सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 125, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 125

४ परिशिष्टम् [ नाट्यशास्त्रे
एवं नानार्थसंयुक्तैः पदैर्वर्णविभूषितैः ।
चतुर्भिस्तु भवेद्युक्तं छन्दोवृत्ताभिधानवत् ॥ ५४ ॥
षड्विंशतिः शतान्येभिः पादैश्छन्दांसि संज्ञया ।
सममर्धसमं चैव तथा विषममेव च ॥ ५५ ॥
छन्दो ज्ञेयं समासेन त्रिविधं वृत्तमिष्यते ।
नानावृत्तविनिष्पन्ना शब्दस्यैषा तनुः स्मृता ॥ ५६ ॥
छन्दोहीनो न शब्दोऽस्ति न छन्दः शब्दवर्जितम् ।
एवं तूभयसंयोगो नाट्यास्यायोनकस्मृतः (?) ॥ ५७ ॥
एकाक्षरं भवेदुक्तमत्युक्तं द्व्यक्षरं भवेत् ।
मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा ॥ ५८ ॥
सुप्रतिष्ठा भवेत्पञ्च षड्गायत्री भवेदिह ।
सप्ताक्षरा भवेदुष्णिगष्टौ वानुष्टुभिष्यते ॥ ५९ ॥
नवाक्षरा तु बृहती पङ्क्तिश्चैव दशाक्षरा ।
एकादशाक्षरा त्रिष्टुब्जगती द्वादशाक्षरा ॥ ६० ॥
त्रयोदशातिजगती शक्वरीति चतुर्दश ।
अतिशक्वरी पञ्चदश षोडशाष्टिः प्रकीर्त्यते ॥ ६१ ॥
अत्यष्टिः स्यात्सप्तदश धृतिरष्टादशाक्षरा ।
एकोनविंशतिरति(धृतिः) कृतिर्विंशतिरेव च ॥ ६२ ॥
प्रकृतिरेकविंशत्या द्वाविंशत्याकृतिस्तथा ।
त्रयोविंशतिर्विकृतिरधिकैका तु संकृतिः ॥ ६३ ॥
एकाधिका चातिकृतिः षड्विंशत्यक्षरोत्कृतिः ।
अत ऊर्ध्वाक्षरं छन्दो मालावृत्तमिति स्मृतम् ॥ ६४ ॥
छन्दसां तु यथान्येषां भेदाः प्रस्तारयोगतः ।
असंख्येयपरीमाणा वृत्तसंख्या समाश्रिता ॥ ६५ ॥
गायत्री प्रकृतिश्चैषां प्रमाणं संप्रचक्षते ।
प्रयोगजानि पूर्णानि प्रायशो न भवन्ति हि ॥ ६६ ॥
तिस्रः कोट्यो दश तथा सहस्राणां शतानि तु ।
चत्वारिंशत्तथा द्वे च सहस्राणि दशैव तु ॥ ६७ ॥
सप्तभिः सहितान्येव सप्त चैव शतानि च ।
षड्विंशतिर(रिहा)न्यानि व्याख्यातानि समासतः ॥ ६८ ॥
सर्वेषां छन्दसामेव त्रिकैर्वृत्तं प्रयोजयेत् ।
ज्ञेया अष्टौ त्रिकास्तत्र संज्ञाभिः स्थानमक्षरम् ॥ ६९ ॥
वर्णाक्षरो विधिर्वृत्तमिति छन्दोगतो विधिः ।
नैवातिरिक्तं हीनं वा यत्र संपद्यते खरम् ॥ ७० ॥
विधाने छन्दसामेषां संपदेताभिसंज्ञिता ।
यत्रार्थस्य समाप्तिः स्यात्स विराम इति स्मृतः ॥ ७१ ॥