दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 116, कुल 168 में से
संदर्भ में पढ़ेंश्लो० ६४-६९ ] अवलोकसमेतम् । १०५
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालाऽऽलापैः सबाष्पगलज्जलैः ॥'
यथा वा तत्रैव—
‘देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै-
र्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।
उद्ग्रीवश्चरणार्धरुद्धवसुधः कृताश्रुपूर्णे दृशौ
तामाशां पथिकस्तथापि किमपि ध्यात्वा चिरं तिष्ठति ॥’ (अमरु० श्लो० ९९)
गतप्रवासो यथा मेघदूते ( उत्तर० श्लो० २३ )—
‘उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचि-
द्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥’
आगच्छदागतयोस्तु प्रवासाभावादेष्यत्प्रवासस्य च गतप्रवासाविशेषात्त्रै-
विध्यमेव युक्तम् ।
द्वितीयः सहसोत्पन्नो दिव्यमानुषविप्लवात् ।
उत्पातनिर्घातवातादिजन्यविप्लवात् परचक्रादिजन्यविप्लवाद्वाऽबुद्धिपूर्वकत्वादेकरूप
एव संभ्रमजः प्रवासः । यथोर्वशीपुरूरवसोर्विक्रमोर्वश्याम् । यथा च कपालकुण्ड-
लापहृतायां मालत्यां मालतीमाधवयोः ।
स्वरूपान्यत्वकरणाच्छापजः सन्निधावपि ॥ ६६ ॥
यथा कादम्बर्यां वैशंपायनस्येति ।
मृते त्वेकत्र यत्रान्यः प्रलपेच्छोक एव सः ।
व्य[१]ाश्रयत्वान्न शृङ्गारः प्रत्यापन्ने तु नेतरः ॥ ६७ ॥
यथेन्दुमतीमरणादजस्य करुण एव रघुवंशे । कादम्बर्यां तु प्रथमं करुण
आकाशसरस्वतीवचनादूर्ध्वं प्रवासशृङ्गार एवेति ।
तत्र नायिकां प्रति नियमः—
प्रणयायोगयोरुत्का प्रवासे प्रोषितप्रिया ।
कलहान्तरितेर्ष्यायां विप्रलब्धा च खण्डिता ॥ ६८ ॥
अथ संभोगः—
अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ ।
दर्शनस्पर्शनादीनि स संभोगो मुदान्वितः ॥ ६९ ॥
यथोत्तररामचरिते ( १।२७ )—
‘किमपि किमपि मन्दं मन्दमासत्तियोगादविरलितकपोलं जल्पतोरक्रमेण ।
सपुलकपरिरम्भव्यापृतैकैकदोष्णोरविदितगतयामा रात्रिरेव व्यरंसीत् ॥’
१ ‘निराश्रयात्’ इति पाठः.