बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 63, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ३५
वित्तृतीयद्विकरण्या अर्धाधिकविंशतिशतद्वयाङ्गुलया वा समचतुरस्रं कृत्वा करणीनां
मध्ये शङ्कून् निहत्य प्रमाणद्विगुणयो रज्ज्वोः पाशान् पूर्वापरयोः प्रतिमुच्य तयो-
र्मध्ये दक्षिणोत्तरयोर्नियम्य बहिःस्पन्द्यमपच्छिन्द्यात्। हविरासादनसौकर्यार्थं
पञ्चारत्निर्वा यजमानमात्री ॥ ६६ ॥
[ इति पैतृक्या वेदेर्विहरणोपायः । ]
वेदितृतीये यजेतेति सौत्रामणिकीं वेदिमभ्युपदिशन्ति ।
महावेदेस्तृतीयेन समचतुरस्रकृताया अष्टादशपदा पार्श्वमानी
भवति । तस्यै दीर्घकरणयामेकतोऽणिमत्करणाञ्च यथा-
कामीति ॥ ६७ ॥
वेदिवितृतीय इति । महावेदितृतीयक्षेत्रे चतुर्विंशत्यधिकपदशतत्रया-
त्मकक्षेत्रे यजेतेति श्रुतेरर्थः। वेदतृतीयक्षेत्रस्य मानोपायामाह-महा-
वेदेरिति । महावेदेस्तृतीयक्षेत्रेण चतुर्विंशत्यधिकपदशतत्रया ३२४ त्मकेन
समचतुरस्रकृताया भूमेः पार्श्वमानी अष्टादश ( पद ?) प्रमाणा भव-
तीति। तथा मीयमाना भवतीति । महावेदेस्तृतीयक्षेत्रात्मकसौत्रामणी-
वेदिनिष्पत्तिर्भवतीत्यर्थः । सौत्रामण्याः पशुविकारत्वादतिदेशात एक-
तोऽणिमद्दीर्घचतुरश्राकारप्रमाणं कर्तव्यमित्यपेक्षायामाह-तस्यै इति ।
षष्ठ्यर्थे चतुर्थी । तस्या सौत्रामणीवेद्या दीर्घकरणयामेतावद्दीर्घकरणा-
मित्यत्र एकतोऽणिमत्करणायामणिमत्पुरस्तात् पार्श्वप्रमाणमेतावदित्यत्र
च चकारात् पश्चात्पार्श्वप्रमाणमेतावदित्यत्र च इच्छैव नियामिका ।
विशेषे प्रमाणाभावादित्यर्थः ।
अत्र च विराट् सम्पन्नेत्येकेषामिति मते सर्वतो दशपदसमचतुर-
श्रात्मिकाया वेदेः पश्वङ्गत्वान् यथाप्रकृति समचतुरश्राकारापि महावेदि-
तृतीयक्षेत्रप्रमाणा सौत्रामणीवेदिर्मातुं शक्यत इति ॥ ६७ ॥
वेदतृतीय इति । त्रीणि चतुर्विंशाधिकानि पदशतानि वेदतृतीयम् ।
महावेदेरिति । महावेदेस्तृतीयेन चतुर्विंशत्यधिकशतत्रयपदेन समचतुरस्रकृताया
भूमेरष्टादशपदा करणी भवति । सापि वेदितीयसमचतुरस्रकरणी । चतु-
र्विंशत्यधिकशतत्रयस्य मूलमष्टादशपदानीत्यर्थः। सौत्रामण्याः पशुबन्धप्रकृतित्वाद्
विराट्संपन्ना वा कार्या । तत्र सप्तविंशत्यङ्गुलं प्रवृद्धं पदम् । तेन दशपद ।