सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

अथ पञ्चमः पटलः ॥
भिक्षणे निमित्तमाचार्यो विवाहो यज्ञो माता-
पित्रोर्बुभूर्षाऽर्हतश्च नियमविलोेपः ॥१॥
भिक्षणं याचनम् । तत्राऽऽचार्यादयो निमित्तम् । बुभूर्षा भर्तुमिच्छा ।
अर्हतो विद्यादिमतोऽग्निहोत्रादिनियमे योग्यस्याऽर्थस्याऽभावेन लोपः ॥ १ ॥
तत्र गुणान् समीक्ष्य यथाशक्ति देयम् ॥ २ ॥
तत्रैवंभूते भिक्षणे याचतः श्रुतवृत्तादिकान् गुणान् समीक्ष्य शक्त्यनुरू-
पमवश्यं देयम् । अदाने (१)प्रत्यवेयात् । गौतमस्तु निमित्तान्तरमप्याह-
(२)'गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनध्वंसंयोगवैश्वजितेषु
द्रव्यसंविभागो बहिर्वेदि । भिक्षमाणेषु कृतान्नमितरेष्वि'ति । (३)वैश्व
जितो विश्वजिद्यागस्य कर्ता सर्वस्वदक्षिणः ॥ २ ॥
(४)इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् ॥ ३ ॥
इन्द्रियद्वारा आत्मनः प्रीतिरिन्द्रियप्रीतिः । तामर्थयमानो यो भिक्षते
स्रक्चन्दनादि तन्मूल्यं वा । तद्भिक्षणं नियमेन दानस्य निमित्तं न
भवति ॥ ३ ॥
न तदाद्रियेत ॥ ४ ॥
तस्मान् न तदाद्रियेत । अदानेऽपि न प्रत्यवायः। विवाहोऽपि द्वितीयो
न निमित्तं सत्यां प्रथमायां धर्मप्रजासम्पन्नायाम् । तदर्थमिदं वचनम् ।
अन्यत्र प्राप्त्यभावात् ॥
स्वकर्म ब्राह्मणस्याऽध्ययनमध्यापनं यज्ञो याजनं
दानं प्रतिग्रहणं दायाद्यं सिलोञ्छः ॥ ५ ॥
'सर्ववर्णानां स्वधर्मानुष्ठान ( २.२.२ ) इत्युक्तम् । तेऽमी स्वधर्मा
१. प्रत्यवायात् इति. क. घ. पु २. गौ. ५. २१, २२
३. विश्वजिताऽतिरात्रेण सर्वपृष्ठेन सर्वस्वदक्षिणेन यजेत' इत्यनेन विहितेन या-
गेनेष्ट्वा तत्र दत्तसर्वस्वदक्षिण इत्यर्थः ।
४. इदमुत्तरं च सूत्रमेकीकृतं च. पु. । इन्द्रियमनिमित्तम् ॥ ४ ॥ तस्मान्न तदाद्रियेत
॥ ५ ॥ इति तच्छब्दघटितं भिन्नसूत्रतया च पठित क० पुस्तके ।

ब्राह्मणादिवृत्तिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २१५
उच्यन्ते-पुत्राय दीयत इति दायः । तमादत्त इति दायादः । तस्य भावो
दायाद्यम्, दायस्वीकारः । क्षेत्रादिषु पतितानि मञ्जरीभूतानि ततश्च्यु
तानि वा धान्यानि सिलशब्दस्यार्थः । तेषामुञ्छनमंगुलीभिर्नखैर्वाऽऽ-
दानं सिलोञ्छः । एतान्यध्ययनादीन्यष्टौ ब्राह्मणस्य स्वकर्म । तेष्वध्ययनय-
ज्ञदानानि द्विजातिसामान्येन कर्तव्यतया नियम्यन्ते । इतराण्यार्थितया
द्रव्यार्जने प्रवृत्तस्योपायान्तरनिवृत्त्यर्थान्युपदिश्यन्ते-अध्यापनादिभि-
रेव द्रव्यमार्जयेन्न चौर्यादिभिरिति(१) ॥ ५ ॥
अन्यच्चाऽपरिगृहीतम् ॥ ६ ॥
यच्चाऽन्यत् केनाप्यपरिगृहीतमारण्यमूलफलादि तेनापि । जीवेदिति
प्रकरणात् गम्यते । एतेन निधिर्व्याख्यातः ॥ ६ ॥
एतान्येव क्षत्रियस्याऽध्यापनयाजनप्रतिग्रहणानि
परिहाप्य दण्डयुद्धाधिकानि ॥ ७ ॥
एतान्येव क्षत्रियस्यापि स्वकर्म । अध्यापनादीनि त्रीणि वर्जयि-
त्वा । दण्डलब्धं युद्धलब्धं चाऽधिकम् ॥ ७ ॥
क्षत्रियवद्वैश्यस्य दण्डयुद्धवर्जं कृषिगोरक्ष्य-
वणिज्याऽधिकम् ॥ ८ ॥
गोरक्ष्यं गवां रक्षणम् । भावे ष्यञ्प्रत्ययः । वणिजो भावो वणिज्या क्र-
यविक्रयव्यवहारः, कुसीदं च । (१)'दूतवणिग्भ्यां चे'ति ष्यञ्प्रत्ययः ॥ ८ ॥
नाऽननूचानमृत्विजं वृणीते न पणमानम् ॥ ९ ॥
साङ्गस्य वेदस्याऽध्येता प्रवक्ता चाऽनूचानः । अतादृशमृत्विजं न वृणीते
नाऽप्येतावद्देयमिति परिभाषमाणम् ॥ ९ ॥
अयाज्योऽनधीयानः ॥ १० ॥
अनधीतवेदं न याजयेत् तदानीमपेक्षितं मन्त्रं यथाशक्ति वाचयन्१०॥
क्षत्रियस्य युद्धं स्वकर्मेत्युक्तम् । तत्कथं कर्तव्यमित्यत आह-
युद्धे तद्योगा यथोपायमुपदिशन्ति तथा प्रतिपत्तव्यम्११
युद्धविषये तथा प्रतिपत्तव्यं यथा तद्योगा उपायमुपदिशन्ति तस्मिन्युद्ध-
१. एतदादिसूत्रचतुष्टयोक्ता विषया मानवेषु (१. ८७-९१) श्लोकेषु द्रष्टव्याः ।
२. कात्या. वा. ४३४.

२१६ आपस्तम्बधर्मसूत्रे [ (प.५)क. १०.
कर्मणि युद्धशास्त्रे वा येषामभियोगः ते तद्योगाः ॥ ११ ॥
न्यस्तायुधप्रकीर्णकेशप्राञ्जलिपराङावृत्ता-
नामार्या वधं परिचक्षते ॥ १२ ॥
न्यस्तायुधः त्यक्तायुधः । प्रकीर्णकेशः केशानपि नियन्तुमक्षमः ।
प्राञ्जलिः कृताञ्जलिः । पराङावृत्तः पराङ्मुखः । सर्वे एते भीताः । ए-
तेषां युद्धे वधमार्यास्सन्तो गर्हन्ते । परिगणनादन्येषां वधे न दोषः ।
तथा च गौतमः-(१)'न दोषो हिंसाया माहवे' इति । न्यस्तायुधः प्रकी-
र्णकेशः इति विसर्जनीयं केचित्पठन्ति । सोऽपपाठः । पराङावृत्त इति
ङकारश्छान्दसः ॥ १२ ॥
शास्त्रैरधिगतानामिन्द्रियदौर्बल्याद्विप्रतिपन्नानां शा-
स्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् ॥ १३ ॥
यथाशास्त्रं गर्भाधानादिभिः संस्कारैः संस्कृताः शास्त्रैरधिगतास्तेषा-
मिन्द्रियदौर्बल्यात् अजितेन्द्रियतया विप्रतिपन्नानां स्वकर्मतश्च्युतानां निषि-
द्धेषु च प्रवृत्तानाम् । शास्ता शासिता आचार्यादिः । निर्वेषं प्रायश्चित्त-
मुपदिशेत् । यथाकर्म कर्मानुरूपम् । यथोक्तं धर्मशास्त्रेषु ॥ १३ ॥
तस्य चेच्छास्त्रमतिप्रवर्तेरन् राजनं गमयेत् ॥ १४ ॥
तस्य चेच्छासितुः शास्त्रं शासन अतिप्रवर्तेरन् न तत्र तिष्ठेयुः राजानं गम-
येत्—एवमसौ करोतीति ॥ १४ ॥
राजा पुरोहितं धर्मार्थकुशलम् ॥ १५ ॥
स राजा धर्मशास्त्रेष्वर्थशास्त्रेषु कुशलं च पुरोहितं गमयेत्-विनीय-
तामसाविति ॥ १५ ॥
स ब्राह्मणान्नियुञ्ज्यात् ॥ १६ ॥
स पुरोहितः ब्राह्मणांश्चेदतिक्रमणकारिणः प्रापिताः तान्नियुञ्ज्यात् अ-
नुरूपेषु प्रायश्चित्तेषु नियुञ्जीत ॥ १६ ॥
अथ यदि ते तत्रापि न तिष्ठेयुः, तदा किं कर्तव्यमित्यत आह—
बलविशेषेण(२) वधदास्यवर्जं नियमैरुपशोषयेत् ॥ १७ ॥
ततस्तान्नियमैरुपवासादिभिरुपशोषयेत् । बलविशेषेण बलानुरूपम् ।


१. गौ. ध. १०. १९. २. अत्र विषये मानवे ८. ३८०, ३८१. श्लोकौ द्रष्टव्यौ ।

दण्डप्रणयनम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २१७
वधदास्यवर्जं वधस्ताडनादि, वध दास्यं च वर्जयित्वा सर्वमन्यत् बन्ध-
नादिकं बलानुरूपं कारयेत् यावत्ते मन्येरन् चरेम प्रायश्चित्तमिति ॥१८॥
इत्यापस्तम्बधर्मसूत्र उज्ज्वलोपेते द्वितीयप्रश्ने दशमी कण्डिका ॥१०॥
एवं ब्राह्मणविषये उक्तम् । इतरेषामाह —
इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां
कर्माणि राजा दण्डं प्रणयेत् ॥ १ ॥
इतरेषां ब्राह्मणव्यतिरिक्तानां वर्णानां राजा पुरोहितोक्त दण्डं स्वयमेव
प्रणयेत् तेषां कर्माणि समवेक्ष्य तदनुरूपमा प्राणविप्रयोगात् । अभिविधा-
वाकारः ॥ १ ॥
न च सन्देहे दण्डं कुर्यात् ॥ २ ॥
अपराधसन्देहे राजा दण्डं न कुर्यात् ॥ २ ॥
किन्तु—
सुविचितं विचित्या दैवप्रश्नेभ्यो राजा
दण्डाय प्रतिपद्येत ॥ ३ ॥
आ दैवप्रश्नेभ्यः साक्षिप्रश्नादिभि. शपथान्तैः सुविचितं यथा भवति
तथा विचित्य निरूप्य । राजा दण्डाय प्रतिपद्येत उपक्रमेत ॥ ३ ॥
एवं कुर्वतः फलमाह—
एवंवृत्तो राजोभौ लोकावभिजयति ॥ ४ ॥
एवंभूतं वृत्तं यस्य स एवंवृत्तः । अत्र मनु —
(१) ‘अदण्ड्यान्दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
अयशो महदाप्नोति(२) प्रेत्य स्वर्गाच्च हीयते ॥' इति ॥४॥
गच्छतां प्रतिगच्छतां च पथि समवाये केन कस्मै पन्था देय इत्य-
त आह—
राज्ञः पन्था ब्राह्मणेनाऽसमेत्य ॥ ५ ॥
राजा अभिषिक्तः । स यदि ब्राह्मणेन समेतो न भवति, तदा तस्य
१. म. स्मृ ८, १२८. २. नरकं चैव गच्छति इति मुद्रितपुस्तकेषु पाठः ।
आप० ध० २८

२१८ आपस्तम्बधर्मसूत्रे [ (प्र. २) क. ११.
पन्था दातव्यः । क्षत्रियैरप्यनभिषिक्तैः । एतदर्थमेव चेदं वचनम् । अ-
न्यत्र 'वर्णज्यायसां वे' (२.११.८) ति वक्ष्यमाणेनेव सिद्धम् ॥ ५ ॥
समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ ६ ॥
आपदि शिष्यभूतब्राह्मणविषयमिदम् । शिष्यभूतेनाऽपि ब्राह्मणेन
समेत्य तस्यैव राज्ञा पन्था देय इति ॥ ६ ॥
(१)यानस्य भाराभिनिहितस्याऽऽतुरस्य स्त्रिया
इति सर्वैर्दातव्यः(२) ॥ ७ ॥
यानं शकटादि । भाराभिनिहितो भाराक्रान्तः । आतुरो व्याधितः । स्त्रियाः
यस्याः कस्याश्चिदपि । एतेभ्यस्सर्वैरेव वर्णैः पन्था दातव्यः । इतिशब्दात्
स्थविरबालकृशादिभ्यश्च ॥ ७ ॥
वर्णज्यायसां चेतरैर्वर्णैः ॥ ८ ॥
वर्णेनोत्कृष्टां वर्णज्यायांसः । तेषां चेतरैरपकृष्टैर्वर्णैर्ब्राह्मणैश्च दातव्यः ॥८॥
अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्य-
यनार्थेन सर्वैरेव दातव्यः ॥ ९ ॥
अशिष्टो मूर्खः । अन्ये प्रसिद्धाः । एतेषां सर्वैरेवंजातीयैरुत्कृष्टैरपकृ-
ष्टैर्वर्णैर्ब्राह्मणैश्च । आत्मस्वस्त्ययनार्थेन स्वस्त्ययनमात्मत्राणम् । तेन प्रयोजने-
न तदर्थम्, न त्वदृष्टार्थमिति । अत्र कौटिल्येन देयस्य पथः प्रमाणमुक्त-
म्—(३)'पञ्चारत्नी रथपथश्चत्वारो हस्तिपथो द्वौ क्षुद्रपशुमनुष्याणां'
मिति ॥ ९ ॥
धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णमा-
पद्यते जातिपरिवृत्तौ ॥ १० ॥
धर्मचर्यया स्वधर्मानुष्ठानेन जघन्यो वर्णः शूद्रादिः पूर्वं पूर्वं वर्णमापद्यते वै-
श्यादिकं प्राप्नोति । जातिपरिवृत्तौ जन्मनः परिवर्तने । शूद्रो वैश्यो जायते ।

१. रुद्धस्य भारा इति घ. पु.
२. अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवहस्य पन्थाः । राज्ञः पन्था
ब्राह्मणेनाऽसमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ इति महाभारते वनपर्वणि ।
३. कौ. अ. २.४-२२. 'पञ्चारत्नयः' इति अर्थशास्त्रपुस्तकेषु मुद्रितेषु । परन्तु
पञ्चारत्निः इत्येवाऽनुवादो ग्रन्थान्तरेष्वपि ।

द्वितीयविवाहः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २१९
तत्रापि स्वधर्मनिष्ठः क्षत्रियो जायते । तत्रापि स्वधर्मपरो ब्राह्मण इति ।
एवं क्षत्रियवैश्ययोरपि द्रष्टव्यम् ॥ १० ॥
अधर्मचर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णमा-
पद्यते जातिपरिवृत्तौ ॥ ११ ॥
पूर्वेण गम् । महापातकव्यतिरिक्ताधर्माऽनुष्ठानविषयमेतत् । महा-
पातकेषु 'स्तेनोऽभिशस्त' ( २.२.६ ) इत्यादिना नीचजातिप्राप्तेरुक्त-
त्वात् ॥ ११ ॥
धर्मप्रजासम्पन्ने दारे नाऽन्यां कुर्वीत ॥ १२ ॥
श्रौतेषु गार्ह्येषु स्मार्तेषु च कर्मसु श्रद्धा शक्तिश्च धर्मसम्पत्तिः । प्रजा-
सम्पत्ति. पुत्रवत्त्वम् । एवंभूते दारे सति नान्याम् । ‘दारे’ इति प्रकृते
अन्यामिति स्त्रीलिङ्गनिर्देशादत्रार्थाद्भार्यामिति गम्यते । नान्यां
भार्या कुर्वीत नोद्वहेत् ॥ १२ ॥
अन्यतराभावे कार्या प्रागग्न्याधेयात् ॥ १३ ॥
धर्मप्रजयोरन्यतरस्याऽभावे कार्या उद्वाह्या । तत्रापि प्रागग्न्याधेयात्
नोर्ध्वमाधानात् । एतदर्थमेवेदं वचनम् । उभयसम्पत्तौ न कार्येत्यु-
क्ते अन्यतराभावे कार्येत्यस्यांशस्य प्राप्तत्वात् । यदा चाऽन्यतराभावे
कार्या तदा का शङ्का उभयाभावे कार्येति ॥ १३ ॥
प्रागग्न्याधेयादित्यत्र हेतुः-
आधाने हि सती कर्मभिस्संबध्यते येषामेतदङ्गम् ॥१४॥
हि यस्मात् आधाने सती विद्यमाना सहान्विता कर्मभिस्सम्बध्यते अधि-
क्रियते । कैः ? येषामग्निहोत्रादीनामेत(१)दाधानमङ्गमुपकारकम् । तैः । अ-
त्र ‘दारे सती’ति वचनात् मृते तस्मिन्प्रागूर्ध्वं वाऽऽधानात् सत्यामपि
पुत्रसम्पत्तौ धर्मसम्पत्त्यर्थे दारग्रहणं भवत्येव । तथा च मनुः--
(२)‘‘भार्यायै पूर्वमारिण्यै दत्वाऽग्नीनन्त्यकर्मणि ।
पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ॥’’ इति ।
१. आधानस्याऽनारभ्याधीतत्वात् क्रत्वङ्गत्वाभावस्य पूर्वतन्त्रे तृतीयाध्याये स्थापि-
तत्वात् अत्राङ्गपदमुपकारकपरतया विवृणोति । सम्भवति हि स्वनिष्पाद्याहव-
नीयाद्यग्निसमर्पणद्वाराऽऽधानमग्निहोत्रादिक्रतूनामुपकारकम् ॥
२. म. स्मृ. ५.१६८

२२० आपस्तम्बधर्मसूत्रे [ (५.५.)क.११.
याज्ञवल्क्योऽपि-
(१)'आहरेद्विधिवद्दारानग्नींश्चैवाऽविलम्बयन्।' इति ।
न हि वाचनिकेऽर्थे युक्तयः क्रमन्ते । तेनैतन्न चोदनीयम्-यजमानः
पूर्वमन्वारम्भणीयया संस्कृतो न तस्यायं संस्कारः पुनरापादयितुं श-
क्यः । या च भार्या आधानात्परमूढा सा च पूर्वमसंस्कृता, न तस्या
दर्शपूर्णमासादिष्वधिकारः । स कथं तया तैर्यष्टुमर्हतीति । अन्वारम्भ-
णीयाजन्यश्च संस्कारो यदि संयोगवदुभयनिष्ठः तदा भार्यानाशे नश्य-
तीति तस्य पुनस्संस्कारोऽपि नाऽनुपपन्नः । यानि च नाऽन्वारम्भणी-
यामपेक्षन्ते स्मार्तानि गार्ह्याणि च तैरधिकारस्तस्याऽप्यविरुद्धः ।
ननु च प्रागग्न्याधानात् कर्मभिस्सम्बध्यते गार्ह्यैस्मार्तैश्च, तत्कि-
मुच्यते आधाने हि सती कर्मभिस्सम्बध्यत इति ? सत्यम्, अस्मादेव
च हेतुनिर्देशादवसीयते-प्रागाधानात् सत्यामपि धर्मसम्पत्तौ प्रजास-
म्पत्तौ च रागान्धस्य कदाचिद्दारग्रहणे नाऽतीव दोष इति। अथ यस्या
हिताग्नेर्भार्या सत्येव कर्मण्यश्रद्दधाना अशक्ता वा भवति पुत्राश्च मृता
अनुत्पन्ना वा तस्य कथम् ? । यद्येषा युक्तिः 'धर्मप्रजासम्पन्न'इति
कर्मभिस्सम्बध्यत इति च, तदा कर्तव्यो विवाहः । (न च 'प्रागग्न्याधे
या' दित्यस्य विरोधः । अन्यतराभावे कार्येत्यस्यैव स शेषः । न पुनरुभ-
याभावे कार्येत्यस्य । भारद्वाजसूत्रे तु यद्यप्यविशेषेणाऽहिताग्नेर्दारानुज्ञा
प्रतीयते-"अथ यद्याहिताग्निः पुनर्दारक्रियां कुर्वीत यद्यग्नीनोत्सृजेत्
लौकिकास्सम्पद्येरन् तस्य पुनरग्न्याधेयं कुर्वीतेत्याश्मरथ्यः, पुनराध-
नमित्यालेखनः, पुनरग्न्याधेयमित्यौडुलोमि,रिति । तथापि तस्याप्यय-
मेव विषयः) ॥ १४ ॥
सगोत्राय दुहितरं न प्रयच्छेत् ॥ १५ ॥
कन्यागोत्रमेव गोत्रं यस्य तस्मै कन्या न देया । यथा-हारीताय
हारीतीं, वात्स्याय वात्सीमित्यादि ॥ १५ ॥
मातुश्च योनिसम्बन्धेभ्यः ॥ १६ ॥
मातुर्योनिसम्बन्धाः कन्याया मातुलादयः । चकारात् पितुरप्येवम् ।
तेभ्यः असगोत्रेभ्योऽपि न देया कन्यका । अत्र मनुः-
(२) 'असपिण्डा च या मातुरसगोत्रा च या पितुः ।
१. या. स्मृ. १. ८९. ( ) एतत्कुण्डलान्तर्गतो भागो नास्ति घ. ङ. पुस्तकयोः
२. म. स्मृ. ३. ५.

सगोत्रविवाहनिषेधः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २२१
सा प्रशस्ता द्विजातीनां (१)दारकर्मण्यमैथुनी ॥
व्यासः-
(२)‘स्नात्वा समुद्वहेत्कन्यां सवर्णां लक्षणान्विताम् ।
यवीयसीं भ्रातृमतीमसगोत्रां प्रयत्नतः ॥
मातुस्सगोत्रामप्येके नेच्छन्त्युद्वाहकर्मणि ।
जन्मनाम्नोरविज्ञाने नोद्वहेदविशङ्कितः॥
मातुस्सपिण्डा यत्नेन वर्जनीया द्विजातिभिः ॥ इति ।'
गौतमः-
(३)‘असमानप्रवरैर्विवाहः । ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो बीजिनश्च ।
मातृबन्धुभ्यः पञ्चमात्, इति । कात्यायनः—'प्रवर एषामविवाह
इत्येतेषु प्रत्यध्यायमाहत्य वचनं येषामेव प्रवरः तेषामेवाऽविवाह' इति ।
कारिका च भवति-
शतीयानामविवाह एषामिति येषां सूत्रकृदब्रवीत् ।
तेषामेव विवाहः स्यात् नान्येषामिति धारणे'ति ॥
शङ्खः(४)-
'दारानाहरेत्सद्दशानसमानार्षेयान सम्बन्धानासप्तमपञ्चमात्पितृमा-
तृबन्धुभ्यः, इति ।
वसिष्ठः-
(५)‘गृहस्थो विनीतक्रोधहर्षो गुरुणाऽनुज्ञातः स्नात्वाऽसमानार्षेयाम-
स्पृष्टमैथुनामवरवयसीं भ्रातृमती सदृशीं भार्यां विन्देत । पञ्चमीं मातृ-
बन्धुभ्यः सप्तमीं पितृबन्धुभ्यः' इति ।
हारीतः(६)—
'श्वित्री कुष्ठ्युदरी यक्ष्ममयाव्यल्पायुरनार्षेयम ब्रह्म समानार्षेयमि-
त्येतान्यपतितान्यपि कुलानि वर्जनीयानि भवन्ति । कुलानुरूपाः प्रजा
भवन्तीति । आदित्यषडयज्ञियत्वादनार्षेयम् । अवेदत्वादब्रह्म । एक-
कुलत्वात् समानार्षेयमिति । तस्मात् सप्त पितृतः परीक्ष्य पञ्च मातृतो
ऽनग्निकां श्रेष्ठां भ्रातृमतीं भार्यां विन्देत ।'
पैठीनसिः—असमानार्षेयां कन्यां वरयेत् । पञ्च मातृतः परिहरेत्सप्त
पितृतः त्रीन्मातृतः पञ्च पितृतो वा'
१. दारकर्मण्यमैथुनी इत्येव मेधातिथ्यादिभिः पाठोऽङ्गीकृतः । कुल्लूकभट्टस्तु 'कर्मणि
मैथुने' इति ।
२. ४. ६. एतदङ्काङ्कितानि वचनानि तेषु तेषु मुद्रितपुस्तकेषु नैवोपलभ्यन्ते ।
३. गौ.ध.४.२-५. ५. व. ध ८.१.२.

२२२ आपस्तम्बधर्मसूत्रे [ (प.५.)क.११.
याज्ञवल्क्यः--
(१)'अविप्लुतब्रह्मचयो॑ लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ।
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥'
विष्णुः--
(२)'असगोत्रामसमानप्रवरां भार्यां विन्देत मातृतः पञ्चमात् पितृत-
स्सप्तमात् ।
नारदः--
(३)आसप्तमात्पञ्चमाच्च बन्धुभ्यः पितृमातृतः ।
अविवाह्यास्सगोत्रास्स्युस्समानप्रवरास्तथा ।'
शातातपः--
(४)'परिणीय सगोत्रां तु समानप्रवरां तथा ।
कृत्वा तस्यास्समुत्सर्गमतिकृच्छ्रो विशोधनम् ॥
मातुलस्य सुतामूह्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव द्विजश्चान्द्रायणं चरेत् ॥'
मनुः--
(५)पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुरेव च ।
मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥
एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् ।
ज्ञातित्वेनाऽनुपेयास्ताः पतति ह्युपयन्नधः ॥'
बौधायनः--
(६)'सगोत्रां चेदमत्योपयच्छेत मातृवदेनां बिभृयात्' । (७)'सगोत्रां
गत्वा चान्द्रायणमुपदिशेत् ॥ व्रते परिनिष्ठिते ब्राह्मणीं न त्यजेत्
मातृवद्भगिनीवद्धर्मो न दुष्यतीति काश्यप इति विज्ञायते ।
अथ सन्निपात अविवाहः तदाध्यायं वर्जयेत् । बोधायनस्य
१. या. स्मृ. १.५२,५३.
२. मुद्रितश्लोकात्मकविष्णुस्मृतौ नेदं वचनमुपलभ्यते परन्तु ग्रन्थान्तरेष्वस्या विष्णु-
स्मृतित्वमुक्तम् । ३. नार. स्मृ. व्यवहा. १२. श्लो. ७.
४. मुद्रितशातातपस्मृतौ लघुशातातपस्मृतौ वृद्धशातातपस्मृतौ वा नेदं बचनमुपलभ्यते ।
५. म. स्मृ. ११. १७१, १७२. ६. बौ ध. २.१.३८.
७. महाप्रवरे समाप्तिसूत्रकाण्डे । बौ. सू. (प्रवर) १३. ५५.

विवाहभेदाः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २२३
तत्प्रमाणं कर्तव्यम् । मानव्यो हि प्रजा इति विज्ञायते इति ।
गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च ।
ऊनपञ्चाशदेवेषां प्रवरा ऋषिदर्शनात् ॥
एक एव ऋषियांवत्प्रवरेष्वनुवर्तते ।
तावत्समानगोत्रत्वमन्वभूद्भृग्वङ्गिरोगणात् ॥' इति ।
सुमन्तुः--
(१) पितृपत्न्यस्सर्वा मातरस्तद्भातरो मातुलाः तत्सुता मातुलसुता-
स्तस्मात्ता नोपयन्तव्या' इति ॥ १६ ॥
ब्राह्मे विवाहे बन्धुशीललक्षणसम्पन्नश्रुतारोग्याणि
बुध्वा प्रजां सहत्वकर्मभ्यः प्रतिपादयेच्छक्ति-
विषयेणाऽलंकृत्य ॥ १७ ॥
ब्रह्मणा दृष्टो ब्राह्मः । तस्मिन् विवाहे वरस्य बन्वादीन् बुध्वा परीक्ष्य
प्रजां दुहितरं सहत्वकर्मभ्यः सहकर्तव्यानि यानि कर्माणि तेभ्यः, तानि
कर्तुम्, प्रतिपादयेत् दद्यात् । शक्तिविषयेण विभक्तिप्रतिरूपोऽयं निपातो य-
थाशक्त्येत्यस्यार्थे द्रष्टव्यः । यथाशक्त्यलंकृत्य दद्यादित्येष ब्राह्मो विवाहः।
प्रजाऽसहत्वकर्मभ्य' इति पाठे प्रजार्थे सहत्वकर्मार्थे चेति ॥ १७ ॥
आर्षे दुहितुमते मिथुनौ गावौ देयौ ॥ १८ ॥
ऋषिभिर्दृष्टे विवाहे मिथुनौ गावौ स्त्रीगवी पुंगवश्च दुहितुमते देयौ ।
एष आर्षः ॥ १८ ॥
दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् ॥ १९ ॥
देवैर्दृष्टे विवाहे यज्ञतन्त्रे वितते ऋत्विजे कर्म कुर्वते कन्यां दद्यात् ।
एष दैवो विवाहः ॥ १९ ॥
मिथः कामात्सांवर्तते स गान्धर्वः ॥ २० ॥
यत्र कन्यावरौ रहसि कामात् मिथः परस्परं रागात् सांवर्तेते मिथुनी-
भवतः स गान्धर्वो विवाहः । समो दीर्घः पूर्ववत् । अत्र संयोगोत्तरकालं
विवाहसंस्कारः कर्तव्यः ॥ २० ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकादशी कण्डिका ॥ ११ ॥
१. सु. स्मृ.

२२४ आपस्तम्बधर्मसूत्रे [ (प.५) क. १२.
शक्तिविषयेण द्रव्याणि दत्त्वाऽऽवहेरेन् स आसुरः॥१॥
यत्र विवाहे कन्यावते यथाशक्ति द्रव्याणि दत्त्वाऽऽवहेरेन् कन्यां
स आसुरः। (१)‘वित्तेनाऽऽनतिक्रीमतामासुर’ इति गौतमः। तेन क-
न्यायै गृहक्षेत्राभरणादिदानेन विवाहो नाऽऽसुरः ॥ १ ॥
दुहितृमतः प्रोथयित्वाऽऽवहेरेन् स राक्षसः ॥ २ ॥
दुहितृमतः कन्यावतः पित्रादीन् प्रोथयित्वा प्रमथ्य यत्राऽऽवहेरेन् स
राक्षसो विवाहः ।
(२)‘हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदद्भ्यो हरेत् स राक्षस’
इत्याश्वलायन. । अत्रापि विवाहसंस्कारः कर्तव्यः । द्वौ चाऽपरौ विवाहौ
शास्त्रान्तरेषूक्तौ । तत्राऽऽश्वलायनः-(३)‘सह धर्मं चरतमिति प्राजापत्यः ।
सुप्तां प्रमत्तां वाऽपहरेत्स पैशाच’ इति । ताविह पृथङ्नोक्तौ ब्राह्मराक्ष-
सयोरन्तर्भावादिति ॥ २ ॥
तेषां त्रय आद्याः प्रशस्ताः पूर्वः पूर्वः श्रेयान् ॥ ३ ॥
तेषां विवाहानां मध्ये आद्यास्त्रयो ब्राह्मार्षदैवा प्रशस्ताः । तत्रापि पूर्वः पूर्वो
ऽतिशयेन प्रशस्त इति ॥ ३ ॥
यथायुक्तो विवाहस्तथा युक्ता प्रजा भवति ॥ ४ ॥
प्रशस्ते विवाहे जाता प्रजाऽपि प्रशस्ता भवति । निन्दिते निन्दिता
तत्र मनुः—
(४) ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः ।
ब्रह्मवर्चसिनः पुत्रा जायन्ते शिष्टसम्मताः ॥
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥
उत्तरेषु च शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मसमुज्झिताः ॥
प्राजापत्येन सह ब्राह्माद्याश्चत्वारो ब्राह्मणस्य । गान्धर्वराक्षसौ क्ष-
त्रियस्य । आसुरं तु वैश्यशूद्रयोः । पैशाचो न कस्यचिदपि ॥ ४ ॥
पाणिसम्मूढं ब्राह्मणस्य नाऽप्रोक्षितमभितिष्टेत् ॥ ५ ॥
१. गौ. ध. ४.११. २ आश्व. गृ. १.४.३२.
३. आश्व. गृ. ४.२५. ४. म. स्मृ. ३.३९-४१.

अभिनिर्मुक्तादिप्रायश्चित्तम्] उज्ज्वलोपेते द्वितीयः प्रश्नः । २२५
ब्राह्मणस्य पाणिना समूढमुपलिप्तं सम्मृष्टं वा भूप्रदेशमप्रोक्षितं ऽना-
भितिष्ठेत् नाधितिष्ठेत् । प्रोक्ष्यैवाऽधितिष्ठेदिति ॥ ५ ॥
अग्निं ब्राह्मणं चाऽन्तरेण नाऽतिक्रामेत् ॥ ६ ॥
अग्नेर्ब्राह्मणस्य च मध्ये न गच्छेत् ॥ ६ ॥
ब्राह्मणांश्च ॥ ७ ॥
अन्तरेण नाऽतिक्रामेदित्येव । ब्राह्मणाना च मध्ये न गच्छेत् ॥ ७ ॥
अनुज्ञाप्य वाऽतिक्रामेत् ॥ ८ ॥
स्पष्टम् ॥ ८ ॥
अग्निमपश्च न युगपद्धारयीत ॥ ९ ॥
अग्निमुदकञ्च न युगपद्धारयेत् ॥ ९ ॥
नानाग्नीनां च सन्निपातं वर्जयेन् ॥ १० ॥
पृथगवस्थितानामग्नीनामेकत्र समावपनं वर्जयेत न कुर्यात् । अग्ना-
वह्निं न प्रक्षिपेदित्यन्ये (१) ॥ १० ॥
प्रतिमुखमग्निमाह्रियमाणं नाऽप्रतिष्ठितं भूमौ प्रदक्षि-
णीकुर्यात् ॥ ११ ॥
यदाऽस्य गच्छतः प्रतिमुखमग्निराह्रियते तदा न तं प्रदक्षिणीकुर्यात्
स चेद्भूभौ प्रतिष्ठितो न भवति । प्रतिष्ठिते त्वग्नौ दृष्टे प्रदक्षिणीकुर्या-
दिति ॥ ११ ॥
पृष्ठतश्चाऽऽत्मनः पाणी न संश्लेषयेत् ॥ १२ ॥
स्वस्य पृष्ठभागे स्वपाणिद्वय न संश्लेषयेन्न बध्नीयात् ॥ १२ ॥
स्वपन्नभिनिर्मुक्तो नाऽश्नन् वाग्यतो रात्रिमासीत
श्वोभूत उदकमुपस्पृश्य वाचं विसृजेत् ॥ १३ ॥
(२) 'सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ।
अंशुमानभिनिर्मुक्ताभ्युदितौ तौ यथाक्रमम् ॥'
स्वपन्नभिनिर्मुक्तो नाश्नन्भुञ्जानस्तूष्णीं भूतो रात्रि सर्वामासीत न शयीत ।
अथाऽपरद्यु' उदकमुपस्पृश्य प्रातः स्नात्वा वाचं विसृजेत् । अयमस्य निर्वेषः ॥
१. एतदनन्तरं-विनावचनम् । आवापवचने सति कुर्यात् । इत्याधिक पाठः घ. पु.
२. अमरको. ब्र. सूर्योदयकाले यः स्वपिति सोऽभ्युदितः । सूर्यास्तकाले यः स्वपिति
सोऽभिनिर्मुक्तः ।
आप० ध० २६

२२६ आपस्तम्बधर्मसूत्रे [ (प्र.५.)क.१२.
स्वपन्नभ्युदितो नाऽश्वान्वाग्यतोऽहस्तिष्ठेत् ॥१४॥
पूर्वेण गतम् । 'उदकमुपस्पृश्य वाच विसृजेदिति चात्राऽपेक्ष्यते ।
तत्राऽस्तमिते स्नानप्रतिषेधात् सायमेव स्नात्वा वाचं विसृज्य सन्ध्या-
मुपासीत ॥ १४ ॥
आतामितोः प्राणमायच्छेदित्येके ॥ १५ ॥
यावदङ्गानां ग्लानिर्भवति तावत्प्राणमायच्छेत् प्राणवायुमाकृष्य
धारयेत् । प्राणायामं कुर्यादित्येके मन्यते । शक्त्यपेक्षो विकल्पः ।
तत्र मनुः-
(१)सव्याहृतीं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामस्स उच्यते ॥' इति ।
एवमावर्तयेद्यावद्ग्लानिः ॥ १५ ॥
स्वप्नं वा पापकं दृष्ट्वा ॥ १६ ॥
पापकस्वप्नो दुःस्वप्नः मर्कटास्कन्दनादिः । तं च दृष्ट्वा ॥ १६ ॥
अर्थे वा (२)सिसाधयिषन् ॥ १७ ॥
अर्थः प्रयोजनम् । तच्च दृष्टमदृष्टं वा साधयितुमिच्छन् ॥ १७ ॥
नियमातिक्रमे चाऽन्यस्मिन् ॥ १८ ॥
नियमानां 'उदङ्मुखो मूत्रं कुर्यादि' (१.३१.१.) त्येवमादीनामाते
क्रमे च आतामितोः प्राणमायच्छेदिति सर्वत्र शेषः ॥ १८ ॥
दोषफलसंशये न तत् कर्तव्यम् ॥ १९ ॥
यस्मिन् कर्मणि कृते पक्षे दोषः फलं सम्भाव्यते न तत् कुर्यात्,
यथा सभये देशे एकाकिनो गमनमिति ॥ १९ ॥
एवमध्यायानध्याये ॥ २० ॥
संशय इत्युपसमस्तमप्यपेक्ष्यते । अध्यायोऽनध्याय इति संशयेऽप्येवं
न तत् कर्तव्यमिति । 'सन्धावनुस्तनित' ( १.९.२०. ) इत्युदाहरणम् ।
पूर्वस्यैवाऽयं प्रपञ्चः ॥ २० ॥
न संशये प्रत्यक्षवद्ब्रूयात् ॥ २१ ॥
संशयितमर्थमात्मनोऽज्ञानपरिहाराय प्रत्यक्षवत् निश्चितवन्न ब्रूयात् ॥
१. सर्वेष्वादर्शपुस्तकेषु मनुवचनत्वेनैवोपन्यस्तमिदम् । न कुत्राऽपि तु मुद्रित
मनुस्मृतिपुस्तकेषूपलभ्यते । बौधायनधर्मसूत्रे ४. १. २८. तूपलभ्यते ।
२. सिसाधीयषुः, इति, घ. पु.

अभिनिर्मुक्तादिप्रायश्चित्तम्] उज्ज्वलोपेते द्वितीयः प्रश्नः। २२७
अभिनिर्मुक्ताभ्युदितकुनखिश्यावदग्रदिधिषुदिधिषू-
पतिपर्याहितपरीष्टपरिवित्तपरिविन्नपरिवि-
विदानेषु चोत्तरोत्तरस्मिन्नशुचिकरनिर्वे-
षो गरीयान् गरीयान् ॥ २२ ॥
आद्यौ द्वौ गतौ। कुनखी कृष्णनखः। श्यावा दन्ता यस्य स श्यावदन्
विवर्णदन्तः। '(१)विभाषा श्यावारोकाभ्यामि' ति दन्नादेशः। तस्य न
लोपश्चान्दसः। ज्येष्ठायामनूढायां पूर्वं कनीयस्या वोढा अग्रदिधिषुः।
पश्चादितरस्या वोढा दिधिषूपतिः। ज्येष्ठे अकृताधाने कृताधानः कनिष्ठः
पर्याधाता। ज्येष्ठः पर्याहितः। ज्येष्ठे अकृतसोमयागे कृतसोमयागः कनिष्ठः
परीयष्टा। ज्येष्ठः परीष्टः। अकृतविवाहे ज्येष्ठे कृतविवाहः कनिष्ठः (२)परि-
वेत्तेति प्रसिद्धः। ज्येष्ठः (३)परिवित्तः। (४)ज्येष्ठस्य भार्यामुपयच्छमानः
परिविन्नः। यस्मिन्नगृहीतभागे वा कनिष्ठो भागं गृह्णाति स ज्येष्ठः परिविन्नः।
कनिष्ठः परिविविदानः। चकारः पर्याधातृप्रभृतीनां समुच्चयार्थः। एतेष्व-
भिनिर्मुक्तादिषु यो य उत्तरस्तस्मिंस्तस्मिन्द्वादशमासादिरशुचिकर-
निर्वेषो यः पूर्वमुक्तः तत्र तत्र गरीयान् भवति। पूर्वत्र पूर्वत्र लघी
यान्। अभिनिर्मुक्ताभ्युदितयोरनन्तरोक्तं प्रायश्चित्तद्वयमपि विक-
ल्पेन भवति ॥ २२ ॥
तच्च लिङ्गं चरित्वोद्धार्यमित्येके ॥ २३ ॥
यस्मिन् कौर्नख्यादिके लिङ्गे यत् प्रायश्चित्तमुक्तं तच्चरित्वा तत् कौर्नख्या-
दिकं लिङ्गमुद्धरेदित्येके मन्यन्ते। अन्यत्राऽहिताग्निभ्य इति स्मृत्यन्तरम् ॥
इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने द्वादशी कण्डिका ॥१२॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामुज्ज्वलायां
द्वितीयप्रश्ने पञ्चमः पटलः ॥ ५ ॥
१. पा.सू.५.४ ११८. २. परिवित्त इति प्रसिद्धः इति.ख.ङ.च पुस्तकेष्वपपाठः।
३. परिवित्ति इति ख च. पुस्तकयो. पाठः। अत्र बोधायनधर्मसूत्रव्याख्या
२. १. ३. द्रष्टव्या।
४. ज्येष्ठे चागृहीतभागे कनिष्ठो भागं गृह्णाति स परिविविदानः। परिविन्न इतरः।
इत्येव पाठो घ. पुस्तके।

अथ षष्ठः पटलः ॥
सवर्णापूर्वशास्त्रविहितायां यथर्तु गच्छतः
पुत्रास्तेषां कर्माभिस्सम्बन्धः ॥ १ ॥
सवर्णा चाऽसावपूर्वा च शास्त्रविहिता चेति कर्मधारयः । सवर्णा
सजातीया, ब्राह्मणस्य ब्राह्मणीत्यादि । अपूर्वा । अनन्यपूर्वा अन्यस्मा
अदत्ता, न विद्यते पूर्वः पतिरस्या इति । शास्त्रविहिता शास्त्रोक्तेन विवा-
हसंस्कारेण संस्कृता ‘सगोत्राय दुहितरं न प्रयच्छे ( २. ११. १५ )
दित्यादिशास्त्रानुगुणा वा । एवम्भूतायां भार्यायां यथर्तु गृह्योक्तेन
ऋतुगमनकल्पेन गच्छतो ये पुत्रा जायन्ते तेषां ‘स्वकर्म ब्राह्मणस्ये’
( २. १०. ४ ) त्यादिना पूर्वमुक्तैः कर्माभिस्सम्बन्धो भवति । ( गच्छथ इति
थकारोऽपपाठः ) ॥ १ ॥
दायेन चाऽव्यतिक्रमश्चोभयोः ॥ २ ॥
उभयोर्मातापित्रोर्दायेन च तेषां सम्बन्धो भवति अव्यतिक्रमश्च । च
इति चेदर्थे अव्यतिक्रमश्चेत्, यदि ते मातरं पितरं च न व्यतिक्रमे-
युः । व्यतिक्रमे तु दायहानिरिति ।
अपर आह—‘उभयोरपि दायेन तेषां व्यतिक्रमो न कर्तव्यः ।
अवश्यं देयो दायस्तेभ्य इति ॥ २ ॥
पूर्ववत्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषः ॥ ३॥
अन्येन पाणिग्रहणेन तद्वती पूर्ववती । असंस्कृता विवाहसंस्कारर-
हिता । वर्णान्तरं ब्राह्मणादेः क्षत्रियादिः । तेषु पूर्ववत्यादिषु मैथुने सति
दोषो भवति । कस्य ? तयोरेव मिथुनीभवतोः ॥ ३ ॥
तत्राऽपि दोषवान् पुत्र एव ॥ ४ ॥
तत्रेति सप्तम्यास्त्रल्(१) ‘इतराभ्योऽपि दृश्यन्त’ इति। ताभ्यामुमा-
भ्यामपि पुत्र एवाऽतिशयेन दोषवान् । तत्र पूर्ववत्यामुत्पन्नौ कुण्डगोलकौ
(२)‘पत्यौ जीवति कुण्डस्स्यान्मृते भर्तरि गोलक’ इति ।
असंस्कृतायामुत्पन्नस्य नामान्तरं नास्ति । किं तु दुष्टत्वमेव ।
( ) कुण्डलान्तर्गतो भागो नास्ति घ. ङ. पुस्तकयोः ।
१. पा. सू. ५. ३. १४. २. म. स्मृ. ३. १७४.

वर्णान्तरे तु जात्यन्तरम् । तत्र गौतमः-
(१)'अनुलोमा. पुनरनन्तरैकान्तरद्व्यन्तरासु जातास्सवर्ाम्बष्ठोग्र
निषाद्दौष्यन्तपारशवाः । प्रतिलोमास्तु सूतमागधायोगवक्षत्तृवैदेहक-
चण्डाला' इति । एवकारो दुहितृनिवृत्त्यर्थः । तथा च वसिष्ठः-
(२) 'पतितेनोत्पादितः पतितो भवत्यन्यत्र स्त्रियास्सा हि परगा
मिनी तामरिक्थामुपेयादिति । (३)'स्त्रीरत्नं दुष्कुलादपी'ति मनुः ॥ ४ ॥
पुत्रेभ्यो दायभागं वक्ष्यन् अन्यस्य भार्यायामन्येनोत्पादितः किमु
त्पादयितुः ? अहोस्वित् क्षेत्रिण इति विचारे निर्णयमाह-
उत्पादितुः पुत्र इति हि ब्राह्मणम् ॥ ५ ॥
न केवल ब्राह्मणमेव । वैदिकगाथा अप्यत्रोदाहरन्तीत्याह-
अथाप्युदाहरन्ति-
इदानीमेवाहं (४)जनकः स्त्रीणामीर्ष्यामि नो पुरा ।
यदा यमस्य सादने जनयितुः पुत्रमब्रुवन् ।
रेतोधाः पुत्रं नयति परेत्य यमसादने ।
तस्माद्भार्यां रक्षन्ति बिभ्यन्तः पररेतसः ।
अप्रमत्ता रक्षथ तन्तुमेतं
मा वः क्षेत्रे परबीजानि वाप्सुः ।
जनयितुः पुत्रो भवति साम्पराये
मोघं वेत्ता कुरुते तन्तुमेतमिति ॥ ६ ॥
जनयितुः पुत्रः क्षेत्रिणो वेति विवादे पराजितस्य क्षेत्रिणो वचनम्
एतावन्त कालमहं जनको मन्यमानः इदानीमेव स्त्रीणामीर्ष्यामि परपुरुषसंसर्गे
न सहे । कदा इदानीम् ? यदा यमस्य सादने पितृलोके जनयितुः पुत्रो भवति
पुत्रकृत्यं परलोकगतस्य जनयितुरेव न क्षेत्रिण इत्यब्रुवन् धर्मज्ञाः । उक्त
एवार्थः किञ्चिद्विशेषेणोच्यते-रेतोधा बीजप्रदः पुत्र नयति पुत्रदत्तं पिण्डा-
दिकमात्मानं नयति प्रापयति । परेत्य मृत्वा । यमसादने यमलोके । तस्मा-
त्कारणात् भार्यां रक्षन्ति पररेतसो बिभ्यन्तः । बिभ्यतः छान्दसो नुम् ।
अतो यूयमप्यप्रमत्ता अवहिता भूत्वा एत तन्तुं प्रजासन्तान रक्षथ । लोडर्थे
१. गौ. ध. ४ १६-१७ २. व ध. १३. ६. मुद्रितव.ध. कोशेषु पाठभेदो दृश्यते।
३. म स्मृ. २. २३८
४ 'जनक' इति सम्बुद्ध्यन्ततया पठित बौ. ध २. २. ३४-३६

२३० आपस्तम्बधर्मसूत्रे [ (प्र.६.) क. १३.
लट् । रक्षेतेत्यर्थः । किमर्थम् ? वः युष्माकम् क्षेत्रे परबीजानि पररेतांसि
मा वाप्सुः । व्यत्ययेनाऽयं कर्मणि कर्तृप्रत्ययः । मा वाप्सत उप्तानि मा
भूवन् । मोप्येरन् । कथमिति ? (अपर आह-परशब्दाज्जसो लुक । परे
पुरुषाः वः क्षेत्रे बीजानि मा वाप्सुरिति ।) यस्मात् साम्पराये परलोके जनयि
तुरेव पुत्रफलं भवति वेत्ता (१)परिणेता क्षेत्री तु एतत्तन्तुं मोघं निष्प्रयोजनं
कुरुते आत्मसात्करोति। इतिशब्दो गाथासमाप्तौ। एतच्च क्षेत्रिणोऽनुज्ञा-
मन्तरेण पुत्रोत्पादनविषयम् । यदा तु क्षेत्री वन्ध्यो रुग्णो वा प्रार्थयते
मम क्षेत्रे पुत्रमुत्पादयेति, यदा वा सन्तानक्षये विधवा नियुज्यते यथा
विचित्रवीर्यस्य क्षेत्रे सत्यवतीं व्यासेन । तदुत्पन्नः पुत्र उभयोरपि
पुत्रो भवति-बीजिनः क्षेत्रिणश्च । द्व्यामुष्यायणश्च स भवति । तथाचा-
चार्य एवाह-
(२) 'यदि द्विपिता स्यादेकैकस्मिन् पिण्डे द्वौ द्वावुपलक्षये'दिति ।
याज्ञवल्क्योऽप्याह-
(३) 'अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥' इति ।
नारदोऽपि-
(४)द्व्यामुष्यायणको दद्याद्द्वाभ्यां पिण्डोदके पृथक् ।
रिक्थादर्थं समादद्याद्बीजक्षेत्रवतोस्तथा ॥' इति ॥ ६ ॥
यदि पूर्ववत्यादिषु मैथुने दोषः, कथं तर्हि (५) उचथ्यभारद्वाजौ व्य
त्यस्य भार्ये जग्मतुः(६) वसिष्ठश्चण्डालीमक्षमालाम् । (७)प्रजापतिश्च
स्वां दुहितरम् । तत्राऽऽह-
दृष्टो धर्मव्यतिक्रमस्साहसं च पूर्वेषाम् ॥ ७ ॥
सत्यं दृष्टोऽयमाचारः पूर्वेषाम् । स तु धर्मव्यतिक्रमः, न धर्मः, गृह्य
माणकारणत्वात् । न चैतावदेव, साहसं च पूर्वेषां दृष्टम् । यथा (८) जामद
ग्न्थेन रामेण पितृवचनादविचारण मातुश्चिरश्छिन्नम् ॥ ७ ॥
( ) एतत्कुण्डान्तर्गतोभागः ख च पुस्तकयोरेवास्ति । तत्र 'कथमिति' इति नास्ति।
१. 'भार्याया लब्धा' इति ख. च. पु. २. आप श्रौ १. ९. ७.
३. या. स्मृ. २. १३०. ४. नार स्मृ १३. ४३. ५. महाभारते द्रष्टव्यम् ।
६. म. स्मृ. ९. २३. महाभा. व. १३२. च द्रष्टव्यम् । अरुन्धत्या एवाक्षमालेति
नामान्तरम् ।
७. ता. ब्रा. ८. २. १०. द्रष्टव्यम् । ८. कथेयं महाभा. वन ११६ अ. द्रष्टव्या. ।

पुत्र दानादिनिषेधः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३१
किमिदानीं तेषामपि दोषः ? नेत्याह--
(१)तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ॥ ८ ॥
तादृशं हि तेषां तेजः यदेवंविधैरपि पाप्मभिर्न प्रत्यवयन्ति ।
(२) 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हाऽस्य पाप्मानः प्रहूयन्ते
इति (३)श्रुतेः ॥ ८ ॥
न चैतावता ऽर्वाचीनानामपि तथा प्रसङ्ग इत्याह-
तदन्वीक्ष्य प्रयुञ्जानस्सीदत्यवरः ॥ ९ ॥
तदिति(४) नपुंसकमनपुंसकेने'त्येकशेष एकवद्भावश्च । तं व्यति-
क्रमं तच्च साहसमन्वीक्ष्य दृष्ट्वा स्वयमपि तथा प्रयुञ्जानोऽवर इदानीं-
न्तनः सीदति प्रत्यवैति । न ह्यग्निः सर्वं दहतीत्यस्माकमपि तथा श-
क्तिरिति ॥ ९ ॥
पुत्रप्रसङ्गेनाऽऽह-
दानं क्रयधर्मश्चाऽपत्यस्य न विद्यते ॥ १० ॥
दानग्रहणेन विक्रयोऽपि गृह्यते, त्यागसामान्यात् । क्रयधर्म इति
च प्रतिग्रहस्याऽपि ग्रहणम् । धर्मग्रहणात् स्वीकारसामान्याच्च । अप
त्यस्य दानप्रतिग्रहक्रयविक्रया न कर्तव्याः । द्वादशविधेषु पुत्रेषु दत्त
क्रीतयोरपि पुत्रयोर्मन्वादिभिः पठितत्वान्नाऽयं सामान्येन प्रतिषेधः ।
किं तर्हि ? ज्येष्ठपुत्रविषयः, एकपुत्रविषयः, स्त्रीविषयो वा । तथा
च वसिष्ठः-
(५)न ज्येष्ठं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा । न त्वेकं पुत्रं दद्यात् प्रतिगृह्णी-
याद्वा स हि सन्तानाय पूर्वेषाम् । न स्त्री पुत्रं दद्यात् प्रातगृह्णीयाद्वा
अन्यत्राऽनुज्ञानाद्भर्तुः । पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राज्ञे निवेद्य निवे
शनस्य मध्ये अग्निमुपसमाधाय सम्परिस्तीर्य व्याहृतीभिर्हुत्वाऽदूर
बान्धवं सन्निकृष्टमेव प्रतिगृह्णीया' दिति । विश्वजिति च सर्वस्वदाने
गवादिवदपत्यं न देयमिति । विक्रयस्तु सर्वत्र निषिद्ध । तत्र उपपात
१. इदमग्रिमं सूत्रं पद्यात्मना निबद्ध तन्त्रवार्तिके ।
२. छान्दो. ५. २४. ३. 'छान्दोग्ये श्रूयते' इत्याधिक ख. च. पु
४. पा. सू १. २. ६९. ५. व. ध. १५. ३-६.

२३२ आपस्तम्बधर्मसूत्रे [ (प.६) क. १३.
केषु याज्ञवल्क्य आह-
(१)'नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ।' इति ।
बह्वृचब्राह्मणेऽपि शुनश्शेपोपाख्याने दृश्यते-(२) स ज्येष्ठं पुत्रं नि
गृह्णान उवाचे' त्यादि । पुत्रप्रकरणे अपत्यशब्दोपादानमपि ज्येष्ठपुत्र-
विषयत्वस्य लिङ्गम् । न पतन्त्यनेनेत्यपत्यमिति ।
(३) ऋणमस्मिन् सन्नयत्यमृतत्वं च गच्छति ।
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥' इति ॥१०॥
विवाहे दुहितृमते दानं काम्यं धर्मार्थं श्रूयते तस्माद्दु-
हितृमतेऽतिरथं शतं देयं तन्मिथुयाकुर्यादिति तस्यां
क्रयशब्दस्संस्तुतिमात्रं धर्माद्धि सम्बन्धः ॥११॥
आर्षे विवाहे दुहितृमते दान कंचिदङ्गं श्रूयते । तस्माद्दुहितृमते रथेनाधिकं
गवां शतं देयम् । तच्च दुहितृमान् मिथुया कुर्यात् । मिथ्या कुर्यात् । (४) मा
देवानां मिथुयाऽकर्माभगधेय" मिति दृश्यते । मिथुया कुर्यादिति कोऽर्थः
वरायैव पुनर्दद्यादिति । तद्दानं काम्यं कामनानिमित्तम् । 'यथा युक्तो विवा
हस्तथायुक्ता प्रजा भवतीति (२.१०.४) ऋषितुल्याः पुत्रा यथा स्युरिति
ततश्च धर्मार्थं न प्रजार्थम्, विक्रयार्थम् । यस्तु तस्यां विवाहक्रियायां
क्रयशब्दः कचित् स्मृतौ दृश्यते, स संस्तुतिमात्रम् द्रव्यप्रसादसाम्यात् । न
मुख्यक्रयत्वप्रतिपादनार्थम् । कुतः ? हि यस्मात् धर्मादेव हेतोः सम्बन्धो
दम्पत्योरिति । आर्षे दुहितृमते मिथुनौ गावौ देयावित्यत्राप्येष एव
न्यायः ।
अत्र मनुः-
(५)'यासां नाऽऽददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत्कुमारीणा मानृशंस्यं च केवलम् ॥' इति ।
एतच्च सर्वं 'दानं क्रयधर्मश्चाऽपत्यस्य न विद्यत' इत्यस्य व्यभिचार-
निवृत्त्यर्थं कर्तव्यमित्युक्तम् ॥ ११ ॥
अथ दायविभागः -
एकधनेन ज्येष्ठं तोषयित्वा ॥ १२ ॥
इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने त्रयोदशी कण्डिका ॥ १३ ॥
१. या. स्मृ. प्रा. २३६. २. ऐ. ब्रा. ७. ३. १५.
३. ऐ. ब्रा. पं. ७. ४. तै. सं. १. ३. ९. ५. म स्मृ. ३. ५४.

दायभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३३
अथ दायविभागः—
जीवन् पुत्रेभ्यो दायं विभजेत् समं क्लीबमु-
न्मत्तं पतितं च परिहाप्य ॥ १ ॥
एकेन प्रधानेन केनचिद्धनेन गवादिना ज्येष्ठं पुत्रं तोषयित्वा तृप्तं कृत्वा-
जीवन्नेव पुत्रेभ्यो दायं विभजेत् । सममात्मना परस्परं च तेषाम् ।
सामान्याभिधानात् क्रमागतं स्वयमार्जितं च क्लीबादीन् वर्जयित्वा । क्ली-
बादिग्रहणं जात्यन्धादीनामप्युपलक्षणम् । तथाह मनुः—
(१)‘अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश्च ये च केचिन्नििरिन्द्रियाः ॥’ इति ।
अन्धादीनां पुत्रसद्भावे तेऽप्यंशहराः । एवमुन्मत्तपतितौ (२) निवृत्ते
निमित्ते क्लीबादयस्तु न भर्त्तव्याः । अत्र विभागकालः स्मृत्यन्तर-
वशाद्ग्राह्यः । तत्र नारदः—
(३)‘मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निवृत्ते चापि रमणात्पितुर्यपरतस्पृहे ॥’ इति ।
यदा पुत्राणां पृथक्पृथक् धर्मानुष्ठाने शक्तिश्श्रद्धे भवतः सोऽपि काल ।
‘तस्माद्धर्म्या पृथक्क्रिये’ति(४) दर्शनादिति । ‘जीवन्नि’तिवचन जीव-
श्चेवाऽवश्य पुत्रान् विभजेत् एष धर्म इति प्रतिपादनाय । अन्यथा तद-
नर्थकम् । अजीवतोऽप्रसङ्गात् । स्मृत्यन्तरेषु स्वयमार्जिते पितुरिच्छया
विषमविभागो दर्शितः। न स धर्म्य इत्याचार्यस्य पक्षः । भार्याया अ-
प्यंशो न दर्शितः । आत्मन एवांशस्तस्या अपीति मन्यते । वक्ष्यति च
‘जायापत्योर्न विभागो विद्यते’ (२. १४. १६) इति ।
केचित्तु पितुर्द्वावंशावित्याहुः । ‘द्वावंशौ प्रतिपद्येत विभजन्नात्मनः
पिते’ ति दर्शनात् । अयमप्याचार्यस्य पक्षो न भवति । यथा पुत्राणा-
मेकैक एवांशस्तसभार्याणां तथा पितुरपीति । यद्वा पुत्राणामेवांशसाम्यं
आत्मनस्त्वधिक्येऽपि न दोषः ।
तत्र हारीतः—
‘पिता ह्याग्रयणः पुत्रा इतरे ग्रहाः यद्याग्रयणः स्कन्देदुपदस्येद्रा
१. ‘अनहौँ’ इति ड पु म. स्मृ. ९ २०१.
२. वृत्यनिमित्ते क्लीबादयस्तु न भर्त्तव्याः, इति ड. पु उन्मत्तपतितौ निवृत्तनि-
मित्तौ इति च. पु.
३. नार. स्मृ १३. ३. ४. म.स्मृ.९.१११. वचनात् इति. क.घ. पुस्तकयोः ।
आप० ध० ३०