आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 162, कुल 232 में से
संदर्भ में पढ़ें११.] आयुर्वेदप्रकाशः । १४३
अथ मण्डूरोत्पत्तिनामलक्षणगुणशोधनमारणानि ।
ध्मायमानमयो वह्नौ परित्यजति यन्मलम् ।
तत् किट्टसंज्ञां लभते तदनेकविधं मतम् ॥ २७० ॥
उक्तं च—
ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते ।
लोहसिंहानिका किट्टी सिंहानं च निगद्यते ॥
यस्य लोहस्य यत्प्रोक्तं तत्किट्टमपि तद्गुणम् ॥ २७१ ॥
लक्षणानि—
ईषच्छोणं गुरु स्निग्धं मुण्डकिट्टं जगुर्बुधाः ।
भिन्नाञ्जनप्रभं किट्टं विशेषाद्गुरु निर्व्रणम् ॥ २७२ ॥
निःकोटरं च विज्ञेयं तीक्ष्णकिट्टं मनीषिभिः ।
पिङ्गं रूक्षं गुरुतमं मन्ददीर्घमकोटरम् ॥
छिन्नं तु रजतच्छायं स्यात्तत्किट्टं तु कान्तजम् ॥ २७३ ॥
अन्यच्च—
अकोटरं गुरु स्निग्धं दृढं शतसमाधिकम् ।
चिरोज्झितजनस्थानसंस्थितं किट्टमाहरेत् ॥ २७४ ॥
शतोत्थमुत्तमं किट्टं मध्यं चाशीतिवार्षिकम् ।
अधमं षष्टिवर्षीयं ततो हीनं विषोपमम् ॥ २७५ ॥
अथ किट्टमारणम्—
अक्षाङ्गारैर्धमेत्किट्टमक्षपात्रस्थगोजले ।
निर्वापयेदष्टवारं ततः सूक्ष्मं विचूर्णयेत् ॥
तच्चूर्णं मधुना लीढं पाण्डुं हन्ति सकामलम् ॥ २७६ ॥
अथ किट्टगुणाः—
किट्टं कषायं शिशिरं पाण्डुश्वयथुशोफजित् ।
हलीमकं कामलां च हरते कुम्भकामलाम् ॥ २७७ ॥