बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
१६ शुल्बसूत्रम् [ प्रथमो-
दीर्घचतुरस्रकरणे एकतोऽणिमद्दीर्घचतुरस्रकरणे च प्रकारान्तरमाह—
अथापरमिति । प्रमाणादिति । प्रमाणादभिलषितात् अपरस्मिन्
अधिकतया संयोजिते तृतीयांशे षष्ठेन एकाङ्गुलेन ऊने आदित आरभ्य
त्रयोदशाङ्गुल इति यावत् लक्षणं करोति ।
तन्न्यञ्छनमिति । अपसारकम् । इष्ट इति । इष्टे अभिलषित-
प्रदेशे । अंसार्थमिति उपलक्षणम् । स श्रोण्यर्थे अपि ॥ ३२ ॥
प्रमाणादिति । द्वादशाङ्गुले षडङ्गुलं प्रक्षिप्य पञ्चाङ्गुले लक्षणम् । न्यञ्छनमिति ।
अपसारकम् ॥ ३२ ॥
पृष्ठ्यान्तयोः पाशौ प्रतिमुच्य न्यञ्छनेन दक्षिणापायम्ये-
ष्टेन श्रोण्यंसान्निहरेत् ॥ ३३ ॥
पृष्ठ्यान्तयोरिति । निर्हरेदिति । उत्पादयेत् । अत्र च द्वादशा-
ऽध्यायः ] बौधायनीयं १७
प्रमाणं तिर्यग् द्विकरण्यायामस्तस्याक्षणयारज्जुस्त्रिकरणी ॥३५॥
अथ त्रिकरणीमाह—प्रमाणमिति । प्रमाणमभिमतद्वादशाङ्गुलं
तिर्यङ्मानीं कृत्वा पूर्वोक्तां द्विकरणीं रज्जुं पार्श्वमानीं कृत्वा यद्दीर्घ-
चतुरस्रं भवति तस्याक्षणया रज्जुः पार्श्वमानी तिर्यङ्मानी च यदि
भवेत् सा त्रिकरणी । पूर्वोक्तप्रमाणक्षेत्राद् द्वादशाङ्गुलात् त्रिगुण-
समचतुरस्रं क्षेत्रं करोति ॥ ३५ ॥
अथ त्रिकरणीमाह—प्रमाणमिति । प्रमाणं द्वादशाङ्गुलं तिर्यक् । तस्य द्विकरणी
तिलोनसप्तदशाङ्गुला पार्श्वमानी । एवं भूतस्य दीर्घचतुरस्रस्याक्षणयारज्जु विंशति-
रङ्गुलयः सप्तविंशतिः तिलाश्च । सा त्रिकरणी प्रमाणविमितक्षेत्रत्रिगुणं क्षेत्रं
करोति ॥ ३५ ॥
तृतीयकरण्येतेन व्याख्याता । नवमस्तु भूमेर्भागो भवतीति ॥३६॥
प्रमाणक्षेत्रस्य गुणवृद्धिमुक्त्वा उक्तन्यायेन ह्रासेन तृतीयांशकरणमाह—
तृतीयेति । एतेन न्यायेन तृतीयकरणी व्याख्याता । प्रमाणक्षेत्रं नवधा
विभज्य एकस्य भागस्य या करणी सा तिर्यङ्मानी, तस्य द्विकरणीं
पार्श्वमानीं कृत्वा तस्याक्षणयारज्जुस्तृतीयकरणी भवति । प्रमाणक्षेत्राद्
अंशद्वयहीनं तृतीयमंशं क्षेत्रं करोतीत्यर्थः ॥ ३६ ॥
तृतीयेति । एतेन न्यायेन तृतीयकरणी व्याख्याता । प्रमाणक्षेत्रं नवधा विभज्य
एकभागस्य करणी तिर्यङ्मानी तद्द्विकरणी पार्श्वमानी । तस्याक्षणयारज्जुः तृतीय-
करणी । प्रमाणपरिमितात् क्षेत्रात् तृतीयं क्षेत्रं करोति । एषा फलकरणा-
स्तृतीयभागा । अनेन सूत्रेणेदमपि सूचितं भवति—
१. प्रमाणं तिर्यक् त्रिकरण्यायामस्तस्याक्षणयारज्जुश्चतुष्करणी ।
२. प्रमाणानि त्रीणि तिर्यग् द्विकरण्यायामस्तस्याक्षणयारज्जुरेकादशकरणी ।
एकादशभेदकरण्येतेन व्याख्याता । विभागास्तु एकविंशाधिकशतधेत्यर्थः ॥ ३६ ॥
[ इति त्रिकरणीतृतीयकरण्योरानयनम् । ]
दीर्घचतुरश्रस्याक्षणयारज्जुः पार्श्वमानी तिर्यङ्मानी च यत्-
पृथग्भूते कुरुतस्तदुभयं करोति ॥ ३७ ॥
दीर्घचतुरस्रेति । दीर्घचतुरस्रस्य पार्श्वमान्या सर्वतो मित्वा यत्
३
१८ शुल्बसूत्रम् [ प्रथमो-
क्षेत्रं तस्य तिर्यङ्मान्या च सर्वतो मित्वा यत् क्षेत्रं तदुभयं दीर्घचतुर-
श्रस्याक्ष्णयारज्जुः ( क्षिप्त्वा तदुभयं ? ) करोतीत्यर्थः ॥ ३७ ॥
दीर्घचतुरश्र इति । दीर्घचतुरस्रपार्श्वमान्या समचतुरस्रे कृते यत् क्षेत्रं संपद्यते,
यच्च तिर्यङ्मान्या, तदुभयमक्ष्णयारज्ज्वा समचतुरस्रे कृते संपद्यते ।
त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुरित्युदाहरणम् । तासां त्रिकरणेऽप्ययमेव
प्रकारः । समचतुरस्रविषयः पूर्वसूत्रोक्तः ॥ ३७ ॥
तासां त्रिकचतुष्कयोर्द्वादशिकपञ्चिकयोः पञ्चदशिकाष्टकयोः
सप्तिक चतुर्विंशिकयोर्द्वादशिकपञ्चत्रिंशिकयोः पञ्चदशिकषट्-
त्रिंशिकयोरित्येतासूपलब्धिः ॥ ३८ ॥
तत्रोदाहरणमाह—तासामिति । त्र्यरत्न्यादिप्रमाणया तिर्यङ्मान्या
चतुररत्न्यादिप्रमाणया पार्श्वमान्या यद्दीर्घचतुरश्रं क्रियते तस्याक्ष्णया-
रज्ज्वा सर्वतोमान्या मितं क्षेत्रं प्रत्येकं तिर्यङ्मान्या पार्श्वमान्या च
सर्वतोमान्या यत् द्विविधं क्षेत्रं, तदुभयात्मकं क्षेत्रं भवति । तथा
हि अनया तिर्यङ्मान्या कृतं नवप्रमाणं क्षेत्रं भवति, पार्श्वमान्या
च षोडशप्रमाणम् । उभयं मिलितं पञ्चविंशतिप्रमाणं क्षेत्रम्, अक्ष्णया-
रज्जुरपि तत्प्रमाणा भवति, तथा च सर्वतोमानेन पञ्चविंशतिप्रमाणं
क्षेत्रम् । तथा च त्रिक-चतुष्कयोः प्रमाणयोस्तिर्यङ्मान-पार्श्वमान्योः
सत्योरित्यर्थः । एवं द्वादशिक-पञ्चिकयोरित्यादावपि । तासामक्ष्णया-
रज्जूनामुभयविधक्षेत्रकरणीनामुपलब्धिः अवगतिर्भवतीति । कुत्रेत्याकांक्षा-
याम् उक्तं त्रिकचतुष्कयोरित्यादि । त्रिक-चतुष्कस्थलेऽक्ष्णयारज्जुः
पञ्चिका भवति । द्वादशिक-पञ्चिकयोरुभयविधं क्षेत्रम् एकोनसप्तत्यधिक-
शत (१६९) प्रमाणकं क्षेत्रं, तस्याक्ष्णयारज्जुस्त्रयोदशिका त्रयोदशप्रमाणा
भवति । सा च सर्वतः क्षिप्त्वा एकोनसप्तत्यधिकशत (१६९) प्रमाणकं
क्षेत्रमेव करोति । एवं तृतीयोदाहरणे पञ्चदशिका पार्श्वमानी, अष्टिका
तिर्यङ्मानी, ताभ्यां च प्रत्येकम् एकोननवत्यधिकद्विशत ( २८९ ) प्रमाणं
क्षेत्रं, तत्राक्ष्णयारज्जुः सप्तदशिका भवति । एवं चतुर्थोदाहरणे सप्तिका
तिर्यङ्मानी चतुर्विंशिका पार्श्वमानी, तदुभयक्षेत्रं पञ्चविंशत्यधिकषट्-
शतानि (६२५) । तत्राक्ष्णयारज्जुः पञ्चविंशतिका तत्क्षेत्रं करोति । एवं
पञ्चमोदाहरणे द्वादशिका तिर्यङ्मानी पञ्चत्रिंशिका पार्श्वमानी । तदुभयं
क्षेत्रं सहस्रं त्रीणि शतानि एकोनसप्तति(१३६६)श्च भवति । तत्राक्ष्णयारज्जुः
सप्तत्रिंशिका । एवं षष्ठोदाहरणे पञ्चदशिका तिर्यङ्मानी षट्त्रिंशिका पार्श्वमानी
तदुभयं क्षेत्रं सहस्रं पञ्चशतानि एकविंशतिः (१५२१) । तत्राक्ष्णयारज्जुःएको-
नचत्वारिंशतिका तत्क्षेत्रं करोतीत्याद्युदाहरणैः स्पष्टीकृतमाचार्यैः ॥ ३८ ॥
तासामिति । प्रमाणं तिर्यग् ( बौ० शु० सू० १।३५ ) इत्येवमादिना अवगता-
नामक्ष्णयारज्जूनां त्रिकचतुष्कयोरित्यादिषु दीर्घचतुरस्रकरणीषूपलब्धिः अवगतिः ।
त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुः । पञ्चदशिकषट्त्रिंशिकयोरेकोनचत्वारिंशिका-
क्ष्णयारज्जुरित्यादि ।
एवं तासां द्वयोर्ज्ञातयोस्तृतीया ज्ञातुं शक्यते । यथा पार्श्वमानीतिर्यङ्मान्यो-
र्ज्ञातयोः पृथग् वर्गयित्वा संयोज्य वर्गमूलं अक्ष्णयारज्जुः । तथा पार्श्वमान्यक्ष्ण-
यारज्ज्वोर्ज्ञातयोरक्ष्णयारज्जुवर्गात् पार्श्वमानीवर्गं विशोध्य शिष्टस्य मूलं तिर्यङ्मानी ।
एवं तिर्यङ्मानीवर्गं विशोध्य पार्श्वमानी । एवं सर्वत्र द्रष्टव्यम् ॥ ३८ ॥
[ इत्यन्यासाविष्टकरणीनामानयनम् । ]
नाना चतुरश्रे समस्यन् कनीयसः करण्या वर्षीयसो
वृध्रमुल्लिखेद् वृध्रस्याक्ष्णयारज्जुः समस्तयोः पार्श्वमानी-
भवति ॥ ३९ ॥
नानाप्रमाणकचतुरश्रयोः संयोजनप्रकारमाह—नानाचतुरश्र इति ।
नानाप्रमाणके चतुरश्रके द्वे समस्यन् संयोजयन् कनीयस अन-
योर्मध्ये अल्पप्रमाणकस्य चतुरश्रस्य करण्या रज्ज्वा वर्षीयस अधिक-
प्रमाणस्य चतुरश्रस्य तदवधिकमंशमुल्लिखेत् । अल्पप्रमाणकरणीं तिर्यङ्-
मानीं कृत्वा वर्षीयसः करणीं पार्श्वमानीं कृत्वा दीर्घचतुरस्रमुल्लिखे-
दित्यर्थः । वृध्रस्य एवं कृतस्य दीर्घचतुरश्रस्याक्ष्णयारज्जुः समस्तयोर्भवति,
सर्वंतो मानं भवति, तया सर्वंतो मित्वा समचतुरश्रे कृते तयोरुभयोः
क्षेत्रं संपद्यत इत्यर्थः ॥ ३९ ॥
नानेति । नानाकारे समचतुरस्रे समस्यन् ह्रसीयसः करणीं तिर्यङ्मानीं कृत्वा
वर्षीयसः संबन्धिनं सकलमुल्लिखेत् । वर्षीयसः करण्येव पार्श्वमानी । एवं कृतस्य
२० शुल्बसूत्रम् [ प्रथमो-
दीर्घचतुरस्रस्याक्षणयारज्जुः समस्तयोः करणी भवति। तदुक्तम् “दीर्घचतुरस्रस्या-
क्षणयारज्जुः” (१।३७) इत्यादिना। अत्र लघूपायः। बृहच्चतुरस्रकरणीं अल्पचतुर-
स्रकरणीञ्च पृथग् वर्गयित्वा संयोज्य तस्य मूलमानीय तत्प्रमाणया रज्ज्वा सम-
चतुरस्रे कृते उभे चतुरस्रक्षेत्रे समस्ते भवतः ॥ ३९ ॥
( इति समचतुरश्रयोः समसनप्रकारः । )
चतुरश्राच्चतुरश्रं निर्जिहीर्षन् यावन्निर्जिहीर्षेत्तस्य करण्या
वर्षीयासो वृध्रमुल्लिखेत्। वृध्रस्य पार्श्वमानीमक्षणयेतरत्पा-
र्श्वमुपसंहरेत्। सा यत्र निपतेत् तदपच्छिन्द्यात् छिन्नया-
निरस्तम् ॥ ४० ॥
महाचतुरश्रादल्पचतुरश्रस्यापोद्धारप्रकारमाह—चतुरश्रादिति ।
चतुरश्रात् पुरुषचतुष्टयमितक्षेत्रादिकात् चतुरश्रं एकपुरुषप्रमाणादिकं
निर्जिहीर्षन् अपोद्धरन् यावन्निर्जिहीर्षेत् तस्य करण्या अपजिहीर्षितस्य
चतुरश्रस्य करण्या पार्श्वमान्या वर्षीयसमधिकस्य वृद्धमुल्लिखेत् । वृद्धस्य
महाचतुरश्रस्य करणीं पार्श्वमानीं कृत्वा अपजिहीर्षितस्य चतुरश्रस्य
करणीं तिर्यङ्मानीं कृत्वा, वृद्धस्य पार्श्वमानीकृतस्य दीर्घचतुर-
श्रस्य दक्षिणाप्राचीकोणादारभ्य पश्चिमोत्तरकोणं प्रति अक्षणया कर्षेत् ।
सा एवं कृत्वा प्रकृतायाः पार्श्वमान्याः यत्र प्रदेशे निपतेत् समाप्ता
भवति, तदपच्छिन्द्यात् करणीमिति शेषः । छिन्नयेति । छिन्नया करण्या
समचतुरश्रे कृते अपजिहीर्षितं चतुरश्रं निरस्तम् । पुरुषप्रमाणे चतुरश्रे
निरस्ते अवशिष्टं क्षेत्रं त्रिपुरुषप्रमाणकमवतिष्ठत इत्यर्थः ॥ ४० ॥
चतुरस्रादिति । निर्हारो निरसनम् । यथा त्रिविधाग्नौ क्रियमाणे द्विपुरुषेण
चतुरस्रे कृते चतुःपुरुषो भवति । तत्र एकत्यागार्थं पुरुषमात्र्या तिर्यङ्मान्या
वृध्रमुल्लिख्य इतरस्योत्तरां पार्श्वमानीं दक्षिणाप्राचीमितरत्पार्श्वं गमयेत् । सा च
तत्र द्विपुरुषप्रमाणायां चत्वारिंशच्छतद्वयाङ्गुलायां पञ्चतिलोने अष्टशतद्वयाङ्गुले
निपतति । ततः पुरस्ताद् द्वात्रिंशदङ्गुलं पञ्च तिलांश्च अपच्छिन्द्यात् । परिशिष्ट्या
करण्या चतुरस्रे कृते पुरुषो निरस्तो भवति ॥ ४० ॥
[ इति महाचतुरश्रादल्पचतुरश्रापोद्धारप्रकारः । ]
ऽध्यायः ] बौधायनीयं २१
समचतुरश्रं दीर्घचतुरश्रं चिकीर्षंस्तदक्ष्णयापच्छिद्य भागं
द्वेधा विभज्य पार्श्वयोरुपदध्याद् यथायोगम् ॥ ४१ ॥
समचतुरश्रमिति । तत्समचतुरश्रमक्ष्णयापच्छिद्य द्वेधा कृत्वा भागं
द्वेधा विभज्य, अक्ष्णयापच्छिन्नम् एकं भागं द्वेधा कृत्वा पार्श्वयोरुपसंदध्यात्
यथायोगमित्यर्थः । प्राक् समभूतं दीर्घचतुरश्रं चिकीर्षन् समचतुरश्रं महा-
दिक्षु यथा स्रक्तयो भवन्ति तथा कृत्वा तदक्ष्णया द्वेधा कृत्वा पुनस्तयोरेकं
भागं द्वेधा कृत्वा पार्श्वयोर्यथायोगं प्राक् प्रत्यक् दीर्घचतुरश्रं यथा
संपद्यते तथोपदध्यात् योजयेत् ॥ ४१ ॥
समचतुरस्रमिति । महादिक्षु यथा स्रक्तयो भवन्ति तथा समचतुरस्रं कृत्वा
चतुरश्रं पूर्वापरमपच्छिद्य दक्षिणभागार्धं द्वेधा विभज्य अक्ष्णया दक्षिणोत्तरम-
पच्छिद्य एकं चतुर्थांशं उत्तरापरकोणेऽन्तर्दीर्घपार्श्वं उत्तराप्रत्यग्रं उपदध्यात् ।
अपरं चतुरस्रार्धभागं उत्तरपूर्वकोणेऽन्तर्दीर्घपार्श्वं उत्तरपूर्वाग्रं उपदध्यात् । पार्श्वयोः
पूर्वपश्चिमयोरुपसंदध्यात् ।
अन्यश्च प्रकारः । यावदिच्छं पार्श्वमान्या प्राच्यौ वर्धयित्वा उत्तरपूर्वा
कर्णरज्जुमायच्छेत् । सा दीर्घचतुरस्रमध्यस्थायां समचतुरस्रतिर्यङ्मान्यां यत्र
निपतति तत उत्तरं हित्वा दक्षिणांशं तिर्यङ्कानीं कुर्यात् । तद्दीर्घचतुरस्रं भवति ।
दीर्घस्य दीर्घकरणेऽप्ययमेव प्रकारः । समचतुरस्रविषयः पूर्वसूत्रोक्तः ॥ ४१ ॥
[ इति स . चतुरश्रस्य दीर्घचतुरश्रकरणोपायः । ]
अपि चैतस्मिंश्चतुरस्रं समस्य तस्य करण्यापच्छिद्य यदति-
शिष्यते तदितरत्रोपदध्यात् ॥ ४२ ॥
समचतुरश्रस्य दीर्घचतुरश्रीकरणे प्रकारान्तरमाह-अपि चैतस्मि-
न्निति । एतस्मिन् दीर्घचतुरश्रस्य करण्या तिर्यङ्मान्या तत्समचतुरश्रं
करिष्यमाणदीर्घचतुरश्रं समस्य संयोज्य । तत्संयोजनप्रकारमाह-
तस्य करण्येत्यादिना । तस्य करिष्यमाणस्य दीर्घचतुरश्रस्य
करण्या तिर्यङ्मान्या तत्समचतुरश्रमपच्छिद्य, पार्श्वमान्या अपच्छेदे
अतिशेषासंभवात् करण्या तिर्यङ्मान्येव विवक्षितेति गम्यते । यद-
तिशिष्यत इति । तिर्यङ्कानीतः अधिकं भवति तदितरत्र पुरस्तात्प-
श्चाच्चोपसंदध्यात् । यावत्संयोजयितुं शक्यते तावत्संयोज्यावशिष्टं
२२ शुल्बसूत्रम् [ प्रथमो-
चेदस्ति तदपि तत्रैव “नानाचतुरश्रे समस्यन्निति” न्यायेन
योजयेत् ॥ ४२ ॥
अपिचेति । दीर्घचतुरस्रं कृत्वा यदतिशिष्यते अनन्तर्भूतं भवति यत् क्षेत्रं
तदितरत्र दीर्घचतुरस्रस्य पूर्वपार्श्वे पश्चिमपार्श्वे चोपद्दध्यात् ॥ ४२ ॥
[ इति समचतुरश्रस्य दीर्घचतुरश्रकरणे प्रकारान्तरम् । ]
दीर्घचतुरश्रं समचतुरश्रं चिकीर्षंस्तिर्यङ्मानीं करणीं कृत्वा
शेषं द्वेधा विभज्य पार्श्वयोर्विपर्यस्येतरत्रोपद्दध्यात् । खण्डमावा-
पेन तत्संपूरयेत् । तस्य निर्हार उक्तः ॥ ४३ ॥
दीर्घचतुरश्रमिति । दीर्घचतुरश्रस्य तिर्यङ्मानीं करणीं कृत्वा
दीर्घचतुरश्रान्न्यूनं ह्रस्वचतुरश्रं कृत्वा यदतिशिष्यते तं द्वेधा विभज्य
विपर्यस्य पार्श्वयोरुपसंदध्यात् । दीर्घचतुरस्रस्य तिर्यङ्मान्यापच्छ
ऽध्यायः ] बौधायनीयं २३
चतुरश्रमेकत इति । पुरस्ताद्ध्रस्वतिर्यङ्मानीकं, पश्चात्ततोऽधिक-
तिर्यङ्मानीकमित्यर्थः । अभिमतह्रस्वप्रमाणतिर्यङ्मानीं कृत्वा शेषमवशिष्ट-
मक्ष्णया द्वेधा विभज्य विपर्यस्य व्यत्यासं कृत्वा दक्षिणोत्तरयोः पार्श्व-
योरेकैकं भागमुपदध्यात् । अयमर्थः—समचतुरश्रशेषमुदग्भागस्थं
दीर्घचतुरश्रं प्रागूदक्षिणकोणादारभ्याक्ष्णया विभजेत् । तत्र विभक्त-
योर्भागयोर्मध्ये दक्षिणं भागं तथैव स्थापयेत् । उत्तरभागमुद्धृत्य
विपर्यस्य दीर्घचतुरश्रस्य दक्षिणभागे पूर्वभागे सूक्ष्मं पश्चाद्भागे विस्तीर्णं
योजयेदिति ॥ ४४ ॥
चतुरस्रमिति । अणिमत्पार्श्वस्य करणीं तिर्यङ्मानीकरणीं कृत्वा प्रमाणपार्श्व-
मानीकं अणिमत्पार्श्वतिर्यङ्मानीकं दीर्घचतुरस्रं कृत्वा अवशिष्टं क्षेत्रं अक्ष्णया
परिच्छिद्य एकं तत्रैव स्थापयित्वापरमादाय विपर्यस्य पार्श्वान्तर उपदध्यात् ॥ ४४ ॥
[ इति चतुरस्रस्यैकतोऽणिमत्करणोपायः । ]
चतुरश्रं प्रउगं चिकीर्षन् यावच्चिकीर्षेत् द्विस्तावतीं भूमिं
समचतुरश्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहन्यात् ।
तस्मिन् पाशौ प्रतिमुच्य दक्षिणोत्तरयोः श्रोण्योर्निपातयेत् ।
बहिःस्पन्द्यमपच्छिन्द्यात् ॥ ४५ ॥
चतुरश्रस्य प्रउगकरणमाह—चतुरश्रमिति । अभिमतचतुरश्र-
स्याक्ष्णया रज्ज्वा सर्वतो मित्वा तद्द्विगुणां भूमिं समचतुरश्रां कृत्वा
तत्प्राग्देशस्थितायाः करण्या मध्ये शङ्कुं निहत्य तस्मिन् शङ्कौ पाशद्वयं
प्रतिमुच्य श्रोणीभूतयोः स्रक्त्योर्निपातयेत् । तत्र स्पन्द्ययोरुभयोरपि बहिः
क्षेत्रं विसृजेत् । स्पन्द्यान्तःस्थितं क्षेत्रं प्रउगाकारं सम्पद्यत इत्यर्थः ॥ ४५ ॥
चतुरस्रं प्रउगमिति । प्रउगं शकटमुखम् । द्विकरण्या समचतुरस्रं कृत्वा पूर्व-
स्यास्तिर्यङ्मान्या मध्ये शङ्कुं निहत्य तस्मिन् पाशौ प्रतिमुच्य चतुरस्रश्रोण्योर्निपात-
येत् । स्पन्द्ययोर्बहिर्भूतंमपच्छिन्द्यात् निरस्येत् ॥ ४५ ॥
[ इति चतुरश्रस्य प्रउगकरणोपायः । ]
चतुरश्रमुभयतःप्रउगं चिकीर्षन् यावच्चिकीर्षेद् द्विस्तावतीं
भूमिं दीर्घचतुरश्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहन्यात् ।
२४ शुल्बसूत्रम् [ प्रथमो-
तस्मिन् पाशौ प्रतिमुच्य दक्षिणोत्तरयोर्मध्यदेशयोर्निपातयेत् ।
बहिः स्पन्द्यमपच्छिन्द्यात् । एतेनापरं प्रउगं व्याख्यातम् ॥ ४६ ॥
चतुरश्रमुभयत इति । अभिमतचतुरश्रक्षेत्रमुभयतःप्रउगाकारं
कर्त्तुमिच्छन् अभिमतक्षेत्रं समचतुरश्रं कृत्वा तस्याक्षणया रज्ज्वा तद्द्विगुणां
भूमिं समचतुरश्रां सम्पाद्य तां पुनः “समचतुरश्रम्” (सू.१।४१,४२) इति
न्यायेन दीर्घचतुरश्रं कृत्वा पूर्वभागस्थितकरण्या मध्ये शङ्कुं निहत्य तत्र
पाशद्वयं प्रतिमुच्य दक्षिणोत्तरयोः करण्योर्मध्ये निपातयेत् । स्पन्द्याद्-
बहिःक्षेत्रनिरासे एकं प्रउगं संपद्यते । एवं प्रत्यग्भागस्थितकरण्या
मध्ये शङ्कुं निहत्य तत्रापि पाशद्वयं प्रतिमुच्य दक्षिणोत्तरश्रोणिमध्ये
पातयेत् । बहिःस्पन्द्यमपच्छिन्द्यात् अपरं प्रउगं सम्पन्नम् । तथा च
प्रागग्रमेकं प्रत्यगग्रमपरं प्रउगमिति उभयतःप्रउगं सम्पद्यत
इत्यर्थः ॥ ४६ ॥
चतुरस्रमुभयत इति । द्विस्तावर्ती प्रमाणतिर्यङ्मानीकां द्विप्रमाणपार्श्वमानीकां
दीर्घचतुरस्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहत्य तस्मिन् पाशौ प्रतिमुच्य
दक्षिणोत्तरयोः पार्श्वमान्योर्मध्यदेशयोः स्पन्द्यां निपातयेत् । बहिःस्पन्द्यं निरस्येत् ।
एतेन प्रकारेण अपरं प्रउगं व्याख्यातम् ॥ ४६ ॥
[ इति चतुरस्रस्योभयतःप्रउगकरणोपायः । ]
चतुरश्रं मण्डलं चिकीर्षन् अक्ष्णयार्धं मध्यात् प्राचीम-
भ्यापातयेत् । यदतिशिष्यते तस्य सहतृतीयेन मण्डलं
परिलिखेत् ॥ ४७ ॥
चतुरश्रं मण्डलमिति । चतुरश्रं मण्डलं चिकीर्षन् कर्त्तुमिच्छन्
अक्ष्णायाप्रमाणार्धं मध्यात् चतुरश्रस्य मध्यादारभ्य प्राचीं दिशं प्रति
आर्जवेन अभ्यापातयेत् निपातयेत् । यदतिशिष्यते चतुरश्रस्य बहिः-
प्रदेशे अक्ष्णयार्धप्रमाणं यदतिशिष्यते तस्य अवशिष्टस्य तृतीयेन भागेन
सह मण्डलं परिलिखेत् ।
अयमर्थः—अभिमतचतुरश्राक्ष्णयार्धप्रमाणं रज्जुं चतुरश्रस्य मध्य-
ऽध्यायः ] बौधायनीयं १५
देशादारभ्य चतुरश्रप्राक्तियंङ्मान्या मध्ये निपात्य चतुरश्रस्य बहिः
प्रदेशे अवशिष्टां रज्जुं त्रेधा संभज्य पुनरेतादृशं तृतीयांशं तैः सह
योजयित्वा तत्प्रमाणया रज्ज्वा मण्डलं कुर्यात् ॥ ४७ ॥
चतुरश्रं मण्डलमिति । चतुरस्रस्य अक्ष्णयार्धं चतुरस्रमध्यादारभ्य कोट्यां
निपात्य चिह्नं कृत्वा चतुरस्रस्य पूर्वपार्श्वमध्ये प्राचीं निपात्य चिह्नं कृत्वा चिह्नयो-
रन्तरालं त्रेधा विभज्य एकभागसहितेन चतुरस्रार्धेन मण्डलं परिलिखेत् । साऽनित्या
मण्डलं करोति ॥ ४७ ॥
[ इति चतुरस्रस्य मण्डलकरणोपायः । ]
मण्डलं चतुरश्रं चिकीर्षन् विष्कम्भमष्टौ भागान् कृत्वा
भागमेकोनत्रिंशधा विभज्याष्टाविंशतिभागानुद्धरेत् भागस्य
च षष्ठमष्टमभागोनम् ॥ ४८ ॥
मण्डलमिति । अभिमतमण्डलं चतुरश्रं करिष्यन् विष्कम्भ-
प्रमाणां रज्जुम् अष्टौ भागान् कृत्वा अष्टधा संभज्य भागमे-
कोनत्रिंशद्भा विभज्य अष्टसु भागेषु एकं भागम् एकोनत्रिंशद्भा संभज्य
अष्टाविंशतिभागानुद्धरेत् एकोनत्रिंशद्भा विभक्तेषु भागेषु एकं निधाय
अवशिष्टान् अष्टाविंशतिभागानुद्धरेत् विसृजेदित्यर्थः । भागस्य च
षष्ठमष्टमभागोनं, सप्तानां भागानां मध्ये एकस्य भागस्य षष्ठभागम्
अष्टमभागोनम् उद्धरेदित्यनुषङ्गः ।
अयमर्थः—विष्कम्भमष्टधा संभज्य तेष्वेकं एकोनत्रिंशद्भा विभज्य,
तेषु एकं निधाय अष्टाविंशति भागान् विसृजेत् । पुनः सप्तसु भागे-
ष्वेकं भागं षडधा विभज्य षट्सु भागेष्वेकं भागं पुनरष्टधा विभज्य,
अष्टसु भागमुद्धरेत् । एवं कृतेन प्रमाणेन समचतुरश्रे क्रियमाणे तत्र
मण्डलसमं क्षेत्रं भवति ॥ ४८ ॥
मण्डलमिति । भागस्योद्धृतशिष्टस्य षष्ठम् । कीदृशम् ? स्वीयाष्टमभागोनम् ।
कस्मादुद्धरेत् ? उद्धृताष्टविंशतिभागात् ।
एतदुक्तं भवति । विष्कम्भमष्टधा कृत्वा एकं भागं द्विनवतिशतत्रयाधिक
सहस्रभागान् कृत्वा तेषां एकचत्वारिंशद्भागान् विष्कम्भभागसप्तके संयोज्य
एकपञ्चाशच्छतत्रयाधिकसहस्रभागान् कृत्वा तेषामेकं भागं जह्यादित्यर्थः ॥ ४८ ॥
२६ शुल्बसूत्रम् [ प्रथमो-
: अपि वा पञ्चदशभागान् कृत्वा द्वावुद्धरेत् । एषाऽनित्या
चतुरश्रकरणी ॥ ४९ ॥
पक्षान्तरमाह—अपि वेति । विष्कम्भं पञ्चदशभागान् कृत्वा द्वौ
भागौ निरस्येत् । अवशिष्टत्रयोदशभागपरिमाणा एका चतुरश्रकरणी ।
इयञ्च अनित्या अननुगता क्वचित् प्रमाणं, विरोधादिति द्रष्टव्यम् ॥४९॥
अपिवेति । एषा परिशिष्टत्रयोदशभागप्रमाणा अनित्या स्थूला चतुरस्रकरणी ।
अनयोरनित्यत्वं ज्ञायते गणितविरोधात् । परस्परविरोधाच्च ।
तथाहि सप्तविधस्य सारत्निप्रादेशस्याग्नेः क्षेत्रं लक्षमष्टौ च सहस्राण्यङ्गुलयः
१०८००० । तस्य चतुरश्रीकृतस्य करणी त्रीणि शतानि अष्टाविंशतिश्चाङ्गुलयोऽर्ध-
द्वाविंशाश्च ३२८।२१½ तिलाः ।
तस्मिन् उक्तेन मार्गेण मण्डलीकृते त्रीणि शतानि चतुःसप्ततिश्चाङ्गुलयो
( ३७४ अं० ) विष्कम्भो भवति । तस्य परिणाहः सहस्रपञ्चसप्ततिशतञ्चाङ्गुलयः
( ११७५ ) । यथाहूः “चतुरधिकं शतमष्टगुणं द्वाषष्टिस्तथा सहस्राणाम् ।
अयुतद्वयविष्कम्भस्यासन्नो वृत्तपरिणाहः” ॥ (आर्यभटीये) इति ।
तस्य मण्डलस्य फलं लक्षं नवसहस्राण्यष्टौशतानि षट्त्रिंशाङ्गुलयो १०९८६०
दृश्यन्ते । उक्तञ्च “समपरिणाहस्यार्धं विष्कम्भार्धहतमेव वृत्तफलम्” ( आर्यभटीये ) ।
एवमग्निक्षेत्रे रथचक्रादौ मण्डलीकृते परस्परविरोधः । अर्धद्वाविंशतितिल-
सहितस्य अष्टाविंशतिशतत्रयाङ्गुलिकरणीकस्याग्नेर्मण्डलीकृतस्य विष्कम्भः चतुस्सप्त-
तिशतत्रयाङ्गुलयुक्तः । तस्यैव मण्डलस्योक्तेन मार्गेण चतुरस्रकरणे त्रीणि शतानि
चतुर्विंशतिश्चाङ्गुलयोऽर्धपञ्चमाश्च तिलाः करणी भवति । पूर्वोक्तायाः करण्याः
सार्धाश्चतस्रोऽङ्गुलयो हीयन्ते ।
तस्मात् सूक्ष्ममिच्छता चतुरस्रस्य मण्डलकरणे सूत्रोक्तादतिशयतृतीयसहिताद्
विष्कम्भार्धाद् अष्टादशशतांशस्त्याज्यः । एवं कृते रथचक्रचितौ विष्कम्भः
षट्तिलोनैकसप्ततिशतत्रयाङ्गुलयो ३७०।२८ भवन्ति । परिणाहश्च पञ्चषष्टिः शतसह-
स्राङ्गुलयः ११६५ । अस्य मण्डलस्य “समपरिणाहस्य”, इत्यादिना पूर्वोक्तेनानीतं
फलं लक्षमष्टौ च सहस्राणि भवन्ति १०८००० । मण्डलस्यापि चतुरस्रकरणे सूत्रोक्त-
विष्कम्भश्च स्यात् । त्रिगुणात् त्रयस्त्रिंशच्छतांशं युज्यात् ॥ ४६ ॥
[ इति मण्डलस्य चतुरश्रकरणोपायः । ]
प्रमाणं तृतीयेन वर्द्धयेत् तच्च चतुर्थेनात्मचतुस्त्रिंशोनेन ।
सविशेषः ॥ ५० ॥
ऽध्यायः ] बौधायनीयं २७
उक्ताया द्विकरण्याः परिज्ञानोपायमाह—प्रमाणमिति । प्रमाणं
समचतुरश्रस्य द्वादशाङ्गुलादिकं पार्श्वप्रमाणं तृतीयेन अङ्गुलचतुष्टयेन
वर्धयेद्, तच्चाङ्गुलचतुष्टयं चतुर्थेनैकाङ्गुलेन आत्मनश्चतुर्थभागस्य
एकाङ्गुलादेः चतुस्त्रिंशो यो भाग एकतिलाद्यात्मकस्तेन न्यूनेन एकति-
लोनसप्तदशाङ्गुलादिरूपेण वर्धयेदित्यर्थः । अस्य सविशेष इत्यपि
संज्ञेत्याह—सविशेष इति ॥ ५० ॥
द्विकरण्युक्ता । तस्या ज्ञानोपायमाह । प्रमाणमिति । द्वादशाङ्गुलं चतुरङ्गु-
लेन वर्धयेत् । तत्तृतीयं स्वीयचतुर्थेन स्वचतुस्त्रिंशांशोनेन तिलोनेनैकाङ्गुलेन
वर्धयेत् । एवं तिलोनसप्तदशाङ्गुला भवति । तस्य सविशेष इत्यपि संज्ञा ॥ ५० ॥
[ इति द्विकरणीपरिज्ञानोपायः । ]
अथाग्न्याधेयिके विहारे गार्हपत्यादाहवनीयस्यायतनं विज्ञा-
यतेऽष्टासु प्रक्रमेषु ब्राह्मणोऽग्निमादधीतैकादशसु राजन्यो द्वादशसु
वैश्य इति ॥ ५१ ॥
चतुरश्रादिकरणमुक्त्वा आग्न्याधेयिकवेदिमाह—अथाग्न्याधेयिक
इति । अथ शब्दोऽधिकारार्थः । अग्न्याधेयिके विहारे गाहंपत्यस्य पुरस्ता-
दाहवनीयस्यायतनं विज्ञायते श्रुत्या गम्यत इत्यर्थः । सैव श्रुतिः कदा
श्रूयते अष्टास्वित्यादिका । गार्हपत्यस्य पुरस्तादष्टासु प्रक्रमेष्वन्तरालभूतेषु
ब्राह्मणोऽग्निमादधीतेत्यर्थः । एवमुत्तरयोरपि ॥ ५१ ॥
अथाग्न्याधेयिक इति । अथेत्यधिकारे । गार्हपत्यात् गार्हपत्यस्य पुरस्तात् ।
अन्तरालमधिकृत्य श्रुतिरवगम्यते । अष्टासु प्रक्रमेष्वन्तरालभूतेष्वित्यर्थः । एवमुत्तर-
योरपि कल्पयोः । द्वादशसु प्रक्रमेष्वग्निमादधीतेति सार्ववर्णिकः । चक्षुर्निमित
आदधीतेति दण्डादिना माननिषेधः । इयदष्टौ प्रक्रमा इयदेकादश इयद्द्वादशेति
चक्षुषा यावन्तं देशं परिच्छिनत्ति तस्यावघेः समीप आधेय इत्यर्थः ॥ ५१ ॥
आयामतृतीयेन त्रीणि चतुरस्राण्यनूचीनानि कारयेत् ॥५२॥
आयामतृतीयेनेति । पूर्वोक्तं गार्हपत्याहवनीयोरन्तरालं तत्तद्वर्ण-
व्यवस्थयोक्तं त्रेधा विभज्य तृतीयांशप्रमाणया करण्या सर्वतो मित्वा
चतुरश्रत्रयं पूर्वपश्चिमयत। कुर्यात् । एकं प्रत्यक् ततः पुरस्ताद् द्वितीयम्
ततः पुरस्तात् तृतीयमित्येवं समचतुरश्रत्रयं कुर्यात् ॥ ५२ ॥
आयामेति । पूर्वोक्तगार्हपत्याहवनीयमध्ययोरन्तरालायामतृतीयकरणीप्रमाणेन
त्रीणि चतुरस्रान्यनूचीनानि प्राञ्चि, पश्चिमस्य पुरस्ताद् द्वितीयं, द्वितीयस्य पुरस्तात्
तृतीयमिति कारयेत् ॥ ५२ ॥
अपरस्योत्तरस्यां श्रोण्यां गार्हपत्यः ॥ ५३ ॥
अपरस्येति । तत्र पश्चिमस्य चतुरश्रस्य उत्तरश्रोण्यां गार्हपत्यमध्य-
शङ्कुं निहत्य "धिष्ण्यानां द्विप्रादेशो विष्कम्भ" (बौ० शु० सू० १।७६) इति
वक्ष्यमाणत्वात्तस्मिन् शङ्कौ पाशं प्रतिमुच्य सार्धचतुस्तिलसार्ध ( सत्र्यंश-
द्वाविंशतितिलसहित ? ) त्रयोदशाङ्गुलया रज्ज्वा ( मण्डलं लिखेत् ? )
तद्गार्हपत्यायतनं भवति ॥ ५३ ॥
अपरस्येति । अपरस्य चतुरस्रस्य उत्तरस्यां श्रोण्यां गार्हपत्यमध्यशङ्कुः ।
“धिष्ण्यानां द्विप्रादेशो विष्कम्भः” ( बौ. शु. सू. १।७६ ) इति वक्ष्यति । तस्मिन्
प्रादेशेन मण्डलं परिलिखेत् । पृथिवीसंस्तवान्मण्डलाकृतिर्गार्हपत्यः ॥ ५३ ॥
तस्यैव दक्षिणेंऽसेऽन्वाहार्यपचनः ॥ ५४ ॥
तस्यैवेति । तस्यैव पश्चिमस्य चतुरश्रस्य दक्षिणपूर्वस्यां सक्तौ शङ्कुं
निहत्य तस्मादुदग् द्वादशतिलसहितद्वचङ्गुलेऽन्यं शङ्कुं निहत्य तस्मिन्
पाशं प्रतिमुच्य तिलद्वयसहितपञ्चदशाङ्गुलया रज्ज्वा मण्डलं परिलिखेत ,
पञ्चदशाङ्गुलयैव रज्ज्वाऽन्यत् परिमण्डलं करोति, मण्डलसंसर्गयोः शङ्क
निहत्य स्पन्द्यां नियम्य उत्तरार्धं त्यजेत् स दक्षिणाग्निः ॥ ५४ ॥
तस्यैवेति । तस्यैव अपरस्य दक्षिणेंऽसे अन्वाहार्यपचनमध्यशङ्कुः । “मण्डलं
चतुरस्रं चिकीर्षन्” ( चौ. शु. सू. १।४८ ) इत्यादिना आनीतनवतिलसहितैकविं-
शत्यङ्गुलचतुरस्रदिकरण्या चतुस्तिलसहितत्रिंशदङ्गुलया समचतुरस्रं कृत्वा मण्डलं
कृत्वा दक्षिणविहारविष्कम्भः चतुर्विंशदङ्गुलयो दश तिलाश्च । दक्षिणविहारमध्य-
शङ्कोरन्तरतो विष्कम्भचतुर्भागमात्रे शङ्कं स्थापयित्वा तस्मिन् विष्कम्भार्धं प्रतिमुच्य
मण्डलं परिलिख्य मण्डलमध्ये प्राक्प्रतीचीं स्पन्द्यां नियम्यानुस्पन्द्यां लेखामालिख्य
उत्तरार्धं त्यजेत् । सोऽन्वाहार्यपचनः । अन्तरिक्षसंस्तवाद्धनुराकृतिः ॥ ५४ ॥
ऽध्यायः ] बौधायनीयं २६
पूर्वस्योत्तरेंऽस आहवनीयः ॥ ५५ ॥
पूर्वस्येति । प्राक्चतुरश्रस्य उत्तरेंऽसे आहवनीयस्य मध्यशङ्कुं निहत्य
द्विप्रादेशप्रमाणं समचतुरश्रं कुर्यात्, स आहवनीयः । अग्रेणाहवनीयं
पदत्रयं संचरमवशिष्य आहवनीयवच्चतुरश्रः सभ्यस्तस्य पुरस्ताच्च पद-
त्रयमवशिष्याऽवसथ्यः, सोऽप्याहवनीयवच्चतुरश्रः ॥ ५५ ॥
पूर्वस्येति । पूर्वस्य उत्तरस्याः श्रोण्या उत्तरेणोत्करः । पूर्वस्य चतुरस्रस्य
उत्तरेंऽसे आहवनीयमध्यशङ्कुः । तस्य नवतिलसहितैकविंशत्यङ्गुलं चतुरस्रं कुर्यात् ।
द्युलोकसंस्तवात् चतुरस्र आहवनीयः । आगारो वा । सभायामेव सभ्यं व्यप-
दिशेत् । आवसथ आवसथीयमिति ॥ ५५ ॥
अपिवा गार्हपत्याहवनीययोरन्तरालं पञ्चधा षोढा वा
संभृज्य षष्ठं सप्तमं वा भागमागन्तुकमुपसमस्य समं त्रैधं
विभज्य पूर्वस्मादन्ताद् द्वयोर्भागयोर्लक्षणं करोति । गार्हपत्या-
हवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कुं
निहन्ति । तद्दक्षिणाग्नेरायतनं भवति ॥ ५६ ॥
दक्षिणाग्न्यायतनविकल्पमाह—अपिवेति । गार्हपत्याहवनीययोर-
न्तरालप्रमाणां रज्जुं पञ्चधा षोढा वा विभज्य तत्रागन्तुमन्यं भागं संयोज्य
पञ्चधा विभागपक्षे पञ्चमांशेनान्यं षष्ठं भागं योजयेत् , षोढा संविभागपक्षे
षष्ठांशसमानप्रमाणमन्यं सप्तमभागं योजयेत् । भागान्तरसंयुक्तमिदं लक्षणेन
दक्षिणत आकृष्य लक्षणे शङ्कुं निहन्ति । स शङ्कुर्दक्षिणाग्नेर्मध्यम् ।
विपर्यस्योत्करः । आहवनीयसम्बद्धमग्रं गार्हपत्यसंबद्धं कृत्वा गार्हपत्य-
सम्बद्धं आहवनीयसमीपे नियम्य लक्षणेन उत्तरतोऽपायम्य शङ्कुं
निहन्ति, स उत्करः ॥ ५६ ॥
अपीति । अपि वा पक्षः । “आयामतृतीयेन” ( १५२ ) इत्यादि सर्वं कल्पो-
क्तेन विकल्पते । दक्षिणाग्न्यायतनदेशविकल्पार्थमाह—संभृज्य संवेष्ट्य । आगन्तुक-
मधिकं प्रक्षिप्य । समं सर्वम् । द्वयोर्भागयोरिति । तयोर्गार्हपत्याहवनीयमध्य-
शङ्क्वोः । दक्षिणाग्नेरिति । दक्षिणाग्नेरायतनमध्यं भवति । विपर्यस्योत्करः ॥ ५६ ॥
३० शुल्बसूत्रम् [ प्रथमो-
अपिवा प्रमाणं पञ्चमेन वर्द्धयेत् । तत्सर्वं पञ्चधा संभुज्या-
परस्मादन्ताद् द्वयोर्भागयोर्लक्षणं करोति । पृष्ठ्यान्तयोः पाशौ
प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कं निहन्ति । तद्द-
क्षिणाग्नेरायतनं भवति ॥ ५७ ॥
दक्षिणाग्न्यायतने पक्षान्तरमाह—अपि वा प्रमाणमिति । आहव-
नीयगार्हपत्यमध्यदेशप्रमाणं तदीयपञ्चमांशेन युक्तं कृत्वा तत्सर्वं पञ्चधा
विभज्य पश्चिमाग्रादारभ्य भागद्वयेऽतीते लक्षणं कृत्वा, पूर्वापरशङ्क्वॊः
पाशौ प्रतिमुच्य पूर्ववल्लक्षणेन दक्षिणापायम्य तत्र शङ्कं निहन्यात्,
तद्दक्षिणाग्नेर्मध्यम् ॥ ५७ ॥
अपिवेति । लक्षणे शङ्कं निहन्ति । पूर्वस्मादन्त्याद् भागत्रयेऽतीते ॥५७॥
[ इति गार्हपत्यदक्षिणाहवनीयाग्नीनां स्थानानयनप्रकारः । ]
विपर्यस्यैतेनोत्करो व्याख्यातः ॥ ५८ ॥
विपर्यस्येति । पूर्ववदग्रविपर्य्यसिन उत्तरतोऽपायम्योत्करः कर्त्तव्यः ।
विपर्यस्येत्येतत् अपि वेति पक्षद्वयस्यापि शेष इति द्रष्टव्यम् ॥ ५८ ॥
विपर्यस्येति । पूर्वोत्तरकल्पयोः साधारणमिदम् । “दक्षिणतो विषुवत्यन्वा-
हार्यपचनस्ये”ति (बौ. श्रौ. सू. २४।२ पृ. ५४८ ) कल्पोक्तोऽप्यनुसन्धेयः । तथा
सति उत्तरतो मध्य उत्करः ॥ ५८ ॥
[ इत्युत्करस्थानानयनम् । ]
अपरेणाहवनीयं यजमानमात्री भवतीति दार्शपौर्णमासि-
काया वेदेर्विज्ञायते । तस्यास्त्रिभागोनं पश्चात्तिरश्ची । तस्या
एवार्धं पुरस्तात् तिरश्ची । एवं दीर्घचतुरस्रमेकतोऽणिमद् विहृत्य
स्त्रक्तिषु शङ्कून् निहन्यात् । यावती पार्श्वमानी द्विरभ्यस्ता
तावतीं रज्जुमुभयतः पाशां कृत्वा मध्ये लक्षणं करोति ।
दक्षिणयोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कं
निहन्यात् । तस्मिन् पाशौ प्रतिमुच्य लक्षणेन दक्षिणं पार्श्वं
परिलिखेत् । एतेनोत्तरं पार्श्वं व्याख्यातम् । पूर्वं पार्श्वं तया द्विर-
भ्यस्तया परिलिखेत् । एवमपरम् ॥ ५९ ॥
ऽध्यायः ] बौधायनीयं ३१
अपरेणेति । भवतीत्यनया श्रुत्या दर्शपूर्णमाससम्बन्धिन्या वेदेर्विज्ञा-
यते प्रमाणमिति शेषः । यजमानमात्रोति । षण्णवत्यङ्गुलप्रमाणेत्यर्थः ।
तस्या मानमाह—तस्या इति । तस्याः षण्णवत्यङ्गुलायास्तृतीयेन भागेन
ऊनं चतुःषष्ट्यङ्गुलानि प्रत्यक्प्रदेशतिर्यङ्मानी कार्या । तस्या एवार्धम्
अष्टचत्वारिंशदङ्गुलानि पुरस्तात्तिर्यङ्मानी कार्या । एवं प्रकारेण पूर्वभागे
अणु पश्चाद्भागे विशालं प्राक्पश्चिमदीर्घम् एकतोऽणिमद्दीर्घचतुरश्रं कृत्वा
तस्य चतसृषु स्रक्तिषु शङ्कुचतुष्टयं निहन्यात् । तस्याः संमानमाह—
यावतीति । दक्षिणयोरिति । दक्षिणयोः दक्षिणस्रक्तिद्वयनिखातशङ्कोरित्यर्थः
त्यर्थः । एतेनेति । “यावती पार्श्वमानी” त्यादिना उत्तरतोऽपायम्य
लक्षणे शङ्कुं निहत्य तत्र पाशौ प्रतिमुच्य उत्तरपार्श्वं परिलिखेदित्यर्थः ।
पूर्वमिति । प्राक्तिर्यङ्मान्या द्विगुणीकृताया मध्ये लक्षणं कृत्वा प्राग-
पायम्य लक्षणे शङ्कुं निहत्य तत्र पाशं प्रतिमुच्य लक्षणेन पूर्वं पार्श्वं
परिलिखेत् । एवं मिति । प्रत्यक्तिर्यङ्मान्या द्विगुणीकृताया मध्ये लक्षणं
कृत्वा प्रत्यगपायम्य लक्षणे शङ्कुं निहत्य तत्र पाशौ प्रतिमुच्य लक्षणेन
पश्चिमं पार्श्वं परिलिखेदित्यर्थः ।
अत्र कर्मान्ते । अथेयं दार्शपौर्णमासिकी वेदी यजमानमात्री भवत्य-
परिमिता वा यथासन्नानि हविंषि सम्भवेदेवं तिरश्चीप्राञ्चौ वेद्यंसावुन्न-
यत्याहवनीयस्य परिगृहीत्यै प्रतीची श्रोणी निरूहति गार्हपत्यस्य परि-
गृहीत्यै पुरस्तादंहीयसी पश्चात् प्रथीयसी मध्ये संनततरा भवतीति
पक्षान्तरमुक्तम्, तदप्यत्रानुसन्धेयम् ।
अपरिमिता षण्णवत्यङ्गुलाधिका । विकृति ( प्रकृतिषु ? ) आस-
न्नानि हवींषि यथा संगृह्लीयात्, प्राञ्चौ वेद्यंसावुन्नयति आहवनीयस्य
परिगृही षाय ( त्यै ? ) । प्रतीची श्रोणी गार्हपत्यपरिग्रहाय । पुरस्ता-
च्छ्रोणीप्रमाणात् संकुचिता, पश्चादंसप्रमाणाद् विस्तृता, मध्ये अतिकृशा ।
दक्षिणोत्तरायतं गार्हपत्यागारम् । पूर्वापरायतमाहवनीयागारम् । आह-
वनीयागारस्य पुरस्तात् त्रिप्रक्रममवशिष्य सभ्यागारं, ततः पुरस्तात्
| ३२ | शुल्बसूत्रम् | [ प्रथमो- |
|---|
त्रिप्रक्रममवशिष्यावसथ्यागारं, यावति कृष्णमृग उपविशेत् तावदूर्ध्वो
विहार इति कर्मान्ते उक्तम् ॥ ५९ ॥
अपरेणेति । यजमानमात्री षण्णवत्यङ्गुला । तस्या मानमाह—तस्या इति ।
त्रिभागेनं चतुःषष्ट्यङ्गुलािन । तस्या ह्यंत । तस्या एवार्धं अष्टाचत्वारिंशदङ्गुलािन ।
अष्टषष्टिशते सूत्रे चतुर्विंशे निरञ्छनम् ।
द्वात्रिंशे चतुःसप्तत्यां संख्येयान्यङ्गुलानि तु ॥
षण्णवत्यङ्गुला पृष्ठ्या प्रथमेनांसयोर्मितिः ।
श्रोण्योर्द्वितीयेन मानमेवमेकतः ......॥
तस्यानयन माह—एवमिति । तस्मिन्निति । यावती दक्षिणपार्श्वमानी परिलि-
खेत् । दक्षिणायाः श्रोणेर्दक्षिणमंसमालिखेत् । एतेनेति । यावती पार्श्वमानीत्या-
दिना । एवमिति । तिर्यङ्मान्योरपि द्विगुणीकृत्य मध्ये लक्षणं कृत्वा श्रोण्यंसयोश्च
अन्तौ नियम्य पश्चात् पुरस्ताच्च अपच्छिन्द्यात् इति द्रष्टव्यम् । "अपरिमिता वा यथा
सन्नानि हवींषि संभवेदेवं तिरश्चीप्राञ्चौ वेद्यंसावुन्नयति" प्रतीची श्रोणी पुरस्तादं-
हीयसी पश्चात् प्रथीयसि मध्ये सन्नतरा भवति ( बौ. श्रौ. २४।२४ पृ. २०९।२ )
इति कर्मान्ते पक्षान्तरमप्यस्ति । तदप्यनुसन्धेयम् । अपरिमिता षण्णवत्यङ्गुला-
दधिका । यथासन्नानि हवींषि संभवेत् प्रकृतिषु संगृह्णीयात् । प्राञ्चौ वेद्यंसावुन्नयति
आह्वनीयस्य परिग्रहणाय । प्रतीची श्रोणी गार्हपत्यस्य परिग्रहणाय । पुरस्तात् श्रोणी
प्रमाणात् संकुचिता । पश्चात् अंसप्रमाणाद् वितता । मध्येऽतिकृशा । दक्षिणोत्तरायतं
गार्हपत्यागारम् । आहवनीयागारं पूर्वापरायतं तत्र वेदिकरणात् । आहवनीयस्य पुरस्तात्
त्रिप्रक्रममवशिष्य सभ्यागारम् । एवं आवसथ्यम्य गृहम् । यावति कृष्णमृग उप-
विशेत् तावदपरार्धोर्ध्वंगते विहार ( बौ. श्रौ. सू. २४।२३ पृ. २०७।७ ) इति कर्मान्त
उक्तम् ॥ ५९ ॥
[ इति दार्शिक्या वेदेर्विहरणोपायः । ]
दशपदा पश्चात्तिरश्ची द्वादशपदा प्राच्यष्टापदा पुरस्ता-
त्तिरश्चीति पाशुवन्धिकाया वेदेर्विज्ञायते । मानयोगस्तस्या
व्याख्यातः ॥ ६० ॥
दशपदेति । विज्ञायत इति । प्रमाणमिति शेषः । मानयोग इति ।
एकतोऽणिमद्दीर्घचतुरश्रात्मिकायास्तस्या मानप्रकारः प्रमाणादध्यर्धां
रज्जुमित्यादिना व्याख्यात इत्यर्थः ॥ ६० ॥
मानयोग इति । अथापरं प्रमाणादध्यर्धाम् ( १।३२ ) इत्यादिना ॥ ६० ॥
ध्यायः ] बौधायनीयं ३३
रथसम्मितैत्येकेषाम् ॥ ६१ ॥
रथसम्मितैत्येकेषामिति । मतमिति शेषः । तत्रायं क्रमः—
रथाक्षमात्री पश्चात्तिरश्ची ईषामात्री प्राची युगेन पुरस्तात्तिरश्ची
मातव्येति ॥ ६१ ॥
रथेति । मतमिति शेषः । “रथाक्षमात्री पश्चात् तिर्यक् । ईषया प्राची ।
विपथयुगेन पुरस्तात्” ( बौ. श्रौ. सू. २०।५ पृ. ५६।५७ ) इत्यादि द्रष्टव्यम् ।
विपथयुगं षडशीत्यङ्गुलम् । चक्षुर्निर्मिता वा ॥ ६१ ॥
विराट् सम्पन्नेत्येकेषाम् ॥ ६२ ॥
विराडिति । मतान्तरं । दशाक्षरा विराडिति व्यवहाराद् विराट्
शब्दः दशसंख्यापरः । ततश्च सर्वतो दशपदेत्यर्थः ॥ ६२ ॥
विराडिति । मतम् । दशपदा वा ॥ ६२ ॥
[ इति पाशुबन्धिकवेदिविहरणोपायः । ]
शम्यामात्रो चतुःस्रक्तिर्भवतीत्युत्तरवेदेर्विज्ञायते । सम-
चतुरश्राविशेषात् ॥ ६३ ॥
शम्यामात्रीति । विज्ञायत इति । प्रमाणमिति शेषः ।
उत्तरवेदिर्विशेषाश्रवणात् समचतुरश्रेत्याह—समचतुरश्रेति । विशेष-
विधिरहितस्थले सर्वत्रायं विधिर्द्रष्टव्यः ॥ ६३ ॥
शम्यामात्रीति । अन्ततो हि देवानामाधीयत इति श्रुतेः । पूर्वान्ते यूपावटस्यार्ध-
प्रक्रममवशिष्योत्तरवेदिः । षट्त्रिंशदङ्गुला शम्या । उत्तरयुगप्रमाणेनोत्तरनाभित्रयो-
दशाङ्गुलेन । समचतुरश्रेति । सार्वत्रिकोऽयं विधिः । यत्र विशेषविधिर्नास्ति तत्र
सर्वत्र समचतुरस्रकरणम् ॥ ६३ ॥
[ इत्युत्तरवेदिविहरणोपायः । ]
वितृतीया वेदिर्भवतीति पैतृक्या वेदेर्विज्ञायते । महावेदे-
स्तृतीयेन समचतुरस्रकृतायास्तृतीयकरणी भवतोति । नवमस्तु-
भूमेर्भागो भवति ॥ ६४ ॥
वितृतीयेति । सौमिकी महावेदिर्वितृतीया त्रिधा विभक्तस्य स्वक्षेत्रस्य
५
३४ शुल्बसूत्रम् [ प्रथमो-
एकभागतृतीयांशरूपा महापितृयज्ञवेदिप्रमाणमित्यर्थः । तस्या मानो-
पायमाह—महावेदेरिति । अष्टाविंशत्यूनसहस्रपदक्षेत्राया महावेदेः सम-
चतुरश्रीकृतायाः करण्याः षड्विंशतितिलाधिकद्व्यङ्गुलोत्तरमेकत्रिंशत्पद
( पद ३१।२।२६ ति० ) प्रमाणायास्तृतीयेन भागेन समचतुरश्रीकृताया
भूमेः करणी तृतीयकरणीति । तया मीयमाने महावेदिभूमेर्नवमो
भागः अष्टोत्तरशतपदक्षेत्रात्मकः सिद्ध्यतीत्यर्थः ॥ ६४ ॥
वितृतीयेति । वितृतीया भागाद्यरूपेण (?) विभज्य महावेदेर्नवमभागेनेत्यर्थः ।
तस्य ग्रहणोपायमाह—महावेदेरिति । अष्टाविंशत्यूनं पदसहस्रं महावेदिः । तस्याः सम-
चतुरस्रकृतायाः करणी एकत्रिंशत् पदं अङ्गुलद्वयं षड्विंशतितिलाश्च । तस्याः
[L11
ऽध्यायः ] बौधायनीयं ३५
वित्तृतीयद्विकरण्या अर्धाधिकविंशतिशतद्वयाङ्गुलया वा समचतुरस्रं कृत्वा करणीनां
मध्ये शङ्कून् निहत्य प्रमाणद्विगुणयो रज्ज्वोः पाशान् पूर्वापरयोः प्रतिमुच्य तयो-
र्मध्ये दक्षिणोत्तरयोर्नियम्य बहिःस्पन्द्यमपच्छिन्द्यात्। हविरासादनसौकर्यार्थं
पञ्चारत्निर्वा यजमानमात्री ॥ ६६ ॥
[ इति पैतृक्या वेदेर्विहरणोपायः । ]
वेदितृतीये यजेतेति सौत्रामणिकीं वेदिमभ्युपदिशन्ति ।
महावेदेस्तृतीयेन समचतुरस्रकृताया अष्टादशपदा पार्श्वमानी
भवति । तस्यै दीर्घकरणयामेकतोऽणिमत्करणाञ्च यथा-
कामीति ॥ ६७ ॥
वेदिवितृतीय इति । महावेदितृतीयक्षेत्रे चतुर्विंशत्यधिकपदशतत्रया-
त्मकक्षेत्रे यजेतेति श्रुतेरर्थः। वेदतृतीयक्षेत्रस्य मानोपायामाह-महा-
वेदेरिति । महावेदेस्तृतीयक्षेत्रेण चतुर्विंशत्यधिकपदशतत्रया ३२४ त्मकेन
समचतुरस्रकृताया भूमेः पार्श्वमानी अष्टादश ( पद ?) प्रमाणा भव-
तीति। तथा मीयमाना भवतीति । महावेदेस्तृतीयक्षेत्रात्मकसौत्रामणी-
वेदिनिष्पत्तिर्भवतीत्यर्थः । सौत्रामण्याः पशुविकारत्वादतिदेशात एक-
तोऽणिमद्दीर्घचतुरश्राकारप्रमाणं कर्तव्यमित्यपेक्षायामाह-तस्यै इति ।
षष्ठ्यर्थे चतुर्थी । तस्या सौत्रामणीवेद्या दीर्घकरणयामेतावद्दीर्घकरणा-
मित्यत्र एकतोऽणिमत्करणायामणिमत्पुरस्तात् पार्श्वप्रमाणमेतावदित्यत्र
च चकारात् पश्चात्पार्श्वप्रमाणमेतावदित्यत्र च इच्छैव नियामिका ।
विशेषे प्रमाणाभावादित्यर्थः ।
अत्र च विराट् सम्पन्नेत्येकेषामिति मते सर्वतो दशपदसमचतुर-
श्रात्मिकाया वेदेः पश्वङ्गत्वान् यथाप्रकृति समचतुरश्राकारापि महावेदि-
तृतीयक्षेत्रप्रमाणा सौत्रामणीवेदिर्मातुं शक्यत इति ॥ ६७ ॥
वेदतृतीय इति । त्रीणि चतुर्विंशाधिकानि पदशतानि वेदतृतीयम् ।
महावेदेरिति । महावेदेस्तृतीयेन चतुर्विंशत्यधिकशतत्रयपदेन समचतुरस्रकृताया
भूमेरष्टादशपदा करणी भवति । सापि वेदितीयसमचतुरस्रकरणी । चतु-
र्विंशत्यधिकशतत्रयस्य मूलमष्टादशपदानीत्यर्थः। सौत्रामण्याः पशुबन्धप्रकृतित्वाद्
विराट्संपन्ना वा कार्या । तत्र सप्तविंशत्यङ्गुलं प्रवृद्धं पदम् । तेन दशपद ।