आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
८ आयुर्वेदौयग्रन्थमाला । [ अध्यायः
कृष्णधत्तूरकद्रवैश्चाञ्चल्यविनिवृत्तये ।
मर्दनोत्थापने कुर्यात् सूतराजस्य चाऽसकृत् ॥ ५८ ॥
त्रिफलाकन्यकातोयैर्विषदोषोपशान्तये ।
गिरिदोषं त्रिकटुना कन्यातोयेन यत्नतः ॥ ५९ ॥
चित्रकस्य च चूर्णेन सकन्येनाग्निनाशनम् ।
आरनालेन चोष्णेन प्रतिदोषं विशोधयेत् ॥ ६० ॥
एवं संशोधितः सूतः सप्तदोषविवर्जितः ।
जायते कार्यकर्त्ता च अन्यथा कार्यनाशकः ॥ ६१ ॥
अथ रसस्य कञ्चुकहरणम् ।
कुमारिकाचित्रकरक्तसर्षपैः
कृतैः कषायैर्बृहतीविमिश्रितैः ।
फलत्रिकेनापि विमर्दितो रसो
दिनत्रयं सप्तमलैर्विमुच्यते ॥ ६२ ॥
इति युगपत्सप्तमलनाशनम् ॥
अथोत्थापनम् ।
तत उत्थापयेत्सूतमातपे निम्बुकार्दितम् ।
उत्थापनावशिष्टं तु चूर्णं पातनयन्त्रके ॥ ६३ ॥
धृत्वाऽधोर्ध्वभाण्डात्तं संगृह्णेत्पारदं भिषक् ॥ ६४ ॥
वाग्भटोऽपि—
अस्माद्विरेकात्संशुद्धो रसः पात्यस्ततः परम् ।
उत्थितः काञ्जिकक्वाथैः क्षालनीयस्ततः परम् ॥ ६५ ॥
रसरत्नाकरस्तूत्थापनक्लेशमसहमानः सुगमोपायमाह; यथा—
वाग्भटोऽपि—
इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।
शेषा द्रव्योपयोगित्वान्न ते वैद्योपयोगिनः ॥ ३६ ॥
१.] आयुर्वेदप्रकाशः । ९
अन्यत्राऽपि।—
जलैः सोष्णारनालैर्वा क्षालनादुत्थितो भवेत् ।
अथवा पातनायन्त्रे पातनाडुत्थितो भवेत् ॥६७॥ इति ।
अथ पातनम् ।
तच्च त्रिविधं—ऊर्ध्वाधस्तिर्यग्भेदात्; तत्रोर्ध्वपातनं यथा—
भागास्त्रयो रसस्यार्कचूर्णस्यैकोऽथ निम्बुकैः ॥ ६८ ॥
एतत्संमर्दयेत्तावद्यावदेति पिण्डताम् ।
तत्पिण्डं तलभाण्डस्थमूर्ध्वभाण्डे जलं क्षिपेत् ॥ ६९ ॥
कृत्वाऽऽलवालं केनापि दत्त्वा चार्द्रं हि प्लोत कम् ।
संमुद्रयाग्निमधस्तस्य चतुर्यामं प्रबोधयेत् ॥ ७० ॥
युक्त्योर्ध्वभाण्डसंलग्नं गृह्णीयात्पारदं ततः ।
ऊर्ध्वपातनमित्युक्तं भिषग्भिः सूतशोधने ॥ ७१ ॥
ससूतभाण्डविवरमन्यद्विलति भाण्डकम् ।
तथा संधिर्द्वयोः कार्यः पातनात्रययन्त्रके ॥ ७२ ॥
यन्त्रप्रमाणं वदनाङ्कुरोर्ज्ञेयं विचक्षणैः ।
रसस्य मानानियमात्कथितुं नैव शक्यते ॥ ७३ ॥
अर्कचूर्णस्य ताम्ररजसः ॥
अथान्यन्मतम् ।—
मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च ।
यन्त्रे डमरुके कुर्याद्रसेन्द्रस्योर्ध्वपातनम् ॥ ७४ ॥
मयूरग्रीवं तुत्थकं, ताप्यं स्वर्णमाक्षिकं, नष्टपिष्टीकृतस्य
'कुमारिकाद्रवयोगेन' इति शेषः ॥
अथाधःपातनम् ।
त्रिफलाशिग्रुशिखिभिर्लवणासुरिसंयुतैः ।
नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाण्डके ॥ ७५ ॥
१० आयुर्वेदियग्रन्थमाला । [ अध्यायः
ऊर्ध्वभाण्डोदरं लिप्त्वाऽधोभाण्डे जलं क्षिपेत् ।
सन्धिलेपं द्वयोः कृत्वा तद्यन्त्रं भुवि पूरयेत् ॥ ७६ ॥
उपरिष्टात्पुटे दत्ते जले पतति पारदः ।
अधःपातनमित्युक्तं सिद्धाद्यैः सूतकर्मणि ॥ ७७ ॥
त्रिफलेति व्याख्याता । अधोभाण्डे जलं क्षिपेदिति वच-
नात्संपुटपात्रमध्ये जलं प्राप्यते, तच्च संप्रदायविरुद्धं, अतः
संपूर्णाम्बुनि पात्रान्तरे भूमौ निखातिते तस्योपरि संपुटं
दद्यात्, पश्चात्स संपुटस्याधःपात्रस्य च संधिरोधः कार्य इति
तात्पर्यतो ज्ञेयम् । उपरिष्टात्पुटे दत्ते इति पुटं चात्र कौकुटं
यथायथरसमात्रापेक्षया वा विंशतिवनोत्पलैरधिकैर्वा निवात-
स्थले शनैः शनैर्देयमिति गुरुसंप्रदायः ॥
अथान्यन्मतम् ।—
नवनीताभ्रकं सूतं घृष्ट्वा जम्भारम्भसा दिनम् ।
वानरीशिग्रुशिखिभिर्लवणासुरिसंयुतैः ॥ ७८ ॥
'नष्टपिष्टं रसं कृत्वा' इत्यादि पूर्ववत् ॥
अथ तिर्यक्पातनम् ।
घटे रसं विनिक्षिप्य सजलं घटमन्यकम् ।
तिर्यङ्मुखं द्वयोः कृत्वा संमुखं रोधयेत्सुधीः ॥ ७९ ॥
तथैव चुल्ल्यां संस्थाप्य यत्नतस्तु ततो भिषक् ।
रसाधो ज्वालयेदग्निं यावत्सूतौ जलं विशेत् ८० ॥
तिर्यक्पातनमित्युक्तं सिद्धैर्नागार्जुनादिभिः ।
मिश्रितौ चेन्नागवङ्गौ रसे विक्रयहेतुना ॥ ८१ ॥
ताभ्यां स्यात् कृत्रिमो दोषस्तन्मुक्तिः पातनत्रयात् ।
एवं सुसंस्कृतः सूतः पातनावधि यत्नतः ॥ ८२ ॥
सर्वदोषविनिर्मुक्तो जायते नात्र संशयः ॥ ८३ ॥
१.] आयुर्वेदप्रकाशः । ११
अत्रावसरे केचित्पुनः स्वेदनमिच्छन्ति; यथा—
रसं चतुर्गुणे वस्त्रे सरसोनशरावके ।
नियम्य दोलिकायन्त्रे मध्याग्नौ दिवसं पचेत् ॥ ८४ ॥
सव्योषत्रिफलावह्निकन्याकल्के तुषाम्बुनि ।
दोषशेषापनुत्त्यर्थमिदं स्वेदनमिष्यते ॥ ८५ ॥
अथ बोधनम् ।
एवं कदर्थितः सूतः षण्ढत्वमधिगच्छति ।
तन्मुक्तयेऽस्य क्रियते बोधनं कथ्यते हि तत् ॥ ८६ ॥
वाग्भटोऽपि—
मर्दनैर्मूच्छनैः पातैर्मरणान्तो भवेद्रसः ।
शक्त्युत्कर्षाय बोध्योऽसौ गुरुदर्शितवर्त्मना ॥ ८७ ॥
यथा—
विश्वामित्रकपाले वा काचकूप्यामथापि वा ।
सृष्ट्यम्बुजं विनिक्षिप्य तत्र तन्मज्जनावधि ॥ ८८ ॥
पूरयेत्रिदिनं भूम्यां राजहस्तप्रमाणतः ।
अनेन सूतराजोऽयं षण्ढभावं विमुञ्चति ॥ ८९ ॥
विश्वामित्रकपालं नारिकेलपात्रं; ‘सृष्ट्यम्बुजं सैन्धववारि’
इत्येके, अपरे तु ‘मूत्रं रजः शुक्रं च’ इत्याहुः । युक्तं तु सृष्ट्य-
म्बुजं अरुणायाः षोडशवार्षिकीयाः स्त्रिय आर्तवम् । राजहस्तः
सपादकरः ॥
मतान्तरं सुगमं च—
कदर्थनेनैव नपुंसकत्वमेवं भवेदस्य रसस्य पश्चात् ।
वीर्यप्रकर्षाय तु भूर्जपत्रे स्वेद्यो जले सैन्धवचूर्णगर्भे ॥ ९० ॥
१ ‘पातैर्मन्दः शान्तो’ ख. ।
१२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
मतान्तरम्—
लवणेनाम्लपिष्टेन हण्डिकान्तर्गतं रसम् ।
आच्छाद्याथ जलं किंचित् क्षिप्त्वा शरावेण रोधयेत् ॥९१॥
ऊर्ध्वं लघुपुटो देयः प्राप्तपुंस्त्वो रसो भवेत् ॥ ९२ ॥
मतान्तरम्—
एवं कदर्थितः सूतः षण्ढभावं प्रयाति हि ।
बह्वौषधिकषायेण खेदितः सबलो भवेत् ॥ ९३ ॥
यथा—
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दैः खेदितो बली ।
निरस्तषण्ढभावोऽसौ जायते हि रसोत्तमः ॥ ९४ ॥
सर्पाक्षी नागिणी, चिञ्चा अम्लिका, वन्ध्या वांझखखसा,
भृङ्गो भृङ्गराजः, अब्दो मुस्ता नागरसंज्ञको ग्राह्यः । एषां
रसो ग्राह्यः ॥
अथ नियमनम् ।
सर्पाक्षी चिञ्चिका वन्ध्याभृङ्गाब्दकनकाम्बुभिः ।
दिनं संस्वेदितः सूतो नियमात् स्थिरतां व्रजेत् ॥ ९५ ॥
मतान्तरम्—
उत्तराशाभवस्थूलरक्तसैन्धवलोष्टकः।
तद्गर्भे रन्ध्रकं कृत्वा सूतं तत्र विनिक्षिपेत् ॥ ९६ ॥
ततस्तु चणकक्षारं दत्त्वा चोपरि निम्बुजम् ।
रसं प्रक्षिप्य दातव्यं तादृक्सैन्धवखण्डकम् ॥ ९७ ॥
गर्तं कृत्वा धरागर्भे दत्त्वा सैन्धवसंपुटम् ।
धूलिमष्टाङ्गुलां दत्त्वा कारीषं दिनसप्तकम् ॥ ९८ ॥
वह्निं प्रज्वाल्य तद्ग्राह्यं क्षालयेत्काञ्जिकेन च ।
अयं नियमनो नाम संस्कारो गदितो बुधैः ॥ ९९ ॥
१. ] आयुर्वेदप्रकाशः । १३
अभावे चणकक्षारस्यार्पयेन्नवसादरम् ।
खर्जिका वा प्रदातव्या नूनमित्याह भास्करः ॥ १०० ॥
अथ संदीपनम् ।
कासीसं पञ्चलवणं राजिका मरिचानि च ।
द्विशिग्रुबीजमेकत्र टङ्कणेन समन्वितम् ॥ १०१ ॥
आलोड्य काञ्जिके दोलायन्त्रे पाच्यो दिनैस्त्रिभिः ।
दीपनं जायते सम्यक् सूतराजस्य जारणे ॥ १०२ ॥
अथवा चित्रकद्रावैः काञ्जिके त्रिदिनं पचेत् ।
दीपनं जायते तस्य रसराजस्य चोत्तमम् ॥ १०३ ॥
अथानुवासनम् ।
दीपितं रसराजं तु जम्बीररससंयुक्तम् ।
दिनैकं धारयेद्धर्मे मृत्पात्रे वा शिलोद्भवे ॥ १०४ ॥
इत्यनुवासनम् ॥
सहस्रनिम्बूफलतोयघृष्टो रसो भवेद्वह्निसमप्रभावः ।
सव्योषराजीलवणः सचित्रः सरामठो विंशतिवासराणि ॥ १०५
इति रसचिन्तामणावनुवासनम् ॥
एतैरनुवासनान्तैर्नवभिः संस्कारैः शुद्धः सूतोऽष्टमांश अव-
शिष्यत इत्याह रसरत्नाकरकृन्नित्यनाथः—
स्वेदनादिनवकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् ।
अष्टमांश अवशिष्यते तदा शुद्धसूत इति कथ्यते बुधैः ॥ इति ।
शुद्धसूतपरीक्षेयमिति भावः। कीदृशः स्वेदनादिनवकर्मभिः
संस्कृतः पारदः सप्तकञ्चुकविवर्जितो भवेदत्र दृष्टप्रत्यय-
माह—(कञ्चुकविवर्जितस्येयं परीक्षा) यदा अष्टमांश अवशि-
ष्यते, सप्तभागाः सप्तकञ्चुकसंबन्धिनो गच्छन्त्यष्टमो भागः
पारदस्यावशिष्यते तदा शुद्धसूतः कञ्चुकदोषविनिर्मुक्तो
२
१४ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
भवति। सप्तकञ्चुकाः सप्तावरणानि शिवशापाज्जातानि, तद्वि-
मुक्ततया शुद्धसूतो बुधैः कथ्यत इति ॥
अथ जारणम् ।
जारणा हि नाम गालनपातनव्यतिरेकेण घनहेमादिग्रास-
पूर्वकपूर्वावस्थाप्रतिपन्नत्वं, फलं चास्य प्रोक्तं स्वयं महेश्वरेण—
सर्वपापक्षये जाते प्राप्यते रसजारणा ।
तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं मुक्तिलक्षणम् ।
मोक्षाभिव्यञ्जकं देवि जारणा साधकस्य तु ॥ १०७ ॥
खल्वस्तु पिण्डिका देवि रसेन्द्रो लिङ्गमुच्यते ।
मर्दनं चन्दनं चैव ग्रासः पूजाऽभिधीयते ॥ १०८ ॥
यावद्दिनानि देवेशि वह्निस्थो धार्यते रसः ।
तावद्दशसहस्राणि शिवलोके महीयते ॥ १०९ ॥
दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् ।
द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ॥ ११० ॥
इत्यादि ॥
विपिनौषधिपाकसिद्धमेतद्द्भुततैलाद्यपि दुर्निवारवीर्यम् ।
किमयं पुनरीश्वराङ्गजन्मा घनजाम्बूनदचन्द्रभानुजीर्णः ॥१११
रसगुणबलिजारणं विनाऽयं न खलु रुजां हरणक्षमो रसेन्द्रः ।
न जलदकलधौतपाकहीनः स्पृशति रसायनतामिति प्रतिज्ञा ॥
अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात् फलमप्युदारम् ।
क्षेत्रादनुप्तादपि सस्यजातं कृषीवलास्ते भिषजश्च मन्दाः ॥११३
घनरहितबीजजारणसंप्राप्तदलादिसिद्धिकृतकृत्याः ।
कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥ ११४ ॥
अभ्रकजारणमादौ गर्भद्रुतिजारणं च हेम्नोऽन्ते ।
यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥ ११५ ॥
गन्धकजारितसूतस्य फलमुक्तं शिवागमे।—
१. ] आयुर्वेदप्रकाशः । १५
तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः ।
द्विगुणे गन्धके जीर्णे सर्वथा सर्वकुष्ठहा ॥ ११६ ॥
त्रिगुणे गन्धके जीर्णे सर्वजाड्यविनाशनः¹ ।
चतुर्गुणे तत्र जीर्णे वलीपलितनाशनः ॥ ११७ ॥
गन्धे पञ्चगुणे जीर्णे क्षयक्षयकरो रसः ।
षड्गुणे गन्धके जीर्णे सर्वरोगहरो रसः² ॥
अवश्यमित्युवाचेदं देवीं श्रीभैरवः स्वयम् ॥ ११८ ॥
अन्यत्रापि ।—
समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मजित् ।
जीर्णे तु त्रिगुणे गन्धे कामिनीदर्पनाशनः ॥ ११९ ॥
चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः ।
भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् ॥ १२० ॥
'षड्गुणे रोगघ्न' इत्युक्तं यत्तत्तु मूर्च्छायामेवाधिगन्तव्यं, तत्र
गन्धकस्य समग्रजारणाया अभावात् । अत्र तु समे गन्धे इति
तृतीयार्थे सप्तमी; ( तेन³ समेन गन्धेन तुल्यगन्धेन जीर्णः
पारदो मूर्च्छनाविधिना मृतः, तत्फलं रोगघ्नता ) एवं
द्विगुणादिष्वपि व्याख्येयमिति प्रतिभाति ॥
तस्माच्छतगुणो व्योमसत्त्वे जीर्णे तु तत्समे ।
ताप्यखर्परतालादिसत्त्वे जीर्णे गुणावहः ॥ १२१ ॥
हेम्नि जीर्णे सहस्रैकगुणसंपत्प्रदायकः ।
वज्रादिजीर्णसूतस्य गुणान् वेत्ति शिवः स्वयम् ॥ १२२ ॥
देव्या रजो भवेद्गन्धो धातुः शुक्लं तथाऽभ्रकम् ।
आलिङ्गने समर्थौ द्वौ प्रियत्वाच्छिवरेतसः ॥ १२३ ॥
शिवशक्तिसमायोगात् प्राप्यते परमं पदम् ।
यथा स्याज्जारणौ वह्नी⁴ तथा स्याद्गुणदो रसः ॥ १२४ ॥
१ 'सर्वषाण्ड्यविनाशनः' क. । २ 'भवेत्' ख. । ३ अयं पाठः ख. पुस्तके
नोपलभ्यते । ४ 'स्याज्जारणावह्निस्तथा' क. ।
१६ \qquad\qquad आयुर्वेदीयग्रन्थमाला । \qquad\qquad [ अध्यायः
अथादौ गन्धकजारणम् ।
तत्तु तत्तन्निगदितदेवतापरिचरणसमनन्तरं तत्तच्छोधनप्र-
क्रियाभिर्बह्वीभिः संक्षिप्ताभिर्वा शुद्धस्य रसेन्द्रस्य तृणारणिम-
णिजन्यवह्विन्यायेन तारतम्यमवलोकमानैः सूक्ष्ममतिभिः
‘पलार्धेनापि संस्कारः कर्तव्यः सूतकस्य च’ इति रसार्णवव-
चनाद्व्यावहारिकतोलकद्वयप्रमाणेनापि कश्चन सूतं समादाय,
तत्र गन्धको नवनीताख्यः संशोध्य जार्य आषड्गुण-
मिति । ततो मारणविधिना हत्वा मात्रयाऽशितः पथ्य-
योगेन ‘समे गन्धे तु रोगघ्न’ इत्याद्युक्तफलकारी रसो
भवति । अथ यदि रसायनगुणेच्छा चेद्गन्धकजारणोत्तरं
हेमाभ्रसत्त्वादि यथाविभवं गन्धकजारणोत्थिते रसे प्रोक्तवि-
धिना संशोध्य जार्य मारणविधिना हत्वा मात्रया क्षेत्रीकरण-
पूर्वकं पथ्ययोगेन मण्डलावधि षण्मासं वर्षैकं द्विवर्षं त्रिवर्षं
वा संसेव्यः । तदा तदुक्तफलमाप्नोति । यावज्जीवं सेव्यो वा
संपत्तिश्चेत् । यद्वा यथावकाशं पौनःपुन्येन संसेव्यः । अथ
यदि केवलं रोगघ्नेच्छा चेत्स्वेदनादिदीपनान्तैः संस्कारै रसं
संशोध्य प्रोक्तविधिना गन्धकेन संमूर्च्छय मात्रया पथ्ययोगेन
संसेव्यो यावदारोग्यमिति । अथ रसादौ पाकावलेहगुटिका-
चूर्णादौ वा रसयोगे विहिते यथावचनं संशुद्धो मूर्च्छितो
गन्धजीर्णो हेमादिजीर्णो वा मृतोऽमृतो वा रसो योज्य इति
गुरुसङ्केतः । गन्धकजारणरहितः संशुद्धोऽपि रसो योगेषु
न योज्यः, गदहन्तृत्वशक्त्यनुदयात् । हेमादिजीर्णोऽप्यशु-
द्धस्तु कुत्रापि न योज्यः, वैगुण्यप्रदत्वात् । एवं सर्व उपरसा
धातव उपधातवो रत्नान्युपरत्नानि विषोपविषप्रभृतयश्च
१ ‘तरणिमणि-’ क. । २ ‘संशुद्धं’ ख. । ३ चत्वारिंशद्दिनपर्यन्तमित्यर्थः ।
१.] । आयुर्वेदप्रकाशः । १७
शुद्धाः सन्तो मृता अमृता वा यथावचनं योज्या नाशुद्धा
इति दिक् ॥
इह खलु पुरुषेण दुःखस्य निरुपाधिद्वेषविषयत्वात्तदभाव-
श्चिकीर्षितव्यो भवति, सुखमपि निरुपाधिप्रेमास्पदतया गवे-
षणीयं, तदेतत्पुरुषार्थद्वयम् । अत्र स्रक्चन्दनललनादिविषयाणां
सत्यपि तत्कारणत्वे (सुखकारणत्वे) नान्तरीयकदुःखसंभेदा-
दनर्थपरंपरापरिचितत्वान्मूर्खाणामाकाशोड्रङ्गवदाभासमानत्वा-
दनैकान्तिकत्वाद्विरोधिनां युगपद्दृश्यमानत्वादत्यन्ताविरहि-
तत्वाच्च परिहरणीयम् । एकान्तात्यन्तः पुनरेतेऽभ्युपायाः
खलु हरिहरब्रह्माण इव तुल्या एव संभवन्ति—ज्ञानयोगः,
प्राणयोगो, रसयोगश्चेति । ननु, कथमेतेषां तुल्यतेत्यपेक्षायां
ब्रूमः—मोक्षोपाये बृहद्वासिष्ठे भुशुण्डोपाख्याने वसिष्ठवा-
क्यम्—
असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः ।
द्वौ प्रकारौ ततो देवो जगाद परमः शिवः ।
प्राणानां वा निरोधेन वासनानोदनेन वा ॥ १२५ ॥
इत्यादि
तस्मादेतेषां समानत्वमनवद्यम् । तत्राद्ययोः केवलं पक्व-
कषायाणामपि कथञ्चन साध्यत्वात्, चरमे पुनर्भोगलोलु-
पानामप्यधिकारित्वात्ताभ्यां समीचीनोऽयमिति कस्य न
प्रतिभाति । किञ्चास्य भगवन्निर्या॑सकतया सेवकानां स्वसं-
भूतसकलधातुत्वापादकस्य भगवतो रसराजस्य गुणसिन्धोः
कियन्तो मूर्च्छनाः, ताः प्रसङ्गाल्लिख्यन्ते । अथाव्यभिचरित-
व्याधिघातकत्वं मूर्च्छना, तत्प्रकारा बहुविधाः । तत्र
१ आकाशोद्रङ्गवद्गन्धर्वनगरवदित्यर्थः । 'कोशाण्डवदाभासमानत्वात्' ख. ।
'केशरकस्तूरिकाकोशवदाभासमानत्वात्' क. । २ सुखकारणत्वमिति भावः ।
१८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
निर्गन्धसगन्धभेदेन द्विविधा भवति मूर्च्छना । निर्गन्धमू-
र्च्छना तु विषाद्यौषधिभिरेकरूपा परमयोगिनां संमता ।
सगन्धा तु बहिर्धूमान्तर्धूमनिर्धूमतस्त्रिविधा । त्रिवि-
धाऽपि केवलं गन्धपिष्टि-गन्धबद्ध-गन्धजीर्ण-सगन्धकजली-
धातुपिष्टिभेदेन पञ्चधा । धातुपिष्टिश्च कनकरजतशुल्वघनस-
त्त्वकालायसभेदैः पञ्चधा । किंच मूर्च्छना जारणा इत्यने-
र्थान्तरं प्रायः । सा चेष्टिका-काचकूपी-काचसंपुट-सुवर्णयन्त्र-
भेदेनान्तर्धूमबहिर्धूमाभ्यां द्विविधा । तत्र षड्गुणगन्धकजा-
रणा साधीयसी निगद्यते—सा तु स्वेदनमर्दनादिसंस्काराव-
बद्धस्य रसराजस्य कार्या । बन्धनं तु स्वाभाविकद्रवत्वे सति
वह्निनाऽनुड्डीयमानत्वं मूर्तिबद्धत्वं, तत्तु नियमनान्तैः संसा-
रैर्भवति । अथ यदि स्वेदनादिसंस्कारान् कर्तुमसमर्थः, तं प्रति
सुगमरसशोधनोपाया अप्युक्ताः सन्ति । ते यथा—तत्र पारद-
ग्रहणे तत्परीक्षामाहुः । यथा—
अन्तःसुनीलो बहिरुज्ज्वलो यो मध्याह्नसूर्यप्रतिमप्रकाशः ।
योज्योऽथ धूम्रः परिपाण्डुरश्च चित्रो न योज्यो रसकर्मसिद्धयै ॥
इति ॥
शोधनं यथा—
राजीरसोनमूषायां रसं क्षिप्त्वा विबन्धयेत् ।
वस्त्रेण दोलिकायन्त्रे स्वेदयेत्काञ्जिकैर्द्यहम् ॥ १२७ ॥
दिनैकं मर्दयेत्पश्चात् कुमारीसंभवैर्द्रवैः ।
तथा चित्रकजैः क्वाथैर्मर्दयेदेकवासरम् ॥ १२८ ॥
काकमाचीरसैस्तद्वद्दिनमेकं तु मर्दयेत् ।
त्रिफलायास्ततः क्वाथै रसो मर्द्यः प्रयत्नतः ॥ १२९ ॥
१ 'पामरयोगिनां' क. । २ 'इत्यर्थान्तरं' क. । ३ 'अनुच्छिद्यमान-
त्वम्' ख. ।
१. ] आयुर्वेदप्रकाशः । १९
ततस्तेभ्यः पृथक्कुर्यात् सूतं प्रक्षाल्य काञ्जिकैः ।
ततः क्षिप्त्वा रसं खल्वे रसादर्धं च सैन्धवम् ॥ १३० ॥
मर्दयेन्निम्बुकरसैर्दिनमेकमनारतम् ।
ततो राजी रसोनश्च मुख्यश्च नवसागरः ॥ १३१ ॥
एतै रससमैस्तद्वत् सूतो मर्द्यस्तुपाम्बुना ।
ततः संशोष्य चक्राभं कृत्वा लिप्त्वा च हिङ्गुना ॥ १३२ ॥
द्विस्थालीसंपुटे धृत्वा पूरयेल्लवणेन च ।
अधःस्थाल्यां ततो मुद्रां दद्याद्दृढतरां बुधः ॥ १३३ ॥
विशोष्याग्निं विधायाधो निषिञ्चेदम्बु चोपरि ।
ततस्तु दद्यात्तीव्राग्निं तदधः प्रहरत्रयम् ॥ १३४ ॥
एवं निपत्य यात्यूर्ध्वं रसो दोषविवर्जितः ।
अथोर्ध्वपिठरीमध्ये लग्नो ग्राह्यो रसोत्तमः ॥ १३५॥ इति ।
एवं रसे गृहीते पुनस्तोलिते हीने सति पुनस्तद्यन्त्रं संमुद्य
शेषस्योर्ध्वपातनं कृत्वा रसो ग्राह्य इति गुरुसंप्रदायः । अथा-
न्यत्रापि—
एतावतस्तु संस्कारान् सूतस्य कर्तुमक्षमैः ।
तन्मुख्यान् कियतः कृत्वा ग्राह्यो रोगापनुत्तये ॥ १३६ ॥
रसराजलक्ष्म्यां—
दग्धोर्णागृहधूमसाररजनीरक्तेष्टिकाकाञ्जिकैः
पिष्ट्वा व्योषकुमारिकानलवरानिम्बुद्रवैर्वासराम्¹ ॥
व्योषाद्यम्बुनि दोलया रचितया स्विन्नं सुताम्राङ्घ्रियुक् ।
पिष्टं भाण्डतलाजलाश्रयगतं सूतं समभ्युद्धरेत् ॥ १३७ ॥
लवणसलिलदोलायन्त्रमध्ये दिनैकं
भुजगनयनवन्ध्याभृङ्गकल्रकान्तरस्थः ।
१ 'वा रसम्' क. ।
२० । आयुर्वेदीयग्रन्थमाला । [ अध्यायः
तदनु दहनतोये काञ्जिके खेदितः स्यात्
सपटुमरिचशिग्रुयुक्तः श्रीरसेन्द्रः ॥ १३८ ॥
एतावदप्यशक्तः कर्तुं सूतस्य शोधनं मनुजः ।
स्वेदनमर्दनमूर्ध्वं पातनमेतत्त्रयं कुर्यात् ॥ १३९ ॥
रसरत्नाकरे शोधनं यथा—
अथातः संप्रवक्ष्यामि दोषाष्टकनिवारणम् ।
इष्टकारजनीचूर्णैः षोडशांशै रसस्य तु ॥ १४० ॥
मर्दयेत्तप्तखल्वे हि जम्बीरोत्थद्रवैर्दिनम् ।
खल्वं लोहमयं वाऽथ पाषाणोत्थमथापि वा ॥ १४१ ॥
काञ्जिकैः क्षालयेत्सूतं नागदोषं विमुञ्चति ।
विशालाङ्कोलचूर्णेन वङ्गदोषं विनाशयेत् ॥ १४२ ॥
राजवृक्षो मलं हन्ति चित्रको वह्निदूषणम् ।
चाञ्चल्यं कृष्णधत्तूरस्त्रिफला विषनाशनम् ॥ १४३ ॥
कटुत्रयं गिरि हन्ति असह्याग्निं त्रिकण्टकः ।
प्रतिदोषं कलांशेन तत्र चूर्णं सकन्यकम् ॥ १४४ ॥
सुवस्त्रगालितं खल्वे सूतं क्षिप्त्वा यथाक्रमम् ।
प्रत्येकं प्रत्यहं यत्नात् सप्तरात्रं विमर्दयेत् ॥ १४५ ॥
उद्धृत्य चारनालेन मृद्भाण्डे क्षालयेत्सुधीः ।
सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ।
जायते शुद्धसूतोऽयं योजयेद्रसकर्मणि ॥ १४६ ॥
तप्तखल्वलक्षणम् ।—
अजाशकृत्तुषाग्निं च खनयित्वा भुवि क्षिपेत् ।
तस्योपरिस्थितं खल्वं तप्तखल्वमिदं भवेत् ॥ १४७ ॥
अथान्यन्मतम्—
भूगर्तेऽजशकृत्तुषानलपुटे संस्थापिते लोहजे
खल्वे जम्भजकाञ्जिकेन बलिना सार्धं दशांशेन सः ।
१ 'विशोधयेत्' क. । २ 'जम्भल' क. । ३ 'रसांशेन' क. ।
१.] आयुर्वेदप्रकाशः । २१
संमर्द्यः परिपात्य यन्त्रविधिना निष्कासितः सप्तधा ।
शुद्धः पारदमर्दकैर्निगदितो वैद्यैरवैद्यैर्नरैः ॥ १४८ ॥
अथान्यन्मतम्—
श्रीखण्डं देवदारुं च काकतुण्डीजयाद्रवम् ।
कर्कोटीमुसलीकन्याद्रवं दत्त्वा विमर्दयेत् ॥ १४९ ॥
दिनैकं पातयेत्पात्रे तच्छुद्धं विनियोजयेत् ।
अथान्यत्सिद्धमतम्—
कुमार्या च निशाचूर्णैर्दिनैकं मर्दयेद्रसम् ॥ १५० ॥
पातयेत्पातनायन्त्रे शुद्धो भवति पारदः ।
अथान्यत्सिद्धमतम्—
एकेन लशुनेनापि शुद्धो भवति पारदः ॥ १५१ ॥
तप्तखल्वे मासमेकं पिष्टो लवणसंयुतः ।
अथवा ग्राहयेत्सूतं दरदात्तन्निगद्यते ॥ १५२ ॥
कञ्चुकैर्नागवङ्गाद्यैर्विमुक्तो रसकर्मणि ।
हिङ्गुलाकृष्टसूतस्तु जीर्णगन्धसमो गुणैः ॥ १५३ ॥
निम्बपत्ररसैः पेष्यं हिङ्गुलं याममात्रकम् ।
जम्भीराणां द्रवैर्वाऽथ पात्यं पातनयन्त्रके ॥ १५४ ॥
तं सूतं योजयेत्पश्चात्सप्तकञ्चुकवर्जितम् ।
इत्येवं शुद्धमाख्यातं यथेष्टैकं प्रकारयेत् ॥ १५५ ॥
अन्यत्रापि—
अथवा दरदाकृष्टं स्विन्नं लवणाम्बुभिस्तु दोलायाम् ।
रसमादाय यथेच्छं कर्तव्यस्तेन भेषजो योगः ॥ १५६ ॥
निम्बूरसेन संपिष्टात् प्रहरं दरदाद्दृढम् ।
ऊर्ध्वपातनयन्त्रेण ग्राह्यो निर्मलो रसः ॥ १५७ ॥
इति सुगमशोधनम् ॥
१ ‘पारदकर्मठैः’ क. । २ ‘पातयेत्पश्चात्’ क. ।
२२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अथैवं शोधितस्य मुखकरणमुक्तं तन्त्रान्तरे ।—
सास्यो रसः स्यात्पटुशिग्रुतुत्थैः सराजिकैः सोषणकैस्त्रिरात्रम् ।
पिष्टस्ततः स्विन्नतनुः सुवर्णमुखानयं खादति सर्वधातून् ॥
अन्यन्मतम् ।—
अथ पङ्कबिन्दुकीयैश्च रसो मर्द्यस्त्रिवासरम् ।
लवणाम्लैर्मुखं तस्य जायते ग्रांसलोलुपम् ॥ १५९ ॥
‘अथवा बिन्दुलीकीटैः’ इत्यपि पाठान्तरम् ।
शार्ङ्गधरोऽपि—
कालकूतो वत्सनाभः शृङ्गीकश्च प्रदीपनः ।
हालाहलो ब्रह्मपुत्रो हारिद्रः सक्तुकस्तथा ॥ १६० ॥
सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव ।
अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकाः ॥ १६१ ॥
गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ।
एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ॥ १६२ ॥
मुखं च जायते तस्य धातूंश्च ग्रसतेतराम् ।
अथवा त्रिकटु क्षारौ राजी लवणपञ्चकम् ॥ १६३ ॥
रसोनो नवसारश्च शिग्रुश्चैकत्र चूर्णितैः ।
समांशैः पारदादेतैर्जम्बीरोत्थद्रवेण च ॥ १६४ ॥
निम्बुतोयैः काञ्जिकैर्वा सोष्णखल्वे विमर्दयेत् ।
अहोरात्रत्रयेण स्याद्रसे धातुचरं मुखम् ॥ १६५ ॥
वस्तुतस्तु दीपनस्यैवापरपर्यायो मुखकरणमिति न पृथक्
संस्कारः, तत्साधकान्यूनविंशतिकर्माणीति नियमभङ्गात् ॥
अथैवं संशुद्धरसे आदौ गन्धकजारणा । शिवागमे—
अजीर्णं तु अबीजं तु सूतकं यस्तु घातयेत् ।
ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ! ॥ १६६ ॥
१ ‘धातुघस्मरम्’ ख. । २ ‘त्वरन्’ क. ।
१. ] आयुर्वेदप्रकाशः । २३
अन्यत्रापि—
गुरुशास्त्रे परित्यज्य विना जारितगन्धकात् ।
रसं निर्माति दुर्मेधाः शपेत्तं परमेश्वरः ॥ १६७ ॥
तत्र गन्धकजारणा बहिर्धूमान्तर्धूमभेदेन द्विविधा । आद्या
यथा—‘तत्र षड्गुणगन्धकजारणक्रिया साधीयसी निगद्यते’
इत्युक्तं प्रागेव ॥
रसगुणबलिजारणं विनाऽयं
न खलु रुजां हरणक्षमो रसेन्द्रः ॥
न जलदकलधौतपाकहीनः
स्पृशति रसायनतामिति प्रतिज्ञा ॥ १६८ ॥
तन्निमित्तकं सिकतायन्त्रद्वयं कथ्यते । यथा—निरवधिनि-
ष्पीडितमृद्वस्त्रादिपरिलिप्तामतिकठिनकाचघटीमग्रे वक्ष्यमाण-
प्रकारां रसगर्भिणीमधस्तर्जन्यङ्गुलिप्रमाणितच्छिद्रायामनुरूप-
स्थालिकायामारोप्य छिद्रस्य परितो द्वित्र्यङ्गुलिमितेन लवणेन
निरन्तरालीकरणपुरःसरं सिकताभिरापूर्य वर्धमानकमारोपणीयः;
क्रमतश्च त्रिचतुराणि पञ्चषाणि वा वासराणि ज्वलनज्वालया
पचनीयमित्येकं यन्त्रं; हस्तैकमात्रप्रमाणभूगर्भान्तर्निखातां
प्रागुक्तकाचघटीं नातिचिपिटमुखीं नात्युच्चमुखीं मषी-
भाजनप्रायां खर्परचक्रिकया काचचक्रिकया वा निरुद्धवदन-
विवरां मृण्मयीं वा घटीं विधाय करीषैरुपरि पुटो देय इत्य-
न्यद्यन्त्रम् । ‘यन्त्रमध्ये तु भूधरः’ इति त्रिविक्रमः । ‘कूर्मयन्त्रे
रसे गन्धं षड्गुणं जारयेद्बुधः’ इत्यन्ये । अत्र पक्षे राग-
स्तथा न स्यात्, तेनादौ त्रिगुणं जारयित्वा शेषः कच्छपि-
कोदरे देयः, तदा रागः साधुः स्यात् । अत्र कज्जलिमन्तरेण
केवलगन्धकमपि साम्येन जारयन्ति ॥
१ प्राग्वत्काचघटी’ ख. ।
२४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अथ रससिन्दूरादिष्वनुभूतगन्धकजारणाप्रकारमाह ।—
कूपीकोटरमागतं रसगुणैर्गन्धैस्तुलायां विभुं
विज्ञाय ज्वलनं क्रमेण सिकतायन्त्रे शनैः पाचयेत् ।
वारंवारमनेन १वृद्धिविधिना गन्धक्षये सिद्धये
सिन्दूराद्युदितोऽनुभूय भणितः कर्मक्रमोऽयं मया ॥
अत्र सप्तमृत्कर्पटैः समुद्रां कूपिकां कृत्वा वालुकायन्त्रे प्रहर-
चतुष्टयमग्निं दद्यात्, यथाद्रव्यं वा पुनःपुनरेवं पाकं कुर्यात्,
कूपिकायन्त्रं दृढं न भवेत्तदा पुनर्नवीनं संपादयेत्, यदि रस-
सिन्दूरं स्यात्तदोर्ध्वपातनेन हिङ्गुलवन्निष्कासयेदित्येके । अन्ये-
ऽपि गन्धकजारणप्रकारा यत्राध्याये द्रष्टव्याः । आरोटकम्-
न्तरेण हिङ्गुलगन्धकाभ्यां पिष्टाभ्यामपि सिन्दूररसः संपाद्यः ।
आरोटकशब्दस्तु शुद्धपर्यायवाचकः ॥
अन्यच्च—
त्रिगुणमिह रसेन्द्रमेकमंशं कनकपयोधरतारपङ्कजानाम् ।
रसगुणवलिभिर्विधाय पिष्टिं रचय निरन्तरमम्बुभिः कुमार्याः॥
इति कज्जलीकरणम् ।
आषड्गुणमधरोत्तरसमादिवलिजारणेन योज्योऽयं योगः ।
पिष्टी पात्या कजलिकार्थं जारणार्थं च । प्रकारोऽयमधोयन्त्रे-
णैव सिध्यति, न पुनरूर्ध्वयन्त्रेणेति कज्जली ॥
काचमृत्तिकयोः कुपी हेम्नोऽयस्तारयोरपि ।
कीलालायःकृतो लेपः खटिकालवणाधिकः ॥ १७० ॥
अनेन यन्त्रद्वितयेन भूरि हेमाभ्रसत्त्वान्यपि जारयन्ति ।
यथेच्छमच्छैः स्वमनोविचारैर्विचक्षणाः पल्लवयन्तु भूयः ॥१७१
एतन्त्रिनेत्रादिप्रयोगविषयं न
१. ] आयुर्वेदप्रकाशः । २५
अन्तर्धूमविपाचितषड्गुणगन्धेन जारितः सूतः ।
स भवेत्सहस्रवेधी तारे ताम्रे भुजङ्गे च ॥ १७३ ॥
रसरत्नाकरे ।—
जीर्णे शतगुणे गन्धे शतवेधी भवेद्रसः ।
सहस्रगुणिते जीर्णे सहस्रांशेन वेधयेत् ॥ १७४ ॥
एतत्प्रकारस्तु तत्रैव द्रष्टव्यः; प्राधान्यं षड्गुणस्य सर्वसं-
मतम् ॥
अथ षड्गुणगन्धकजारणायां कच्छपयन्त्रं यथा—
आकण्ठं कलशं भूमौ निखाय जलसंभृतम् ।
शरावस्तन्मुखे स्थाप्यो मध्ये छिद्रसमन्वितः ॥ १७५ ॥
नीरावियोगिनीं तत्र छिद्रे काचविलेपिताम् ।
मृन्मूषां स्थापयेत्तस्यामूर्ध्वाधस्तुल्यगन्धकम् ॥ १७६ ॥
रसं निक्षिप्य तस्योर्ध्वं शरावेण विमुद्रयेत् ।
वन्योपलानि तस्योर्ध्वं ज्वालयेद्गुरुमार्गतः ॥ १७७ ॥
स्वाङ्गशीतं समुद्धृत्य पुनस्तुर्यांशगन्धकम् ।
दत्त्वा पूर्वक्रमेणैव जारयेत् षड्गुणं बलिम् ॥ १७८ ॥ इति ॥
अथान्यप्रकारः ।—
सूते गन्धं रसैकांशं निक्षिप्य मृदुखल्वके ।
तावत्संकुट्टयेत्पिण्डं भवेद्वा ताम्रपात्रके ॥ १७९ ॥
तत्तुल्यं गन्धकं दत्त्वा रुद्ध्वा तल्लोहसंपुटे ।
पुटयेद्भूधरे यन्त्रे यावज्जीर्यति गन्धकः ॥ १८० ॥
एवं पुनः पुनर्गन्धं दद्यादाषड्गुणं बुधः ॥ १८१ ॥ इति ॥
अथ कच्छपयन्त्रेण गन्धकजारणमाह शार्ङ्गधरः—
मृत्कुण्डे प्रक्षिपेन्नींर तन्मध्ये च शरावकम् ।
महत्कुण्डपिधानाभं मध्ये मेखलया युतम् ॥ १८२ ॥
१ 'समगुणे' ख. ।
३
२६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
लिप्त्वा च मेखलामध्यं चूर्णेनात्र रसं क्षिपेत् ।
रसस्योपरि गन्धस्य चूर्णं दद्यात्समांशकम् ॥ १८३ ॥
दत्त्वोपरि शरावं च भस्ममुद्रां प्रदापयेत् ।
तस्योपरि पुटं दद्याच्चतुर्भिर्गोमयोपलैः ॥ १८४ ॥
एवं पुनः पुनर्गन्धं षड्गुणं जारयेद्बुधः ।
गन्धे जीर्णे भवेत्सूतस्तीक्ष्णाग्निः सर्वकार्यकृत् ॥१८५॥इति॥
रसरत्नाकरे—
संस्थाप्य गोमयं भूमौ पक्कमूषां तथोपरि ।
तन्मध्ये कटुतुम्बीयुत्थं तैलं दत्त्वा रसं क्षिपेत् ॥ १८६ ॥
काकमाचीद्रवो देयस्तैलतुल्यः पुनःपुनः।
गन्धकं व्रीहिमात्रं च क्षिप्त्वा तां च निरोधयेत् ॥१८७॥
(१तत्पृष्ठे श्रावकं देयं पूर्णं वा वह्निखर्परम् ।
स्वाङ्गशीतलतां ज्ञात्वा जीर्णतैलं च गन्धकम् ।
काकमाचीद्रवं चाग्निं दत्त्वा दत्त्वा तु जारयेत् ॥ १८८ ॥)
मूषाधो गोमयं सान्द्रं दत्त्वा चोर्ध्वं च पावकम् ।
षड्गुणं गन्धकं जार्य सूतस्यैवं मुखं भवेत् ॥ १८९ ॥
इत्याद्यजारणम् ॥
अथान्त्यं यथा—
सूतप्रमाणं सिकताख्ययन्त्रे दत्त्वा बलिं मृद्घटितेऽल्पभाण्डे ।
तैलावशेषं च रसं निदध्यान्मग्नार्धकायं प्रविलोक्य भूयः १९०
आषड्गुणं गन्धकमल्पमल्पं क्षिपेद्रसो जीर्णबलिर्बलीयान् ।
रसेषु सर्वेषु नियोजितोऽयमसंशयं हन्ति गदं जवेन ॥ १९१ ॥
इति गन्धकजारणम् ॥
१. अयं पाठः ख. पुस्तके नोपलभ्यते.
१. ] आयुर्वेदप्रकाशः । २७
अथ स्वर्णजारणम् ।
तदुक्तं—
गन्धकजारणमादौ कुर्यादथ जारणं सुवर्णस्य ।
जलधरसत्त्वस्य ततो जारणमथ सर्वलोहानाम् ॥ १९२ ॥
अथ तदुपयोगिविडकथनम् । काञ्चनादिग्रसनतीव्रबुभुक्षा-
कराणि द्रव्याणि विडानि कथ्यन्ते । यथा—
वज्रकण्टकवज्राग्रं विद्धमष्टाङ्गुलं मृदा ।
विलिप्य गोविशाल्पाग्नौ पुटितं तत्र शोषितम् ॥ १९३ ॥
त्र्यहं वज्रिबिले क्षिप्तो ग्रासार्थी जायते रसः ।
ग्रसते गन्धहेमादिवज्रसत्त्वादिकं क्षणात् ॥ १९४ ॥
मूर्च्छाध्यायोक्तषड्गुणवलिजीर्णपिष्टिकोत्थितरसः खल्वेऽ-
त्यन्तं बुभुक्षितो घनहेमवज्रसत्त्वादि त्वरितमेव ग्रसतीत्यन्य-
प्रकारः। एतद्वयमपि कृत्वा व्यवहरन्त्यन्ये । अथान्ये विडाः—
सतुत्थं टङ्कणं सर्जिः पटु ताम्रे त्र्यहोषितम् ।
काञ्जिकं भावितं तेन गन्धाद्यं चरति क्षणात् ॥ १९५ ॥
बिडे सकाञ्जिके क्षिप्तो रसः स्याद्ग्रासलालसः ।
ग्रसते सर्वलोहानि सर्वसत्त्वानि वज्रकम् ॥ १९६ ॥
अथान्यप्रकारः ।—
शङ्खचूर्णं रविक्षीरैरातपे भावयेद्दिनम् ।
तद्वज्जम्बीरजद्रावैर्द्दिनैकं धूमसारकम् ॥ १९७ ॥
सौवर्चलमजामूत्रैर्भाव्यं यामचतुष्टयम् ।
कण्टकारीं च संक्वाथ्य दिनैकं नरमूर्तके ॥ १९८ ॥
खर्जिक्षारं तिन्तिडीकं कासीसं तु शिलाजतु ।
जम्बीरोत्थद्रवैर्भाव्यं पृथग्यामचतुष्टयम् ॥ १९९ ॥