दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 121, कुल 168 में से
संदर्भ में पढ़ें११० दशरूपकं [ प्रकाशः ४
'अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः ।
ददृशे पुरुषाकृतिः क्षितौ हरकोपानलभस्म केवलम् ॥'
इत्यादिरतिप्रलापः । अनिष्टावाप्तेः सागरिकाया बन्धनाद्यथा रत्नावल्याम् ।
प्रीतिभक्त्यादयो भावा मृगयाक्षादयो रसाः ।
हर्षोत्साहादिषु स्पष्टमन्तर्भावान्न कीर्तिताः ॥ ८३ ॥
स्पष्टम् ।
षट्त्रिंशद्भूषणादीनि सामादीन्येकविंशतिः ।
१लक्ष्यसंध्यन्तराङ्गानि सालंकारेषु तेषु च ॥ ८४ ॥
'विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च' इत्येवमादीनि
षट्त्रिंशत्काव्यलक्षणानि । 'साम भेदः प्रदानं च' इत्येवमादीनि संध्यन्तराण्ये-
कविंशतिरुपमादिष्विवालंकारेषु हर्षोत्साहादिष्वन्तर्भावान्न पृथगुक्तानि ।
रम्यं जुगुप्सितमुदारमथापि नीच-
मुग्रं प्रसादि गहनं विकृतं च वस्तु ।
यद्वाप्यवस्तु कविभावकभाव्यमानं
तन्नास्ति यन्न रसभावमुपैति लोके ॥ ८५ ॥
विष्णोः सुतेनापि धनंजयेन विद्वन्मनोरागनिबन्धहेतुः ।
आविष्कृतं मुञ्जमहीशगोष्ठीवैदग्ध्यभाजा दशरूपमेतत् ॥ ८६ ॥
इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके
रसविचारो नाम चतुर्थः प्रकाशः समाप्तः ।
१ 'लक्ष्यसंध्यन्तराख्यानि' इति पाठः. २ 'भावात्' इति पाठः.