सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 124, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 124

अध्यायः १८ ] दशरूपकस्य ३
नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः ।
प्राकृतभाषाचारः प्रवेशको नाम विज्ञेयः ॥ ३६ ॥
कालोत्थानगतिरसौ व्यत्यासारम्भकार्यविषयाणाम् ।
अर्थाभिधानपूर्वः प्रवेशकः स्यादनेकार्थः ॥ ३७ ॥
टठडढणा मूर्धन्या अन्तःस्था यरलवाश्चेति ।
विसर्जनीयः.............................. ॥ ३८ ॥
यस्मिन्स्थाने तु समो विज्ञेयः सवर्णसंज्ञोऽसौ ।
शब्दप्रयोगविषये स्वरांस्तु भूयः प्रवक्ष्यामि ॥ ३९ ॥
य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः ।
पूर्वो ह्रस्वस्तेषां परश्च दीर्घो विधातव्यः ॥ ४० ॥
.................................................. ।
ए ऐ कण्ठतालव्यौ ओ औ तु कण्ठौष्ठ्याविति च ॥ ४१ ॥
इत्थं व्यञ्जनयोगैः स्वरैश्च साख्यातनामपदविहितैः ।
काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गैस्तु ॥ ४२ ॥
उद्दिष्टं शब्दानां लक्षणमेतत्समासयोगेन ।
प्रकरणवशाद्धि तदहं विस्तरतः संप्रवक्ष्यामि ॥ ४३ ॥
तत्प्राहुः सप्तविधं षट्कारकसंयुक्तं प्रथितसाध्यम् ।
वचनं नामसमेतं पुरुषविभक्तं तथा ख्यातम् ॥ ४४ ॥
प्रातिपदिकार्थयुक्ता धात्वर्थानुपसृजन्ति ये स्वार्थे ।
उपसर्गा ह्युद्दिष्टास्तस्मात्संस्कारतस्तस्मिन् ॥ ४५ ॥
प्रातिपदिकार्थयोगाद्द्व्यनुच्छन्दोनिरुक्तयुक्त्या च ।
यस्मिन्निपतति पादे तस्मात्प्रोक्ता निपातास्तु ॥ ४६ ॥
लोके प्रकृतिप्रत्ययविभागसंयोगतत्त्ववचनैस्तु ।
ते ते पूर्यन्तेऽर्थास्तेषु हि तत्तद्धितस्तस्मात् ॥ ४७ ॥
एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा ।
यस्माद्विभजन्त्यर्थान्विभक्तयः कीर्तितास्तस्मात् ॥ ४८ ॥
विश्लिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः ।
संधीयते पदे यस्मात्तस्मात्संधिः प्रकीर्तितः ॥ ४९ ॥
एभिः शब्दविधानैर्विस्तारव्यञ्जनार्थसंयुक्तैः ।
पदबन्धाः कर्तव्या निबद्धबन्धास्तु चूर्णा वा ॥ ५० ॥
विभक्त्यन्तं पदं ज्ञेयं निबद्धं चूर्णमेव च ।
तत्र चूर्णपदस्येह संनिबोधत लक्षणम् ॥ ५१ ॥
अनिबद्धपदच्छन्दस्तथा चानियताक्षरम् ।
अर्थापेक्षाक्षरस्यूतं ज्ञेयं चूर्णपदं बुधैः ॥ ५२ ॥
निबद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् ।
निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम् ॥ ५३ ॥