बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 194, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XVI. Sl. 9-15] षोडशोऽध्यायः 175
drinkers of Soma-juice, the आक्रन्द kings (in the cycle of
12 kings, they occupy the position of one of the hind
spokes-Raghuvamsa IX-15), Brahmins, white objects,
beloved person, horses, lovers, young women, command-
ants, eatables, clothes, horned animals, demons, agricul-
turists, persons acquainted with Sacrificial rules.
तथा च काश्यपः ।
पर्वता जलदुर्गाश्च कोसलास्तङ्गणा हलाः ।
स्त्रीराज्यं भृकच्छश्च तुषारा वनवासिनः ॥
मौक्तिकं मणिशङ्खाब्जमौषधं कुसुमं मूलम् ।
द्वीपा महार्णवे ये च मधुरा लवणादयः ॥
गोधूमाः शालयः शृङ्गिकार्षकाश्च यवा अपि ।
सोमपा ब्राह्मणा ये च यज्ञज्ञास्तु सुरासवम् ॥
स्त्रीसौभाग्यसमेताश्च लास्यहास्येक्षितानि च ।
निशाचराधिपश्चन्द्रो हृष्टानां च प्रकीर्तितः ॥
शोणस्य नर्मदाया भीमरथायाश्च पश्चिमादर्द्धाः ।
निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥९॥
मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः ।
उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥१०॥
द्रविडविदेहान्ध्राश्मकभासापरकौङ्कणाः समन्त्रिपिकाः ।
कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसङ्कीर्णाः ॥११॥
नासिक्यभ्रौगवर्धनविराठविन्ध्याद्रिपार्श्वगा देशाः ।
ये च पिबन्ति सुतोयां तापीं ये चापि गोमतीसलिलम् ॥१२॥
नागरकृषिकरपायतहुताशनाजीविवस्त्रवार्त्तानाम् ।
आटविकदुर्गकर्वटवधिकनृशंसावलिप्तानाम् ॥१३॥
नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभिघातपशूपानाम् ।
रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥१४॥
कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् ।
शठदीर्घवैरबह्लाशिनां च वसुधासुतोऽधिपतिः ॥१५॥