सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 120, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 120

श्लो० ७५–८२ ] अवलोकसमेतम् । १०९
कर्माऽस्य साधुवादाश्रुवेपथुस्वेदगद्गदाः ।
हर्षावेगधृतिप्राया भवन्ति व्यभिचारिणः ॥ ७९ ॥
लोकसीमातिवृत्तपदार्थवर्णनादिविभावितः साधुवादाद्यनुभावपरिपृष्टो विस्मयः
स्थायिभावो हर्षावेगादिभावितो रसः=अद्भुतः । यथा—
'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्धत-
ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
द्राक्पर्यङ्ककपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर-
भ्राम्यत्पिण्डितचण्डिमा कथमसौ नाद्यापि विश्राम्यति ॥'
इत्यादि ।
अथ भयानकः—
विकृतस्वरसत्त्वादेर्भयभावो भयानकः ।
सर्वाङ्गवेपथुस्वेदशोषवैचित्त्यलक्षणः ।
दैन्यसंभ्रमसंमोहत्रासादिस्तत्सहोदरः ॥ ८० ॥
रौद्रशब्दश्रवणाद्रौद्रसत्त्वदर्शनाच्च भयस्थायिभावप्रभवो भयानको रसः ।
तत्र सर्वाङ्गवेपथुप्रभृतयोऽनुभावाः । दैन्यादयस्तु व्यभिचारिणः । भयानको यथा
प्रागुदाहृतः—
'शस्त्रमेतत्समुत्सृज्य कुब्जीभूय शनैः शनैः ।
यथायथागतेनैव यदि शक्नोषि गम्यताम् ॥'
यथा च रत्नावल्याम्—'नष्टं वर्षवरैः' ( २।३ ) इत्यादि ।
यथा च—
'खगेहात्पन्थानं तत उपचितं काननमथो
गिरिं तस्मात्सान्द्रद्रुमगहनमस्मादपि गुहाम् ।
तदन्वङ्गान्यङ्गैर्भिनिविशमानो न गणय-
त्यरातिः कालीये तव विजययात्रा चकितधीः ॥'
अथ करुणः—
इष्टनाशादनिष्टाप्तौ शोकात्मा करुणोऽनु तम् ।
निःश्वासोच्छ्वासरुदितस्तम्भप्रलपितादयः ॥ ८१ ॥
स्वापापस्मारदैन्याधिमरणालस्यसंभ्रमाः ।
विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥ ८२ ॥
इष्टस्य बन्धुप्रभृतेर्विनाशादनिष्टस्य तु बन्धनादेः प्राप्त्या शोकप्रकर्षजः=
करुणः । तमन्विति तदनुभावानिःश्वासादिकथनम् । व्यभिचारिणश्च स्वापा-
पस्मारादयः । इष्टनाशात्करुणो यथा कुमारसंभवे ( ४।३ )—
१ 'वमथु' इति पाठः. २ 'वैवर्ण्य' इति पाठः. ३ 'आप्तेः' इति पाठः.
द० १०