सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 117, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 117

अथवा । 'प्रिये, किमेतत्,—
'विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणे
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥' (उत्तर० १।३५)
यथा च ममैव—
'लावण्यामृतवर्षिणि प्रतिदिशं कृष्णागरुश्यामले
वर्षाणामिव ते पयोधरभरे तन्वङ्गि दूरोन्नते ।
नासावंशमनोज्ञकेतकतनुर्भू पत्रगर्भोल्लस-
त्पुष्पश्रीस्तिलकः सहेलमलकैर्भृङ्गैरिवापीयते ॥'
चेष्टास्तत्र प्रवर्तन्ते लीलाद्या दश योषिताम् ।
दाक्षिण्यमार्दवप्रेम्णामनुरूपाः प्रियं प्रति ॥ ७० ॥
ताश्च सोदाहृतयो नायकप्रकाशे दर्शिताः ।
रमयेच्चादृतुत्कान्तः कलाक्रीडादिभिश्च ताम् ।
न ग्राम्यमाचरेत्किञ्चिन्मर्मभ्रंशकरं न च ॥ ७१ ॥
ग्राम्यः संभोगो रङ्गे निषिद्धोऽपि काव्येऽपि न कर्तव्य इति पुनर्निषिध्यते ।
यथा रत्नावल्याम् ( १।२१ )—
'स्पृष्टस्त्वयैष दयिते स्मरपूजाव्यापृतेन हस्तेन ।
उद्भिन्नपरमृदुतरकिसलय इव लक्ष्यतेऽशोकः ॥'
इत्यादि । नायकनायिकाकैशिकीवृत्तिनाटकनाटिकालक्षणाद्युक्तं कविपरम्परा-
वगतं स्वयमौचित्यसंभावनानुगुण्येनोत्प्रेक्षितं चानुसंदधानः सुकविः शृङ्गार-
मुपनिबध्नीयात् ।
अथ वीरः—
वीरः प्रतापविनयाध्यवसायसत्त्व-
मोहाविषादनयविस्मयविक्रमाद्यैः ।
उत्साहभूः स च दयारणदानयोगा-
त्त्रेधा किलात्र मतिगर्वधृतिप्रहर्षाः ॥ ७२ ॥
प्रतापविनयादिभिर्विभावितः करुणायुद्धदानाद्यैरनुभावितो गर्वधृतिहर्षा-
मर्षस्मृतिमतिवितर्कप्रभृतिभिर्भावित उत्साहः स्थायी खदते भावकमनोवि-
स्तारानन्दाय प्रभवतीत्येष वीरः । तत्र दयावीरो यथा नागानन्दे जीमूत-
वाहनस्य । युद्धवीरो वीरचरिते रामस्य । दानवीरः परशुरामबलिप्रभृतीनाम् ।
'त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः' इति ।
'खर्वग्रन्थिविमुक्तसंधिविकसद्वक्षःस्फुरत्कौस्तुभं
निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामध्वनि ।