आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 244, कुल 399 में से
संदर्भ में पढ़ेंदायभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३३
अथ दायविभागः—
जीवन् पुत्रेभ्यो दायं विभजेत् समं क्लीबमु-
न्मत्तं पतितं च परिहाप्य ॥ १ ॥
एकेन प्रधानेन केनचिद्धनेन गवादिना ज्येष्ठं पुत्रं तोषयित्वा तृप्तं कृत्वा-
जीवन्नेव पुत्रेभ्यो दायं विभजेत् । सममात्मना परस्परं च तेषाम् ।
सामान्याभिधानात् क्रमागतं स्वयमार्जितं च क्लीबादीन् वर्जयित्वा । क्ली-
बादिग्रहणं जात्यन्धादीनामप्युपलक्षणम् । तथाह मनुः—
(१)‘अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश्च ये च केचिन्नििरिन्द्रियाः ॥’ इति ।
अन्धादीनां पुत्रसद्भावे तेऽप्यंशहराः । एवमुन्मत्तपतितौ (२) निवृत्ते
निमित्ते क्लीबादयस्तु न भर्त्तव्याः । अत्र विभागकालः स्मृत्यन्तर-
वशाद्ग्राह्यः । तत्र नारदः—
(३)‘मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निवृत्ते चापि रमणात्पितुर्यपरतस्पृहे ॥’ इति ।
यदा पुत्राणां पृथक्पृथक् धर्मानुष्ठाने शक्तिश्श्रद्धे भवतः सोऽपि काल ।
‘तस्माद्धर्म्या पृथक्क्रिये’ति(४) दर्शनादिति । ‘जीवन्नि’तिवचन जीव-
श्चेवाऽवश्य पुत्रान् विभजेत् एष धर्म इति प्रतिपादनाय । अन्यथा तद-
नर्थकम् । अजीवतोऽप्रसङ्गात् । स्मृत्यन्तरेषु स्वयमार्जिते पितुरिच्छया
विषमविभागो दर्शितः। न स धर्म्य इत्याचार्यस्य पक्षः । भार्याया अ-
प्यंशो न दर्शितः । आत्मन एवांशस्तस्या अपीति मन्यते । वक्ष्यति च
‘जायापत्योर्न विभागो विद्यते’ (२. १४. १६) इति ।
केचित्तु पितुर्द्वावंशावित्याहुः । ‘द्वावंशौ प्रतिपद्येत विभजन्नात्मनः
पिते’ ति दर्शनात् । अयमप्याचार्यस्य पक्षो न भवति । यथा पुत्राणा-
मेकैक एवांशस्तसभार्याणां तथा पितुरपीति । यद्वा पुत्राणामेवांशसाम्यं
आत्मनस्त्वधिक्येऽपि न दोषः ।
तत्र हारीतः—
‘पिता ह्याग्रयणः पुत्रा इतरे ग्रहाः यद्याग्रयणः स्कन्देदुपदस्येद्रा
१. ‘अनहौँ’ इति ड पु म. स्मृ. ९ २०१.
२. वृत्यनिमित्ते क्लीबादयस्तु न भर्त्तव्याः, इति ड. पु उन्मत्तपतितौ निवृत्तनि-
मित्तौ इति च. पु.
३. नार. स्मृ १३. ३. ४. म.स्मृ.९.१११. वचनात् इति. क.घ. पुस्तकयोः ।
आप० ध० ३०