सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 118, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 118

श्लो० ७०-७४ ] अवलोकसमेतम् । १०७
पात्रावासिसमुत्सुकेन बलिना सानन्दमालोकितं
पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः ॥'
यथा च ममैव—
'लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।
बलिरेष स येनास्य भिक्षापात्रीकृतः करः ॥'
विनयादिपु पूर्वमुदाहृतमनुसंधेयम् । प्रतापगुणावर्जनादिना वीराणामपि
भावात्रैधं प्रायोवादः । प्रस्वेदरक्तवदननयनादिक्रोधानुभावरहितो युद्धवीरः,
अन्यथा रौद्रः ।
अथ वीभत्सः—
वीभत्सः कृमिपूतिगन्धिवमथुप्रापैर्जुगुप्सैकभू-
रुद्वेगी रुधिरात्रकीकसवसामांसादिभिः क्षोभणः ।
वैराग्याजघनस्तनादिषु घृणा१शुद्धोऽनुभावैर्वृतो
नासावक्त्रविकूणनादिभिरिहावेगार्र्तिशङ्कादयः ॥ ७३ ॥
अत्यन्ताहृद्यैः कृमिपूतिगन्धिप्रायविभावैरुद्भूतो जुगुप्सास्थायिभावपरिपोषण-
लक्षण उद्वेगी=वीभत्सः । यथा मालतीमाधवे (५।१६)—
'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसा-
न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का-
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥'
रुधिरात्रवसाकीकसमांसादिविभावः क्षोभणो वीभत्सः ।
यथा वीरचरिते (१।३५)—
'अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण-
प्रायप्रेङ्खितभूरिभूषणवरैराघोषयन्त्यम्बरम् ।
पीतोच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लस-
द्व्यालोलस्तनभारभैरववपुर्बन्धोद्धतं धावति ॥'
रम्येष्वपि रमणीयजघनस्तनादिषु वैराग्याद्घृणाशुद्धः=वीभत्सः । यथा—
'लालां वक्त्रासवं वेत्ति मांसपिण्डौ पयोधरौ ।
मांसास्थिकूटं जघनं जनः कामग्रहातुरः ॥'
न चायं शान्त एव विरक्तो यतो वीभत्समानो विरज्यते ।
अथ रौद्रः—
क्रोधो मत्सरवैरिविकृतमयैः पोषोऽस्य रौद्रोऽनुजः
क्षोभः स्वाधरदंशकम्पभ्रुकुटिखेदास्यरागैर्युतः ।
शस्त्रोल्लासविकत्थनांसधरणीघातप्रतिज्ञाग्रहै-
रत्रामर्षमदौ स्मृतिश्चपलतासूयौग्र्यवेगादयः ॥ ७४ ॥
१ 'युक्तः' इति पाठः.