बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
174 बृहत्संहितायाम् [Adh. XVI. Sl. 6-8.
medicines, physicians, quadrupeds, ploughmen, kings,
evil-doers, chiefs on march, thieves, serpents, woods,
renowned men and men of cruel disposition.
तथा च काश्यपः ।
प्रागद्धं नर्मदायाश्च शोणः शबरमागधाः ।
उड्रा वङ्गाः कलिङ्गाश्च वल्हीका यवनाः शकाः ॥
काम्बोजा मेकलाः सुह्माः प्राग्ज्योतिषकेरातकाः ।
चीनाः सर्वे सुशैलेयाः पार्वता बहिरन्तजाः ॥
यमुनाया याम्यकूलं कौशाम्ब्यौदुम्बराणि च ।
विन्ध्याटवी च पुण्ड्राश्च वर्धमानाश्च पर्वताः ॥
श्रीपर्वतश्चेदिपुरं गोलाङ्गूलं तथैव च ।
इक्षुमत्याश्रिता ये च जनाः शूरा मदोत्कटाः ॥
कान्तारमथ गोपाश्च कन्दरास्तस्करास्तथा ।
समरे विषमाः शूरास्तरवः कटुका अपि ॥
चतुष्पदा भेषजं च धान्यं वा भिषजस्तथा ।
अरण्यवासिन्यालाश्च कार्षका बालकास्तथा ॥
गौरपत्यं च किञ्जल्कं पुंसंज्ञा ये च जन्तवः ।
सर्वेषां भास्करः स्वामी तेजस्तेजस्विनामपि ॥
गिरिसलिलदुर्गकोसलमरुकच्छसमुद्ररोमकतुषाराः ।
वनवासितङ्गणहलस्त्रीराज्यमहार्णवद्वीपाः ॥६॥
मधुररसकुसुमफलसलिललवणमणिशङ्खमौक्तिकाब्जानाम् ।
शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम् ॥७॥
सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम् ।
शृङ्गिनिशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः ॥८॥
Slokas 6.8.—The Moon presides over mountains,
fortresses, forts protected by moats, Kosala, Bharukachcha
the ocean, Romans, Tocharians, Vanavasi, Tangana,
Hala, Strirajya, the islands of the great ocean, sweet
things, flowers, fruits, water, salt, jewels, conch shells,
pearls, aquatic products, rice, barley, herbs, wheat,
Adh. XVI. Sl. 9-15] षोडशोऽध्यायः 175
drinkers of Soma-juice, the आक्रन्द kings (in the cycle of
12 kings, they occupy the position of one of the hind
spokes-Raghuvamsa IX-15), Brahmins, white objects,
beloved person, horses, lovers, young women, command-
ants, eatables, clothes, horned animals, demons, agricul-
turists, persons acquainted with Sacrificial rules.
तथा च काश्यपः ।
पर्वता जलदुर्गाश्च कोसलास्तङ्गणा हलाः ।
स्त्रीराज्यं भृकच्छश्च तुषारा वनवासिनः ॥
मौक्तिकं मणिशङ्खाब्जमौषधं कुसुमं मूलम् ।
द्वीपा महार्णवे ये च मधुरा लवणादयः ॥
गोधूमाः शालयः शृङ्गिकार्षकाश्च यवा अपि ।
सोमपा ब्राह्मणा ये च यज्ञज्ञास्तु सुरासवम् ॥
स्त्रीसौभाग्यसमेताश्च लास्यहास्येक्षितानि च ।
निशाचराधिपश्चन्द्रो हृष्टानां च प्रकीर्तितः ॥
शोणस्य नर्मदाया भीमरथायाश्च पश्चिमादर्द्धाः ।
निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥९॥
मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः ।
उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥१०॥
द्रविडविदेहान्ध्राश्मकभासापरकौङ्कणाः समन्त्रिपिकाः ।
कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसङ्कीर्णाः ॥११॥
नासिक्यभ्रौगवर्धनविराठविन्ध्याद्रिपार्श्वगा देशाः ।
ये च पिबन्ति सुतोयां तापीं ये चापि गोमतीसलिलम् ॥१२॥
नागरकृषिकरपायतहुताशनाजीविवस्त्रवार्त्तानाम् ।
आटविकदुर्गकर्वटवधिकनृशंसावलिप्तानाम् ॥१३॥
नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभिघातपशूपानाम् ।
रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥१४॥
कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् ।
शठदीर्घवैरबह्लाशिनां च वसुधासुतोऽधिपतिः ॥१५॥
176 बृहत्संहितायाम् [Adh. XVI. Sl. 16.
Slokas 9-15.—Mars presides over the people residing
in the western half of the Sonne, Narmada and Bheema-
ratha, the Nirvindhya, Vetravatee, Sipra, Godavari, Vena,
Ganges, Payoshnee, Mahanadee, Sindhu, Malatee, Para,
Uttara Pandya, those who live near mount Mahendra,
Vindhya, Malaya, Chola, Dravida, Videha, Andhra,
Asmaka, Bhasapara, Kounkana, Manthrishika, Kuntala,
Kerala, Dandaka, Kantipura, Mlechchas, half-castes,
Nassik, Bhogavardhana, Virata, the countries bordering
on the Vindhya mountains, people living on the banks
of the Taptee and the Gumtee, towns people, agricul-
turists, Paratas, people who live by fire, warriors,
foresters, fortresses, Karvatas, slayers, murderous men,
arrogant fellows, kings, boys, elephants, hypocrites,
infanticides, shepherds, red fruits and flowers, coral,
generals, jaggory, toddy, cruel men, treasury, keepers
of sacred fire, mines, Buddhist monks, thieves, rogues
vindictive and gluttonous persons.
Sloka 12 is omitted in some editions.
तथा च काश्यपः ।
महेन्द्रविन्ध्यमलयाः सिप्रा वेणा महानदी ।
गोदावर्या नर्मदाया भीमायाः पश्चिमा दिशः ॥
चेदिकाः कौङ्कणा दुर्गा द्रविडा वेत्रवन्नदी ।
मन्दाकिनी पयोष्णी च मालती सिन्धुपारकाः ॥
पाण्ड्याश्रोत्तरदेशस्था विदेहान्ध्राश्मकास्तथा ।
भासापराः कुन्तलाश्च केरला दण्डकास्तथा ॥
नागराः पौरवाश्चैव कर्षकाः शस्त्रवृत्तयः ।
हुताशनाजीविनो ये कुञ्जराः पशुपास्तथा ॥
साङ्ग्रामिका नृशंसाश्च सहस्राश्रोपघातकाः ।
कुमारा भूमिजस्योक्ता दाम्भिकास्तस्करास्तथा ॥
लोहित्यः सिन्धुनदः सरयूर्गम्भीरिका रथाख्या च ।
गङ्गाकौशिक्याद्याः सरितो वैदेहकाम्बोजाः ॥१६॥
Adh. XVI. Sl. 17-20] षोडशोऽध्यायः 177
मथुरायाः पूर्वार्द्धं हिमवद्रोमन्तचित्रकूटस्थाः ।
सौराष्ट्रसेतुजलमार्गपण्यबिलपर्वताश्रयिणः ॥१७॥
उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः ।
आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः ॥१८॥
चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः ।
दूतनपुंसकहास्यज्ञभूततन्त्रेन्द्रजालज्ञाः ॥१९॥
आरक्षकनटनर्तकघृततैलस्नेहबीजतिक्तानि ।
व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य ॥२०॥
Slokas 16-20.—Mercury presides over the Lohitya,
Indus, Sarayu, Gambheerika, Ratha, Ganges, Kausikee
and other rivers, Videha, Kamboja, the eastern half of
Muttra, people living in the regions of the Himalaya,
Gomanta, Chitrakuta, Saurashtra, bridges, water-routes,
merchandise, inhabitants of caverns, hillmen, water-
reservoirs, mechanics, songsters, copyists, gem-dyeing-
perfumery experts, painters, grammarians, mathema-
ticians, outfitters, preparers of potions securing long-
evity, artisans, spies, jugglers, infants, poets, imposters,
tale-bearers, exorcisers, envoys, eunuchs, buffoons, people
versed in demonology and magic, policemen, actors,
dancers, ghee, oil, oil-seeds, bitter substances, observers
of vows, chemists and mules.
तथा च काश्यपः ।
चित्रकूटगिरी रम्यो हिमवान् कौशिकी तथा ।
मथुरायाश्च पूर्वार्द्धं लोहित्यः सिन्धुरेव च ॥
गाम्भीरीका च सरयू रथाख्या गण्डकी नदी ।
गान्धर्वा लेखहाराश्च तथोदाराश्च कृत्रिमाः ॥
वैदेहाः सर्वजलजाः काम्बोजाश्च सुराष्ट्रिकाः ।
गन्धयुक्तिविदो ये च सौगन्धिकपदलेपनाः ॥
बृ. सं. 23
178 बृहत्संहितायाम् [Adh. XVI. Sl. 21-25.
सुवर्णरजतं रत्नं मातङ्गतुरगादि यत् ।
पौरा जनपदाः सौम्याः सोमपुत्रवशे स्थिताः ॥
सिन्धुनदपूर्वभागो मथुरापश्चार्द्धभरतसौवीराः ।
सुघ्नोदीच्यविपाशासरिच्छतद्रू रमठशाल्वाः ॥२१॥
त्रैगर्तपौरवाम्बष्ठपारता वाटधानयौधेयाः ।
सारखतार्जुनायनमत्स्यार्द्धग्रामराष्ट्राणि ॥२२॥
हस्त्यश्वपुरोहितभूपमन्त्रिमाङ्गल्यपौष्टिकासक्ताः ।
कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः ॥२३॥
पौरमहाधनशब्दार्थवेदविदुषोऽभिचारनीतिज्ञाः ।
मनुजेश्वरोपकरणं छत्रध्वजचामराद्यं च ॥२४॥
शैलेयकमांसीतगरकुष्ठरससैन्धवानि वल्लीजम् ।
मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥२५॥
Slokas 21-25.—To Jupiter belong the eastern part
of the Indus, the western half of Muttra, the Bharatas,
Sauveeras, Srughnas, Northerners, the Vipasa river,
Satadru, the Ramatas, Salwas, Trigartas, Pauravas,
Ambashtas, Paratas, Vatadhanas, Yaudheyas, Saraswatas,
Arjunayanas, half the rural provinces of Mathsya,
elephants, horses, royal priests, kings, ministers, people
engaged in auspicious ceremonies and preparation of
tonics, compassionate, truthful, pure, pious, learned,
charitable and righteous men, citizens, rich men, gram-
marians, philologists and vedic scholars, exorcisers, politi-
cians, royal equipments, umbrellas, banners, chowries, etc,
benzoin (கல்பாசி), costus (கோஷ்டம்) Jatamansi(சடாமாஞ்சி)
Tahara (தகரவிரை), quicksilver, Saindhava salt, beans,
sweet juices, bees-wax and choraka perfume (the husk of
cardamom known in Tamil as கச்சோலம் or ஏலத்தோல்).
तथा च काश्यपः। त्रैगर्तैसिन्धुसौवीराः शतद्रूमथुरे अपि ।
सुघ्नोदीच्यविपाशाश्च पारताम्बष्ठकास्तथा ॥
Adh. XVI. Sl. 26-30. ] षोडशोऽध्यायः 179
राजा पुरोहितो मन्त्री माङ्गल्यं पौष्टिकं व्रतम् ।
कारुण्यं कर्म सिद्धानां विद्याशौचतपस्विनां ॥
मत्स्याश्च वाटधानाश्च यौधेयाश्चार्जुनार्यनाः ।
सारस्वताश्च रमठा हस्त्यश्वध्वजचामराः ॥
शब्दार्थविदुषः पौरा नीतिज्ञाः शीलसंयुताः ।
मांसीतगरकुष्ठं च शैलेयं लवणं रसाः ॥
मधुरस्वादवल्लीजं विप्राणां चाधिपो गुरुः ॥
तक्षशिलमार्त्तिकावतबहुगिरिगान्धारपुष्कलावटकाः ।
प्रस्थलमालवकैकयदाशार्णोशीनराः शिबयः ॥२६॥
ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च ।
रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥२७॥
सुरभिकुसुमानुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः ।
वरतरुणयुवतिकाभोपकरणमृष्टान्नमधुरभुजः ॥२८॥
उद्यानसलिलकामुकयशःसुखौदार्यरूपसम्पन्नाः ।
विद्वदमात्यवणिग्जनघटकृच्चित्राण्डजास्त्रिफलाः ॥२९॥
कौशेयपट्टकम्बलपत्रोर्णीकरोधपत्रचोचानि ।
जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ॥३०॥
Slokas 26-30.— To Venus belong Taxila, Marthi,
Kavata, Bahugiri, Gandhara, Pushkalavataka, Prastthala,
Malwa, Kaikaya, Dasarna, Useenara, Sibi, those that
dwell on the banks of Vitasta, Iravatee, Chandrabhaga,
chariots, silver-mines, elephants, horses, elephant-drivers,
wealthy men, fragrant things, flowers, unguents, gems,
diamonds, ornaments, lotuses, couches, good bride-
grooms and brides, aphrodisiacs, those who partake of
sumptuous and delicious dishes, parks, baths, lovers, those
endowed with renown, happiness, generosity and charming
personality, scholars, ministers, merchants, potters,
(various kinds of) coloured birds, the three fruits, கடுக்காய்,
180 बृहत्संहितायाम् [Adh. XVI. Sl.31-34
தானிக்காய், நெல்லிக்காய் - மாதளம்பழம், பேரீச்சம்பழம்,
திராக்ஷப்பழம்-silk, wool, bleached silk, Rodhra (வெள்ளை
லொத்திமரம்), Patra (ஜாதிபத்ரி), Chocha (லவங்கப்பட்டை),
nutmeg (ஜாதிக்காய்), Agaru (காரகில்), Vacha (வசம்பு),
Pippili (திப்பிலி) and sandalwood.
तथा च काश्यपः ।
चन्द्रभागां वितस्तां चैरावतीं च पिबन्ति ये ।
पुष्करावतकेकैया गान्धारप्रस्थलास्तथा ॥
दशार्णा मालवास्तक्षशिला मौक्तिकमेव च ।
धनाढ्याः कुञ्जरा अश्वाः प्रस्थलं च विलेपनम् ॥
सुरूपसुभगोद्योनिकामुकाः कामचारिणः ।
वेसरा मधुरा हृद्याः सलिलाशयजीविनः ॥
तरुणा योषितः क्रीडाविदुषो जनगोष्ठिकाः ।
चित्राण्डजाश्च कौशेयं पत्रोर्णं काशिकौशिकाः ॥
पिप्पल्यश्चन्दनं जातीफलमामलकानि च ।
गन्धपत्रस्य लोध्रस्य शुक्रश्चाधिपतिः स्मृतः ॥
आनर्त्तार्बुदपुष्करसौराष्ट्राभीरशूद्ररैवतकाः ।
नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः ॥३१॥
कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती महीतटजाः ।
खलमलिननीचतैलिकविहीन सत्त्वोपहतपुंस्त्वाः ॥३२॥
बान्धनशाकुनिकाशुचिकैवर्त्तविरूपवृद्धसौकरिकाः ।
गणपूज्यस्खलितव्रतशबरपुलिन्दार्थपरिहीनाः ॥३३॥
कटुतिक्तरसायनाविधवयोषितो भुजगतस्करमहिष्यः ।
खरकरभशणकवातलनिष्पावाश्चार्कपुत्रस्य ॥३४॥
Sloka 31-34.—Saturn presides over the Anartas, the
Arbudas, Pushkaras, Saurashtras, Abheeras, Sudras,
Raivatakas, the country where the Saraswati river disap-
pears, the western country, the inhabitants of Thaneswar,
Prabhasa, Vidisa, river Vedasmritee, those who dwell
Adh. XVI. Sl. 35-37] षोडशोऽध्यायः 181
along the banks of the Mahee river, rogues, dirty fellows,
unrighteous men, oil mongers, cowards eunuchs, Jailors
and prisoners, fowlers, impure fellows, fishers, deformed
persons, old men, swine-herds, foremen of companies,
those that have broken their vows, the Sabaras, Pulindas,
poor men, pungent and bitter things, tonics, widows,
snakes, thieves, she-buffaloes, donkeys, camels, Bengal
gram, such grains in pods as cause flatulence and Nish-
pavas (பெரும்பயறு).
तथा च काश्यपः ।
अर्बुदो रैवतगिरेः सौराष्ट्र भीरुकास्तथा ।
सरस्वतीपश्चिमाशा प्रभासं कुरुजाङ्गलम् ॥
आनर्त्तशूद्रा विदिशा खलतैलकनीचकाः ।
वेदस्मृती सौकरिका मलिनश्च महीतटम् ॥
दुःशीलशाकुना हीनाः पशुबन्धनकास्तथा ।
पाखण्डिनश्च वैतण्डा निर्ग्रन्थाः शबराः कृशाः ॥
विरूपाः कटुतिक्तानि रसायनविषादिनः ।
पुलिन्दास्तस्कराः सर्पा महिषोष्ट्रखराः शुनी ॥
चणका वातला वल्लाः पुंस्त्वसत्त्वविवर्जिताः ।
काकगृध्रशृगालानां वृकाणां च प्रभुः शनिः ॥
गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः ।
गोमायुभक्षशूलिकवोक्काणाश्वमुखविकलाङ्गाः ॥३५॥
कुलपांसनहिंस्रकृतघ्नचौरनिःसत्यशौचदानाश्च ।
खरचरनियुद्धवित्तीव्ररोषगर्त्ताश्रया नीचाः ॥३६॥
उपहतदाम्भिकराक्षसनिद्राबहुलाश्च जन्तवः सर्वे ।
धर्मेण च सन्त्यक्ता माषतिलाश्चार्कशशिशत्रोः ॥३७॥
Slokas 35-37.—To Rahu belong the inhabitants of
mountain-peaks, dens and caves, barbarian tribes, Sudras,
jackal-eaters, the Shoolikas, Vokkanas, Kinnaras, crippled
persons, those who disgrace their lineage, evil-doers,
182 बृहत्संहितायाम् [Adh. XVI. Sl. 38-39
ungrateful men, thieves, faithless, dirty and stingy per-
sons, donkeys, spies, duelists, wrathful persons, children
in the womb, low people, reprobates, hypocrites, giants,
all sleepy beings, lawless men, black gram and sesamum.
तथा च काश्यपः ।
बुभुक्षितास्तीक्ष्णरोषा विभिन्नाः कुलपांसनाः ।
नीचा म्लेच्छोच्छसादकाश्च गर्त्तस्थाः पारदारिकाः ॥
सत्यधर्मविहीनाश्च गिरिस्थाः कन्दराश्रिताः ।
प्रतापसत्यहीनाश्च शृगालादा महाशनाः ॥
तिलाश्च बाहुयुद्धज्ञा माषाश्चौराः खराश्चराः ।
यज्ञान् हिंसन्ति ये नित्यं राहुस्तेषामधीश्वरः ॥
गिरिदुर्गपह्नवश्वेतहूणचोलावगाणमरुचीनाः ।
प्रत्यन्तधनिमहેચ્છव्यवसायपराक्रमोपेताः ॥३८॥
परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिक्ताः ।
मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः ॥३९॥
Slokas 38-39.—Ketu presides over mountain strong-
holds, the Pahlavas, Swetas, Huns, Cholas, Afgans,
desert, Chinese, the cavemen, rich men, highly ambitious
persons, energetic men, those endowed with prowess,
adulterer, disputants, those that take pleasure in others'
misfortunes, persons elated with pride, fools, unrighteous
people and men desirous of conquest.
तथा च काश्यपः ।
प्राकाराभ्युच्छ्रिताः शृङ्गगिरिस्था विजिगीषवः ।
प्रत्यन्तवासाभिरताः परच्छिद्रविशारदाः ॥
मूर्खा विज्ञानहीनाश्च निर्मर्यादा नरास्तथा ।
परदाररता नीचाः केतोरिति विनिर्दिशेत् ॥
तथा च समाससंहितायाम् ।
भानोरङ्गकलिङ्गवङ्गमयुनाः श्रीपर्वताः पारता
वाहीकोत्कटसुह्यशोणमगन्धाः प्राहून्नर्मदा दांशकाः ।
Adh. XVI. Sl. 40] षोडशोऽध्यायः 183
कौशाम्बी शबरान्ध्रपौण्ड्रयवना याम्याश्रिता मेकला-
श्रीनोदुम्बरवर्द्धमानविकटाश्चम्पेक्षुमल्यश्रिताः ॥
जलपर्वतदुर्गं कोशला वनिताराज्यतुषारतङ्गणाः ।
वनवासह्लाः सरस्वती शीतांशोर्भेरुकच्छरोमकाः ॥
क्षितिजस्य महानदी पयोष्णी वेणा वेत्रवती च मालती ।
मलयद्रविडाश्मकान्ध्रचोळा भौमाद्वे स्वपरे च ये स्थिताश्च ॥
पारेविन्ध्यं पश्चिमः शोणभागो गोदावर्याः कूलमद्रिर्महेन्द्रः ।
सिप्रा सिन्धुर्भूमजस्येति देशा वैदेहाख्याः काकणाः केरलाश्च ॥
सौम्यस्य सौराष्ट्रिकभोजदेशा गङ्गाश्रिताश्चोत्तरकूलनद्यः ।
विन्ध्यार्द्धमन्त्यं मथुरापुरस्तात्सुवास्तुसिन्ध्वद्रिगुहाश्रिताश्च ॥
जीवस्य सारस्वतमत्स्यशाल्वाः प्राक्सिन्धुभागो मथुरापुरार्द्धम् ।
सुघ्नः शतद्रू रमठा विपाशा त्रैगर्तयौधेयकपारताश्च ॥
देशा भृगोस्तक्षशिला वितस्ता गान्धारकाः कैकयमालवाश्च ।
दशार्णकौशीनरचन्द्रभागाश्चैष्टादृसिप्रास्थलकालकाख्याः
सरस्वती यत्र गता प्रणाशं वेदस्मृती मालवकाः सुराष्ट्राः ।
पाश्चात्यदेशा विदिशा मही च सौरेः स्मृताः पुष्करमर्बुदश्च ॥
राहोः कृतघ्नकुलपांसननीचशूद्रा वोकाणशूलिकनियुद्धविदुप्रकोपाः ।
गोमायुभक्षगिरिदुर्गनिवासिनश्च गर्भस्थहिंस्रपरदाररताः खलाश्च ॥
शिखिनो वनसंस्थितावगाणा मरुभूपल्लवचोलहूणचीनाः ।
व्यवसायपराक्रमोपपन्नाः परदारानुरता मदोत्कटाश्च ॥
उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितो
यदि च न हतो निर्घातोल्कारजोग्रहमर्दनैः ।
स्वभवनगतः खोच्चप्राप्तः शुभग्रहवीक्षितः
स भवति शिवस्तेषां येषां प्रभुः परिकीर्तितः ॥४०॥
Sloka 40.—A planet proves beneficent to those whose
lord he is declared to be, if at rising, he be large, of glossy
rays and in his natural state, if no portentous thunder,
meteors, dust or planetary conflict annoy him, and when
he is posited in his own house, has reached his exaltation
point and is aspected by benefics.
बृहत्संहितायाम् [XVI. 41-42.-XVII 1.
अभिहितविपरीतलक्षणे क्षयमुपगच्छति तत्परिग्रहः ।
डमरभयगदातुराजना नरपतयश्च भवन्ति दुःखिताः ॥४१॥
यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यजं वा ।
भवति जनपदस्य चाप्यवृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु ॥४२॥
तथा च गर्गः ।
स्निग्धरश्मिविशालश्च प्रकृतिस्थश्च यो ग्रहः ।
ग्रहयुद्धरजोधूमनिर्घातोल्काद्यनाहतः ॥
स यदा स्वोच्चराशिस्यो मित्रभे स्वगृहेऽपि वा ।
स्थितः शुभग्रहैर्दृष्टः स पुष्णाति परिग्रहम् ॥
स्वमन्यथा हन्ति वर्गं जननाशं करोति च ।
नृपाणां भयदः प्रोक्तस्त्ववृष्टिभयकारकः ॥
ग्रहयुद्धाध्यायः ॥१७॥
युद्धं यथा यदा वा भविष्यमादिश्यते त्रिकालज्ञैः ।
तद्विज्ञानं करणे मया कृतं सूर्यसिद्धान्तात् ॥१॥
Adh. XVII. Sl. 2-3.] सप्तदशोऽध्यायः 185
know the past, present and future has been explained by
me in the (astronomical treatise, viz.) Pancha Siddhantika
on the lines of the Suryasiddhanta.
वियति चरतां ग्रहाणामुपुर्य्युपर्यात्ममार्गसंस्थानाम् ।
अतिदूराद्दृग्विषये समतामिव सम्प्रयातानाम् ॥२॥
आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दनासव्यैः ।
युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥३॥
Slokas 2-3.—The planets move in the firmament
with their orbits lying one over another, but, owing to the
great distance, they appear to our eyest o move on one
even surface. According to the degree of their (seeming)
approachment, there are four kinds of conflicts as stated
by Parasara and other sages, viz. भेद-Bheda (occulta-
tion, cleaving), उल्लेख-Ullekha (grazing), अंशुमर्दन-Amsu-
mardana (clashing of the rays) and अपसव्य-Apasavya
(passing southward)
तथा च पराशरः। भेदनमारोहणमुल्लेखनं रश्मिसंसर्गश्चेति। ग्रहयुद्धं
चतुर्विधमाचक्षते कुशलाः। तेषां पूर्वात्पूर्वो गरीयान्।
तथा च गर्गः।
छादनं रोधनं चैव रश्मिमर्दस्तथैव च।
अपसव्यं ग्रहाणां च चतुर्धा युद्धमुच्यते ॥
तथा च काश्यपः ।
सर्वग्रहेभ्यः शीघ्रेन्दुस्ततस्तस्यैव चारुजः ।
भार्गवो रविभौमौ च जीवो मन्दः शनैश्चरः ॥
शीघ्रगा मन्दगांश्चेति काले त्वेकक्षैगामिनः ।
ततो योगो भवेदेषां यतोऽङ्गारथैकमाश्रिताः ॥
उपर्युपरि संस्थास्ते दृश्यन्ते युगपद्स्थिताः ।
भेदोल्लेखांशुमर्दांश्चापसव्यश्च तथापरः ॥
चतुष्प्रकारः संयोगो ज्ञेये तु दिविचारिणाम् ।
बृ. सं. 24
186 बृहत्संहितायाम् [Adh. XVII. Sl. 4-5
Utpala writes thus : यत्र ग्रहद्वयमप्येकबिम्बमिव लक्ष्यते स
भेदः । अधःस्थेनोर्ध्वस्थश्छाद्यते इति यावत् यत्र ग्रहस्य ग्रहेण बिम्बपरिधिसंस्पर्शः
क्रियते स उल्लेखः । अंशवो रश्मयस्तेषामंशूनां किरणानां परस्परं मर्दनै । भेदो-
ल्लेखव्यतिरेकेणासन्नयोर्द्वयोर्ग्रहयोः परस्परं रश्मयः संयुक्ता विहन्यमाना इव
लक्ष्यन्ते तदंशुमर्दनम् ।
"The Apasavyam or Asavyam Yuddham takes place when the interval is
somewhat less than a degree; at a greater interval there is no conflict
at all." Dr. Kern.
भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च ।
उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥४॥
अंशुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दः ।
युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ॥५॥
Slokas 4-5.—At the occurrence of an occultation,
rains will fail and discord will prevail among friends and
powerful families. When planets graze each other, there
is danger from the sword, dissensions among royal coun-
cillors and dearth of food. At a clashing of the rays, there
will be war between kings and desolation by sword,
disease and famine. At the अपसव्य-Apasavya conflict,
their will be hostile encounters between monarchs.
Utpala says : अपसव्यः प्रदक्षिण उच्यते । समं कृत्वा दक्षिणोत्तरा-
वस्थानमपसव्यमुच्यते । आचार्येण चन्द्रग्रहसमागमे अपसव्यलक्षणं कृतं ।
शशिनि फलमुदक्स्थ इत्यादि । (XVIII-8 infra.)
Dr. Kern adds—"This is not difficult to understand, for the Moon leav-
ing, in her eastward course, a planet or star at her own right (i. e. standing
north from the planet or star), may be said to make a pradakshina ; standing
to the south, i. e., leaving a planet or star at her left, she makes an apasavya.
Thus Apasavya means ''from the left, at the left,'' and, in a special appli-
cation, ''at the south side ;'' but from this, it does not necessarily follow
that apasavya originally was simply the opposite of Savya, ''left ''. Yet
it cannot be doubted that they have taken apasavya as the reverse of Savya,
or, in other words, that apa was understood to mean, not ''from the side,''
but ''not ; '' therefore asavya was considered to be simply synonymous with
apasavya. Moreover, Savya has got the meaning of ''right,'' precisely the
reverse of its most common acceptation, vis, ''left.''
Adh. XVII. Sl. 6-8] सप्तदशोऽध्यायः 187
Not to be confounded with this acceptation of Savya is its use in augury.
Applied to augural birds, etc., Savya is strictly and properly "left," but as
birds first appearing from the left of the observer move in the direction of
his right, and keep him at their own right, savya, "left," and pradakshina,
"moving to the right," imply the same, without being the same. Utpala
remarks;
सर्वे एव शकुनादयो यातुर्वामपार्श्वादग्रत आगत्य दक्षिणपार्श्वेनाक्रामन्ति
यत् तत्प्रदक्षिणं सव्यञ्च । एतद्विपरीतं दक्षिणपार्श्वाद्व्वामपार्श्वेगमनं यत्तदपसव्यम्।
In astronomical works, Savya "moving (revolving) toward the right" and
Apasavya "moving toward the left, is common enough; e. g. Surya Siddha-
nta xii—55; Siddhanta Siromani, Goladhyaya 3—51, Arya Bhatiya IV—16.
रविराक्रन्दो मध्ये पौरः पूर्वेऽपरे स्थितो यायी ।
पौरा बुधगुरुरविजा नित्यं शीतांशुराक्रन्दः ॥६॥
केतुकुजराहुशुक्रा यायिन एते हता ग्रहा हन्युः ।
आक्रन्दयायिपौरान् जयिनो जयदाः स्ववर्गस्य ॥७॥
Slokas 6-7—The Sun when standing in the meridian
is called आक्रन्द-Akranda, i. e., an ally coming to the
rescue; when in the east, he is a पौर-Paura, i. e., a king
staying in town; in the west, he is a यायी-Yayee, a king
who marches off. Mercury, Jupiter and Saturn are
always Pauras, while the Moon is always Akranda.
Ketu, Mars, Rahu and Venus are marching planets..
All the planets known as the Akranda, Yayee, and
Paura when hurt, will destroy severally kings coming
to the rescue, marching and staying in town. In the
case of their being victorious, they bestow victory on their
own class of kings.
पौरे पौरेण हते पौराः पौरान् नृपान्विनिघ्नन्ति ।
एवं याय्याक्रन्दा नागरयायिग्रहाश्चैव ॥८॥
Sloka 8.—When a पौर-Paura planet is overpowered
by another of the same description, kings keeping the
town will kill others in the same predicament. The same
188 बृहत्संहितायाम् [Adh. XVII. Sl. 9-10.
applies to यायि and आक्रन्द planets and kings. In case of
a conflict between पौर and यायि planets, that which is
victorious will bestow victory on its own class of kings.
दक्षिणदिक्स्थः परुषो वेपथुरप्राप्य सन्निवृत्तोऽणुः ।
अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥९॥
Sloka 9.—A planet is defeated when he is standing
south, rough, quivering, retrograding without actually
coming in contact with the other, small, mounted upon,
of unnatural appearance, without brilliance and colourless.
Parasara adds अभिहत or struck.
तथा च पराशरः। दशभिर्लक्षणैर्ग्रहं जितं विन्द्यात् विवर्णः परुषः
सूक्ष्मो याम्याशामार्गस्थोऽधिरूढो निष्प्रभो विकृताऽभिहतोऽप्राप्य निवृत्तो
वेपनश्च अन्यथा विजयी ।
तथा च गर्गः। अरश्मिलोहितः श्यामः परुषः सूक्ष्म एव च ।
अपसव्यगतो यश्च चक्रान्तःपतितस्तथा ॥
च्युतः स्थानाद्धतो यश्च प्रतिस्तब्धस्तथैव च ।
निष्प्रभो विकृतश्चापि जवेनाभिहतश्च यः ॥
अप्राप्य वा निवृत्तो यो वेपनः कृष्ण एव च ।
लक्षणैः सप्तदशभिर्ग्रहं विन्द्यात्पराजितम् ॥
उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्दिश्यः ।
विपुलः स्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः ॥१०॥
Sloka 10.—A planet not possessing the above
'characteristics should be considered as victorious, i. e.,
when it is large, glossy and brilliant, even though
stationed in the south.
तथा च गर्गः। द्युतिमान् रश्मिसम्पन्नः प्रसन्नो रजतप्रभः ।
बृहद्रूपश्चरंश्चैव यः समेत्य ग्रहो भवेत् ॥
प्रभावर्णाधिको यश्च ग्रहमावृत्य तिष्ठति ।
तादृशं जयिनं विन्द्याद्ग्रहं ग्रहसमागमे ॥
तथा च पुलिशाचार्यः। सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयी शुक्रः ॥
Adh. XVII. Sl. 11-14] सप्तदशोऽध्यायः 189
द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः ।
तत्रान्योन्यं प्रीतिर्विपरीतावात्मपक्षघ्नौ ॥११॥
Sloka 11.—When two planets at conjunction are
radiant, large and glossy, they are said to be in love with
each other, and the same will be the case with the parties
denoted by them ; while in the contrary case they
destroy those who belong to their own party.
युद्धं समागमे वा यद्यव्यक्तौ स्वलक्षणैर्भवतः ।
भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्देश्यम् ॥१२॥
Sloka 12.—If, owing to the indistinctness of the
indications, it cannot be made out whether a conflict or
a conjunction is taking place, the effects concerning the
potentates on earth are said to be equally uncertain.
युद्ध-Yudda-war is among the non-luminaries while समागम-Sama-
gama is between the Moon and one of the non-luminaries. Some-
times a conflict may take place without bringing out the conqueror
clearly owing to both the planets being equally radiant, etc.
गुरुणा जितेऽवनिसुते बाह्लीका यायिनोऽग्निवार्ताश्च ।
शशिजेन शूरसेनाः कलिङ्गशाल्वाश्च पीड्यन्ते ॥१३॥
सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।
कोष्ठागारम्लेच्छक्षत्रियतपाश्च शुक्रजिते ॥१४॥
Slokas 13-14.—When Mars is defeated by Jupiter,
the Bahlikas, chieftains marching off and people living by
fire will be destroyed. When he is defeated by Mercury,
the Surasenas, Kalingas and Salwas will suffer. When
defeated by Saturn, kings staying in town will be vic-
torious, but the subjects will come to grief. If he be
defeated by Venus, granaries, Mlechchas and Kshatriyas
will suffer.
190 बृहत्संहितायाम् [Adh. XVII. Sl. 15-20
भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ।
उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायान्ति ॥१५॥
गुरुणा जिते बुधे म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः ।
त्रैगर्तपार्व्वतीयाः पीड्यन्ते कम्पते च मही ॥१६॥
रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः ।
भृगुणा जितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः ॥१७॥
Slokas 15-17.—When Mercury is beaten by Mars,
trees, rivers, ascetics, the Asmakas, kings, northerners,
and persons performing sacrifices will suffer. When he
is defeated by Jupiter, the barbarians, Sudras, thieves,
rich men, citizens, Trigarthas and Parvateeyas come to
grief and there will be an earthquake. If Mercury be
defeated by Saturn, sailors, soldiers, aquatic products,
rich men and pregnant women will suffer. When he is
overcome by Venus, fires will break out and corn, clouds
and marching kings will be ruined.
जीवे शुक्राभिहते कुलूतगान्धारकेकया भद्राः ।
शाल्वा वत्सा वङ्गा गावः सस्यानि पीड्यन्ते ॥१८॥
भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः ।
सौरेण चार्जुनायनवसातियौधेयशिबिविप्राः ॥१९॥
शशितनयेनापि जिते बृहस्पतौ म्लेच्छसत्यशस्त्रभृतः ।
उपयान्ति मध्यदेशश्च सङ्क्षयं यच्च भक्तिफलम् ॥२०॥
Slokas 18-20.—When Jupiter is vanquished by Venus,
the Kulutas, Gandharas, Kaikayas, Madras, Salwas
Vatsas, Vangas, cows and corn will be destroyed. When
he is defeated by Mars, the middle country, kings and
cows will suffer. When he is defeated by Saturn, the
Arjunayanas, Vasathees, Yaudheyas, Sibis, and Brahmins
will suffer. When by Mercury, the barbarians, truthful
Adh. XVII. Sl. 21-26] सप्तदशोऽध्यायः 191
men, swordsmen and the middle country will be ruined.
This affects also those described in Adhyaya XVI—
21-25 supra.
शुक्रे बृहस्पतिजिते यायी श्रेष्ठो विनाशमुपयाति ।
ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥२१॥
कोसलकलिङ्गवङ्गा वत्सा मत्स्याश्च मध्यदेशयुताः ।
महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥२२॥
कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसङ्ग्रामाः ।
सौम्येन पार्व्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च ॥२३॥
रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् ॥
जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत् ॥२४॥
Slokas 21-24.—When Venus is defeated by Jupiter,
the marching chieftain will meet with his end; discord
will arise between Brahmins and Kshatriyas, and there
will be no rain; the Kosalas, Kalingas, Vangas, Vatsas,
Mathsyas, the middle country people, eunuchs and the
Surasenas will suffer severely. When he is defeated by
Mars, commandants of armies will be slain, and kings
will wage war. When defeated by Mercury, the Parva-
teeyas will be lost; there will be no milk-supply and rain
will be scarce. When he is defeated by Saturn, foremen
of corporations, military men, Kshatriyas and aquatic
animals will be afflicted. Moreover, the general effect
mentioned in Adhyaya XVI—26-30 will take place.
असिते सितेन निहतेऽर्घवृद्धिरहिविहंगमानिनां पीडा ।
क्षितिजेन तङ्गणान्ध्रोड्रकाशिकाबाहीकदेशानाम् ॥२५॥
सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः ।
सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकमकाश्च ॥२६॥
192 वृहत्संहितायाम् XVII. 27, XVIII. 1.
Slokas 25-26.—When Saturn is subdued by Venus,
prices soar up, snakes, birds, and proud men suffer. Like-
wise, the Tangana, Andhra, Udra, Kasi and Bahleeka
countries will come to grief when Saturn is overcome by
Mars. When he is defeated by Mercury, the Angas,
merchants, birds, cattle and elephants suffer ; and when
defeated by Jupiter, countries where women are predomi-
nating in number, the Mahishakas and Scythians will be
afflicted.
अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ।
फलं तु वाच्यं ग्रहभक्तितोऽन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥
Sloka 27.—Thus have been described the special
effects of the defeat of Mars, Mercury, Jupiter, Venus and
Saturn. The other—viz. general—effects are to be deter-
mined from the previous Adhyaya. The more any planet
is stricken, the more will he ruin all that belongs to his
department.
तथा च पराशरः ।
ग्रहस्य ये यस्य हताः स्वदेशाः पीडांश्मृच्छन्ति त एव तस्य ।
सम्प्राप्तवीर्याश्च जये समर्था भवन्ति तस्यार्द्धिचतुष्पदाद्याः ॥
Thus ends the 17th Adhyaya on 'Planetary Conflict.'
शशिग्रहसमागमाध्यायः ॥१८॥ Conjunction of
the Moon with planets or stars.
भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः ।
प्रदक्षिणं तच्छुभमृक्षराणां याम्येन यातो न शिवः शशाङ्कः ॥१॥
Sloka 1.—The Moon moving (more or less) to the
north of the stars or planets wherever possible, i. e., keep-
Adh. XVIII. Sl. 2-4] अष्टादशोऽध्यायः 193
ing them to her right side, augurs prosperityto mankind.
If she goes in the opposite direction, it is not auspicious
to them.
तथा च ऋषिपुत्रः
दक्षिणेनापसव्य स्यादुत्तरेण प्रदक्षिणम् ।
ग्रहाणां चन्द्रमा ज्ञेयो नक्षत्राणां तथैव च ॥
तथा च वृद्धगर्गः
नक्षत्राणां ग्रहाणां वा यदा तूत्तरगः शशी ।
तत्प्रदक्षिणमित्याहुर्भवेत्क्षेमसुवृष्टये ॥
नक्षत्राणां ग्रहाणां वा यदा दक्षिणतो व्रजेत् ।
अपसव्यं तदेव स्यादवृष्टिभयलक्षणम् ॥
चन्द्रमा यदि कुजस्य यात्युदक्पार्वतीयबलशालिनां जयः ।
क्षत्रियाः प्रमुदिताः सयायिनो भूरिधान्यमुदिता वसुन्धरा ॥२॥
Sloka 2.—If the Moon moves to the north of Mars,
the Parvateeyas and mighty men will be victorious ;
Kshatriyas and marching kings will be cheerful and the
earth will rejoice in the abundance of corn.
उत्तरतः स्वसुतस्य शशाङ्कः पौरजयाय सुभिक्षकरश्च ।
सस्यचयं कुरुते जनहार्दि कोशचयं च नराधिपतीनाम् ॥३॥
Sloka 3.—The Moon moving to the north of Mercury
brings victory to the kings in the town, confers plenty
of food and corn, happiness on people, and influx of
wealth to the treasuries of kings.
बृहस्पतेरुत्तरगे शशाङ्के पौराद्विजक्षत्रियपण्डितानाम् ।
धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च ॥४॥
Sloka 4.—When the Moon is to the north of Jupiter,
kings guarding towns, Brahmins, Kshatriyas, scholars,
righteousness and the middle country will thrive ; there
will be plenty of food and the people will be happy.
बृ. सं. 25