दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 119, कुल 168 में से
संदर्भ में पढ़ें१०८ दशरूपकं [ प्रकाशः ४
मात्सर्यविभावो रौद्रो यथा वीरचरिते ( ३।४४ )—
‘त्वं ब्रह्मवर्चसधरो यदि वर्तमानो यद्वा स्वजातिसमयेन धनुर्धरः स्याः ।
उग्रेण भोस्तव तपस्तपसा ददामि पक्षान्तरस्य सदृशं परशुः करोति ॥’
वैरिर्वैकृतादिर्यथा वेणीसंहारे ( १।८ )—
‘लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥’
इत्येवमादिविभावैः प्रस्वेदरक्तवदननयनाद्यनुभावैरमर्षादिव्यभिचारिभिः क्रोध-
परिपोषः=रौद्रः । परशुरामभीमसेनदुर्योधनादिव्यवहारेषु वीरचरितवेणीसंहारा-
देरनुगन्तव्यः ।
अथ हास्यः—
विकृताकृतिवाग्वेषैरात्मनोऽथ परस्य वा ।
हासः स्यात्परितोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥ ७५ ॥
आत्मस्थान्विकृतवेषभाषादीन्परस्थान् वा विभावानवलम्बमानः=हासः, तत्परि-
पोषात्मा हास्यो रसो द्व्यधिष्ठानो भवति । स चोत्तममध्यमाधमप्रकृतिभेदा-
त्त्रिविधः ।
आत्मस्थो यथा रावणः—
‘जातं मे परुषेण भस्मरजसा तच्चन्दनोद्धूलनं
हारो वक्षसि यज्ञसूत्रमुचितं क्लिष्टा जटाः कुन्तलाः ।
रुद्राक्षैः सकलैः सरलवलयं चित्रांशुकं वल्कलं
सीतालोचनहारि कल्पितमहो रम्यं वपुः कामिनः ॥’
परस्थो यथा—
‘भिक्षो मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना
किं ते मद्यमपि प्रियं प्रियमहो वाराङ्गनाभिः सह ।
वेश्या द्रव्यरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा
चौर्यद्यूतपरिग्रहोऽपि भवतो दासस्य काऽन्या गतिः ॥’
स्मितमिह विकासिनयनं किंचिल्लक्ष्यद्विजं तु हसितं स्यात् ।
मधुरस्वरं विहसितं सशिरःकम्पमिदमुपहसितम् ॥ ७६ ॥
अपहसितं सास्त्राक्षं विक्षिप्ताङ्गं भवत्यतिहसितम् ।
द्वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः ॥ ७७ ॥
उत्तमस्य खपरस्थविकारदर्शनात् स्मितहसिते मध्यमस्य विहसितोपहसितेऽध-
मस्यापहसितातिहसिते । उदाहृतयः स्वयमुत्प्रेक्ष्याः । व्यभिचारिणश्चास्य—
निद्रालस्यश्रमग्लानिमुर्च्छाश्च सहचारिणः ।
अथाद्भुतः—
अतिलोकैः पदार्थैः स्याद्विस्मयात्मा रसोऽद्भुतः ॥ ७८ ॥