दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 123, कुल 168 में से
संदर्भ में पढ़ें२ परिशिष्टम् [ नाट्यशास्त्रे
नायकदेवीपरिजनपुरोहितामात्यसार्थवाहानाम् ।
नैकरसान्तरविहितो ह्यङ्क इति स वेदितव्यस्तु ॥ १८ ॥
[ पञ्चावरा दशपरा ह्यङ्का[:] स्युर्नाटके प्रकरणे च ।
निष्क्रामः सर्वेषां यस्मिन्नङ्कः स विज्ञेयः ॥ १९ ॥ ]
क्रोधप्रमादशोकाः शापोत्सर्गोऽध्वविद्रवोद्वाहौ ।
अद्भुतसंश्रयदर्शनमङ्के प्रत्यक्षजानि स्युः ॥ २० ॥
युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव ।
प्रत्यक्षाणि तु नाङ्के प्रवेशकैः संविधेयानि ॥ २१ ॥
अङ्के प्रवेशकैर्वा प्रकरणमाश्रित्य नाटके वापि ।
न वधः कर्तव्यः स्याद्यस्तत्र स नायकः ख्यातः ॥ २२ ॥
अवतरणमेव कार्यं संधिर्वा ग्रहणमेव वा नित्यम् ।
बहुभिः कार्यविशेषैः प्रवेशकैः सूचयेद्वापि ॥ २३ ॥
एकदिवसप्रवृत्तः कार्यस्त्वङ्कोऽथ बीजमाश्रित्य ।
आवश्यककार्याणामविरोधेन प्रयोगेषु ॥ २४ ॥
एकाङ्केन कदाचिद्बहूनि कार्याणि योजयेद्धीमान् ।
आवश्यकविरोधेन तत्र काव्यानि कार्याणि ॥ २५ ॥
रङ्गं तु ये प्रविष्टाः सर्वेषां भवति तत्र निष्क्रामः ।
बीजार्थयुक्तिमुक्तं कृत्वा काव्यं यथार्थरसम् ॥ २६ ॥
ज्ञात्वा दिवसावस्थां क्षणयाममुहूर्तलक्षणोपेताम् ।
विभजेत्सर्वमशेषं पृथक्पृथक्काव्यमङ्गेषु ॥ २७ ॥
दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम् ।
अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधेयं हि ॥ २८ ॥
संनिहितनायकोऽङ्कः कर्तव्यो नाटके प्रकरणे वा ।
परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः ॥ २९ ॥
प्रकरणविषये पञ्चाद्या......दशपरास्तथा चैव ।
अङ्काः कर्तव्याः स्युर्नानारसभावसंयुक्ताः ॥ ३० ॥
अनयोरन्तरविहितः प्रवेशको यत्क्रियां समभिवीक्ष्य ।
संक्षेपार्थः संधिस्त्वर्थानां संविधातव्यः ॥ ३१ ॥
अनयोश्च बन्धयोगादन्यो भेदः प्रयोक्तृभिः कार्यः ।
प्रख्यातस्त्वितरो वा नारीसंज्ञाश्रिते काव्ये ॥ ३२ ॥
अङ्कच्छेदं कृत्वा मासकृतं वर्षसंचितं वापि ।
तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित् ॥ ३३ ॥
यः कश्चित्कार्यवशाद्गच्छति पुरुषः प्रकृष्टमध्वानम् ।
तत्राप्यङ्कच्छेदः कर्तव्यः पूर्ववत्तज्ज्ञैः ॥ ३४ ॥
अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् ।
प्रकरणनाटकविषयप्रवेशकः संविधातव्यः ॥ ३५ ॥