दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 127, कुल 168 में से
संदर्भ में पढ़ें६ परिशिष्टम् [ नाट्यशास्त्रे
शुद्धः संकीर्णो वा द्विविधः खलु नाटके प्रयोगज्ञैः ।
मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यमकृतः ॥ ९० ॥
अङ्कान्तरे मुखे वा प्रकरणमाश्रित्य नाटके वापि ।
विष्कम्भकस्तु नियतः कर्तव्यो मध्यमैरधमैः ॥ ९१ ॥
न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा ।
येनात्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः ॥ ९२ ॥
कार्यं गोपुच्छाग्रं कर्तव्यं काव्यबन्धमासाद्य ।
ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः ॥ ९३ ॥
सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् ।
निर्वहणे कर्तव्यो नित्यं हि रसोऽद्भुतस्तज्ज्ञैः ॥ ९४ ॥
नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत् ।
प्रकरणमतः परमहं लक्षणयुक्त्या प्रवक्ष्यामि ॥ ९५ ॥
यत्र कविरात्मबुद्ध्या वस्तु शरीरं च नाटकं चैव ।
औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम् ॥ ९६ ॥
यदनर्थमपाहार्यं काव्यं कुरुते प्रभूतगुणयुक्तम् ।
उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ ९७ ॥
यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च ।
तत्प्रकरणेऽपि कार्यं केवलमुत्पाद्यवस्तु स्यात् ॥ ९८ ॥
विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् ।
चरितं यत्रैकविधं ज्ञेयं तत्प्रकरणं नाम ॥ ९९ ॥
नोदात्तनायककृतं न दिव्यचरितं न राजसंभोगः ।
बाह्यजनसंप्रयुक्तं ज्ञेयं तत्प्रकरणं नाम ॥ १०० ॥
दासविटश्रेष्ठियुतं वेश्याह्युपचारकरणोपेतम् ।
मन्दकुलस्त्रीचरितं काव्यं कार्यं प्रयोगे तु ॥ १०१ ॥
सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम् ।
गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या ॥ १०२ ॥
यदि वेश्यायुवतियुक्तं न कुलस्त्रीसङ्गमर्हति ततः ।
अत्र कुलजनप्रयुक्तं न वेश्यायुवतिर्भवेत्तत्र ॥ १०३ ॥
यदि वा प्रकरणयुक्त्या वेशकुलस्त्रीकृतोपचारं(रः?) स्यात् ।
अविकृतभाषाचारं तत्र तु पाठ्यं प्रयोक्तव्यम् ॥ १०४ ॥
प्रकरणनाटकविषये पञ्चाद्या दश परास्तथा चैव ।
अङ्काः कर्तव्याः स्युर्नानारसभावसंयुक्ताः ॥ १०५ ॥
मध्यमपुरुषैर्नित्यं योज्यो विष्कम्भकोऽपि तत्त्वज्ञैः ।
संस्कृतवचनानुगतः संक्षिप्तार्थः प्रवेशकवत् ॥ १०६ ॥
शुद्धः संकीर्णो वा द्विविधो विष्कम्भकोऽपि विज्ञेयः ।
मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः ॥ १०७ ॥