दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 128, कुल 168 में से
संदर्भ में पढ़ेंअध्यायः १८ ] दशरूपकस्य ७
अङ्कान्तरालविहितः प्रवेशकार्थक्रियां समभिवीक्ष्य ।
संक्षेपात्संधीनामर्थानां चैव कर्तव्यः ॥ १०८ ॥
अनयोश्च बन्धयोगादन्यो भेदः प्रयोक्तृभिः कार्यः ।
प्रख्यातस्त्वितरो वा नाटीसंज्ञाश्रिते काव्ये ॥ १०९ ॥
स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी ।
बहुगीतनृत्यवाद्यरतिसंभोगात्मिका चैव ॥ ११० ॥
राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता ।
[ नायकदूती चापि देवीसंबन्धी नाटिका ज्ञेया ॥ १११ ॥
अन्तर्भावगता ह्येषा भावयोरुभयोरपि ।
अथ दशैतानि रूपाणि इत्युदितानि तु ॥ ११२ ॥ ]
प्रकरणनाटकनाटीलक्षणमुक्तं मया समासेन ॥ ११३ ॥
वक्ष्याम्यतःपरमहं लक्षणयुक्त्या समवकारम् ।
देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव ॥ ११४ ॥
त्र्यङ्कस्तथा त्रिकपटः त्रिविद्रवः स्यात्त्रिशृङ्गारः ।
द्वादशनायकबहुलो ह्यष्टादशनाटिकाप्रमाणश्च ॥ ११५ ॥
वक्ष्याम्यस्याङ्गविधिं यावत्यो नाडिका यत्र ।
[ अङ्कस्तु सप्रहसनः कालस्य यन्मुहूर्तमिति ।
तन्नाडिकाप्रमाणं यथोक्तमङ्गेषु संयोज्यम् ॥ ११६ ॥
या नाडिकेति संज्ञा कालविभागे क्रियाभिसंपन्ना ।
कार्या च सा प्रयत्नाद् यथाक्रमेणैव शास्त्रोक्ता ॥ ]
अङ्कस्तु सप्रहसनः सविद्रवः सकपटः सवीथीकः ॥ ११७ ॥
द्वादशनाडीविहितः प्रथमः कार्यः क्रियोपेतः ।
कार्यस्तथा द्वितीयः समाश्रितो नाडिकाश्चतस्रश्च ॥ ११८ ॥
वस्तुसमापनविहितो द्विनाडिकः स्यात्तृतीयस्तु ।
नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूर्त्तार्धम् ॥ ११९ ॥
तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम् ।
अङ्कोऽङ्कस्त्वन्यार्थः कर्तव्यः काव्यबन्धमासाद्य ॥ १२० ॥
अङ्के हि समवकारे ह्यप्रतिसंधानमिच्छन्ति ॥ १२१ ॥
युद्धजलसंभवो वा वाय्वग्निगजेन्द्रसंभवो वापि ।
नगरोपरोधजो वा विज्ञेयो विद्रवस्त्रिविधः ॥ १२२ ॥
यस्तु गतिक्रमविहितो दैववशाद्वा परप्रयुक्तो वा ।
सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटाश्रयो ज्ञेयः ॥ १२३ ॥
त्रिविधश्चात्र विधिज्ञैः पृथक्पृथक्कार्ययोगविहितार्थः ।
शृङ्गारः कर्तव्यो धर्मे चार्थे च कामे च ॥ १२४ ॥
यत्र तु धर्मसमापकमात्महितं भवति साधनं बहुधा ।
व्रतनियमतपोयुक्तो ज्ञेयोऽसौ धर्मशृङ्गारः ॥ १२५ ॥