आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
१३४ आयुर्वेदग्रन्थमाला । [अध्यायः
मुण्डं तु वर्तुलं भूमौ पर्वतेषु च जायते ।
गजवह्व्यादि तीक्ष्णं स्यात् कान्तं चुम्बकसंभवम् ॥२००॥
अन्यच्च—
मुण्डात्कटाहपात्रादि जायते, तीक्ष्णलोहतः ।
खड्गादिशस्त्रभेदाः स्युः, कान्तलोहं तु दुर्लभम् ॥ २०१ ॥
मुण्डाच्छतगुणं तीक्ष्णं तीक्ष्णात्कान्तं शताधिकम् ।
तस्मान्मुण्डं परित्यज्य तीक्ष्णं वा कान्तमुत्तमम् ॥ २०२ ॥
'मारणाय' इति शेषः । अथ तीक्ष्णकान्तयोर्विशेषलक्षणानि—
कासीसामलकल्काक्ते लोहेऽङ्गं दृश्यते स्फुटम् ।
तीक्ष्णलोहं तदुद्दिष्टं मारणायोत्तमं विदुः ॥ २०३ ॥
अन्यच्च—
क्ष्माभृच्छिखराकाराण्यङ्गान्यम्लेन मर्दिते ।
लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते ॥ २०४ ॥
अस्य गुणाः—
लोहं साराह्वयं हन्याद्ग्रहणीमतिसारकम् ।
अर्धसर्वाङ्गजं वातं शूलं च परिणामजम् ॥
छर्दिं च पीनसं पित्तं श्वासमाशु व्यपोहति ॥ २०५ ॥
अथ कान्तलक्षणगुणाः—
यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते
हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां निम्बकल्कः ।
तप्तं दुग्धं भवति शिखराकारकं नैति भूमिं
कृष्णाङ्गः स्यात्सजलचणकः कान्तलोहं तदुक्तम् ॥२०६
कान्तायः कामलाशोफकुष्ठानि क्षयगुल्मकौ ।
शूलोदरार्शःप्लीहानमामवातं भगन्दरम् ॥ २०७ ॥
अम्लपित्तं यकृच्चापि शिरोरोगं हरेद्ध्रुवम् ।
१ 'लेपिते' ग. ।
११. ] आयुर्वेदप्रकाशः । १३५
बलं वीर्यं वपुःपुष्टिं कुरुतेऽग्निं विवर्धयेत् ।
सर्वान् गदान् विजयते कान्तलोहं न संशयः ॥ २०८ ॥
अथ सामान्यगुणाः—
लोहं शीतं सरं तिक्तं मधुरं तुवरं गुरु ।
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं, जयेत् ॥ २०९ ॥
कफं पित्तं गरं शूलं शोफार्शःप्लीहपाण्डुताः ।
मेदोमेहकृमीकुष्ठं तत्किट्टं तद्गुणं स्मृतम् ॥ २१० ॥
अथलोहदोषाः—
गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता ।
अश्मदोषः सदुर्गन्धो दोषाः सप्तायसः स्मृताः ॥ २११ ॥
अथाशुद्धगुणाः—
षण्ढत्वकुष्ठामयमृत्युदं भवेद्धृद्रोगशूलौ कुरुतेऽश्मरीं च ।
नानारुजानां च तथा प्रकोपं करोति हल्लासमशुद्धलोहम् २१२
अथासम्यङ्मारितस्य गुणाः—
जीवहारि मदकारि चायसं देहशूलकृदसंस्कृतं ध्रुवम् ।
पाटवं न तनुते शरीरके दारुणां हृदि रुजां च यच्छति २१३
अथ केचित्—
न रसेन विना लोहं न लोहं चाभ्रकं विना ।
एकत्वेन शरीरस्य बन्धो भवति देहिनः ॥ २१४ ॥
पारदेन विना लोहं यः करोति पुमानिह ।
उदरे तस्य किट्टानि जायन्ते नात्र संशयः ॥ २१५ ॥
वस्तुतस्तु प्राशस्त्याय रसयोगो रसाभ्रयोगश्च । अथानुपान-
मेतस्य—
त्रिफलामधुसंयुक्तं सर्वरोगेषु योजयेत् ।
पथ्याशिनां लोहभस्म यथोक्तगुणदं भवेत् ॥ २१६ ॥
१३६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
अस्य मात्राप्रमाणं प्रागुक्तम्। अथ लोहसेविनां वर्ज्यानि—
कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा।
मद्यमम्लं मसूरांश्च त्यजेल्लोहस्य सेवकः ॥ २१७ ॥
अथ लोहोपद्रवे—
मुनिरसपिष्टविडङ्गं मुनिरसलीढं चिरं स्थितं घर्मे।
द्रावयति लोहदोषान् वह्निर्नवनीतपिण्डमिव ॥ २१८ ॥
काले मलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्वारे।
अङ्गेषु नावसादो मनःप्रसादोऽस्य परिपाके ॥ २१९ ॥
अस्य लोहस्य ॥
कृमिरिपुसहितं लीढं सहितं स्वरसेन वङ्गसेनस्य।
क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम् ॥ २२० ॥
आरग्वधस्य मज्जाभी रेचनं किट्टशान्तये।
भवेद्यद्यतिसारश्च पीत्वा दुग्धं
११.] आयुर्वेदप्रकाशः । १३७
शस्त्रकृल्लोहकाराणां गृहे तद्बहुलं भवेत् ॥ २२५ ॥
तच्चूर्णं तु समानीय सुधौतं निर्मलं शुचि ।
युक्त्या संशोध्य विधिना मारणं तस्य कारयेत् ॥ २२६ ॥
युक्तिस्तु दृढशरावे वा लोहजशरावे वा तच्चूर्णं संस्थाप्य,
कोकिलैः शुल्कानीतैर्ध्मत्वा लोहकारादिभिर्ध्माययित्वा वा
भस्त्रावातेन, अग्निसमानं दृष्ट्वा, संदंशेन निष्कास्य, तन्मध्ये
तैलतक्रादि देयं; एवं सुकरं भवति । तैलतक्रादिषु चूर्णं
निक्षिप्तं चेत्पुनः पुनस्तस्मान्निष्कासने महत्प्रयास इति । एवं
यथाबुद्धिवैभवं शोधयेत् । पुनरन्योऽपि चूर्णप्रकारः—
संशुद्धं लोहजं पत्रं तप्तं तप्तं वराजले ।
गोजले वा मुहुः क्षिप्तं क्षिप्रं चूर्णत्वमाप्नुयात् ॥ २२७ ॥
पुनरन्योऽपि चूर्णप्रकारः—
स्थूलाभ्यः सिकताभ्योऽपि चुम्बकेन शनैर्मुहुः ।
लोहचूर्णं हि गृह्णन्ति सुसूक्ष्मं मारणे हितम् ॥ २२८ ॥
अथ विशेषशोधनम्—
तैलतक्रादिसंशुद्धं लोहं शोध्यं विशेषतः ।
प्रोक्तदोषविनाशाय तदिदानीमिहोच्यते ॥ २२९ ॥
त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् ।
तत्काथे पादशेषे तु लोहस्य पलपञ्चकम् ॥ २३० ॥
कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् ।
एवं प्रलीयते दोषो गिरिजो लोहसंभवः ॥ २३१ ॥
अथात्र कान्तलोहे विशेषः—
शशरक्तेन संलिप्तं किंवाऽऽर्कपयसाऽऽयसम् ।
दलं हुताशने ध्मातं सिक्तं त्रैफलवारिणि ॥
त्रिशः कान्तस्य संशुद्धिरित्येवं परमा भवेत् ॥ २३२ ॥
१ 'तत्सूक्ष्मं' ग. ।
१३८ आयुर्वेद्रीयग्रन्थमाला । [ अध्यायः
अन्यत्रापि—
तप्तं क्षाराम्लसंयुक्तं शशरक्तेन भावितम् ।
कान्तलोहं भवेच्छुद्धं सर्वदोषविवर्जितम् ॥ २३३ ॥
अत्रान्योऽपि विशेषः—
तत्तद्व्याध्युपयुक्तानामौषधानां जलेऽयसः ।
प्रक्षेपं प्राह तत्त्वज्ञः सिद्धो नागार्जुनस्ततः ॥ २३४ ॥
ततः सामान्यविशेषशोधनतः । अन्यच्च—
सर्वाभावे निषेक्तव्यं क्षीरतैलाज्यगोजले ।
शुद्धस्य शोधनं ह्येतद्गुणाधिक्याय संमतम् ॥ २३५ ॥
इति विशेषशोधनम् । अथ भस्मप्रकारः—
संशुद्धं लोहचूर्णं तु समानीय भिषग्वरः ।
अपक्वतिन्दुकफलरसैः संमर्दयेद्दिनम् ॥ २३६ ॥
त्रिफलाभृङ्गराजस्य कण्टकारीरसस्य च ।
पुटानि त्रीणि दत्तानि सत्यं वारितरं भवेत् ॥ २३७ ॥
तत्तद्रोगानुपानेन सर्वरोगहरं भवेत् ।
लाला अनूपरायेण उपदिष्टं न संशयः ॥ २३८ ॥
शुद्धस्य सूतराजस्य भागो भागद्वयं बलेः ।
द्वयोः समं सारचूर्णं मर्दयेत्कन्यकाम्बुना ॥ २३९ ॥
यामद्वयं तस्य गोलं संवेष्ट्यैरण्डजैर्दलैः ।
ततः सूत्रेण संबध्य स्थापयेत्ताम्रसंपुटे ॥ २४० ॥
संमुद्र्य वदनं तस्य मृदा संशोष्य तत्पुनः ।
त्रिदिनं धान्यराशिस्थं तत उद्धृत्य मर्दयेत् ॥ २४१ ॥
रजस्तद्वस्त्रगलितं नीरे तरति हंसवत् ।
सोमामृताभिदमिदं लोहभस्म प्रकीर्तितम् ॥ २४२ ॥
इति निरग्निकं सोमामृताभिदं लोहभस्म । अथ रसपद्धत्यां
सूर्यतापि लोहभस्म उक्तम्—
११. ] आयुर्वेदप्रकाशः । १३९
शाणोद्धान्तमयस्तु कान्तमथवा क्षित्त्वार्द्धलेलीतकं
दत्त्वाऽङ्घ्र्यंशरसं विमर्द्य सलिलैर्भृङ्गाद्रिकर्णीरसैः ।
पक्वं सूर्यपुटैश्चतुर्दशदिनैरेण्डपत्रावृतं
भस्म स्याद्गृहधूमधूसररुचि प्राग्धान्यराशिस्थितम् २४३
व्याख्या—संशुद्धं लोहं शाणोद्धान्तं शाणं शस्त्रोत्तेजकं
शस्त्रं तत्र घर्षणेन उद्धान्तं पतितमयः सारलोहं, अथवा
तेनैव प्रकरेण पतितं कान्तलोहं, तत्रार्धलेलीतकं गन्धकं
क्षित्त्वा, तत्र चतुर्थांशं शुद्धपारदं च दत्त्वा, सर्वं विमर्द्य
पूर्वं शुष्कमेव मर्दयित्वा, पश्चात्सलिलैः काञ्जिकादिभिः,
पश्चाद्भृङ्गरसेन तथा अद्रिकर्णी गिरिकर्णी तस्याः स्वरसै-
र्विमर्द्य, सूर्यपुटैः पक्वं चतुर्दशदिनैर्भावनाभिः, पश्चादे-
रण्डपत्रावृतं गोलकं कृत्वा धान्यराशिस्थं त्रिदिनं, गृहधूमधू-
सररुचि अलिन्दधूमतुल्यं भस्म स्यात् । अत्र सूर्यपुटानि प्रातः-
कालादारभ्य सन्ध्यापर्यन्तं शुष्कमर्दनेन संपादनीयानि,
भावना तु सन्ध्यायां यथाऽऽर्द्रभावं संपद्यते तथा कार्या । अत्र
भावनानियमो नास्ति, मर्दनस्यैव भस्मसंपादनत्वात् । इति
सूर्यतापि लोहभस्म । मतान्तरम्—
सत्यानुभूतो योगीन्द्रैः क्रमोऽन्यो लोहमारणे ।
कथ्यते रामराजेन कौतूहलधियाऽधुना ॥ २४४ ॥
यथा—
सूतकाद्विगुणं गन्धं दत्त्वा कुर्याच्च कज्जलीम् ।
द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ २४५ ॥
यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके ।
घर्मे धृत्वा रुब्रूकस्य पत्रैराच्छादयेद्बुधः ॥ २४६ ॥
यामद्वयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः ।
१ 'कौतूहलविधायिना' ग. ।
ी गिरिकर्णी, चाङ्गेरी अम्लपर्णी,"
Wait, look at "अद्रिकर्णी":
"वरा त्रिफला, अद्रिकर्णी गिरिकर्णी, चाङ्गेरी अम्लपर्णी,"
Let's read line :
"नीरवानीरो जलवेतसः, एषामन्यतमस्य रसैस्त्रिदिवसं पिष्टं"
Wait, punctuation after जलवेतसः is a comma: "नीरवानीरो जलवेतसः, एषामन्यतमस्य रसैस्त्रिदिवसं पिष्टं"
Let's read line :
"त्रिवारं भावितं, पश्चाद्दन्तिपुटैः पक्वं भस्म स्यात्त्रिंशत्संख्याकग-"
Let's read line :
"जपुटैरित्यर्थः । परैरतोऽप्यधिकैर्गजपुटैरुत्कृष्टतरं जलतरं भस्म"
Let's read line :
"स्यादित्यर्थः । अत्र वाशब्दः समुच्चये । तेन एतैरौषधैर्यथा"
Let's read line :
"त्रिंशत्पुटानि भवन्ति तथा कार्यम् । त्रिदिवसशब्दस्तु भाव-"
Let's read line :
"नात्रयवाचकः, न त्वैकैकदिनसाध्यभावनावाचकः । इत्यग्नि-"
Let'
११.] आयुर्वेदप्रकाशः । १४१
तत्पञ्चमांशं दरदं क्षिप्त्वा सर्वं विमर्दयेत् ।
कुमारीनीरतः श्लक्ष्णं पुटेद्गजपुटेन तु ॥ २५२ ॥
त्रिवारं त्रिफलाक्वाथैस्तत्संख्यैरपि तत्त्ववित् ।
निरुत्थं जायते लोहं त्रिधाऽप्यत्र न संशयः ॥ २५३ ॥
इत्यग्निपक्वं षट्पुटि लोहभस्म । मतान्तरम्—
निम्बूफलस्य पानीयैः सकासीसैः प्रपूरिते ।
कांस्यपात्रे क्षिपेत्खड्गखण्डांश्चण्डातपस्थितान् ॥ २५४ ॥
दिनैकेन स्फुन्त्येते दिनान्ते तांस्तु पेषयेत् ।
त्रिफलाक्वाथपिष्टं तच्चूर्णं गजपुटे पचेत् ॥ २५५ ॥
पौनःपुन्येन यावत्स्यात्तद्वारितरमुत्तमम् ।
ततः पारदगन्धाभ्यां तत्समाभ्यां हि मर्दितम् ॥
पूर्ववद्धान्यराशिस्थं तीक्ष्णं सर्वोत्तमं भवेत् ॥ २५६ ॥
इति लोहभस्म । मतान्तरम्—
लोहं पत्रमतीव तप्तमसकृ(१००)त्क्वाथे क्षिपेत्त्रैफले
चूर्णीभूतमिदं पुनस्त्रिफलजे क्वाथे पचेद्गोजले ।
मत्स्याक्षीत्रिफलारसेन पुटयेद्यावन्निरुत्थं भवे-
त्पश्चादाज्यमधुप्लुतं सुपुटितं सिद्धं भवेदायसम् ॥२५७॥
मत्स्याक्षी शालञ्ची । इति लोहभस्म । मतान्तरम्—
परिप्लुतं दाडिमपत्रवारा लौहं रजः स्वल्पकटोरिकायाम् ।
म्रियेत वस्त्रावृतमर्कभासा योग्यं पुटैः स्यात्त्रिफलादिकानाम् ॥
इति लोहभस्म । मतान्तरम्—
लोहचूर्णं पलं खल्वे सोरकस्य पलं तथा ।
अच्छगन्धपलं चापि सर्वमेकत्र मर्दयेत् ॥ २५९ ॥
कुमार्यद्भिर्दिनं कुर्याद्गोलकं रुबुपत्रकैः ।
संवेष्ट्य च मृदा लिप्त्वा पुटेद्गजपुटे भिषक् ॥ २६० ॥
१४२ आयुर्वेदीयग्रन्थमाला । [अध्यायः
स्वाङ्गशीतं समुद्धृत्य सिन्दूराभमयोरजः ।
मृतं वारितरं ग्राह्यं सर्वकार्यकरं परम् ॥ २६१ ॥
इत्येकपुटि लोहभस्म ।
सर्वमेव मृतं लोहं ध्मातव्यं मित्रपञ्चकैः ।
यद्येवं स्यान्निरुत्थं तु सेव्यं वारितरं हि तत् ॥ २६२ ॥
मधुघृतगुग्गुलुगुञ्जाटङ्कणमेतत्तु मित्रपञ्चकं नाम ।
मेलयति सप्तधातूनङ्गाराग्नौ प्रधमनेन ॥ २६३ ॥
मध्वाज्यं मृतलोहं च सरूप्यं संपुटे क्षिपेत् ।
रुद्धा ध्माते च संग्राह्यं रूप्यं वै पूर्वमानकम् ॥
तदा लोहं मृतं विद्यादन्यथा मारयेत्पुनः ॥ २६४ ॥
इति मृतामृतलोहपरीक्षा ।
गन्धकेनोत्थितं लोहं तुल्यं खल्वे विमर्दयेत् ।
दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥
इत्येवं सर्वलोहानां कर्त्तव्येयं निरुत्थितिः ॥ २६५ ॥
इत्यपक्वस्य निरुत्थीकरणम् । अथ मृतलोहस्यामृतीकरणम्—
द्विगुणे त्रिफलाक्वाथे तुल्ये पिष्ट्वाऽप्ययोरजः ।
विपचेन्मध्यपाकेन सर्वव्याधिजरापहम् ॥ २६६ ॥
इत्यमृतीकरणम् ।
जम्बीररससंयुक्ते दरदे तप्तमायसम् ।
बहुवारं विनिक्षिप्तं म्रियते नात्र संशयः ॥ २६७ ॥
अथ लोहद्रुतिः—
देवदाल्या रसैर्भाव्यं गन्धकं दिनसप्तकम् ।
तस्य प्रवापमात्रेण लोहास्तिष्ठन्ति सूतवत् ॥ २६८ ॥
सुरदालिभवं भस्म नरमूत्रेण गालितम् ।
त्रिसप्तवारं तत्क्षारावापात्कान्तद्रुतिर्भवेत् ॥ २६९ ॥
इति कान्तद्रुतिः ।
११.] आयुर्वेदप्रकाशः । १४३
अथ मण्डूरोत्पत्तिनामलक्षणगुणशोधनमारणानि ।
ध्मायमानमयो वह्नौ परित्यजति यन्मलम् ।
तत् किट्टसंज्ञां लभते तदनेकविधं मतम् ॥ २७० ॥
उक्तं च—
ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते ।
लोहसिंहानिका किट्टी सिंहानं च निगद्यते ॥
यस्य लोहस्य यत्प्रोक्तं तत्किट्टमपि तद्गुणम् ॥ २७१ ॥
लक्षणानि—
ईषच्छोणं गुरु स्निग्धं मुण्डकिट्टं जगुर्बुधाः ।
भिन्नाञ्जनप्रभं किट्टं विशेषाद्गुरु निर्व्रणम् ॥ २७२ ॥
निःकोटरं च विज्ञेयं तीक्ष्णकिट्टं मनीषिभिः ।
पिङ्गं रूक्षं गुरुतमं मन्ददीर्घमकोटरम् ॥
छिन्नं तु रजतच्छायं स्यात्तत्किट्टं तु कान्तजम् ॥ २७३ ॥
अन्यच्च—
अकोटरं गुरु स्निग्धं दृढं शतसमाधिकम् ।
चिरोज्झितजनस्थानसंस्थितं किट्टमाहरेत् ॥ २७४ ॥
शतोत्थमुत्तमं किट्टं मध्यं चाशीतिवार्षिकम् ।
अधमं षष्टिवर्षीयं ततो हीनं विषोपमम् ॥ २७५ ॥
अथ किट्टमारणम्—
अक्षाङ्गारैर्धमेत्किट्टमक्षपात्रस्थगोजले ।
निर्वापयेदष्टवारं ततः सूक्ष्मं विचूर्णयेत् ॥
तच्चूर्णं मधुना लीढं पाण्डुं हन्ति सकामलम् ॥ २७६ ॥
अथ किट्टगुणाः—
किट्टं कषायं शिशिरं पाण्डुश्वयथुशोफजित् ।
हलीमकं कामलां च हरते कुम्भकामलाम् ॥ २७७ ॥
१४४ आयुर्वेदौयग्रन्थमाला । [अध्यायः
किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ।
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते बलम् ॥ २७८ ॥
सुवर्णमथवा रौप्यं मृतं यत्र न विद्यते ।
कान्तलोहेन कर्माणि तत्र कुर्याद्भिषग्वरः ॥ २७९ ॥
स्वर्णाभावे मतं ताप्यं ततोऽपि स्वर्णगैरिकम् ।
रूप्यादीनामलाभे तु प्रक्षिपेद्विमलादिकम् ॥ २८० ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे एकादशोऽध्यायः ॥ ११ ॥
अथ द्वादशोऽध्यायः ।
अथोपधातुनिरूपणम् ।
अथ तेषु स्वर्णमाक्षिकम्—'सोनामखी' इति लोके ।
स्वर्णमाक्षिकमाख्यातं तापीजं मधुमाक्षिकम् ।
ताप्यं माक्षिकधातुश्च माक्षिकं चैव तन्मतम् ॥ १ ॥
किंचित्सुवर्णसाहित्यात्स्वर्णमाक्षिकमीरितम् ।
उपधातुः सुवर्णस्य किंचित्स्वर्णगुणैः समम् ॥ २ ॥
न केवलं स्वर्णगुणा वर्तन्ते स्वर्णमाक्षिके ।
द्रव्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणा यतः ॥ ३ ॥
किन्तु तस्यानुकल्पत्वात् किञ्चिदूना गुणास्ततः ।
तथाऽपि काञ्चनाभावे दीयते स्वर्णमाक्षिकम् ॥ ४ ॥
कान्यकुब्जाख्यविषये जायते स्वर्णमाक्षिकम् ।
तपतीतीरतोऽपि स्यादित्येवं तद्द्वियोनिकम् ॥ ५ ॥
कान्यकुब्जोद्भवं ताप्यं विज्ञेयं स्वर्णवर्णकम् ।
तपतीतीरगं तत्तु पञ्चवर्णमुदाहृतम् ॥ ६ ॥
लक्षणम्—
स्वर्णाभं स्वर्णमाक्षीकं निष्कोणं गुरुतायुतम् ।
कालिमां विकिरेत्तत्तु करे घृष्टं न संशयः ॥ ७ ॥
१२.] आयुर्वेदप्रकाशः। १४५
अथ मारणयोग्यस्य लक्षणम्—
स्वर्णवर्णं गुरु स्निग्धमीषन्नीलच्छवि स्फुटम् ।
कषे कनकवद्घृष्टं तद्वरं हेममाक्षिकम् ॥ ८ ॥
गुणाः—
सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम् ।
चक्षुष्यं वस्तिहृत्कण्ठपाण्डुमेहविषोदरम् ॥ ९ ॥
अर्शः शोफं विषं कण्डूं त्रिदोषमपि नाशयेत् ।
अनुपानं वराव्योषं वेल्लं साज्यं हि माक्षिके ॥ १० ॥
अथाशुद्धस्यासम्यग्मारितस्य गुणाः—
मन्दानलत्वं बलहानिमुग्रां विष्टम्भितां नेत्रगदान् सकुष्ठान् ।
मालां विधत्तेऽपि च गण्डपूर्वां शुध्यादिहीनं खलु माक्षिकं तु ॥
अथोपधातूनां भिन्नानि शोधनानि धातुशोधनेभ्यो विलक्ष-
णानि सन्ति । तत्र स्वर्णमाक्षिकशोधनम्—
माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च ।
मातुलुङ्गद्रवैर्वाऽथ जम्बीरस्य द्रवैः पचेत् ॥ १२ ॥
चालयेल्लोहजे पात्रे यावत्पात्रं सुलोहितम् ।
भवेत्ततस्तु संशुद्धं स्वर्णमाक्षिकमत्र तु ॥ १३ ॥
माक्षिकस्य माक्षिकचूर्णस्य । अथ मारणम्—
माक्षिकस्य चतुर्थांशं दत्त्वा गन्धं विमर्दयेत् ।
उरुबूकस्य तैलेन ततः कार्याऽस्य चक्रिका ॥ १४ ॥
शरावसंपुटे धृत्वा पुटेद्गजपुटेन च ।
धान्यस्य तुषमूर्ध्वाधो दत्त्वा शीतं समुद्धरेत् ।
सिन्दूराभं भवेद्भस्म माक्षिकस्य न संशयः ॥ १५ ॥
इति स्वर्णमाक्षिकमारणम् । मतान्तरम्—
कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत् ।
अजामूत्रेण वा नूनं म्रियते स्वर्णमाक्षिकम् ॥ १६ ॥
१३
१४६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
इति स्वर्णमाक्षिकमारणम् । अथ सत्त्वाकृष्टिः—
एरण्डोत्थेन तैलेन गुञ्जा क्षौद्रं च टङ्कणम् ।
मर्दितं तस्य वापेन सत्त्वं माक्षिकजं भवेत् ॥ १७ ॥
इति माक्षिकसत्त्वम् । अथ तारमाक्षिकम्—
तारमाक्षिकमन्यत्तु तद्भवेद्रजतोपमम् ।
किंचिद्रजतसाहित्यात्तारमाक्षिकमीरितम् ॥ १८ ॥
अनुकल्पतया तस्य ततो हीनगुणाः स्मृताः ।
न केवलं रौप्यगुणा वर्तन्ते तारमाक्षिके ॥ १९ ॥
द्रव्यान्तरस्य संसर्गात् सन्त्यन्येऽपि गुणा यतः ॥ २० ॥
अथैतत्स्वरूपलक्षणम्—
कांस्यवच्चाकचिक्याढ्यं कषे घृष्टे तु रूप्यवत् ।
गुरु स्निग्धं सितं यत्तच्छ्रेष्ठं स्यात्तारमाक्षिकम् ॥ २१ ॥
स्वर्णमाक्षिकवद्दोषा विज्ञेयास्तारमाक्षिके ।
अतस्तद्दोषशान्त्यर्थं शोधनं तस्य कथ्यते ॥ २२ ॥
यथा—
कर्कोटीमेषशृङ्ग्युत्थैर्द्रवैर्जम्बीरजैर्दिनम् ।
भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥ २३ ॥
विमला तारमाक्षिकम् । कर्कोटी खखसा, मेषशृङ्गी मेढासिंगी ।
तन्मारणम्—
स्वर्णमाक्षिकवज्ज्ञेयं तारमाक्षिकमारणम् ।
विमलाया गुणाः किंचिन्न्यूनाः कनकमाक्षिकात् ॥ २४ ॥
इति तारमाक्षिकशोधनमारणम् ॥
अथ विमला ।
माक्षिकस्यैव भेदान्तरं, प्रायशस्तत्रैव तपतीतीरसंनिधावु-
त्पद्यते । तत्स्वरूपलक्षणशोधनमारणानि रसपद्धत्यां यथा—
१२.] । आयुर्वेदप्रकाशः । १४७
तापीजं द्विरुदाहरन्ति विमलामाक्षीकभेदादिह
त्रेधाऽऽद्या तु सुवर्णकांस्यरजतच्छायानुकारादमूः ।
तिस्रोऽप्यस्रयुताश्चतुस्त्रिफलकावृत्ताः स्वनामश्रियो
मध्योक्ता सफला तु शुध्यति दिनं वासाजशृङ्गीरसे २५
स्विन्ना जम्भीरसेऽपि तालवलिना वस्वंशकेनाम्भसा
जम्भस्यैव परिप्लुता दशपुटैर्जीवेन्न योगानुगाः ॥ २६ ॥
व्याख्या—तापीजं माक्षिकं द्विविधमुक्तं, विमलामाक्षि-
कभेदात् । इह द्विविधभेदमध्ये, आद्या विमला, सा तु त्रेधा
त्रिविधा । विमलाशब्दस्तु त्रिलिङ्गः । एका विमला सुवर्ण-
च्छायानुकारात्; द्वितीया कांस्यच्छायानुकारात्, तस्सात्कां-
स्यविमलाऽप्यस्तीति सूचितं; तृतीया रजतच्छायानुकारात्;
तत्तन्नामपूर्विका विमला भवन्ति । यथा—स्वर्णविमला, कांस्य-
विमला, रजतविमला चेति । तत्र स्वर्णविमला स्वर्णमाक्षिक-
भेदः, कांस्यविमला कांस्यमाक्षिकभेदः, एतद्वचनसामर्थ्यादेव
कांस्यस्यापि माक्षिकोऽस्तीति गम्यते, रजतविमला रजतमाक्षि-
कभेदः । अथैषां माक्षिकेभ्यो भेदकानि लक्षणान्याह—
अमूस्तिस्रोऽपि; अस्रं धारा, फलकं चिपिटं, वृत्तत्वं वर्तुलत्वं;
स्वनामश्रिय इत्यनेन स्वर्णादिप्रभा उक्ताः, मध्या कांस्यवि-
मला सफला उक्ता सचिपिटोक्ता । त्रयाणामपि शोधनमार-
णमाह—शुध्यन्तीति । दिनं चतुर्यामम् । वासा अटरूषः,
अजशृङ्गी मेषशृङ्गी, अनयो रसे चूर्णीकृत्य वस्त्रबद्धं कृत्वा
स्विन्नास्तथा निम्बुरसे स्विन्नाः शुध्यन्ति। पश्चात्तालकः शुद्धः,
बलिर्गन्धकः सोऽपि शुद्धः, तेन समुचितेन अष्टमांशेन जम्भा-
म्भसा त्रिवारं भाविता दशपुटैर्न जीवेत् म्रियते । पुटे च
प्रत्येकं भावना देया । तद्रस योगानुगं भवति यत्र रसे
उक्तं तत्र प्रयोज्यम् । उक्तं च—
१४८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
त्रेधा स्याद्विमलः स्वर्णपूर्वको रूप्यपूर्वकः ।
कांस्यपूर्वश्च विख्यातस्तत्तत्कान्त्या स लक्ष्यते ॥ २७ ॥
विमलस्तपतीतीरवर्तिन्यद्रिविभागके ।
उत्पद्यते परैः कांस्यमाक्षिकोऽयमिति स्मृतः ॥ २८ ॥
आद्यो हेमक्रियासक्तश्चरमः श्वेतकर्मसु ।
मध्यो रजतनामा यः स प्रोक्तो वै रसादिषु ॥ २९ ॥
अथ लक्षणगुणाः—
वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।
मरुत्पित्तहरो वृष्यो विमलश्च रसायनः ॥ ३० ॥
अनुपानमपि रसपद्धत्याम्—
वेल्लव्योषवराज्येन विमलः सेवितो यदि ।
भगन्दरादिकान् रोगान्नृणां जयति दुस्तर rank... दुस्तरान् ॥ ३१ ॥
अथ रसपद्धत्याम्—
माक्षीको द्विरहादिमः कनकरुग्दुर्वर्णवर्णोऽपरः
कांस्यश्रीकमुशन्ति
१२.] आयुर्वेदप्रकाशः । १४९
त्यर्थः । विमलाभ्यो भेदकं लक्षणमाह-निष्कोणा धारार-
हिताः, गुरवो भारयुक्ताः, करे हस्ते घृष्टाः कालिकां
किरन्ति । शुद्धिमाह-खिन्ना इति । रुबुतैलमेरण्डतैलं, लुङ्गं
मातुलुङ्गं तत्सलिलैः, कर्कोटिका खेखसा, तस्याः कन्दं मूलं,
तयो रम्बुना जलेन पक्वाः शुध्यन्ति । स्वेदनं तु चूर्णीकृत्य
दोलायन्त्रेण । पश्चाल्लुङ्गाम्बु मातुलुङ्गरसः, गन्धकश्च, आभ्यां
भाविताः, कूर्मपुटैस्त्रिभिर्दग्धा भस्मानि स्युः । ते च व्युत्क्र-
मेण कांस्यतारसुवर्णसंज्ञकाः जघन्यमध्यमोत्तमा उदिताः ।
वृष्या शुक्रप्रदाः । पाण्डुपटीयसः पाण्डुघ्नाः । तथा बलकराः
योगे उपयुक्ताः सन्तो बलकरा भवन्ति । इति माक्षीकविम-
लानिर्णयः ॥
अथ तुत्थोत्पत्तिनामलक्षणशोधनगुणाः ।
गरुडेनामृतं पीत्वा पश्चात्पीतं विषं पुरा ।
वान्तं मरकताद्रौ तु तद्धनं शिखिदुत्थकम् ॥ ३४ ॥
तुत्थं वितुन्नकं चापि शिखिग्रीवं मयूरकम् ।
तुत्थं ताम्रोपधातुः स्यात्किञ्चित्ताम्रेण तद्भवेत् ॥ ३५ ॥
किंचित्ताम्रगुणं तत्स्याद्वक्ष्यमाणगुणं च तत् ।
तुत्थस्यैव भवेद्भेदः खर्परं तद्गुणं च तत् ॥ ३६ ॥
शिखिकण्ठसदृकछायं भाराढ्यं तुत्थकं च यत् ।
गुणवत्तत्परिशेयमन्यद्धीनगुणं मतम् ॥ ३७ ॥
गुणाः-
तुत्थं तु कटुकं क्षारं कषायं वामकं लघु ।
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत् ॥ ३८ ॥
विषाश्मंकुष्ठकण्डूघ्नं खर्परं चापि तद्गुणम् ।
वान्तिं भ्रान्तिमशुद्धं तत् कुरुते, शोधितं शुभम् ॥ ३९ ॥
१ 'विषापस्मारकण्डूघ्नं' ग. ।
[ १५० आयुर्वेदीयग्रन्थमाला । [ अध्यायः
शोधनम्—
विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः
दशांशं टङ्कणं दत्त्वा पचेल्लघुपुटे तथा ॥
पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ ४० ॥
इति तुत्थशुद्धिः । प्रकारान्तरम्—
ओतोर्विशा समं तुत्थं सक्षौद्रं टङ्कणाङ्घ्रियुक् ।
त्रिधैव पुटितं शुद्धं वान्तिभ्रान्तिविवर्जितम् ॥ ४१ ॥
प्रकारान्तरम्—
अम्लवर्गेण लुलितं स्नेहसिक्तं हि तुत्थकम् ।
दोलायां वाजिगोमूत्रे दिनं पक्वं विशुध्यति ॥ ४२ ॥
इति तुत्थशुद्धिः । क्वचिन्मारणमप्युक्तं तुत्थकस्य—
गन्धाश्मटङ्कणयुतं लकुचद्रावमर्दितम् ।
अन्धमूषागतं द्वित्रिकुकुटैर्मृतिमाप्नुयात् ॥ ४३ ॥
अथ तुत्थसत्त्वाकृष्टिः—
तुत्थकं टङ्कणयुतं निम्बूद्रवविमर्दितम् ।
अन्धमूषागतं ध्मातं सत्त्वं मुञ्चति ताम्रकम् ॥ ४४ ॥
अथात्र मुद्रिकोपयुक्तत्वेन भूनागस्वरूपं सत्त्वाकृष्टिश्च प्रोच्यते
भूनागः क्षितिनागश्च भुजङ्गो रक्तजन्तुकः ।
क्षितिजः क्षितिजन्तुश्च भूमिजो रक्ततुण्डकः ॥ ४५ ॥
गुणाः—
भूनागो वज्रमारः स्यान्नानाविज्ञानकारकः ।
रसस्य जारणे प्रोक्तं तत्सत्त्वं तु रसायनम् ॥ ४६ ॥
वर्षासु वृष्टिसंक्लिन्नभूगर्भे संभवन्ति हि ।
जन्तवः कृमिरूपा ये ते भूनागा इति स्मृताः ॥ ४७ ॥
चतुर्विधास्तु भूनागाः स्वर्णादिखनिसंभवाः ।
स्वर्णभूमिभवाः पीता रूप्यभूमिभवाः सिताः ॥ ४८ ॥
१२.] । आयुर्वेदप्रकाशः । १५१
ताम्रभूमिभवास्ताम्राः कृष्णा लोहमयीभवाः ।
रसेन्द्रप्राणरूपास्ते भूनागाः सिद्धसंमताः ॥ ४९ ॥
स्वर्णादिभूमिसंभूता दुर्लभास्ते प्रकीर्तिताः ।
ताम्रभूमिभवा प्रायः सुलभा गुणवत्तराः ॥ ५० ॥
उक्तं च—
ताम्रभूभवभूनागान्नि शापिष्टान् समेन तान् ।
गुडगुग्गुलुलाक्षोर्णामत्स्यपिण्याकटङ्कणैः ॥ ५१ ॥
दृढमेतैश्च संयोज्य मर्दयित्वा धमेत्सुखम् ।
मुञ्चन्ति ताम्रवत्सत्त्वं ते, पक्षा अपि बर्हिणाम् ॥ ५२ ॥
ते भूनागाः ॥
भूनागसत्त्वं शिशिरं सर्वकुष्ठव्रणप्रणुत् ।
तद्युक्तजलपानेन स्थावरं चापि जङ्गमम् ॥ ५३ ॥
विषं नश्यति, तत्पात्रगतः सूतोऽग्नितो दृढम् ।
एवं मयूरपक्षोत्थसत्त्वस्यापि गुणा मताः ॥ ५४ ॥
दृढं बध्यते इत्यर्थः । इति भूनागसत्त्वमयूरपक्षसत्त्वगुणाः ॥
प्रकारान्तरेण तुत्थसत्त्वम्—
तुत्थस्य टङ्कणं पादं चूर्णयेन्मधुसर्पिषा ।
तुत्थेन मिश्रितं ध्मातं कोष्ठीयन्त्रे दृढाग्निना ।
ध्मापितं द्रवते सत्त्वं कीरतुण्डसमप्रभम् ॥ ५५ ॥
इति तुत्थसत्त्वम् । रसपद्धत्यां तुत्थसत्त्वभूनागसत्त्वयोर्मि-
लितयोर्मुद्रिकायाः फलमुक्तम्—
घस्रं पूतिकरञ्जतैलनिहितं पादांशसौभाग्यकं
ध्मातं तुत्थरजोऽथ पात्रपिहितं दीप्तैरलातचयैः ।
यद्वा मानुषनीलकेशनिहितं मुञ्चेत्क्षणात्तुत्थकं
ताम्रं शोणितविन्दुवन्धुरमदो भूनागसत्त्वं तथा ॥५६॥
१ 'सामिकरञ्ज' ख. ।
एताभ्यां रविवासरे रचितया संप्लावितं मुद्रया
पीतं वारि विषद्वयग्रहहरं सद्यः प्रसूतिप्रदम् ।
तद्वत्तत्परिमृष्टसप्ततिलजस्नेहोऽमुना मन्त्रितो
मन्त्रेणाशु निहन्ति शूलमतुलं दृग्दोषभूतग्रहम् ॥ ५७ ॥
सद्यः स्त्रीप्रसवप्रदो निगदितः सद्यो व्रणारोपणो
लिप्तो लोचनयोर्हितो विनिहितः प्राग्भालुकिप्रोदितः ॥
व्याख्या—घस्रमित्यादि । दुर्गन्धिकरञ्जतैले दिनं निहितं
पश्चात्पादांशटङ्कणयुतं पश्चात्तुत्थरजो मर्दितमन्धमूषायां नि-
हितं दीप्तकाष्ठत्रयैर्ध्मातं सत्त्वं मुञ्चति । प्रकारान्तरमाह—यद्वा
मानुषकेशैरेकीकृत्य ध्मातं क्षणात्ताम्रं शोणितबिन्दुबन्धुरं सत्त्वं
मुञ्चेत् । अथैवमेव भूनागसत्त्वं ग्राह्यमित्याह—अदो भूनागेति
एवमेव भूनाग
१२.] आयुर्वेदप्रकाशः । १५३
श्लिष्टमृत्तिकां वा रजनीतोयेन प्रक्षाल्य, क्षुधितं कुक्कुटं
मयूरं वा क्रमेण चारयित्वा, तद्विष्ठां कुडवमात्रां गृहीत्वा,
क्षाराम्लैः सह पेषयित्वा, विशोष्य, खर्परे दत्त्वा, भर्जनं
कुर्यात् । तां मषीं द्रावणवर्गेणैकीकृत्य, मूषामध्ये निवेश्य,
घटिकाद्वयं धमेत् । तस्मिन् शीतीभूते खोटकमाहृत्य प्रक्षाल-
यित्वा रवकान् संगृह्य टङ्कणं दत्त्वा सुवर्णवद्धमेत् । तस्यैकीभू-
तस्य भूनागताम्रस्य मयूरतुत्थताम्रस्य च मिश्रणेन मुद्रिका कार्या,
सा प्रोक्तगुणा भवति । सुवर्णेन युक्ताऽपि वा मुद्रिका कार्या,
साऽप्यचिन्त्यसामर्थ्या भवति । अथ तदुत्पत्तिमृत्तिकादिकं तु
भृङ्गनिर्गुण्डीद्रवैर्द्रावणवर्गेण चैकीकृत्य मर्दयेत्, पश्चाद्दृढ-
मूषायां वटकीकृतं प्रक्षिप्य घटीद्वयं धमेत् । तत्पक्वं विचूर्ण्य
रवकान् भारवत्तरानणून् द्वादशांशताम्रयुक्तान् कृत्वा धामयित्वा
रवकान् कुर्यात् । तेन वज्रादिद्रावणं कुर्यात् । इदं वारद्वयं त्रयं
वज्रे दत्तं द्रुतं भवति । इदं तु वज्रस्य पारदस्य (?) द्रावणार्थे
परमतेजो भवति । गुणास्तु प्रागुक्ताः । इति भूनागसत्त्वनि-
रूपणम् ॥
विशुद्धं तुत्थकं योज्यमञ्जनादौ भिषग्वरैः ।
अथ कांस्यपित्तलयोरुत्पत्तिनामलक्षणगुण-
शोधनमारणानि ।
अष्टभागेन ताम्रेण द्विभागं कुटिलं युतम् ।
एकत्र द्रावितं तत्स्यात्कांस्यं सौराष्ट्रजं शुभम् ॥ ५९ ॥
ताम्रं त्रपुजमाख्यातं कांस्यं घोषं च कंसकम् ।
उपधातुर्भवेत्कांस्यं द्वयोस्तरणिरङ्गयोः ॥ ६० ॥
कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशा बुधैः ।
संयोगजप्रभावेन तस्यान्येऽपि गुणाः स्मृताः ॥ ६१ ॥