बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 52, कुल 366 में से
संदर्भ में पढ़ें२४ शुल्बसूत्रम् [ प्रथमो-
तस्मिन् पाशौ प्रतिमुच्य दक्षिणोत्तरयोर्मध्यदेशयोर्निपातयेत् ।
बहिः स्पन्द्यमपच्छिन्द्यात् । एतेनापरं प्रउगं व्याख्यातम् ॥ ४६ ॥
चतुरश्रमुभयत इति । अभिमतचतुरश्रक्षेत्रमुभयतःप्रउगाकारं
कर्त्तुमिच्छन् अभिमतक्षेत्रं समचतुरश्रं कृत्वा तस्याक्षणया रज्ज्वा तद्द्विगुणां
भूमिं समचतुरश्रां सम्पाद्य तां पुनः “समचतुरश्रम्” (सू.१।४१,४२) इति
न्यायेन दीर्घचतुरश्रं कृत्वा पूर्वभागस्थितकरण्या मध्ये शङ्कुं निहत्य तत्र
पाशद्वयं प्रतिमुच्य दक्षिणोत्तरयोः करण्योर्मध्ये निपातयेत् । स्पन्द्याद्-
बहिःक्षेत्रनिरासे एकं प्रउगं संपद्यते । एवं प्रत्यग्भागस्थितकरण्या
मध्ये शङ्कुं निहत्य तत्रापि पाशद्वयं प्रतिमुच्य दक्षिणोत्तरश्रोणिमध्ये
पातयेत् । बहिःस्पन्द्यमपच्छिन्द्यात् अपरं प्रउगं सम्पन्नम् । तथा च
प्रागग्रमेकं प्रत्यगग्रमपरं प्रउगमिति उभयतःप्रउगं सम्पद्यत
इत्यर्थः ॥ ४६ ॥
चतुरस्रमुभयत इति । द्विस्तावर्ती प्रमाणतिर्यङ्मानीकां द्विप्रमाणपार्श्वमानीकां
दीर्घचतुरस्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहत्य तस्मिन् पाशौ प्रतिमुच्य
दक्षिणोत्तरयोः पार्श्वमान्योर्मध्यदेशयोः स्पन्द्यां निपातयेत् । बहिःस्पन्द्यं निरस्येत् ।
एतेन प्रकारेण अपरं प्रउगं व्याख्यातम् ॥ ४६ ॥
[ इति चतुरस्रस्योभयतःप्रउगकरणोपायः । ]
चतुरश्रं मण्डलं चिकीर्षन् अक्ष्णयार्धं मध्यात् प्राचीम-
भ्यापातयेत् । यदतिशिष्यते तस्य सहतृतीयेन मण्डलं
परिलिखेत् ॥ ४७ ॥
चतुरश्रं मण्डलमिति । चतुरश्रं मण्डलं चिकीर्षन् कर्त्तुमिच्छन्
अक्ष्णायाप्रमाणार्धं मध्यात् चतुरश्रस्य मध्यादारभ्य प्राचीं दिशं प्रति
आर्जवेन अभ्यापातयेत् निपातयेत् । यदतिशिष्यते चतुरश्रस्य बहिः-
प्रदेशे अक्ष्णयार्धप्रमाणं यदतिशिष्यते तस्य अवशिष्टस्य तृतीयेन भागेन
सह मण्डलं परिलिखेत् ।
अयमर्थः—अभिमतचतुरश्राक्ष्णयार्धप्रमाणं रज्जुं चतुरश्रस्य मध्य-