सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 49, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 49

ऽध्यायः ] बौधायनीयं २१
समचतुरश्रं दीर्घचतुरश्रं चिकीर्षंस्तदक्ष्णयापच्छिद्य भागं
द्वेधा विभज्य पार्श्वयोरुपदध्याद् यथायोगम् ॥ ४१ ॥
समचतुरश्रमिति । तत्समचतुरश्रमक्ष्णयापच्छिद्य द्वेधा कृत्वा भागं
द्वेधा विभज्य, अक्ष्णयापच्छिन्नम् एकं भागं द्वेधा कृत्वा पार्श्वयोरुपसंदध्यात्
यथायोगमित्यर्थः । प्राक् समभूतं दीर्घचतुरश्रं चिकीर्षन् समचतुरश्रं महा-
दिक्षु यथा स्रक्तयो भवन्ति तथा कृत्वा तदक्ष्णया द्वेधा कृत्वा पुनस्तयोरेकं
भागं द्वेधा कृत्वा पार्श्वयोर्यथायोगं प्राक् प्रत्यक् दीर्घचतुरश्रं यथा
संपद्यते तथोपदध्यात् योजयेत् ॥ ४१ ॥
समचतुरस्रमिति । महादिक्षु यथा स्रक्तयो भवन्ति तथा समचतुरस्रं कृत्वा
चतुरश्रं पूर्वापरमपच्छिद्य दक्षिणभागार्धं द्वेधा विभज्य अक्ष्णया दक्षिणोत्तरम-
पच्छिद्य एकं चतुर्थांशं उत्तरापरकोणेऽन्तर्दीर्घपार्श्वं उत्तराप्रत्यग्रं उपदध्यात् ।
अपरं चतुरस्रार्धभागं उत्तरपूर्वकोणेऽन्तर्दीर्घपार्श्वं उत्तरपूर्वाग्रं उपदध्यात् । पार्श्वयोः
पूर्वपश्चिमयोरुपसंदध्यात् ।
अन्यश्च प्रकारः । यावदिच्छं पार्श्वमान्या प्राच्यौ वर्धयित्वा उत्तरपूर्वा
कर्णरज्जुमायच्छेत् । सा दीर्घचतुरस्रमध्यस्थायां समचतुरस्रतिर्यङ्मान्यां यत्र
निपतति तत उत्तरं हित्वा दक्षिणांशं तिर्यङ्कानीं कुर्यात् । तद्दीर्घचतुरस्रं भवति ।
दीर्घस्य दीर्घकरणेऽप्ययमेव प्रकारः । समचतुरस्रविषयः पूर्वसूत्रोक्तः ॥ ४१ ॥
[ इति स . चतुरश्रस्य दीर्घचतुरश्रकरणोपायः । ]
अपि चैतस्मिंश्चतुरस्रं समस्य तस्य करण्यापच्छिद्य यदति-
शिष्यते तदितरत्रोपदध्यात् ॥ ४२ ॥
समचतुरश्रस्य दीर्घचतुरश्रीकरणे प्रकारान्तरमाह-अपि चैतस्मि-
न्निति । एतस्मिन् दीर्घचतुरश्रस्य करण्या तिर्यङ्मान्या तत्समचतुरश्रं
करिष्यमाणदीर्घचतुरश्रं समस्य संयोज्य । तत्संयोजनप्रकारमाह-
तस्य करण्येत्यादिना । तस्य करिष्यमाणस्य दीर्घचतुरश्रस्य
करण्या तिर्यङ्मान्या तत्समचतुरश्रमपच्छिद्य, पार्श्वमान्या अपच्छेदे
अतिशेषासंभवात् करण्या तिर्यङ्मान्येव विवक्षितेति गम्यते । यद-
तिशिष्यत इति । तिर्यङ्कानीतः अधिकं भवति तदितरत्र पुरस्तात्प-
श्चाच्चोपसंदध्यात् । यावत्संयोजयितुं शक्यते तावत्संयोज्यावशिष्टं