दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 126, कुल 168 में से
संदर्भ में पढ़ेंपादस्य पद्यतेर्धातोश्चतुर्भागः प्रकीर्तितः ।
अग्न्यादिदैवतं प्रोक्तं स्थानं द्विविधमुच्यते ॥ ७२ ॥
शरीराश्रयसंभूतं दिगाश्रयमथापि च ।
ह्रस्वं दीर्घं प्लुतं चैव त्रिविधं चाक्षरं स्मृतम् ॥ ७३ ॥
श्वेताद्यस्तथा वर्णा विज्ञेयाश्छन्दसामिह ।
तारश्चैव हि मन्द्रश्च मध्यश्च त्रिविधः स्वरः ॥ ७४ ॥
ध्रुवाविधाने चैवास्य संप्रवक्ष्यामि लक्षणम् ।
विधिर्गणकृतश्चैव तथा पद्यकृतोऽपि च ॥ ७५ ॥
वृत्तमर्धसमं चैव विषमं सममेव च ।
सर्वेषामेव वृत्तानां तज्ज्ञैर्ज्ञेया गणास्त्रिकाः ॥ ७६ ॥
दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ ७७ ॥
त्रिष्टुप् च जगती चैव दिव्योऽयं प्रथमो गणः ।
तथातिजगती चैव शक्वरी ह्यतिशक्वरी ॥ ७८ ॥
अष्टिरत्यष्टिरितरो धृतिश्चातिधृतिर्गणः ।
कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा ॥ ७९ ॥
संकृत्यतिकृती चैव [ह्युत्कृति]र्दिव्यमानुषः ।
एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् ॥ ८० ॥
लक्षणं संप्रवक्ष्यामि नष्टमुद्दिष्टमेव च ।
प्रस्तारोऽक्षरमुद्दिष्टो मात्रोक्तश्च तथैव हि ॥ ८१ ॥
द्विकौ ग्लौ विनिपर्णोक्ता (?) मिश्रौ चेत्यपि मात्रिकौ ।
गुर्वेधस्ताल्लघुं न्यस्य ततो द्विरिद्यथोचितम् ॥ ८२ ॥
न्यसेत्प्रस्तारमार्गोऽयमक्षरोक्तस्तु नित्यशः ।
मात्रासंख्या विनिर्दिष्टा गणो मात्राविकल्पितः ॥ ८३ ॥
मिश्रौ ग्लाविति विज्ञेयौ पृथग्लक्ष्यविभागवः ।
मात्रागणो गुरूत्येव लघुनीयैधुकैक च(?) ॥ ८४ ॥
आर्याणां स चतुर्मात्रा प्रस्तारः परिकीर्तितः ।
गीतकप्रभृतीनां च पञ्चमात्रः स इष्यते ॥ ८५ ॥
वेताली................................................... ।
........................................................... ॥ ८६ ॥
बह्वाश्रयमपि कार्यं प्रवेशकैः संक्षिपेत्तु संधिषु च ।
बहुपूर्णपद्यवृत्तं जनयति खेदं प्रयोगस्य ॥ ८७ ॥
यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात् ।
वृत्तान्तः स्वल्पकथैः प्रवेशकैः सोऽभिधातव्यः ॥ ८८ ॥
मध्यमपात्रैः कार्यो नित्यं विष्कम्भकस्तु विज्ञेयः ।
संस्कृतवचनानुगतः संक्षितार्थः प्रवेशकवत् ॥ ८९ ॥