सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

ऽध्यायः ] बौधायनीयं २७

उक्ताया द्विकरण्याः परिज्ञानोपायमाह—प्रमाणमिति । प्रमाणं
समचतुरश्रस्य द्वादशाङ्गुलादिकं पार्श्वप्रमाणं तृतीयेन अङ्गुलचतुष्टयेन
वर्धयेद्, तच्चाङ्गुलचतुष्टयं चतुर्थेनैकाङ्गुलेन आत्मनश्चतुर्थभागस्य
एकाङ्गुलादेः चतुस्त्रिंशो यो भाग एकतिलाद्यात्मकस्तेन न्यूनेन एकति-
लोनसप्तदशाङ्गुलादिरूपेण वर्धयेदित्यर्थः । अस्य सविशेष इत्यपि
संज्ञेत्याह—सविशेष इति ॥ ५० ॥

द्विकरण्युक्ता । तस्या ज्ञानोपायमाह । प्रमाणमिति । द्वादशाङ्गुलं चतुरङ्गु-
लेन वर्धयेत् । तत्तृतीयं स्वीयचतुर्थेन स्वचतुस्त्रिंशांशोनेन तिलोनेनैकाङ्गुलेन
वर्धयेत् । एवं तिलोनसप्तदशाङ्गुला भवति । तस्य सविशेष इत्यपि संज्ञा ॥ ५० ॥
[ इति द्विकरणीपरिज्ञानोपायः । ]

अथाग्न्याधेयिके विहारे गार्हपत्यादाहवनीयस्यायतनं विज्ञा-
यतेऽष्टासु प्रक्रमेषु ब्राह्मणोऽग्निमादधीतैकादशसु राजन्यो द्वादशसु
वैश्य इति ॥ ५१ ॥

चतुरश्रादिकरणमुक्त्वा आग्न्याधेयिकवेदिमाह—अथाग्न्याधेयिक
इति । अथ शब्दोऽधिकारार्थः । अग्न्याधेयिके विहारे गाहंपत्यस्य पुरस्ता-
दाहवनीयस्यायतनं विज्ञायते श्रुत्या गम्यत इत्यर्थः । सैव श्रुतिः कदा
श्रूयते अष्टास्वित्यादिका । गार्हपत्यस्य पुरस्तादष्टासु प्रक्रमेष्वन्तरालभूतेषु
ब्राह्मणोऽग्निमादधीतेत्यर्थः । एवमुत्तरयोरपि ॥ ५१ ॥

अथाग्न्याधेयिक इति । अथेत्यधिकारे । गार्हपत्यात् गार्हपत्यस्य पुरस्तात् ।
अन्तरालमधिकृत्य श्रुतिरवगम्यते । अष्टासु प्रक्रमेष्वन्तरालभूतेष्वित्यर्थः । एवमुत्तर-
योरपि कल्पयोः । द्वादशसु प्रक्रमेष्वग्निमादधीतेति सार्ववर्णिकः । चक्षुर्निमित
आदधीतेति दण्डादिना माननिषेधः । इयदष्टौ प्रक्रमा इयदेकादश इयद्द्वादशेति
चक्षुषा यावन्तं देशं परिच्छिनत्ति तस्यावघेः समीप आधेय इत्यर्थः ॥ ५१ ॥

आयामतृतीयेन त्रीणि चतुरस्राण्यनूचीनानि कारयेत् ॥५२॥
आयामतृतीयेनेति । पूर्वोक्तं गार्हपत्याहवनीयोरन्तरालं तत्तद्वर्ण-
व्यवस्थयोक्तं त्रेधा विभज्य तृतीयांशप्रमाणया करण्या सर्वतो मित्वा

चतुरश्रत्रयं पूर्वपश्चिमयत। कुर्यात् । एकं प्रत्यक् ततः पुरस्ताद् द्वितीयम्
ततः पुरस्तात् तृतीयमित्येवं समचतुरश्रत्रयं कुर्यात् ॥ ५२ ॥
आयामेति । पूर्वोक्तगार्हपत्याहवनीयमध्ययोरन्तरालायामतृतीयकरणीप्रमाणेन
त्रीणि चतुरस्रान्यनूचीनानि प्राञ्चि, पश्चिमस्य पुरस्ताद् द्वितीयं, द्वितीयस्य पुरस्तात्
तृतीयमिति कारयेत् ॥ ५२ ॥
अपरस्योत्तरस्यां श्रोण्यां गार्हपत्यः ॥ ५३ ॥
अपरस्येति । तत्र पश्चिमस्य चतुरश्रस्य उत्तरश्रोण्यां गार्हपत्यमध्य-
शङ्कुं निहत्य "धिष्ण्यानां द्विप्रादेशो विष्कम्भ" (बौ० शु० सू० १।७६) इति
वक्ष्यमाणत्वात्तस्मिन् शङ्कौ पाशं प्रतिमुच्य सार्धचतुस्तिलसार्ध ( सत्र्यंश-
द्वाविंशतितिलसहित ? ) त्रयोदशाङ्गुलया रज्ज्वा ( मण्डलं लिखेत् ? )
तद्गार्हपत्यायतनं भवति ॥ ५३ ॥
अपरस्येति । अपरस्य चतुरस्रस्य उत्तरस्यां श्रोण्यां गार्हपत्यमध्यशङ्कुः ।
“धिष्ण्यानां द्विप्रादेशो विष्कम्भः” ( बौ. शु. सू. १।७६ ) इति वक्ष्यति । तस्मिन्
प्रादेशेन मण्डलं परिलिखेत् । पृथिवीसंस्तवान्मण्डलाकृतिर्गार्हपत्यः ॥ ५३ ॥
तस्यैव दक्षिणेंऽसेऽन्वाहार्यपचनः ॥ ५४ ॥
तस्यैवेति । तस्यैव पश्चिमस्य चतुरश्रस्य दक्षिणपूर्वस्यां सक्तौ शङ्कुं
निहत्य तस्मादुदग् द्वादशतिलसहितद्वचङ्गुलेऽन्यं शङ्कुं निहत्य तस्मिन्
पाशं प्रतिमुच्य तिलद्वयसहितपञ्चदशाङ्गुलया रज्ज्वा मण्डलं परिलिखेत ,
पञ्चदशाङ्गुलयैव रज्ज्वाऽन्यत् परिमण्डलं करोति, मण्डलसंसर्गयोः शङ्क
निहत्य स्पन्द्यां नियम्य उत्तरार्धं त्यजेत् स दक्षिणाग्निः ॥ ५४ ॥
तस्यैवेति । तस्यैव अपरस्य दक्षिणेंऽसे अन्वाहार्यपचनमध्यशङ्कुः । “मण्डलं
चतुरस्रं चिकीर्षन्” ( चौ. शु. सू. १।४८ ) इत्यादिना आनीतनवतिलसहितैकविं-
शत्यङ्गुलचतुरस्रदिकरण्या चतुस्तिलसहितत्रिंशदङ्गुलया समचतुरस्रं कृत्वा मण्डलं
कृत्वा दक्षिणविहारविष्कम्भः चतुर्विंशदङ्गुलयो दश तिलाश्च । दक्षिणविहारमध्य-
शङ्कोरन्तरतो विष्कम्भचतुर्भागमात्रे शङ्कं स्थापयित्वा तस्मिन् विष्कम्भार्धं प्रतिमुच्य
मण्डलं परिलिख्य मण्डलमध्ये प्राक्प्रतीचीं स्पन्द्यां नियम्यानुस्पन्द्यां लेखामालिख्य
उत्तरार्धं त्यजेत् । सोऽन्वाहार्यपचनः । अन्तरिक्षसंस्तवाद्धनुराकृतिः ॥ ५४ ॥

ऽध्यायः ] बौधायनीयं २६
पूर्वस्योत्तरेंऽस आहवनीयः ॥ ५५ ॥
पूर्वस्येति । प्राक्चतुरश्रस्य उत्तरेंऽसे आहवनीयस्य मध्यशङ्कुं निहत्य
द्विप्रादेशप्रमाणं समचतुरश्रं कुर्यात्, स आहवनीयः । अग्रेणाहवनीयं
पदत्रयं संचरमवशिष्य आहवनीयवच्चतुरश्रः सभ्यस्तस्य पुरस्ताच्च पद-
त्रयमवशिष्याऽवसथ्यः, सोऽप्याहवनीयवच्चतुरश्रः ॥ ५५ ॥
पूर्वस्येति । पूर्वस्य उत्तरस्याः श्रोण्या उत्तरेणोत्करः । पूर्वस्य चतुरस्रस्य
उत्तरेंऽसे आहवनीयमध्यशङ्कुः । तस्य नवतिलसहितैकविंशत्यङ्गुलं चतुरस्रं कुर्यात् ।
द्युलोकसंस्तवात् चतुरस्र आहवनीयः । आगारो वा । सभायामेव सभ्यं व्यप-
दिशेत् । आवसथ आवसथीयमिति ॥ ५५ ॥
अपिवा गार्हपत्याहवनीययोरन्तरालं पञ्चधा षोढा वा
संभृज्य षष्ठं सप्तमं वा भागमागन्तुकमुपसमस्य समं त्रैधं
विभज्य पूर्वस्मादन्ताद् द्वयोर्भागयोर्लक्षणं करोति । गार्हपत्या-
हवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कुं
निहन्ति । तद्दक्षिणाग्नेरायतनं भवति ॥ ५६ ॥
दक्षिणाग्न्यायतनविकल्पमाह—अपिवेति । गार्हपत्याहवनीययोर-
न्तरालप्रमाणां रज्जुं पञ्चधा षोढा वा विभज्य तत्रागन्तुमन्यं भागं संयोज्य
पञ्चधा विभागपक्षे पञ्चमांशेनान्यं षष्ठं भागं योजयेत् , षोढा संविभागपक्षे
षष्ठांशसमानप्रमाणमन्यं सप्तमभागं योजयेत् । भागान्तरसंयुक्तमिदं लक्षणेन
दक्षिणत आकृष्य लक्षणे शङ्कुं निहन्ति । स शङ्कुर्दक्षिणाग्नेर्मध्यम् ।
विपर्यस्योत्करः । आहवनीयसम्बद्धमग्रं गार्हपत्यसंबद्धं कृत्वा गार्हपत्य-
सम्बद्धं आहवनीयसमीपे नियम्य लक्षणेन उत्तरतोऽपायम्य शङ्कुं
निहन्ति, स उत्करः ॥ ५६ ॥
अपीति । अपि वा पक्षः । “आयामतृतीयेन” ( १५२ ) इत्यादि सर्वं कल्पो-
क्तेन विकल्पते । दक्षिणाग्न्यायतनदेशविकल्पार्थमाह—संभृज्य संवेष्ट्य । आगन्तुक-
मधिकं प्रक्षिप्य । समं सर्वम् । द्वयोर्भागयोरिति । तयोर्गार्हपत्याहवनीयमध्य-
शङ्क्वोः । दक्षिणाग्नेरिति । दक्षिणाग्नेरायतनमध्यं भवति । विपर्यस्योत्करः ॥ ५६ ॥

३० शुल्बसूत्रम् [ प्रथमो-
अपिवा प्रमाणं पञ्चमेन वर्द्धयेत् । तत्सर्वं पञ्चधा संभुज्या-
परस्मादन्ताद् द्वयोर्भागयोर्लक्षणं करोति । पृष्ठ्यान्तयोः पाशौ
प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कं निहन्ति । तद्द-
क्षिणाग्नेरायतनं भवति ॥ ५७ ॥
दक्षिणाग्न्यायतने पक्षान्तरमाह—अपि वा प्रमाणमिति । आहव-
नीयगार्हपत्यमध्यदेशप्रमाणं तदीयपञ्चमांशेन युक्तं कृत्वा तत्सर्वं पञ्चधा
विभज्य पश्चिमाग्रादारभ्य भागद्वयेऽतीते लक्षणं कृत्वा, पूर्वापरशङ्क्वॊः
पाशौ प्रतिमुच्य पूर्ववल्लक्षणेन दक्षिणापायम्य तत्र शङ्कं निहन्यात्,
तद्दक्षिणाग्नेर्मध्यम् ॥ ५७ ॥
अपिवेति । लक्षणे शङ्कं निहन्ति । पूर्वस्मादन्त्याद् भागत्रयेऽतीते ॥५७॥
[ इति गार्हपत्यदक्षिणाहवनीयाग्नीनां स्थानानयनप्रकारः । ]
विपर्यस्यैतेनोत्करो व्याख्यातः ॥ ५८ ॥
विपर्यस्येति । पूर्ववदग्रविपर्य्यसिन उत्तरतोऽपायम्योत्करः कर्त्तव्यः ।
विपर्यस्येत्येतत् अपि वेति पक्षद्वयस्यापि शेष इति द्रष्टव्यम् ॥ ५८ ॥
विपर्यस्येति । पूर्वोत्तरकल्पयोः साधारणमिदम् । “दक्षिणतो विषुवत्यन्वा-
हार्यपचनस्ये”ति (बौ. श्रौ. सू. २४।२ पृ. ५४८ ) कल्पोक्तोऽप्यनुसन्धेयः । तथा
सति उत्तरतो मध्य उत्करः ॥ ५८ ॥
[ इत्युत्करस्थानानयनम् । ]
अपरेणाहवनीयं यजमानमात्री भवतीति दार्शपौर्णमासि-
काया वेदेर्विज्ञायते । तस्यास्त्रिभागोनं पश्चात्तिरश्ची । तस्या
एवार्धं पुरस्तात् तिरश्ची । एवं दीर्घचतुरस्रमेकतोऽणिमद् विहृत्य
स्त्रक्तिषु शङ्कून् निहन्यात् । यावती पार्श्वमानी द्विरभ्यस्ता
तावतीं रज्जुमुभयतः पाशां कृत्वा मध्ये लक्षणं करोति ।
दक्षिणयोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कं
निहन्यात् । तस्मिन् पाशौ प्रतिमुच्य लक्षणेन दक्षिणं पार्श्वं
परिलिखेत् । एतेनोत्तरं पार्श्वं व्याख्यातम् । पूर्वं पार्श्वं तया द्विर-
भ्यस्तया परिलिखेत् । एवमपरम् ॥ ५९ ॥

ऽध्यायः ] बौधायनीयं ३१
अपरेणेति । भवतीत्यनया श्रुत्या दर्शपूर्णमाससम्बन्धिन्या वेदेर्विज्ञा-
यते प्रमाणमिति शेषः । यजमानमात्रोति । षण्णवत्यङ्गुलप्रमाणेत्यर्थः ।
तस्या मानमाह—तस्या इति । तस्याः षण्णवत्यङ्गुलायास्तृतीयेन भागेन
ऊनं चतुःषष्ट्यङ्गुलानि प्रत्यक्प्रदेशतिर्यङ्मानी कार्या । तस्या एवार्धम्
अष्टचत्वारिंशदङ्गुलानि पुरस्तात्तिर्यङ्मानी कार्या । एवं प्रकारेण पूर्वभागे
अणु पश्चाद्भागे विशालं प्राक्पश्चिमदीर्घम् एकतोऽणिमद्दीर्घचतुरश्रं कृत्वा
तस्य चतसृषु स्रक्तिषु शङ्कुचतुष्टयं निहन्यात् । तस्याः संमानमाह—
यावतीति । दक्षिणयोरिति । दक्षिणयोः दक्षिणस्रक्तिद्वयनिखातशङ्‌कोरित्यर्थः
त्यर्थः । एतेनेति । “यावती पार्श्वमानी” त्यादिना उत्तरतोऽपायम्य
लक्षणे शङ्कुं निहत्य तत्र पाशौ प्रतिमुच्य उत्तरपार्श्वं परिलिखेदित्यर्थः ।
पूर्वमिति । प्राक्तिर्यङ्मान्या द्विगुणीकृताया मध्ये लक्षणं कृत्वा प्राग-
पायम्य लक्षणे शङ्कुं निहत्य तत्र पाशं प्रतिमुच्य लक्षणेन पूर्वं पार्श्वं
परिलिखेत् । एवं मिति । प्रत्यक्तिर्यङ्मान्या द्विगुणीकृताया मध्ये लक्षणं
कृत्वा प्रत्यगपायम्य लक्षणे शङ्कुं निहत्य तत्र पाशौ प्रतिमुच्य लक्षणेन
पश्चिमं पार्श्वं परिलिखेदित्यर्थः ।
अत्र कर्मान्ते । अथेयं दार्शपौर्णमासिकी वेदी यजमानमात्री भवत्य-
परिमिता वा यथासन्नानि हविंषि सम्भवेदेवं तिरश्चीप्राञ्चौ वेद्यंसावुन्न-
यत्याहवनीयस्य परिगृहीत्यै प्रतीची श्रोणी निरूहति गार्हपत्यस्य परि-
गृहीत्यै पुरस्तादंहीयसी पश्चात् प्रथीयसी मध्ये संनततरा भवतीति
पक्षान्तरमुक्तम्, तदप्यत्रानुसन्धेयम् ।
अपरिमिता षण्णवत्यङ्गुलाधिका । विकृति ( प्रकृतिषु ? ) आस-
न्नानि हवींषि यथा संगृह्लीयात्, प्राञ्चौ वेद्यंसावुन्नयति आहवनीयस्य
परिगृही षाय ( त्यै ? ) । प्रतीची श्रोणी गार्हपत्यपरिग्रहाय । पुरस्ता-
च्छ्रोणीप्रमाणात् संकुचिता, पश्चादंसप्रमाणाद् विस्तृता, मध्ये अतिकृशा ।
दक्षिणोत्तरायतं गार्हपत्यागारम् । पूर्वापरायतमाहवनीयागारम् । आह-
वनीयागारस्य पुरस्तात् त्रिप्रक्रममवशिष्य सभ्यागारं, ततः पुरस्तात्

३२शुल्बसूत्रम्[ प्रथमो-

त्रिप्रक्रममवशिष्यावसथ्यागारं, यावति कृष्णमृग उपविशेत् तावदूर्ध्वो
विहार इति कर्मान्ते उक्तम् ॥ ५९ ॥
अपरेणेति । यजमानमात्री षण्णवत्यङ्गुला । तस्या मानमाह—तस्या इति ।
त्रिभागेनं चतुःषष्ट्यङ्गुलािन । तस्या ह्यंत । तस्या एवार्धं अष्टाचत्वारिंशदङ्गुलािन ।
अष्टषष्टिशते सूत्रे चतुर्विंशे निरञ्छनम् ।
द्वात्रिंशे चतुःसप्तत्यां संख्येयान्यङ्गुलानि तु ॥
षण्णवत्यङ्गुला पृष्ठ्या प्रथमेनांसयोर्मितिः ।
श्रोण्योर्द्वितीयेन मानमेवमेकतः ......॥
तस्यानयन माह—एवमिति । तस्मिन्निति । यावती दक्षिणपार्श्वमानी परिलि-
खेत् । दक्षिणायाः श्रोणेर्दक्षिणमंसमालिखेत् । एतेनेति । यावती पार्श्वमानीत्या-
दिना । एवमिति । तिर्यङ्मान्योरपि द्विगुणीकृत्य मध्ये लक्षणं कृत्वा श्रोण्यंसयोश्च
अन्तौ नियम्य पश्चात् पुरस्ताच्च अपच्छिन्द्यात् इति द्रष्टव्यम् । "अपरिमिता वा यथा
सन्नानि हवींषि संभवेदेवं तिरश्चीप्राञ्चौ वेद्यंसावुन्नयति" प्रतीची श्रोणी पुरस्तादं-
हीयसी पश्चात् प्रथीयसि मध्ये सन्नतरा भवति ( बौ. श्रौ. २४।२४ पृ. २०९।२ )
इति कर्मान्ते पक्षान्तरमप्यस्ति । तदप्यनुसन्धेयम् । अपरिमिता षण्णवत्यङ्गुला-
दधिका । यथासन्नानि हवींषि संभवेत् प्रकृतिषु संगृह्णीयात् । प्राञ्चौ वेद्यंसावुन्नयति
आह्वनीयस्य परिग्रहणाय । प्रतीची श्रोणी गार्हपत्यस्य परिग्रहणाय । पुरस्तात् श्रोणी
प्रमाणात् संकुचिता । पश्चात् अंसप्रमाणाद् वितता । मध्येऽतिकृशा । दक्षिणोत्तरायतं
गार्हपत्यागारम् । आहवनीयागारं पूर्वापरायतं तत्र वेदिकरणात् । आहवनीयस्य पुरस्तात्
त्रिप्रक्रममवशिष्य सभ्यागारम् । एवं आवसथ्यम्य गृहम् । यावति कृष्णमृग उप-
विशेत् तावदपरार्धोर्ध्वंगते विहार ( बौ. श्रौ. सू. २४।२३ पृ. २०७।७ ) इति कर्मान्त
उक्तम् ॥ ५९ ॥
[ इति दार्शिक्या वेदेर्विहरणोपायः । ]
दशपदा पश्चात्तिरश्ची द्वादशपदा प्राच्यष्टापदा पुरस्ता-
त्तिरश्चीति पाशुवन्धिकाया वेदेर्विज्ञायते । मानयोगस्तस्या
व्याख्यातः ॥ ६० ॥
दशपदेति । विज्ञायत इति । प्रमाणमिति शेषः । मानयोग इति ।
एकतोऽणिमद्दीर्घचतुरश्रात्मिकायास्तस्या मानप्रकारः प्रमाणादध्यर्धां
रज्जुमित्यादिना व्याख्यात इत्यर्थः ॥ ६० ॥
मानयोग इति । अथापरं प्रमाणादध्यर्धाम् ( १।३२ ) इत्यादिना ॥ ६० ॥

ध्यायः ] बौधायनीयं ३३
रथसम्मितैत्येकेषाम् ॥ ६१ ॥
रथसम्मितैत्येकेषामिति । मतमिति शेषः । तत्रायं क्रमः—
रथाक्षमात्री पश्चात्तिरश्ची ईषामात्री प्राची युगेन पुरस्तात्तिरश्ची
मातव्येति ॥ ६१ ॥
रथेति । मतमिति शेषः । “रथाक्षमात्री पश्चात् तिर्यक् । ईषया प्राची ।
विपथयुगेन पुरस्तात्” ( बौ. श्रौ. सू. २०।५ पृ. ५६।५७ ) इत्यादि द्रष्टव्यम् ।
विपथयुगं षडशीत्यङ्गुलम् । चक्षुर्निर्मिता वा ॥ ६१ ॥
विराट् सम्पन्नेत्येकेषाम् ॥ ६२ ॥
विराडिति । मतान्तरं । दशाक्षरा विराडिति व्यवहाराद् विराट्
शब्दः दशसंख्यापरः । ततश्च सर्वतो दशपदेत्यर्थः ॥ ६२ ॥
विराडिति । मतम् । दशपदा वा ॥ ६२ ॥
[ इति पाशुबन्धिकवेदिविहरणोपायः । ]
शम्यामात्रो चतुःस्रक्तिर्भवतीत्युत्तरवेदेर्विज्ञायते । सम-
चतुरश्राविशेषात् ॥ ६३ ॥
शम्यामात्रीति । विज्ञायत इति । प्रमाणमिति शेषः ।
उत्तरवेदिर्विशेषाश्रवणात् समचतुरश्रेत्याह—समचतुरश्रेति । विशेष-
विधिरहितस्थले सर्वत्रायं विधिर्द्रष्टव्यः ॥ ६३ ॥
शम्यामात्रीति । अन्ततो हि देवानामाधीयत इति श्रुतेः । पूर्वान्ते यूपावटस्यार्ध-
प्रक्रममवशिष्योत्तरवेदिः । षट्त्रिंशदङ्गुला शम्या । उत्तरयुगप्रमाणेनोत्तरनाभित्रयो-
दशाङ्गुलेन । समचतुरश्रेति । सार्वत्रिकोऽयं विधिः । यत्र विशेषविधिर्नास्ति तत्र
सर्वत्र समचतुरस्रकरणम् ॥ ६३ ॥
[ इत्युत्तरवेदिविहरणोपायः । ]
वितृतीया वेदिर्भवतीति पैतृक्या वेदेर्विज्ञायते । महावेदे-
स्तृतीयेन समचतुरस्रकृतायास्तृतीयकरणी भवतोति । नवमस्तु-
भूमेर्भागो भवति ॥ ६४ ॥
वितृतीयेति । सौमिकी महावेदिर्वितृतीया त्रिधा विभक्तस्य स्वक्षेत्रस्य
५

३४ शुल्बसूत्रम् [ प्रथमो-
एकभागतृतीयांशरूपा महापितृयज्ञवेदिप्रमाणमित्यर्थः । तस्या मानो-
पायमाह—महावेदेरिति । अष्टाविंशत्यूनसहस्रपदक्षेत्राया महावेदेः सम-
चतुरश्रीकृतायाः करण्याः षड्विंशतितिलाधिकद्व्यङ्गुलोत्तरमेकत्रिंशत्पद
( पद ३१।२।२६ ति० ) प्रमाणायास्तृतीयेन भागेन समचतुरश्रीकृताया
भूमेः करणी तृतीयकरणीति । तया मीयमाने महावेदिभूमेर्नवमो
भागः अष्टोत्तरशतपदक्षेत्रात्मकः सिद्ध्यतीत्यर्थः ॥ ६४ ॥
वितृतीयेति । वितृतीया भागाद्यरूपेण (?) विभज्य महावेदेर्नवमभागेनेत्यर्थः ।
तस्य ग्रहणोपायमाह—महावेदेरिति । अष्टाविंशत्यूनं पदसहस्रं महावेदिः । तस्याः सम-
चतुरस्रकृतायाः करणी एकत्रिंशत् पदं अङ्गुलद्वयं षड्विंशतितिलाश्च । तस्याः
[L11

ऽध्यायः ] बौधायनीयं ३५
वित्तृतीयद्विकरण्या अर्धाधिकविंशतिशतद्वयाङ्गुलया वा समचतुरस्रं कृत्वा करणीनां
मध्ये शङ्कून् निहत्य प्रमाणद्विगुणयो रज्ज्वोः पाशान् पूर्वापरयोः प्रतिमुच्य तयो-
र्मध्ये दक्षिणोत्तरयोर्नियम्य बहिःस्पन्द्यमपच्छिन्द्यात्। हविरासादनसौकर्यार्थं
पञ्चारत्निर्वा यजमानमात्री ॥ ६६ ॥
[ इति पैतृक्या वेदेर्विहरणोपायः । ]
वेदितृतीये यजेतेति सौत्रामणिकीं वेदिमभ्युपदिशन्ति ।
महावेदेस्तृतीयेन समचतुरस्रकृताया अष्टादशपदा पार्श्वमानी
भवति । तस्यै दीर्घकरणयामेकतोऽणिमत्करणाञ्च यथा-
कामीति ॥ ६७ ॥
वेदिवितृतीय इति । महावेदितृतीयक्षेत्रे चतुर्विंशत्यधिकपदशतत्रया-
त्मकक्षेत्रे यजेतेति श्रुतेरर्थः। वेदतृतीयक्षेत्रस्य मानोपायामाह-महा-
वेदेरिति । महावेदेस्तृतीयक्षेत्रेण चतुर्विंशत्यधिकपदशतत्रया ३२४ त्मकेन
समचतुरस्रकृताया भूमेः पार्श्वमानी अष्टादश ( पद ?) प्रमाणा भव-
तीति। तथा मीयमाना भवतीति । महावेदेस्तृतीयक्षेत्रात्मकसौत्रामणी-
वेदिनिष्पत्तिर्भवतीत्यर्थः । सौत्रामण्याः पशुविकारत्वादतिदेशात एक-
तोऽणिमद्दीर्घचतुरश्राकारप्रमाणं कर्तव्यमित्यपेक्षायामाह-तस्यै इति ।
षष्ठ्यर्थे चतुर्थी । तस्या सौत्रामणीवेद्या दीर्घकरणयामेतावद्दीर्घकरणा-
मित्यत्र एकतोऽणिमत्करणायामणिमत्पुरस्तात् पार्श्वप्रमाणमेतावदित्यत्र
च चकारात् पश्चात्पार्श्वप्रमाणमेतावदित्यत्र च इच्छैव नियामिका ।
विशेषे प्रमाणाभावादित्यर्थः ।
अत्र च विराट् सम्पन्नेत्येकेषामिति मते सर्वतो दशपदसमचतुर-
श्रात्मिकाया वेदेः पश्वङ्गत्वान् यथाप्रकृति समचतुरश्राकारापि महावेदि-
तृतीयक्षेत्रप्रमाणा सौत्रामणीवेदिर्मातुं शक्यत इति ॥ ६७ ॥
वेदतृतीय इति । त्रीणि चतुर्विंशाधिकानि पदशतानि वेदतृतीयम् ।
महावेदेरिति । महावेदेस्तृतीयेन चतुर्विंशत्यधिकशतत्रयपदेन समचतुरस्रकृताया
भूमेरष्टादशपदा करणी भवति । सापि वेदितीयसमचतुरस्रकरणी । चतु-
र्विंशत्यधिकशतत्रयस्य मूलमष्टादशपदानीत्यर्थः। सौत्रामण्याः पशुबन्धप्रकृतित्वाद्
विराट्संपन्ना वा कार्या । तत्र सप्तविंशत्यङ्गुलं प्रवृद्धं पदम् । तेन दशपद ।

३६ शुल्बसूत्रम् [ प्रथमो-
तस्यै इति । तस्या दीर्घकरण्या अग्रतोऽणिमत्करण्यां दीर्घकरण्यामित्यर्थः ।
चकारः पूर्वेण समचतुरस्रधर्मेण समुच्चयार्थः । एकतोऽणिमद्दीर्घचतुरस्रं वा
कुर्यादित्यर्थः । पदप्रक्रमप्रमाणानामन्यतमात्रिकरण्याष्टिकदशिके तिर्यङ्मान्यौ द्वाद-
शिका पृष्ठ्या । अन्यतमत्तृतीयकरण्या वा त्रिंशत्पदानीत्यादि सौमिकवेदिन्-
न्मानम् । तत्र दशाङ्गुलस्य पदस्य तृतीयकरणी पञ्चाङ्गुलयः सार्धसप्तविंशाश्च
तिलाः । तत्त्रिगुणा त्रिकरणी । द्वादशाङ्गुलस्य षडङ्गुलयो द्वात्रिंशत् तिलाश्च ।
तत्त्रिगुणा त्रिकरणी । पञ्चदशाङ्गुलस्य पदस्य त्रयोविंशतितिलसहिता अष्टाङ्गुला
तृतीयकरणी । तत्त्रिगुणा त्रिकरणी । एवं प्रक्रमाणामपि द्रष्टव्यम् । सौमिकात्
प्रक्रमात् तृतीयोंऽशः प्रक्रमः स्यात् “तेन वेदिं विमिमीत” इति काठकाग्नीनामुक्तम् ।
तस्यार्थः सौमिकात् प्रक्रमपरिमितात् क्षेत्रात् तृतीयोंऽशो यस्तस्य करणी प्रक्रमस्य
तृतीयकरणीत्यर्थः ॥ ६७ ॥
[ इति सौत्रामणीवेदिविहरणोपायः । ]
प्राग्वंशः षोडशप्रक्रमायामो द्वादशव्यासः । अपिवा
द्वादशप्रक्रमायामो दशव्यासः । तस्य मध्ये द्वादशिको
विहारः ॥ ६८ ॥
सौत्रामणीवेदिमुक्त्वा अग्निष्टोमवेदिप्रकारमाह—प्राग्वंश इति ।
प्राग्वंशयुक्तिः गार्हपत्याग्नित्रयसंरक्षको गृहविशेषः प्राग्वंश इत्युच्यते ।
सः प्राक्प्रत्यक् षोडशप्रक्रमदीर्घः दक्षिणोत्तरं द्वादशप्रक्रमव्यासः । एवं
भूतः प्राग्वंशः कुर्यात् ।
पक्षान्तरमाह—अपिवेति । द्वादशप्रक्रमायामो दशव्यासः । द्वादश-
प्रक्रमदीर्घं दशप्रक्रमव्यासं प्राग्वंशं कुर्यादित्यर्थः । पूर्वोक्तं पक्षद्वयं केवल-
क्रतौ उपपद्यते । सासौ तु षोडशप्रक्रमायामपक्ष एव नियतः । “व्याया-
ममात्री चतुःस्रक्तिर्भवतीति गार्हपत्यचितेर्विज्ञायते” (२।२६) इत्याहवनीयस्य
व्यायामपरिमाणत्वं द्वादशप्रक्रमायामपक्षे नोपपद्यत इति षोडशप्रक्रमा-
यामपक्ष एव नित्य इति निगद्यते ।
तस्येति । तस्य प्राग्वंशस्य मध्ये द्वादशिको द्वादशप्रक्रमपरिमितो
देशो विहार इत्यर्थः ।
अयमत्र प्रयोगः—षोडशप्रक्रमपरिमिते प्राग्वंशे पुरस्तात् सार्धैक-
[

५ध्यायः ] बौधायनीयं ३७
प्रक्रमपरिमिते देशे विहारः कर्तव्यः । तथा हि विहारार्थनिहितक्षेत्र-
प्रागग्रे प्रक्रमद्वयप्रमाणेण समचतुरश्रं कुर्यात् स आहवनीय इत्युच्यते ।
एवं पश्चिमाग्रदेशे ( उक्तप्रमाणकं ? ) चतुरश्रं कृत्वा 'चतुरश्रं मण्डलं
चिकीर्षन्” (१।४७) इति न्यायेन परिमण्डलं कुर्यात्, स गार्हपत्य इत्युच्यते ।
“गार्हपत्याहवनीययोरन्तरालं पञ्चधा षोढा वा संभज्य” (१।५६) इति
न्यायेन दक्षिणाग्नेरायतनं कुर्यात् । तत्प्रमाणन्तु--तत्र आहवनीयचतु-
रश्रस्याक्ष्णयारज्ज्वा समचतुरश्रं कृत्वा तच्चतुरश्रं परिमण्डलं कृत्वा
प्राक् प्रत्यक् द्वेधा विभज्य उत्तरार्धं धनुराकारं क्षेत्रं त्यजेत्,
अवशिष्टं धनुराकारदक्षिणार्धक्षेत्रं दक्षिणाग्निरित्युच्यते । आहवनीयस्य
पश्चाद्देशे “यजमानमात्री वेदिर्भवती” ( १।५६ ) त्युक्तन्यायेन वेदिं
कुर्यात् । एवं च प्राग्वंशे प्राग्देशे सार्धप्रक्रम(द्वय)प्रदेशः आहवनीयार्थः
( प्रक्रमद्वयपरिमितोदेशः ? ) । गार्हपत्याहवनीययो र्मध्यदेशः अष्टप्रक्रम-
परिमितः । प्रक्रमद्वयपरिमितः गार्हपत्यदेशः गार्हपत्यस्य पश्चात्प्रदेशः
सार्धप्रक्रमद्वयपरिमितः । आहत्य प्राक्-प्रत्यक्-षोडशप्रक्रमः संपद्यते ॥६८॥
प्राग्वंश इति । साग्निके षोडश अन्यत्र द्वादशेति व्यवस्थया विकल्पमिच्छन्ति
केचित् ।
तस्येति । षोडशप्रक्रमपक्षे द्वादशप्रक्रमप्रमाणकः । प्रक्रमद्वयेन गार्हपत्यादीनि
आयतनानि कुर्यादित्यर्थः । आग्न्याधेयिकान्यपि प्रक्रमद्वयेनेति केचित् । पश्चात्पुर-
स्ताच्च सञ्चरार्थं प्रक्रमद्वयम् । मध्येऽष्टौ प्रक्रमाः । अपरेणाहवनीयं यजमानमात्री
वेदिः । वेदेः पश्चात् परिशिष्टो विशयः ॥ ६८ ॥
[ इत्यग्निष्टोमवेदिविहरणोपायः । ]
त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची भवति । षट्त्रिंशत्
प्राची । चतुर्विंशतिः पुरस्तात् तिरश्चीति महावेदे र्विज्ञायते ।
मानयोगस्तस्या व्याख्यातः । आहवनीयात् षट्प्रक्रमान्म-
हावेदिः ॥ ६९ ॥
प्राग्वंशवेदिमुक्त्वा सौमिकमहावेदिप्रमाणमाह--त्रिंशत्पदानीति ।
पश्चिमदेशे दक्षिणोत्तरं त्रिंशत्पदप्रमाणं, प्रक्रमप्रमाणं वा, ( पूर्वापरं षट्-

१८ शुल्बसूत्रम् [ प्रथमो-
त्रिंशत् प्रक्रमप्रमाणं, पदप्रमाणं वा ? ) प्राग्देशे दक्षिणोत्तरं चतुर्विंशतिपद-
प्रमाणं, प्रक्रमप्रमाणं वा एकतोऽणिमद्दीर्घचतुरश्रं कुर्यादित्यर्थः । मान-
योग इति । "प्रमाणाद्ध्यर्धा रज्जु" (१।३२) मित्यादिना तस्याः
प्रमाणं व्याख्यातमित्यर्थः । इयं वेदिः कुत्र कर्तव्याकाङ्क्षायामाह—
आहवनीयादिति । आहवनीयमारभ्य प्राक्प्रदेशे षट्प्रक्रमान् मित्वा
ततः प्राग्देशे महावेदिः कर्तव्येत्यर्थः ॥ ६९ ॥
मानयोग इति । प्रमाणाद्ध्यर्धा रज्जु(१।३२)मित्यादिना । एतदुक्तं भवति-षट्-
त्रिंशिकायामष्टादशोपसमस्यापरस्मादन्ताद् द्वादशसु लक्षणं पञ्चदशसु लक्षणम् ।
पृष्ठ्यान्तयोरन्तौ नियम्य पञ्चदशिकेन श्रोणी द्वादशिकेनांसाविति ।
आहवनीयादिति । आहवनीयमध्यादारभ्य षट्प्रक्रमसंचरं त्यक्त्वा महावेदे-
रारम्भः । प्रक्रमशब्दः पदस्याप्युपलक्षणम् ॥ ६९ ॥
[ इति सौमिकमहावेदिविहरणोपायः । ]
तत एकस्मिन्त्ससदः । तद्दशकम् । उदक् सप्तविंशत्यरत्नयः ।
अष्टादशेत्येकेषाम् ॥ ७० ॥
सदसो देशविशेषकरणमाह—तत इति । ततः ( षट्प्रक्रमाद् )
एकस्मिन् पदे प्रक्रमे वा विसृष्टे सति तत्प्राक्प्रदेशे सदः कत्र्तव्य
इत्यर्थः ।
तद्दशकमिति । तत्सदः पूर्वापरेण दशपदप्रमाणं, दशप्रक्रमप्रमाणं
वा । उदगिति । दक्षिणोत्तरेण सप्तविंशत्यरत्नयः । इदं प्रक्रमपक्षे ।
अष्टादशेति । पक्षे अष्टादशारत्नयः दक्षिणोत्तरमित्यर्थः ॥ ७० ॥
तत इति । तत्रैवारम्भः । तदिति । पूर्वापरेण । उदगिति । प्रक्रमपक्षे दक्षिणोत्त-
रेण सप्तविंशत्यरत्नयः । अष्टादशेति । उदगित्थ्येव । पदमानपक्षेऽष्टादशारत्नयः । पृष्ठ्याया
दक्षिणतोऽर्धमुत्तरतोऽर्धम् । अपिवा द्वौ भागावूदक् स्पन्त्यायै स्यातामेको दक्षिणत
इति पक्षोऽपि । प्रक्रमपक्षे वेद्यवयवत्वात् सदसो बहिर्भावायोगात् ॥ ७० ॥
[ इति सदोविहरणोपायः । ]
ततश्चतुर्षु हविर्धानम् । तद्दशकं द्वादशकं वा ( सम-
चतुरश्रम् ) ॥ ७१ ॥

ऽध्यायः ] बौधायनीयं ३१
तत इति । ततः सदश्चतुर्षु पदेषु प्रक्रमेषु वा विसृष्टेषु हविर्धानं
कर्तव्यम् । तदिति । तत्सर्वतो दशप्रक्रमप्रमाणं वा, सर्वतो द्वादशप्रक्रम-
प्रमाणं वा कर्तव्यम् ॥ ७१ ॥
मानयोगस्तयोर्व्याख्यातः ॥ ७२ ॥
मानयोग इति । तयोः सदोहविर्धानयोर्मानयोगः पूर्वमुक्त
इत्यर्थः ॥ ७२ ॥
तत इति । मानयोग इति । प्रमाणादध्यर्धा (१।३२) मित्यादिना । सदस
उदीची पृष्ट्या ॥ ७१-७२ ॥
[ इति सदोहविर्धानविहरणोपायः । ]
यूपावटीयाच्छङ्कोरर्धप्रक्रममवशिष्योत्तरवेदिं विमिमीते ।
दशपदोत्तरवेदिर्भवतीति सोमे विज्ञायते । मानयोगस्तस्या
व्याख्यातः ॥ ७३ ॥
यूपावटीयाच्छङ्कोरिति । एकतोऽणिमद्दीर्घचतुरश्रात्मिकाया वेदेः
प्राक्तिर्यङ्मान्या मध्ये शङ्कु' निहन्यात् स शङ्कुर्यूपावतीय इत्युच्यते ।
तस्य पश्चिमप्रदेशे अर्धप्रक्रममवशिष्य ततः पश्चिमप्रदेशे उत्तरवेदिं
विमिमीते । तस्याः प्रमाणप्रतिपादकं ब्राह्मणमाह—दशपदोत्तरवेदि-
रिति । सर्वतो दशपदेन दण्डेन मीयमाना शतपदक्षेत्रेत्यर्थः । यद्वा
दशपदक्षेत्रेत्यर्थः । "पदं तिर्यक् त्रिपदा पार्श्वमानी तस्याक्ष्णयारज्जुर्दश
करणी । दशपदोत्तरवेदिर्भवती”ति कात्यायनवचनात् । चतुर्दश-
तिलोनाङ्गुलत्रयसहितपदत्रयमाणेण दण्डेन सर्वतो मीयमाना दशपद-
क्षेत्रोत्तरवेदिर्वेदितव्या ।
केचित्तु “तां युगेन, यजमानस्य वा पदैर्विमाये”ति वचनाद्युगमपि
स्वतन्त्रप्रमाणमाहुः । तस्मिन् पक्षे कल्पसूत्रोक्तं क्षुद्रपदैर्मानमपि लभ्यत
इति एकतोऽणिमद्दीर्घचतुरश्ररूपाप्युत्तरवेदिरनुसन्धेया ।
मानयोग इति । स्फुटम् ॥ ७३ ॥
यूपावटीयादिति । तस्याः प्रमाणमाह--दशपदेति । सर्वतो दशपदा क्षेत्रतः
शतपदा । क्षेत्रतो दशपदा वा । अत्र कात्यायनः । पदं तिर्यक् त्रिपदा पार्श्वमानी

तस्याक्ष्णया रज्जुर्दशकरणी ( का. शु. सू. ) दशपदोत्तरवेदिर्भवतीत्यत्रापि वितृतीया
वेदिर्भवतीत्यत्रोक्तन्यायेन चतुर्दशतिलानि युतमङ्गुलित्रयं पदत्रयञ्च करणीति
केचित् । तां युगेन यजमानस्य वा पदैर्विमायेति (?) वचनात् । युगमिति
बाहुप्रमाणमाहुः । कल्पोक्तक्षुद्रपदमानमपि लभ्यते । तस्मिन् पक्ष एकतोऽणिमद्दी-
र्घचतुरस्रमुत्तरवेदिः ॥ ७३ ॥
[ इति सौमिकोत्तरवेदिविहरणोपायः । ]
चात्वालः शम्यामात्रोऽपरिमितो वा ॥ ७४ ॥
चात्वाल इति । उत्तरांसादुदञ्चं प्रक्रमं प्रक्रम्य ततः सर्वतः षट्त्रिंश-
दङ्गुलयः, यथेच्छं वा चात्वालः कार्य इत्यर्थः । उत्तरांसप्रभृति भाग-
तृतीयेऽतीते उदक् प्रक्रमेऽतीते उत्करः ॥ ७४ ॥
चात्वाल इति । उत्तरस्मादंसात् त्रीन् प्रतीचः प्रक्रमान् प्रक्रम्योदञ्चं चतुर्थं
प्रक्रम्य तच्चात्वालस्य मध्यं कुर्यात् ।
उत्तरांसप्रभृति भागतृतीयेऽतीत उदक् प्रक्रमेऽतीत उत्करः ॥ ७४ ॥
अथोपरवाः प्रादेशमुखाः प्रादेशान्तरालाः । अरत्निमात्रं
समचतुरश्रं विहृत्य स्रक्तिषु शङ्कन् निहन्यात् । अर्धप्रादेशेनार्ध-
प्रादेशेनैकैकं मण्डलं परिलिखेत् ॥ ७५ ॥
अथोपरवा इति । उपरवा गर्तविशेषाश्चत्वारः । प्रादेशपरिमित-
मुखप्रदेशाः प्रादेशपरिमितपरस्परमध्यदेशाश्च कार्याः । एवं करणोपायः
अरत्निमात्रमित्यादिना प्रदर्श्यते । सर्वतोऽरत्निप्रमाणं चतुरश्रं कृत्वा
तस्य चतसृषु स्रक्तिषु चतुःशङ्कूनिहत्य शङ्कुष्वर्धप्रादेशप्रमाणा रज्जुः
प्रतिमुच्य तया मण्डलानि परिलिख्य गर्तेषु क्रियमाणेषु प्रादेशमुखत्वं
प्रादेशान्तरालत्वं च गर्तानां संपद्यत इत्यर्थः ॥ ७५ ॥
अथेति । मध्यमादौत्तरवेदिकाच्छङ्कोरनुस्पन्द्यं षट्पदानि प्रक्रम्य दक्षिणा
सप्तममित्यत्रोपरवदेशस्योत्तरकाल इत्यादि योजयितव्यम् ।
पृष्ट्याया दक्षिणतः प्रक्रमं विहाय दक्षिणहविर्धानस्याक्षस्य पुरस्तादन-
सोऽधस्तादुपरवा भवन्ति । एषां समीपे ग्रावाणो रवं कुर्वन्तीत्युपरवाः ।
प्रादेशमुखाः प्रादेशान्तराला भवन्तीति श्रुत्यर्थः सिध्यति । उत्तरवेद्याः
क्षुद्रपदादिप्रमाणविकल्पेष्वपि सर्वत्रोपरवदेशस्यैकरूप्यमापाद्यम् । पुरस्ताद् वितृ-
तीयदेशात् स्तम्बयजुर्हरंतीति स्तम्बयजुर्हरणदेशनियमादुपरवाणां कालात् स्तम्ब-

यजुर्हरतीति वचनाच्च । त्र्यग्रावपि “चतुरः प्रतीचः प्रक्रमान् प्रक्रामति दक्षिणा
पञ्चममि”ति । पञ्चमान्त उपरवाणामुत्तरोंऽसो ज्ञातव्यः । ज्योतिष्टोमे षट् प्रतीच
इति वचनाद् अग्नौ चतुरः प्रक्रमान् प्रतीच इति वचनात् सूत्रकारेण परित्य-
क्ताभ्यां सह उत्तरवेदिप्रमाणमग्नेः पूर्वापरा परित्यज्य पूर्वक्षेत्रं षट्त्रिंशधा
विभज्य प्रक्रमवृद्धिः ।
प्राग्वंशमानेऽपि आहवनीयार्थप्रक्रमद्वयं प्राग्वंशपूर्वापरा परित्यज्य पूर्वं
षोडशधा विभज्य प्रक्रमवृद्धिः ।
दक्षिणोत्तरायतेष्वग्निषु सर्वं चतुर्विंशतिधा विभज्य एकोभागः प्रक्रमः ॥ ७५ ॥
[ इति चात्वालोपरवयोर्विहरणोपायः । ]
सदसः पूर्वार्धाद् द्विप्रक्रममवशिष्य धिष्ण्यानां द्विप्रादेशो
विष्कम्भस्तथान्तरालाः ॥ ७६ ॥
सदस इति । सदः दक्षिणोत्तरं द्वेधा विभज्य द्वयोः पूर्वार्धात् पूर्वार्धे
प्राग्देशे प्रक्रमद्वयमवशिष्य विहाय ततः पश्चाद् धिष्ण्यानां द्विप्रादेशो
विष्कम्भः अरत्निपरिमितः । तथान्तराला इति । सदसः प्रा (ग् ?) देशे
अरत्नि (प्रक्रम ?) द्वयं विहाय ततः पश्चिमदेशे षड् धिष्ण्यान् सर्वतोऽरत्नि-
प्रमाणान् चतुरश्राम्मध्ये अरत्निमात्रान्तरालं मित्वा विहृत्य “चतुरश्रं
मण्डलमि”(१।४७)“त्यादिना परिमण्डलं कुर्यादिति ॥ ७६ ॥
सदस इति । प्रक्रमद्वये गते विष्ण्यानां पूर्वावधिः । तेषां प्रादेशतो भ्रमः ।
पृष्ट्यायां होत्रीयं तं दक्षिणेन प्रशस्त्रीयमुत्तरेण होत्रीयमितरानुदीच आयातयति
ब्राह्मणाच्छंसिनः पोतुर्नेष्टुरच्छावाकस्येति ॥ ७६ ॥
[ इति धिष्ण्यानां विहरणम् । ]
आग्नीध्रागारस्य पार्श्वमानी पञ्चारत्निः ॥ ७७ ॥
आग्नीध्रागारस्येति । कल्पसूत्रोक्तप्रकारेण महावेद्या उत्तरादंसा-
दारभ्य प्रतीच अष्टादशप्रक्रमान् मित्वा तत्रासीध्रस्यागारं गृहं पूर्वतः
पञ्चारत्निप्रमाणकं यथा अन्तवेद्यर्धं बहिर्वेद्यर्धं भवतीति तथा कृत्वा
तस्य दक्षिणं द्वारं कुर्वन्ति ॥ ७७ ॥
आग्नीध्रेति । महावेद्या उत्तरादंसादारम्य उत्तरपार्श्वस्यार्धे गत आग्नीध्रीयागारं
पञ्चारत्निसमचतुरस्रम् । तस्य दक्षिणा (?) द्वारं कुर्वन्ति ॥ ७७ ॥
६

४२ शुल्बसूत्रम् [ प्रथमो-
एतेन मार्जालीयो व्याख्यातः। तस्योदीचों द्वारं
कुर्वन्ति ॥ ७८ ॥
एतेनेति । एवमेव दक्षिणप्रदेशे मार्जालीयं कृत्वा तस्योदीचीं द्वारं
कुर्यादित्यर्थः ॥ ७८ ॥
एतेनेति । दक्षिणादंसादारभ्य दक्षिणपार्श्वमध्ये मार्जालीयमध्यम्। मार्जा-
लीयागारोऽपि पञ्चारत्निः समचतुरस्रः।
तयोरागारमध्ययोर्मध्ये द्विप्रादेशावाग्नीध्रमार्जालीयौ ॥ ७८ ॥
[ इति आग्नीध्रमालीयागारविहरणम् । ]
रथाक्षान्तराला यूपावटा भवन्तीत्येकादशिन्यां विज्ञायते ।
तस्या दशानाञ्च रथाक्षाणामेकादशानाञ्च पदानामष्टाङ्गु-
लस्य च चतुर्विंशं भागमाददीत । स प्रक्रमः स्यात् । तेन वेदिं
विमिमीते ॥ ७९ ॥
यूपैकादशिन्यां यूपावटान्तरालप्रमाणप्रतिपादकब्राह्मणमाह—रथा-
क्षेति। यूपावटानामन्तराला मध्यदेशा रथाक्षपरिमाणाश्चतुरधिकशता-
ङ्गुलप्रमाणा इत्यर्थः । एवञ्च अन्तरालार्थं रथाक्षप्रमाणं, यूपा-
वटार्थं एकादशपदप्रमाणञ्च प्राग्देशे दक्षिणोत्तरं यथा भवति तथा वेदिः
कार्या। एतदनुसारेण पश्चाद्देशे दक्षिणोत्तरं पार्श्वद्वयेऽपि प्राक् प्रत्यक् वेदिं
कुर्यादित्यर्थः ।
नन्वेतंर्हि “त्रिंशत् पदानि प्रक्रमा वा पश्चादि”त्यादिश्रुतिविरोध इत्या-
शङ्क्याह—तस्या इति। तस्या यूपैकादशिन्याः दशानां रथाक्षाणां चत्वा-
रिंशदधिकसहस्राङ्गुलानामेकादशानाञ्च पदानां पञ्चषष्ट्युत्तरशताङ्गुलानां,
अष्टाङ्गुलस्य च योगे त्रयोदशोत्तरशतद्वयाधिकसहस्राङ्गुलयः सम्पन्नाः ।
तासां चतुर्विंशभागं चतुर्विंशांशसहिताष्टादशतिलानि (तिलचतुर्विंशांश सहितं
सार्धपादतिलार्धांगुलोत्तर ) १ पञ्चाशदङ्गुलञ्च प्रमाणमाददीत गृह्णीयात् ।
स एवंभूतो भागः प्रक्रम इत्युच्यते ।

ऽध्यायः ] बौधायनीयं ४३
अयमर्थः—एवंभूतप्रमाणेन प्रक्रमेण “त्रिंशत् पदानि प्रक्रमा
वे”त्यादिप्रकारेण महावेदिं कुर्यात् ॥ ७९ ॥
रथेति । तत्र प्रकारमाह । तस्या इति । दशानाञ्च रथाक्षाणां चत्वारिंशदधिक-
सहस्राङ्गुलानाम् । एकादशानाञ्च पदानां यूपावटविष्कम्भाणां पञ्चषष्ट्यधिकशताङ्गु-
लानाम् । अष्टाङ्गुलस्य च । कल्पे एकादशिनीविधावग्निष्ठस्य दक्षिणोत्तरेण यूपौ
चतुरङ्गुलेन विप्रकृष्टौ भवत इत्युक्तम् । तस्मादष्टाङ्गुलस्य च । एतेषां त्रयाणां चतु-
र्विंशभागमष्टादशतिलसहितं पञ्चाशदङ्गुलमाददीत । स इति । एकादशिनीवत्या
महावेदेः । तेनेति । त्रिंशत् पदानीत्यादि ॥ ७९ ॥
अथाश्वमेधे विंशत्याश्च रथाक्षाणामेकविंशत्याश्च पदानाम-
ष्टाङ्गुलस्य चतुर्विंशं भागमाददीत । स प्रक्रमः स्यात् । तेन
वेदिं विमिमीते ॥ ८० ॥
अथाश्वमेध इति । अथाश्वमेधे “यूपैकादशिनो” न्यायेन एकविंशति-
यू

वचनात् । अप्राच्यैकादशिन्याम् अष्टाङ्गुलाधिकस्य संयोजनं विद्यते,
तद्विनापि वेद्यंस-योगसंभवात् । दक्षिणोत्तरैकादशिन्यान्तु अधिकाष्टाङ्गुल-
संयोजनं विना वेद्यंसयोरसंभवात् तदावश्यकम् । व्यतिषङ्गश्च न
विद्यते । पशूनां व्यतिषङ्गः “सारस्वतीमुत्तरा”मित्यादिकः प्राच्यैका-
दशिन्यां नास्ति । किन्तु आग्नेयप्रभृतीन् पशूनसृिष्टान् प्रभृति यूपेषु क्रमेण
नियोजयेत् ॥ ८१ ॥
अथेति । महावेदेः पूर्वभागे यूपार्थं स्थापितं पञ्चशतद्वयाधिकसहस्राङ्गुलायत
पदार्धव्याससमपच्छिद्य तत्पुरस्तात् प्राञ्चं दध्यात् । यावद् यूपं वेदिमुद्धन्तीति वचनात् ।
तत्रापि वेदिसंस्काराः क्रियन्ते । प्राची यूपपङ्क्तिः । नेति । अष्टाङ्गुलं न विद्यते ।
अथेमावुपस्तावानौ चतुरङ्गुलमात्रेण विप्रकृष्टौ स्यातामिति । नेति ॥ ८१ ॥
यूपावटाः पदविष्कम्भाः ॥ ८२ ॥
यूपावटा इति । अर्धपदेन परिखेननम् । यूपावटा अर्धपदेन परि-
लेखनेन पदविष्कम्भा भवन्ति ॥ ८२ ॥
यूपेति । अर्धपदेन परिखेननम् ॥ ८२ ॥
त्रिपदपरिणाहानि यूपोपराणीति ॥ ८३ ॥
त्रिपदेति । यूपोपराणि यूपमूलानि त्रिपदपरिणाहानीति त्रिपद-
विशालानि भवन्ति ॥ ८३ ॥
इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्त-
वाजपेययाजिगोविन्ददीक्षितवरनन्दनस्य, सर्वतन्त्रस्वतन्त्रसाग्निचित्यसर्व-
पृष्ठाप्तोर्यामयाजिश्रीयज्ञनारायणदीक्षितानुजस्य, तच्छिष्यतालब्धसमस्त-
विद्यावैशद्यस्य, साग्निचित्याप्तवाजपेययाजिश्रीव्यङ्कटेश्वरदीक्षितस्य
कृतिषु बोधायनशुल्बमीमांसायां प्रथमोऽध्यायः ॥
त्रिपदेति । उपराणि मूलानि ॥ ८३ ॥
[ इति प्रक्रमादिविशेषनिर्णयः । ]
इति बौधायनीयशुल्बसूत्रव्याख्यायां शुल्बदीपिकायां प्रथमोऽध्यायः ॥

अथ द्वितीयोऽध्यायः
अर्धाष्टमाः पुरुषाः प्रथमोऽग्निः । अर्धनवमा द्वितीयः । अर्ध-
दशमास्तृतीयः । एवमुत्तरोत्तरः । विधाभ्यास ऐकशतविधात् ।
तदेतत् सप्तविधप्रभृत्येकशतविधान्तम् ॥ १ ॥
क्षेत्रादिमानोपायादीन् दर्शयित्वा सर्वाग्निसाधारण्येनाग्निधर्मानह—
अर्धाष्टमा इति । अर्धपुरुषा अष्टमो येषां ते अर्धाष्टमाः । सार्धसप्तपुरुष-
प्रमाणक्षेत्रः प्रथमोऽग्निश्चेतव्य इति इत्यर्थः ।
नन्वत्र सार्धसप्तपुरुषप्रमाणः प्रथमोऽग्निरित्युच्यते । कल्पसूत्रे तु “षड्-
विधं वा सप्तविधं वा द्वादशविधं वा यावद्विधं वा चेष्यमाणो भवति”
इत्युच्यते । तत्र षड्विधादिकथनं किं प्रथमाग्न्यभिप्रायम् ? उत
द्वितीयाद्यभिप्रायम् ? नाद्य “अर्धाष्टमाः पुरुषाः प्रथमोऽग्नि” रित्येतत्सूत्र-
विरोधात्

४४ शुल्बसूत्रम् [ प्रथमो-

वचनात् । अप्राच्येकादशिन्याम् अष्टाङ्गुलाधिकस्य संयोजनं विद्यते,
तद्विनापि वेद्यंस-योगसंभवात् । दक्षिणोत्तरेकादशिन्यान्तु अधिकाष्टाङ्गुल-
समायोजनं विना वेद्यंसयोरसंभवात् तदावश्यकम् । व्यतिषङ्गश्च न
विद्यते । पशूनां व्यतिषङ्गः “सारस्वतीमुत्तरा”मित्यादिकः प्राच्येका-
दशिन्यां नास्ति । किन्तु आग्नेयप्रभृतीन् पशूनसिष्टान् प्रभृति यूपेषु क्रमेण
नियोजयेत् ॥ ८१ ॥
अथेति । महावेदेः पूर्वभागे यूपार्थं स्थापितं पञ्चशतद्वयाधिकसहस्राङ्गुलायत
पदार्धोन्यासम्पच्छिद्य तत्पुरस्तात् प्राञ्चं दध्यात् । यावद् यूपं वेदिमुद्धन्तीति वचनात्।
तत्रापि वेदिसंस्काराः क्रियन्ते । प्राची यूपपङ्क्तिः । नेति । अष्टाङ्गुलं न विद्यते ।
अथेमावुपस्तावानौ चतुरङ्गुलमात्रेण विप्रकृष्टौ स्यातामिति । नेति ॥ ८१ ॥
यूपावटाः पदविष्कम्भाः ॥ ८२ ॥
यूपावटा इति । अर्धपदेन परिलेखनम् । यूपावटा अर्धपदेन परि-
लेखनेन पदविस्कम्भा भवन्ति ॥ ८२ ॥
यूपेति । अर्धपदेन परिलेखनम् ॥ ८२ ॥
त्रिपदपरिणाहानि यूपोपराणीति ॥ ८३ ॥
त्रिपदेति । यूपोपराणि यूपमूलानि त्रिपदपरिणाहानीति त्रिपद-
विशालानि भवन्ति ॥ ८३ ॥
इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्त-
वाजपेययाजिगोविन्ददीक्षितवरनन्दनस्य, सर्वतन्त्रस्वतन्त्रसाग्निचित्यसर्व-
पृष्ठाप्तोर्यामयाजिश्रीयज्ञनारायणदीक्षितानुजस्य, तच्छिष्यतालब्धसमस्त-
विद्यावैशद्यस्य, साग्निचित्याप्तवाजपेययाजिश्रीव्यङ्कटेश्वरदीक्षितस्य
कृतिषु बोधायनशुल्बमीमांसायां प्रथमोऽध्यायः ॥
त्रिपदेति । उपराणि मूलानि ॥ ८३ ॥
[ इति प्रक्रमादिविशेषनिर्णयः । ]
इति बौधायनीयशुल्बसूत्रव्याख्यायां शुल्बदीपिकायां प्रथमोऽध्यायः ॥