सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 115, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 115

नायिकासखीसमावर्जनभेदो यथा ममैव—
'कृतेऽप्याज्ञाभङ्गे कथमिव मया ते प्रणतयो
धृताः स्मित्वा हस्ते विसृजसि रुषं सुभ्रु बहुशः ।
प्रकोपः कोऽप्यन्यः पुनरयमसीमाऽद्य गुणितो
वृथा यत्र स्निग्धाः प्रियसहचरीणामपि गिरः ॥'
दानं व्याजेन भूषादेर्यथा माघे ( ७।५५ )—
'मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् ।
अधिरजनि गतेन धाम्नि तस्याः शठ कलिरेव महांस्त्वयाऽद्य दत्तः ॥'
पादयोः पतनं नतिर्यथा—
'णेउरकोडिविलग्गं चिहुरं दइअस्स पाअपडिअस्स ।
हिअअं माणपउत्थं उम्मोअं ति च्चिअ कहेइ ॥'
उपेक्षा तदवधीरणं यथा—
'किं गतेन न हि युक्तमुपेतुं नेश्वरे परुषता सखि साध्वी ।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥'
रभसत्रासहर्षादे रसान्तरात्कोपभ्रंशो यथा ममैव—
'अभिव्यक्तालीकः सकलविफलोपायविभव-
श्चिरं ध्यात्वा सद्यः कृतककृतकसंरम्भनिपुणम् ।
इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा
कृताश्लेषां धूर्तः स्मितमधुरमालिङ्गति वधूम् ॥'
अथ प्रवासविप्रयोगः—
कार्यतः संभ्रमाच्छापात् प्रवासो भिन्नदेशता ॥ ६५ ॥
द्वयोस्तत्राश्रुनिःश्वासकार्श्यलम्वालकादिता ।
स च भावी भवन्भूतस्त्रिधाऽऽद्यो बुद्धिपूर्वकः ॥ ६६ ॥
आद्यः कार्यजः समुद्रगमनसेवादिकार्यवशप्रवृत्तौ बुद्धिपूर्वकत्वाद्भूतभविष्य-
द्वर्तमानतया त्रिविधः ।
तत्र यास्यत्प्रवासो यथा—
'होंतेपहिअस्स जाआ आउच्छणजीअधारणरहस्सं ।
पुच्छंती भमइ घरे घरेसु पिअविरहसहरीआ ॥'
गच्छत्प्रवासो यथामरुशतके ( श्लो० १२ )—
'प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा
दिनकृति गते वास्तं नाथ त्वमद्य समेष्यसि ।
१ 'नूपुरकोटिविलग्नं चिकुरं दयितस्य पादपतितस्य ।
हृदयं मानपदोत्थमुन्मुक्तमित्येव कथयति ॥' इति च्छाया.
२ 'भविष्यत्पथिकस्य जाया आयुःक्षणजीवधारणरहस्यम् !
पृच्छन्ती भ्रमति गृहाद्गृहेषु प्रियविरहसहरीका ॥' इति च्छाया.