आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 33, कुल 232 में से
संदर्भ में पढ़ें१४ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
भवति। सप्तकञ्चुकाः सप्तावरणानि शिवशापाज्जातानि, तद्वि-
मुक्ततया शुद्धसूतो बुधैः कथ्यत इति ॥
अथ जारणम् ।
जारणा हि नाम गालनपातनव्यतिरेकेण घनहेमादिग्रास-
पूर्वकपूर्वावस्थाप्रतिपन्नत्वं, फलं चास्य प्रोक्तं स्वयं महेश्वरेण—
सर्वपापक्षये जाते प्राप्यते रसजारणा ।
तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं मुक्तिलक्षणम् ।
मोक्षाभिव्यञ्जकं देवि जारणा साधकस्य तु ॥ १०७ ॥
खल्वस्तु पिण्डिका देवि रसेन्द्रो लिङ्गमुच्यते ।
मर्दनं चन्दनं चैव ग्रासः पूजाऽभिधीयते ॥ १०८ ॥
यावद्दिनानि देवेशि वह्निस्थो धार्यते रसः ।
तावद्दशसहस्राणि शिवलोके महीयते ॥ १०९ ॥
दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् ।
द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ॥ ११० ॥
इत्यादि ॥
विपिनौषधिपाकसिद्धमेतद्द्भुततैलाद्यपि दुर्निवारवीर्यम् ।
किमयं पुनरीश्वराङ्गजन्मा घनजाम्बूनदचन्द्रभानुजीर्णः ॥१११
रसगुणबलिजारणं विनाऽयं न खलु रुजां हरणक्षमो रसेन्द्रः ।
न जलदकलधौतपाकहीनः स्पृशति रसायनतामिति प्रतिज्ञा ॥
अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात् फलमप्युदारम् ।
क्षेत्रादनुप्तादपि सस्यजातं कृषीवलास्ते भिषजश्च मन्दाः ॥११३
घनरहितबीजजारणसंप्राप्तदलादिसिद्धिकृतकृत्याः ।
कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥ ११४ ॥
अभ्रकजारणमादौ गर्भद्रुतिजारणं च हेम्नोऽन्ते ।
यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥ ११५ ॥
गन्धकजारितसूतस्य फलमुक्तं शिवागमे।—