दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 130, कुल 168 में से
संदर्भ में पढ़ेंअध्यायः १८ ] दशरूपकस्य ९
न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः ।
युद्धनियुद्धाक(घ)र्षणसंह(घ)र्षकृतश्च कर्तव्यः ॥ १४४ ॥
एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः ।
वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्य ॥ १४५ ॥
प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् ।
दिव्यपुरुषैर्वियुक्तः शेषैरन्यै(र्युक्तो)र्भ(भ)वेत्पुंभिः ॥ १४६ ॥
करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च ।
स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥ १४७ ॥
नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनः ।
कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु ॥ १४८ ॥
यद्दिव्यनायककृतं काव्यं संग्रामबन्धवधयुक्तम् ।
तद्भारते तु वर्षे कर्तव्यं काव्यबन्धेषु ॥ १४९ ॥
कस्माद्भारतमिष्टं वर्षेष्वन्येषु देवविहितेषु ।
हृद्या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात् ॥ १५० ॥
उपवनगमनक्रीडाविहारनारीरतिप्रमोदाः स्युः ।
तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः ॥ १५१ ॥
ये तेषामपि(धि)वासाः पुराणवादेषु पर्वताः प्रोक्ताः ।
संभोगस्तेषु भवेत्कर्मारम्भो भवेदिस्मिन् ॥ १५२ ॥
[ अङ्कस्य लक्षणगतं व्याख्यातं शेषमात्रगतम् ।
प्रहसनमतः परमहं सलक्षणं संप्रवक्ष्यामि ॥ १५३ ॥ ]
प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम् ।
वक्ष्यामि तयोर्युक्त्या पृथक्पृथल्लक्षणविशेषम् ॥ १५४ ॥
भगवत्तापसविप्रैरन्यैरपि हास्यवादसंबद्धम् ।
कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥ १५५ ॥
अविकृतभाषाचारं विशेषभावोपपन्नरचित(चरित)पदम् ।
नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ १५६ ॥
वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः ।
अनिभृतवेषपरिच्छदचेष्टितकरणैस्तु संकीर्णम् ॥ १५७ ॥
लोकोपचारयुक्ता या वार्ता यश्च दम्भसंयोगः ।
तत्प्रहसनेषु योज्यं धूर्तोक्तविवादसंयुक्तम् ॥ १५८ ॥
वीथ्यङ्गैः संयुक्तं कर्तव्यं प्रहसनं यथायोगम् ।
भाणस्यापि तु लक्षणमतः परं संप्रवक्ष्यामि ॥ १५९ ॥
आत्मानुभूतशंसी परसंश्रयवर्णनाविशेषेषु (वस्तु) ।
द्वि(वि)विधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ १६० ॥
परवचनमात्मसंस्थं प्रतिवचनैरुत्तरोत्तरग्रथिते(तैः) ।
आकाशपुरुषकथितैरङ्गविकारैरभिनयै[श्चैव] ॥ १६१ ॥