशृङ्गारः ।
स्त्रीसंप्रयोगविषयेष्वयथार्थमपीष्यते हि रतिः ॥ १२६ ॥
कन्याविलोभनकृतं प्राप्तौ स्त्रीपुंसयोस्तु रम्यं वा ।
निभृतं सावेगं वा यस्य भवेद्वा कामशृङ्गारः ॥ १२७ ॥
उष्णिक्गायत्री वा वृत्तानि च यानि बन्धकुटिलानि ।
तान्यत्र समवकारे कविभिः सम्यक्प्रयोज्यानि ॥ १२८ ॥
एवं कार्यस्तज्ज्ञैः सुखदुःखसमाश्रयः समवकारः ।
वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि ॥ १२९ ॥
दिव्यपुरुषाश्रय[कृतो दिव्यस्त्रीकारणोपगतयुद्धः ।
सुविहितवस्तुनिबन्धो विप्रत्ययकारक]श्चैव ॥ १३० ॥
उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च ।
संक्षोभविद्रवकृतः संफेटकृतस्तथा चैव ॥ १३१ ॥
स्त्रीभेदनापहरणा[प?]मर्दनप्राप्तवस्तुशृङ्गारः ।
[यत्र तु वधेप्सितानां वधोऽप्यदृश्यो भवेत्तु पुरुषाणाम् ।]
ईहामृगस्तु कार्यश्चतुरङ्गविभूषितश्चैव ॥ १३२ ॥
यद्व्यायोगे कार्ये ये पुरुषा वृत्तयो रसाश्चैव ।
ईहामृगेऽपि तत्स्यात्केवलमत्र स्त्रिया योगः ॥ १३३ ॥
किंचिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम् ॥ १३४ ॥
ईहामृगस्य लक्षणमुक्तं विप्राः समासयोगेन ।
अथ वै डिमस्य लक्षणमतः परं प्रवक्ष्यामि ॥ १३५ ॥
प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव ।
षट्त्रिंशल्लक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः ॥ १३६ ॥
शृङ्गारहास्यवर्जं शेषैरन्यै रसैः समायुक्तः ।
दीप्तरसकाव्ययोनिर्नानाभावोपसंपन्नः ॥ १३७ ॥
निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः ।
युद्धनियुद्धप्रहरणसंफेटककृतश्च कर्तव्यः ॥ १३८ ॥
मायेन्द्रजालबहुलो बहुपुरुषोत्थानयुक्तश्च ।
देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ १३९ ॥
षोडशनायकबहुलः सात्त्वत्यारभटिवृत्तिसंपन्नः ।
कार्यो डिमः प्रयत्नान्नानाश्रयभावसंपन्नः ॥ १४० ॥
[डिमलक्षणमित्युक्तं मया समासेन लक्षणानुगतम् ।
व्यायोगस्य तु लक्षणमतः परं संप्रवक्ष्यामि ॥ १४१ ॥]
व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः ।
अल्पस्त्रीजनयुक्तस्त्वेकाह्नकॄतस्तथा चैव ॥ १४२ ॥
बहवस्तत्र च पुरुषाः कविभिः कार्या यथा समवकारे ।
न च तत्प्रमाणयुक्ताः कार्या एकाङ्क एवायम् ॥ १४३ ॥