आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
१६८ आपस्तम्बधर्मसूत्रे [(प.११)क.३१.
ऽप्सु वर्जयेत् ॥२२॥ अग्निमादित्यमपो ब्राह्मणं गा देव-
ताश्चाऽभिमुखो मूत्रपुरीषयोः कर्म वर्जयेत् ॥ २३ ॥
स्पष्टानि चत्वारि । ष्ठेवनमास्यश्लेष्मादीनामुत्सर्गः । देवताः देवता
प्रतिमाः ॥ १८-२३ ॥
अश्मानं लोष्टमार्द्रानोषधिवनस्पतीनूर्ध्वानाच्छिद्य
मूत्रपुरीषयोः शुन्धने वर्जयेत् ॥ २४ ॥
फलपाकावसाना ओषधयः । ये पुष्पैर्विना फलन्ति ते वनस्पतय ।
'आर्द्रा' निति वचनात् शुष्केषु न दोषः । 'ऊर्ध्वा'निति वचनाद्वातादि-
निमित्तेन भग्नेषु न दोषः । 'एतैरश्मादिभिर्मूत्रपुरीषयोश्शोधनं न कुर्यात् ॥
अग्निमादित्यमपो ब्राह्मणं गा देवताद्वारं प्रति पादं
च शक्तिविषये नाऽभिप्रसारयीत ॥ २५ ॥
शक्तौ सत्यां अग्न्यादीन्प्रति पादौ न प्रसारयेत् ॥ २५ ॥
अथाऽप्युदाहरन्ति ॥ २६ ॥
॥ इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने त्रिंशी कण्डिका ॥ ३० ॥
प्राङ्मुखोऽन्नानि भुञ्जीतोच्चरेद्दक्षिणामुखः ।
उदङ्मुखो मूत्रं कुर्यात्प्रत्यक्पादावनेजनमिति ॥ १ ॥
उच्चारः पुरीषकर्म । पादावनेजनं पादप्रक्षालनम् । भोजनादिषु चत
स्रो नियम्यन्ते । मनुस्तु—
(१)'आयुष्यं प्राङ्मुखो भुंक्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुञ्क(२) ऋतं भुङ्क्ते उदङ्मुखः'॥ इति।
याज्ञवल्क्यश्च—
(३)'दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥' इति ॥ १ ॥
आराच्चाऽऽवसथान्मूत्रपुरीषे कुर्याद्दक्षिणां दिशं
दक्षिणापरां वा ॥ २ ॥
१. म. स्मृ. २. ५२. २. ऋत सत्यं, तत्फलमिच्छन् । ३. या स्मृ. १. १६.
स्नातकधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६९
आवसथो गृहम् । तस्य दूरतो मूत्रपुरीषे कुर्यात्, दक्षिणां दिशम् । द्वि-
तीयानिर्देशादभिनिष्क्रम्येति गम्यते । दक्षिणापरा नैर्ऋती ॥ २ ॥
अस्तमिते च बहिर्ग्रामादारादावसथाद्वा
मूत्रपुरीषयोः कर्म वर्जयेत् ॥ ३ ॥
अस्तमित आदित्ये बहिर्ग्रामान्मूत्रपुरीषे न कुर्यात् । तथा अन्तर्ग्रामेऽपि
गृहस्य दूरतो न कुर्यात् । दृष्टार्थोऽयं प्रतिषेधश्चोरव्याघ्रादिशङ्कया ।
निर्भये देशे नाऽस्ति दोषः ॥ ३ ॥
देवताभिधानं चाऽप्रयतः ॥ ४ ॥
देवतानामग्न्यादीनामभिधानं चाऽप्रयतस्सन् वर्जयेत् । (१)अपिधानमि-
त्यपि पाठे एष एवार्थः ॥ ४ ॥
परुषं चोभयोर्देवतानां राज्ञश्च ॥ ५ ॥
देवतानां राज्ञेश्चोभयोः । राज्यपेक्षया द्विवचनम् । परुषं निन्दां
वर्जयेत् ॥ ५ ॥
ब्राह्मणस्य गोरिति पदोपस्पर्शनं वर्जयेत् ॥ ६ ॥
ब्राह्मणं गां च पादेन नोपस्पृशेत् । इतिशब्दः प्रकारे । तेन विद्यावयो-
वृद्धानामब्राह्मणानामपि वर्जनम् ॥ ॥ ६ ॥
हस्तेन चाऽकारणात् ॥ ७ ॥
कारणमभ्यङ्गकण्डूयनादि । तेन विना हस्तेनाऽप्युपस्पर्शनं वर्जयेत्
पूर्वोक्तानाम् ॥ ७ ॥
गोर्दक्षिणानां कुमार्याश्च परीवादान्वर्जयेत् ॥ ८ ॥
गोरदक्षिणाया अपि दक्षिणानामगवामपि हिरण्यादीनां कुमार्याः
कन्यायाश्च दोषान् सतोऽपि न कथयेत् । अध्यात्मप्रकरणे योगाङ्गतया
परीवादः प्रतिषिद्धः । अनन्तरं च वक्ष्यति(२) 'क्रोधादींश्च भूतदाहीयान्
वर्जयेदिति । इदं तु वचनं गवादिषु प्रायश्चित्तातिरेकार्थम् ॥ ८ ॥
स्पृहतीं च गां नाऽऽचक्षीत ॥ ९ ॥
स्पृहतीं सस्यधान्यादिकं भक्षयन्तीं गां स्वामिने न ब्रूयात् ॥ ९ ॥
संसृष्टां च वत्सेनाऽनिमित्ते ॥ १० ॥
१ अपिधानमित्यपाठः । एष एवार्थ इति ख. ग. पु. २. आप. ध. ३१. २३.
आप० ध० २२
१७० आपस्तम्बधर्मसूत्रे [(प.११.) क.३१.
या च गौर्वत्सेन ससृज्यते तामपि न ब्रूयादनिमित्ते-इयं ते गौर्वत्से-
न पीयत इति । 'अनिमित्ते' इति वचनात् (१) 'यस्य हविषे वत्सा अ-
पाकृता धयेयु'रित्यादिके निमित्ते सति वक्तुर्नास्ति दोषः ॥ १०॥
नाऽधेनुमधेनुरिति ब्रूयात् । धेनुर्भव्येत्येव ब्रूयात् ॥ ११ ॥
या च गौरधेनुः पयस्विनी भवति तामप्यधेनुरिति न ब्रूयात् ॥११॥
किं तर्हि धेनुर्भव्येत्येव ब्रूयात्—भविष्यन्ती धेनुर्घेनुर्भव्या । 'धेनोर्भव्यायां
(मुम् वक्तव्य) इति मुम् न भवति । व्यन्तत्वेनाऽव्ययत्वात् । वक्तव्यत्वे
च सति शब्दनियमोऽयम् । न पुनरधेनुदर्शन एवं वक्तव्यम् ॥१२॥
(२) न भद्रं भद्रमिति ब्रूयात् ॥ १३ ॥
यत् भद्रं तत् भद्रमिति न ब्रूयात् ॥ १३ ॥
किं तु ?
पुण्यं प्रशास्तमित्येव ब्रूयात् ॥ १४ ॥
पुण्यं प्रशास्तमित्यनयोरन्यतरेण शब्देन ब्रूयात् । प्रशास्तं प्रशस्तम्।
छान्दसो दीर्घः ॥ १४ ॥
(३) वत्सतन्तीं च नोपरि गच्छेत् ॥ १५ ॥
वत्सानां बन्धरज्जुर्वत्सतन्ती । तस्या उपरि न गच्छेत् तां न लङ्घयेत् । व-
त्सग्रहणं गोजातेरुपलक्षणम् ॥ १५ ॥
प्रेङ्खावन्तरेण च नाऽतीयात् ॥ ॥ १६ ॥
प्रेङ्खौ डोलास्तम्भौ । तोरणस्तम्भावित्यन्ये । तावन्तरेण नाऽतीयात्—त
योर्मध्ये न गच्छेत् ॥ १६ ॥
नाऽसौ मे सपत्न इति ब्रूयात् यद्यसौ मे सपत्न इति
ब्रूयात् द्विषन्तं भ्रातृव्यं जनयेत् ॥ १७ ॥
असौ देवदत्तो मे सपत्न इति न ब्रूयात् सदसि । किं कारणम् ?
यद्यसौ मे सपत्न इति ब्रूयात् , द्विषन्तं, क्रियाशब्दोऽयम् , विद्विषाणं भ्रातृव्यं
सपत्नं जनयेत् ‘व्यन् सपत्ने' इति भ्रातृशब्दे व्यन्प्रत्ययः । एवं ह्युक्ते स
मन्येत—नाऽकस्मादयं ब्रूते नूनमस्य मयि द्वेषो वर्तत इति । ततश्च तत्प्र-
तीकारार्थं यतमानसपत्न एव जायते इति ॥ १७ ॥
१ आप. श्रौ. ९. १. २३. २. म स्मृ. ४. १३९. ३ म. स्मृ. ४ ३८.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७१
नेन्द्रधनुरिति परस्मै प्रब्रूयात् ॥१८॥
इन्द्रधनुराकाशे पश्यन् परस्मै तेन शब्देन न ब्रूयात् । यद्यवश्यं
वक्तव्यं मणिधनुरिति ब्रूयात् । गौतमीये (१) दर्शनात् ॥ १८ ॥
न पततः सञ्चक्षीत ॥ १६ ॥
पततः पक्षिणः सङ्घीभूय स्थितान्न सञ्चक्षीत न गणयेत्--इयन्त एत
इति । अपर आह--'पुण्यक्षयेण स्वर्गात्पततः सुकृतिनः परस्मै न सञ्च-
क्षीत-ज्योतींषि पतन्तीति न कथयेत् ॥ १९ ॥
उद्यन्तमस्तं यन्तं चाऽऽदित्यं दर्शने वर्जयेत् ॥ २० ॥
उदयसमये अस्तमयसमये वा आदित्यं न पश्येत् ।
(२)मनुस्तु-
नेक्षेतोद्यन्तमादित्यं नाऽस्तं यन्तं कदाचन ।
नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥' इति ॥ २० ॥
दिवाऽऽदित्यः सत्त्वानि गोपायति नक्तं चन्द्रमाः ।
तस्मादमावास्यायां निशायां स्वाधीय आत्मनो गुप्तिमि-
च्छेत् प्रायतव्यव्रह्मचर्य्यकाले चर्य्यया च ॥ २१ ॥
दिवा अहनि । आदित्यः सत्त्वानि गोपायति प्राणिनो रक्षति, आलोकदा-
नेन । नक्तं रात्रौ चन्द्रमाः । तस्मादमावास्यायां निशायां रात्रौ स्वाधीयः। वका-
रश्छान्दसः । अन्तिकबाढयोर्नेदसाधौ । बाढतरं भृशतरं आत्मनो गुप्तिं
रक्षणमिच्छेत् । केन प्रकारेण ? प्रायत्यब्रह्मचर्याभ्यां काले चर्यया च । अयं
तावदर्थानुरूपः पाठः । अधीयमानस्तु प्रमादश्छान्दसो वा । प्रयतस्य
भावः प्रायत्यूं नित्यप्रायत्यादाधिकेन प्रायत्येन स्नानादिजेन । ब्रह्मचर्येण
मैथुनत्यागेन । काले कृत्या चर्यया देवार्चनजपादिकया च ॥२१॥
कस्मात्पुनरस्यां रात्रौ चन्द्रमा न गोपायतीत्याह-
सह ह्येतां रात्रिं सूर्याचन्द्रमसौ वसतः ॥ २२ ॥
एतां रात्रिम् । अत्यन्तसंयोगे द्वितीया । सर्वामेतां रात्रिं सूर्याचन्द्रमसौ
सह वसतः । न च सूर्येण सह वसतश्चन्द्रमसः प्रकाशोऽस्ति ॥ २२ ॥
न कुसृत्या ग्रामं प्रविशेत् ॥ २३ ॥
कुसृतिः कुमार्गः । तया ग्राम न प्रविशेत् ॥ २३॥
१. गौ. ध. ९. २२. \qquad\qquad २. म स्मृ ४. ३६.
१७२ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. ३१.
यदि प्रविशे 'न्नमो रुद्राय वास्तोष्पतय' इत्येतामृचं
जपेदन्यां वा रौद्रीम् ॥ २३ ॥
यदि गत्यन्तराभावात् प्रविशेत्(१) 'नमो रुद्राये' त्यादिकामृचं जपेत् । अ-
न्यां वा रौद्रीम्(२) 'इमां रुद्राय तवस'इत्यादिकाम्। अत्र वाजसनेयगृहो-
(३)'वनं प्रवेक्ष्यन्ननुमन्त्रयते 'नमो रुद्राय वनसदे स्वस्ति मा सम्पारये'
ति । पन्थानमारोक्ष्यन्ननुमन्त्रयते 'नमो रुद्राय पथिषदे स्वस्ति मा स-
म्पारये'ति । अपः प्रवेक्ष्यन्ननुमन्त्रयते—'नमो रुद्रायोऽप्सुषदे स्वस्ति
मा सम्पारये'ति । तस्माद्यत्किञ्चन कर्म कुर्वन् स्यात् सर्वं 'नमो रुद्राये'
त्येव कुर्यात् 'सर्वो ह्येष रुद्र' इति श्रुतेरिति । भारद्वाजगृहोऽप्यस्मि-
न्विषये कियानेव भेदः ॥ २४ ॥
नाऽब्राह्मणायोच्छिष्टं प्रयच्छेत् ॥ २५ ॥
अब्राह्मणः शूद्रः । (४)'न शूद्रायोच्छिष्टमनुच्छिष्टं वा दद्या'दिति वा-
सिष्ठे दर्शनात् । तस्मा उच्छिष्टं न प्रयच्छे'दित्यनाश्रितविषयम् ॥२५॥
यदि प्रयच्छेद्दन्तान् स्कुप्त्वा तस्मिन्नवधाय प्रयच्छेत्॥२६॥
इदमाश्रितविषयम् । दन्तान्नखेन स्कुप्त्वा विल्लिख्य तन्मलं तस्मिन्नु-
च्छिष्टेऽवधाय प्रयच्छेत् । 'स्कुप्त्वे'ति स्कुभ्नातेः क्त्वाप्रत्यये छान्दसं भ-
कारस्य चर्त्वम् । स्कुनोतेर्वा पकार उपजनः ॥ २६ ॥
क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ॥ २७ ॥
क्रोधादयो भूतदाहीया अध्यात्मपटले(२२.५) व्याख्याताः । तद्वचनं योगि-
विषयमित्ययोगिनोऽपि स्नातकस्य क्रोधादिनिवृत्त्यर्थमिदं वचनम् ।
इदमेव तर्ह्युभयार्थमस्तु—योग्यर्थमयोग्यथं च । एवं सिद्धे तद्वचनं क्रो-
धादिवर्जनस्य योगाङ्गत्वप्रतिपादनार्थम् । तेन क्रोधाद्यनुष्ठाने योगसि-
द्धिर्न भवति । न पुनः स्नातकव्रतलोपप्रायश्चित्तमिति ॥ २७ ॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने एकत्रिंशी कण्डिका ॥ ३१ ॥
१. ब्रा ३. ७ ९ नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे । उत्थायने यत्प-
रायणे । आवर्तने निवर्तने । यो गोपायति त० हुवे ॥ इति समग्रा ऋक् ॥
२. 'इमां रुद्राय तवसे कपर्दिने क्षयद्वीराय' इतिषष्ठाध्यायगता (तै०सं०४ ५.१०)
३ पार. गृ. ३. १५. ११. ४. व. ध. १८ १४.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७३
प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेत् ॥ १ ॥
प्रवचनमध्यापनम् । तेन युक्तो वर्षासु शरदि च मैथुनं वर्जयेत् ऋतावपि॥१॥
मिथुनीभूय च न तया सह सर्वां रात्रिं शयीत ॥ २ ॥
मिथुनीभूय मैथुनं कृत्वा तया भार्यया सह तां रात्रि सर्वां न शयीत ॥ २ ॥
शयानश्चाऽध्यापनं वर्जयेत् ॥ ३ ॥
दिवा नक्तं च शयानस्याऽध्यापनप्रतिषेधः। स्वयं तु धारणार्थमधी-
यानस्य न दोषः ॥ ३ ॥
न च तस्यां शय्यायामध्यापयेद्यस्यां शयीत ॥ ४ ॥
यस्या शय्यायां भार्यया सह शयीत रात्रौ तस्यां शय्यायामासीनोऽपि
नाऽध्यापयेत् ॥ ४ ॥
अनाविःस्रगनुलेपणस्स्यात् ॥ ५ ॥
आविर्भूते प्रकाशिते स्रगनुलेपने यस्य एवंभूतो न स्यात् । णत्वं पूर्ववत्॥
सदा निशायां दारं प्रत्यलङ्कुर्वीत ॥ ६ ॥
'दारं प्रती'ति वचनादुपगमनार्थमलङ्करणम् । तेन भार्याया अश-
क्त्यादिना उपगमनायोग्यत्वे नाऽयं नियमः ॥ ६ ॥
सशिरा वमज्जनमप्सु वर्जयेत् ॥ ७ ॥
वमज्जनमवमज्जनम् । 'वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयो' रि-
त्यकारलोपः । तत्सशिरा वर्जयेत् । सह शिरसा स्नानं न कुर्यात् । अवगा-
हनविधयः सर्वे स्नातकव्यतिरिक्ते चरितार्थाः, नैमित्तिकाश्च । स्नात-
कस्य तु नित्यस्नानमवगाहनरूपं न भवतीत्याचार्यस्य पक्ष ॥ ७ ॥
अस्तमिते च स्नानम् ॥ ८ ॥
अस्तमिते आदित्ये सर्वप्रकारं स्नानं वर्जयेत् ॥ ८ ॥
पालाशमासनं पादुके दन्तप्रक्षालनमिति च वर्जयेत् ॥९॥
पालाशमासनादि वर्जयेत् । दन्तप्रक्षालन दन्तकाष्ठम् । इतिशब्दः प्रकारे ।
तेनाऽन्यदपि गृहोपकरणं पालाशं वर्जयेत् ॥ ९ ॥
स्तुतिं च गुरोस्समक्षं यथा सुस्नातमिति ॥ १० ॥
१७४ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. ३२.
'सुस्नात' मित्यादिकां च स्तुतिं गुरोस्सन्निधौ वर्जयेत् ॥ १० ॥
आ निशाया जागरणम् ॥ ११ ॥
निशा रात्रेर्मध्यमो भागः । आ तस्मात् जागृयात् न स्वप्यात् ॥११॥
अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः॥१२॥
निशायामनध्यायः अध्ययनमध्यापनं च न कुर्यात् । शिष्येभ्यस्तु धर्मो-
पदेशोऽनुज्ञायते ॥ १२ ॥
मनसा वा स्वयम् ॥ १३ ॥
निशायामनध्यायस्य प्रतिप्रसवः-मनसा वा स्वयं चिन्तयेदिति ।१३।
ऊर्ध्वमर्धरात्रादध्यापनम् ॥ १४ ॥
अयमपि प्रतिप्रसवः । निशायामपि षोडश्या नाडिकाया आरभ्या-
ध्यापनं भवतीति ॥ १४ ॥
नाऽपररात्रमुत्थायाऽनध्याय इति संविशेत् ॥ १५ ॥
रात्रेस्तृतीयो भागोऽपररात्र. । ऊर्ध्वमर्धरात्रादुत्थायाऽध्यापयन्नपररात्रे
न संविशेत् न शयीत । यद्यपि तस्मिन्नष्टम्यादिरनध्यायः प्राप्तो भवति ।
किं पुनः स्वाध्याये । तथा च मनुः—
(१)'न निशान्ते परिश्रान्तो ब्रह्माऽधीत्य पुनः स्वपेत् ।' इति ॥१५॥
(२)काममपश्शयीत ॥ १६ ॥
अनेन स्तम्भाद्युपाश्रयेणाऽऽसीनस्य स्वापोऽनुज्ञायते । श्रिञ्सेवा-
याम् । तत्र रेफलोपश्चान्दसः । तथा शकारस्य द्विर्वचनम् ॥ १६ ॥
मनसा वाऽधीयीत ॥ १७ ॥
अयमप्यूर्ध्वमर्धरात्रादुत्थायाऽध्यापयतोऽनध्यायप्राप्तावेवोच्यते । म-
नसा प्राप्तं प्रदेशमधीयीत स्वयं चिन्तयेत् । उपाश्रित्य वा स्वप्यात् ॥१७॥
क्षुद्रान् क्षुद्राचरितांश्च देशान्न सेवेत ॥ १८ ॥
क्षुद्रानल्पकान् पुरुषान्न सेवेत । क्षुद्रैर्निषादादिभिरधिष्ठितांश्च
देशान्न सेवेत ॥ १८ ॥
सभास्समाजांश्च ॥ १९ ॥
१. म स्मृ ४. ९९ २ काममुपशयीत इति ग. पु.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७५
सभाससमाजाश्च व्याख्याताः । तान्न सेवेत ॥ १९ ॥
समाजं चेद्गच्छेत्प्रदक्षिणीकृत्याऽपेयात् ॥ २० ॥
यद्यर्थात् समाजं गच्छेत् तं प्रदक्षिणीकृत्याऽपेयादपगच्छेत् ॥ २० ॥
नगरप्रवेशनानि च वर्जयेत् ॥ २१ ॥
बहुवचननिर्देशात् बहुकृत्वो नगरं न प्रवेष्टव्यम् । यदाकदाचिदा-
दृष्टिलुके प्रवेशे न प्रायश्चित्तम् ॥ २१ ॥
प्रश्नं च न विब्रूयात् ॥ २२ ॥
विविच्य वचनं विवचनं निर्णयः । पृष्टमर्थं न विविच्य ब्रूयादिद-
मित्थमिति । दुर्निरूपार्थविषयमिदम् ॥ २२ ॥
अथाऽप्युदाहरन्ति ॥ २३ ॥
अपि चाऽस्मिन्नर्थे श्लोकमुदाहरन्ति ॥ २३ ॥
मूलं तूलं वृहति दुर्विंवक्तुः प्रजां पशूनायतनं हिनस्ति ।
धर्मप्रह्लाद न कुमालनाय रुदन् ह मृत्युर्व्युवाच प्रश्नम् ।
इति ॥ २४ ॥
दुर्निरूपमर्थं सहसा निर्णीय यो दुर्विंवक्ति अन्यथा वर्णयति स दु-
र्विवक्ता । तस्य दुर्विंवक्तुस्तदेव दुर्वचनमेव मूलं तूलं च वृहति । मूलं पितृध-
नम् । तूलमागामिनी सम्पत् । तदुभयमपि वृहति उत्पाटयति । दन्तोष्ठ्यो
वकारः। किमेतावदेव ? न, प्रजां पुत्रादिकाम् । पशून् गवादिकान् । आयतनं
गृहं च हिनस्ति । अतो दुर्वचनसम्भवात् प्रश्नमात्रमेव न विब्रूयादिति।
अत्रेतिहासः-कस्यचिदृषेर्धर्मप्रह्लादः कुमालनश्चेति द्वौ शिष्यावास्ताम् ।
तौ कदाचिदरण्यान्महान्तौ समिद्धारावाहृत्य श्रमा(१)द्ददृष्टिपूत एवाचा-
र्यगृहे प्राक्षिपताम् । तयोरेकेनाऽऽक्रान्त आचार्यस्य शिशुः पुत्रो मृतः ।
ततः शिष्यावाहूयाऽऽचार्यः पप्रच्छ-केनायं मारित इति । तावुभावपि न
मयेत्यूचतुः । तथा पतितस्य परित्यागमदुष्टस्य परिग्रहं कर्तुमश-
क्नुवन्नृषिर्मृत्युमाहूय पप्रच्छ-केनाय व्यापादित इति । ततो धर्मसङ्क-
टे पतितो मृत्यूरुदन्नेव प्रश्नं व्युवाच विविच्य कथितवान्। कथम् ? हे
धर्मप्रह्लाद न कुमालनाय । षष्ठ्यर्थे चतुर्थी । कुमालनस्य नेदं पतनीयमिति ।
१. दृष्टिपथ एव इति ख. पु.
१७८ आपस्तम्बधर्मसूत्रे [ (१११.) क. ३२.
धर्मप्रह्राद त्वयेदं कृतमिति वक्तव्ये इतरस्य नाऽस्तीत्युक्तम् । तथा
पीतरस्यास्तीत्यर्थाद्गम्यते । इति रुदन् ह व्युवाचेति । हशब्द ऐतिह्य
त्वद्योतनार्थः । प्रह्रादशब्दे हकारात्परो रेफश्छान्दसः ॥ २४ ॥
गार्दभं यानमारोहणे विषमारोहणाव-
रोहणानि च वर्जयेत् ॥ २५ ॥
गर्दभयुक्तं यानं गर्दभं शकटादि । आरोहणे वर्जयेत् नाऽऽरोहेत् । तथा
विषमेषु निम्नोन्नतेष्वारोहणमवरोहणं च वर्जयेत् । उन्नतेष्वारोहणं नि-
म्नेष्ववरोहणम् ॥ २५ ॥
बाहुभ्यां च नदीतरणम् ॥ २६ ॥
तरण तरः । बाहुभ्यां च नद्यास्तरणं वर्जयेत् । 'बाहुभ्यां' मिति व-
चनात् प्लवादिना न दोषः ॥ २६ ॥
नावं च सांशायिकीम् ॥ २७ ॥
भिद्यते न वेति संशयमापन्ना सांशायिकी नौः । जीर्णां नावं वर्जयेत् ।
'नावा' मिति षष्ठ्यन्तपाठे नावां मध्ये सांशायिकीं नावं वर्जयेत् ॥ २७ ॥
तृणच्छेदनलोष्टविमर्दनष्ठेवनानि चाऽकारणात् ॥ २८ ॥
तृणच्छेदनादि नाऽकारणाद्वर्जयेत् न कुर्यात् । तृणच्छेदनस्याऽग्नि
ज्वलनादि कारणम् । ष्ठेवनस्य कारण प्रतिश्यायादि । इतरच्च मृग्यम् ॥
यच्चाऽन्यत्परिचक्षते यच्चाऽन्यत्परिचक्षते ॥ २९ ॥
यच्चाऽन्यदेवं युक्तमाचार्याः परिचक्षते वर्जयन्ति तदप्यक्षक्रीडादि वर्ज-
येत् । द्विरुक्तिः प्रश्नपरिसमाप्तिकृता ॥ २९ ॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने द्वात्रिंशी काण्डका ॥ ३२ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायामेकादशः पटलः ॥
॥ समाप्तः प्रथमः प्रश्नः ॥
॥ श्रीः ॥
आपस्तम्बधर्मसूत्रे उज्ज्वलोपेते
अथ द्वितीयः प्रश्नः ॥
पाणिग्रहणादधि गृहमेधिनोर्व्रतम् ॥ १ ॥
पूर्वस्मिन् प्रश्ने आद्ययोः पटलयोः प्रायेण ब्रह्मचारिणो धर्मा उक्ताः ।
इतरेष्वष्टसु सर्वाश्रमाणां । एकादशे समावृत्तस्य । इदानीं पाणिग्रहणा-
दारभ्य कर्तव्यानि कर्माण्युच्यन्ते । पाणिर्यस्मि(१)न्ग्रहनि गृह्यते तत्पा-
णिग्रहणम्(२) । अधिशब्द ऊर्ध्वार्थे वर्तते । तस्मादूर्ध्वं गृहमेधिनोर्गृहस्था-
श्रमवतोः यद्व्रतं नियतं कर्तव्यम्, जातावेकवचनम्, तदुच्यते । 'पाणि-
ग्रहणादधी'ति वचने(३)'भार्यादिरग्निर्दायादिर्वे'ति शास्त्रान्तरोको वि-
कल्पो मा भूदिति । 'गृहमेधिनो'रिति द्विवचनमन्यतरमरणे मा भूदि-
ति(४) । वैश्वदेवं तु विधुरा अपि कुर्वन्ति ॥ १ ॥
कालयोर्भोजनम् ॥ २ ॥
कालयोरुभयोरपि भोजनं कर्तव्यम्—सायं प्रातश्च, नाऽन्तरेति परिसं-
ख्येयम्, भोजनस्य रागप्राप्तत्वात् । मानवे च स्पष्टमुक्तम्—
(५)'सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् ।
नाऽन्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥' इति ।
अन्ये तु नियमं मन्यन्ते(६) शक्तौ सत्यां गृहमेधिनोरुभयोरपि
कालयोरवश्यं भोक्तव्य प्राणाग्निहोत्रस्याऽलोपायेति ।
१. यस्मिन् कर्माणि इति. क ड. पु. २. चतुर्थीकर्मान्तो विवाहः इत्यधिकं ड पु
३. गौ. ध ५ ७
४. अनेकभार्यस्य एकस्यामपि सत्या भवत्येव । अनेकाश्रितस्याऽधिकारस्य विद्यमा-
नत्वाच्छाखान्तरत्वाच्च । इत्यधिकं क पु.
५. वचनमिदं मुद्रितमनुस्मृतिकोशेषु नाऽस्ति । परं तु बहुषु निबन्धेषु परं मान-
वत्वेनोपन्यस्तम् ।
६. शक्तौ सत्या कालयोर्वर्जने च प्राणाग्निहोत्रलोपः । तस्यालोपाय कालयोरवश्यं
भोजनं कर्तव्यमिति ढ पुस्तके पाठः ।
आप० ध० २३
१७८ आपस्तम्बधर्मसूत्रे [ (प्र.१.) क. १.
तथा च बौधायनः-
(१)'गृहस्थो ब्रह्मचारी वा योऽनश्नंस्तु तपश्चरेत् ।
प्राणाग्निहोत्रलोपेन ह्यवकीर्णी भवेत्तु सः ॥' इति ।
(२)अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तु तदेव विधानमिति ॥ २ ॥
अतृप्तिश्चाऽन्नस्य ॥ ३ ॥
सुहितार्थयोगे करणे षष्ठी भवति । (३)पूरणगुणसुहितार्थे'ति ज्ञा-
पनात् । अन्नेन तृप्तिं न गच्छताम् । यावत्तृप्ति न भोक्तव्यम् ॥ ३ ॥
पर्वसु चोभयोरुपवासः ॥ ४ ॥
पक्षसन्धिः पर्व । इह तु तद्युक्तमहर्गृह्यते । तेषु पर्वसूभयोर्दम्पत्यो-
रुपवासः कर्तव्यः । उपवासो भोजनलोपः ॥ ४ ॥
अविशेषादुभयोरपि कालयो. प्राप्तावाह-
औपवस्तमेव कालान्तरे भोजनम् ॥ ५ ॥
यत्कालान्तरे एकस्मिन् काले भोजन तदप्यौ(४)पवस्तमेव उपवास
एव । (५)'औपवस्तं तूपवासः' इति निघण्टुः । तदपि दिवा, न रात्रौ;
श्रौते तथा दर्शनात् (६)'न तस्य सायमश्नीया'दिति । तदिह (७)'एव
मत ऊर्ध्व'मित्यादि गृह्ये यदुक्तं तत्रत्य उपवासो व्याख्यातः ॥ ५ ॥
तृप्तिश्चाऽन्नस्य ॥ ६ ॥
पर्वसु सकृद्भुञ्जानौ यावत्तृप्ति भुञ्जीयाताम् ॥ ६ ॥
यच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहनि भुञ्जीयाताम् ॥ ७॥
'एतस्मिन्नहनी'ति न वक्तव्यम् । प्रकृतत्वात् । यथा 'तृप्तिश्चान्नस्ये'
ति पर्वसु भवति, एवमिदमपि भविष्यति । किं च 'पर्वस्वि'ति बहुव
चनान्तस्य प्रकृतस्य 'एतस्मिन्नहनी'त्येकवचनान्तेन प्रत्यवमर्शो नाऽतीव
समञ्जसः । तस्माद्व्यवहितमपि पाणिग्रहणमहः प्रत्यवमृश्यते । एतदर्थ-
१. बौ ध २. ७ २४ २. अय भागो घ. पुस्तके नास्ति ।
३. पा. सू. २. २. ११
४. 'वसु, स्तम्भ' इत्यस्मादैवादिकाद्भावे के स्वार्थेऽणि च सति औपवस्तमिति
रूपं, धातुनामनेकार्थत्वादभोजने वृत्तिरिति च वेदितव्यम् ।
५. नामलि. का. २. ब्र व. ३८ ६. आप श्रौ. ३. ७. आप. गृ. ७. १७.
गृहस्थधर्मा: ] उज्ज्वलोपेते द्वितीय: प्रश्न: । १७९
मेव च गृहे (१) 'एतदहर्विजानीयाद्यदहर्भार्यामावहत' इत्युक्तम् । एतस्मिन्
पाणिग्रहणेऽहनि यदेनयोर्दम्पत्योः प्रियं तत् भुञ्जीयाताम् । न तु 'नाऽऽत्मार्थ-
मभिरूपमन्नं पाचये' (२-७-४) दिति निषेधस्याऽयं विषय इति । प्रतिसंव-
त्सरं चैतत्कर्तव्यम् । यथा चैत्रे मासि स्वातौ कृतविवाहस्याऽपरस्मिन्नपि
संवत्सरे तस्मिन्मासे स्वातावेव कार्यम् । एवं हि तदेवाऽहरिति भवति ।
प्रतिमासं तु नक्षत्रागमेऽपि चैत्रादिभेदान्न तदेवेति प्रतिपत्तिः । तस्मात्
प्रतिसंवत्सरमिदं विवाहनक्षत्रे कर्तव्यम् । (२) यथा राज्ञामभिषेकनक्षत्र
मेवं हि गृहमेधिनोर्विवाहनक्षत्रमिति ॥ ७ ॥
अधश्च शयीयाताम् ॥ ८ ॥
एतस्मिन्नहनि स्थण्डिलशायिनौ स्याताम् ॥ ८ ॥
मैथुनवर्जनं च ॥ ९ ॥
(३) मैथुनवर्जनं चैतस्मिन्नहनि कर्तव्यम् ॥ ९ ॥
श्वो भूते स्थालीपाक: ॥ १० ॥
स्थालीपाकश्च कर्तव्योऽपरेद्युः ॥ १० ॥
तस्योपचारः पार्वणेन व्याख्यातः ॥ ११ ॥
तस्य स्थालीपाकस्योपचारः प्रयोगप्रकारः पार्वणेन व्याख्यातः । एतदेव
ज्ञापयति-न सामयाचारिकेषु पार्वणातिदेश प्रवर्तत इति । केचित्तु
सर्वमेवैतत्पर्वविषयं मन्यन्ते । तेषामुक्त्तो दोषः । 'पार्वणेन व्या
ख्यात' इति चाऽनुपपन्नम् । न हि स एव तेन व्याख्यातो भवति । 'श्वो
भूते स्थालीपाक' इति च व्यर्थम् । (४) 'उपोषिताभ्यां पर्वसु कार्य'
इति पूर्वमेवोक्तत्वात् । 'एतदहर्विजानीया' दिति चास्य प्रयोजनं तत्पक्षे
चिन्त्यम् (५) ॥ ११ ॥
नित्यं लोक उपदिशन्ति ॥ १२ ॥
लोके शिष्टाचासिद्धमेतत्कर्म नित्यं प्रतिसंवत्सरं कर्तव्यमिति शिष्टा
उपदिशन्ति ।
अपर आह—वक्ष्यमाणं कर्म शिष्टाचारासिद्धं नित्यं सार्वत्रिक इति
१. आप गृ ८. ७ २. यथा इत्यादिग्रन्थः घ. ङ पुस्तकयोर्नास्ति ।
३. 'एतस्मिन्नहनि तन्न कर्तव्यम्' इति छ. पु ४ आप. गृ. ७. १७.
५. सूत्रस्वारस्यं तु पर्वविषयत्व एव पश्यामः ।
३. द्वितीय प्रश्न (पटल १-५): गृहस्थ-धर्म व पंचमहायज्ञ
१८० आपस्तम्बधर्मसूत्रे [ (प.१.) क.१.
शिष्टा उपदिशन्ति ॥ १२ ॥
यत्र क चाऽग्निमुपसमाधास्यन् स्यात्तत्र प्राचीरुदी-
चीश्च तिस्रस्तिस्रो रेखा लिखित्वाऽद्भिरवोक्ष्या-
ऽग्निमुपसमिन्ध्यात् ॥ १३ ॥
होमप्रसङ्गादिदमुच्यते—यत्र क्व च गार्ह्ये सामयाचारिके वा कर्म
णि गृहेऽरण्ये वाऽग्निमुपसमाधास्यन् प्रतिष्ठापयिष्यन् स्यात्तत्र पूर्वं प्राचीः प्रा
गग्रास्तिस्रो रेखा विलिखेत् । तत उदीचीः उदगग्रास्तिस्रः । एव तिस्रो लेखा लि-
खित्वाऽद्भिरवोक्षेत् । अवोक्ष्याऽग्निं श्रोत्रियागारादाहृत्य प्रतिष्ठाप्योपसमिन्ध्यादु-
पसमिन्धीत काष्ठैरभिज्वलयेत् । तत्र(१) 'पुरस्तादुदग्वोपक्रमः, तथाप-
वर्ग' इति परिभाषितम् । उपदेशक्रमाच्च प्राच्यः पूर्वं लेखा लेखनीयाः
ततश्चोदीच्यः(२) ।
(३)प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् ।
अथोदीचीः पुरस्संस्थं पश्चिमारम्भमालिखेत् ॥
(४)अन्ये तु प्राचीरुद्गारम्भं दक्षिणान्तमालिखन्ति ॥ १३ ॥
उत्सिच्यैतदुदकमुत्तरेण पूर्वेण वाऽन्यदुपदध्यात् ॥१४॥
एतदवोक्षणशेषोदकमग्नेरुत्तरतः पूर्वतो वा उत्सिञ्चेत् । उत्सिच्याऽन्य
दुदकं पात्रस्थमुपदध्यात्तत्रैव ॥ १४ ॥
नित्यमुदधानान्धद्भिररिक्तानि स्युर्गृहमेधिनोव्रतम् ॥१५॥
गृहे यावन्त्युदधानान्युदपात्राणि घटकरादीनि तानि सदाऽद्भिररिक्तानि
स्युः । एतदपि गृहमेधिनोव्रतम् । पुनः 'गृहमेधिनो'रिति वचनमस्मिन् कर्मणि
स्वयं कर्तृत्वमेव यथा स्यात् प्रयोजककर्तृत्व मा भूदिति ।
अन्य आह—पुन 'गृहमेधिनो'रिति वचनात् पूर्वसूत्रं ब्रह्मचारिवि
षयेऽपि 'सावित्र्या समित्सहस्रमादध्या' (१.२६.१.) दित्यादौ भवति ।
पाके तु स्त्रिया न भवति । 'उपसमाधास्य'न्निति लिङ्गस्य विवक्षित-
त्वात् । आर्याः प्रथता' (२.३.१.) इत्यादौ भवतीति ॥ १५ ॥
१. आप. गृ. १. ५, ६.
२. ‘एकमेवेदं कर्मलेखाकरणं नाम स्थण्डिलसंस्काररूपम् । ततश्च’ इत्याधिकं घ.ड पु.
३. प्राचीः पूर्वं दक्षिणान्तमुद्गारभ्यमालिखेत् । इति ख. च. पु.
४. अन्ये तु प्राचीर्दक्षिणारम्भमालिखन्ति इति च. पु. ।
गृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८१
अहन्यसंवेशनम् ॥ १६ ॥
संवेशनं मैथुनं तदहनि न कर्तव्यम् ॥ १६ ॥
ऋतौ च सन्निपातो दारेणाऽनुव्रतम् ॥ १७ ॥
रजोदर्शनादारभ्य षोडशाहोरात्रा ऋतुः । तत्र च सन्निपातः संयागो
दारेण सह कर्तव्यः । छान्दसमेकवचनम् । (१) नित्यं बहुवचनान्तो हि
दारशब्दः । अनुव्रतं शास्त्रतो नियमो व्रतं, तदनुरोधेन । तत्र मनुः—
(२)'ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिरितरैस्सार्धमहोभिस्सद्विगर्हितैः ॥
तासामाद्याश्चतस्रस्तु निन्द्या एकादशी च या ।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः' ॥
(३)'अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ॥
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ।' इति ।
याज्ञवल्क्यस्तु—
(४)एव गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । इति ।
आचार्यस्तु चतुर्थीप्रभृति गमनमाह—(५)'चतुर्थीप्रभृत्याषोड-
शीमुत्तरामुत्तरां युग्मां प्रजानिश्रेयसमृतुगमनमित्युपदिशन्ति' इति ।
तदिह षोडशसु रात्रिष्वादितस्तिस्रस्सर्वथा वर्ज्याः । चतुर्थ्ये-
कादशी त्रयोदशी चाऽऽचार्येणानुज्ञाताः मनुना निषिद्धाः ।
इतरासु दशसु युग्मासु पुत्रा जायन्ते, स्त्रियोऽयुग्मासु । तत्र चो-
'त्तरामुत्तरा' मिति वचनात् षोडश्यां रात्रौ मघादियोगाभावे गच्छत-
स्सर्वत उत्कृष्टः पुत्रो भवति । चतुर्थ्यामवमः। मध्ये कल्प्यम्। एवं पञ्चद-
श्यामुत्कृष्टा दुहिता । पञ्चम्यामवमा । मध्ये कल्प्यम् । षोडशस्वेव ग
मनं गर्भहेतुः । तत्रापि प्रथमम् । एवं स्थिते नियमविधिरयं-योग्यत्वे स
त्यृताववश्यं सन्निपतेत् , असन्निपतन् पुत्रोत्पत्तिं निरुन्धानः प्रत्यवेया-
दिति । तथा च दोषस्मृतिः—
(६)'ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।
तस्या रजसि तं मासं पितरस्तस्य शेरते ॥' इति ।
पुत्रगुणार्थितया पूर्वों पूर्वी वर्जयतो न दोषः । अन्ये तु परिसङ्ख्यां
१. नित्यं बहुवचनान्तो हि दारशब्दः इति नास्ति क. पु.
२. म. स्मृ ३ ४६, ४७. ३ म स्मृ. ४. १२८.
४. या स्मृ. १ ८०. ५. आ प गृ ९. १ ६. बा. व ४. १०. २०.
१८२ आपस्तम्बधर्मसूत्रे [ (प्र. २.) क. १.
मन्यन्ते—ऋतावेव सन्निपतेन्नाऽन्यत्रेति । तेषामृतावनियमाद्गमनेऽपि
दोषाभावाद्दोषस्मरणमनुपपन्नं स्यात् । सर्वथा विधिर्न भवति । राग-
प्राप्तत्वात्सन्निपातस्य ॥ १७ ॥
अन्तरालेऽपि दार एव ॥ १८ ॥
अन्तराल मध्यम्। ऋत्वोरन्तराले मध्येऽपि सन्निपातः स्यात् दार एव
सकामे सति । यद्यात्मनो जितेन्द्रियतया न तादृशं पारवश्यम् , त-
थाऽपि भार्यायामिच्छन्त्यां तद्रक्षणार्थमवश्यं सन्निपतेदिति । वक्ष्यति
च (१) 'अप्रमत्ता रक्षथ तन्तुमेतं' (२.१३.६.) मित्यादि । अनुव्रतमित्य-
नुवृत्तेः प्रतिषिद्धेषु दिनेषु न भवति ॥ १८ ॥
ब्राह्मणवचनाच्च संवेशनम् ॥ १९ ॥
यदिदमनन्तरोक्तं संवेशनं तत्र ब्राह्मणवचनं प्रमाणं (२)'काममावि-
जनितोस्सम्भवामे'ति ॥ १९ ॥
स्त्रीवाससैव सन्निपातस्स्यात् ॥ २० ॥
एवकारो भिन्नक्रमः। स्त्र्युपभोगार्थं वासः स्त्रीवासः । तेन सन्निपात एव
स्यात् । न तेन सुप्रक्षालितेनाऽपि ब्रह्मयज्ञादि कर्त्तव्यमिति यावत् ॥२०॥
यावत्सन्निपातं चैव सह शय्या ॥ २१ ॥
यावत्सन्निपातमेव दम्पत्योस्सह शयनम् ॥ २१ ॥
ततो नाना ॥ २२ ॥
ततः पृथक्शयीयाताम् ॥ २२ ॥
उदकोपस्पर्शनम् ॥ २३ ॥
ततो द्वयोरप्युदकोपस्पर्शनं स्नानं कर्तव्यम् । इदमृतुकाले ॥ २३ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां श्रीहरदत्तविरचितायां
द्वितीयप्रश्ने प्रथमा कण्डिका ॥ १॥
१. बौ. ध २. २. ३६. द्रष्टव्यम् ।
२. तै सं. २. ५ १. यावत्प्रसूति संभोगं प्राप्नुयामेत्यर्थः । अयं स्त्रीभिरिन्द्रात्
प्रार्थितो वर ।
गृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८३
अपि वा लेपान्प्रक्षाल्याऽऽचम्य प्रोक्षणमङ्गानाम् ॥ १ ॥
अपि वा रेतसो रजसश्च ये लेपास्तानद्भिर्मृदा च प्रक्षाल्याऽऽचम्य
अङ्गानां प्रोक्षणं शिरःप्रभृतीनां कर्तव्यम्(१)। रुचितो व्यवस्था। याव-
ता प्रयतो मन्यते ॥ १ ॥
सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् ॥ २ ॥
सर्वेषामेव वर्णानां ब्राह्मणादीनां चतुर्णां ये स्वधर्मा वर्णप्रयुक्ता आश्रम-
प्रयुक्ता उभयप्रयुक्ता वा तेषामवैगुण्यनाऽऽन्तादनुष्ठाने सति परमुत्कृष्टं
अपरिमितमक्षयं सुखं स्वर्गाख्यं भवति ॥ २ ॥
न केवलमेतावत् । किं तर्हि ?
ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं
मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते
तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ॥ ३ ॥
ततः सुखानुभवानन्तरं परिवृत्तिरिह लोके जन्म भवति । तस्यां च
कर्मणां यः फलशेषोऽभुक्तोऽशः, तेन जातिं ब्राह्मणादिकां विशिष्टे वा कुले
जन्म। रूपं कान्तिम्। वर्णं हेमादितुल्यम्। बलं प्रतिपक्षनिग्रहक्षमम् । मेधां(२)
ग्रन्थधारणशक्तिम्। प्रज्ञां अर्थधारणशक्तिम्। द्रव्याणि स्वर्णादीनि । धर्मानुष्ठानम्
इतिकरणाद्यच्चाऽन्यदेवं युक्तं तत्सर्वं प्रतिपद्यते । सर्वत्र धर्मशेषो हेतुः ।
कर्माणि भुज्यमानानि सावशेषाणि भुज्यन्ते। ऐहिकस्य शरीरग्रहणादेरपि
कर्मफलत्वात्। धर्मानुष्ठानं प्रतिपद्यत इत्युक्तम्। यदा चैवं तदा सर्ववर्णानां
स्वधर्मानुष्ठान इत्यादि प्रतिपद्यत इत्यन्तं पुनर्भवतीत्यनुक्तसिद्धम् । तत्
तस्माच्चक्रवदुभयोर्लोकयोरिह चाऽमुष्मिंश्च सुख एव वर्तते न जातु चित् दुःख
वर्तते । सुखानुबन्धेनैवाऽऽवृत्तिर्भवतीत्यर्थः ॥ ३ ॥
शरीरोत्पत्तिसंस्कारा(३)अप्यावश्यका इति दर्शयितुं दृष्टान्तमाह--
यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे
फलपरिवृद्धिरेवम् ॥ ४ ॥
चलोपोऽत्र द्रष्टव्यः । यथा चौषधीनां व्रीह्यादीनां वनस्पतीनां चा-
१ इदममृतुकाले इत्यधिकं ख.च पुस्तकयोः ‘रुचितः इत्यादिग्रन्थोऽपि नास्ति तत्र ।
२ मेधां ग्रन्थग्रहणशक्तिम्, प्रज्ञा अर्थग्रहणशक्तिम् इति क. च. पु ।
३ अप्यवश्यापेक्ष्या. इति. च पु
१८४ आपस्तम्बधर्मसूत्रे [ (प.१)क.२.
व्रीह्यादीनां बीजस्य क्षेत्रविशेषे कर्मविशेषे संस्कारविशेषे च क्षेत्रस्य वा कृष्या-
दौ कर्मविशेषे फलपरिवृद्धिर्भवति । त एव व्रीह्यादय ऊषरे उप्ता न प्र
रोहन्ति । कृष्यादिपरिकर्मिते तु क्षेत्रे उप्ताः स्तम्बकरयो भवन्ति । एवं
पुरुषेऽपि गर्भाधानादिसंस्कारसम्पन्ने द्रष्टव्यम् ॥ ४ ॥
एतेन दोषफलपरिवृद्धिरुक्ता ॥ ५ ॥
एतेनैव न्यायेन दुष्टकर्मफलपरिवृद्धिरप्युक्ता वेदितव्या । (१)तत्रोहेन पठ-
नीयम्-सर्ववर्णानां स्वधर्माननुष्ठाने परमपरिमितं दुःखम् । ततः परिवृत्तौ
कर्मफलशेषेण दुष्टां जात्यादिकामद्रव्यान्तामधर्मानुष्ठानमिति प्रतिप-
द्यते । तच्चक्रवदुभयोर्दुःख एव वर्तते । यथौषधिवनस्पतीनां बीज-
स्य क्षेत्रकर्मविशेषाभावे फलहानिरेवमिति ॥ ५ ॥
दोषफलपरिवृद्धावुदाहरणमाह--
स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मि
ँल्लोकेऽपरिमिते निरये वृत्ते जायते चण्डालो ब्राह्मणः
पौल्कसो राजन्यो वैणो वैश्यः ॥ ६ ॥
स्तेनः सुवर्णचोरः । अभिशस्तो ब्रह्महा स्तेनोऽभिशस्तो वा ब्राह्मणादिर-
मुष्मिंल्लोकेऽपारिमने निरये दोषफलमनुभूय तस्मिन् वृत्ते परिक्षीणे ब्राह्म-
णश्चण्डालो जायते। शूद्रात् ब्राह्मण्यां जातश्चण्डालः, राजन्यः, पौल्कसः । शूद्रा-
त्क्षत्रियायां जातः पुल्कसः । स एव पौल्कसः । प्रज्ञादित्वादण् । वैश्यो, वैणो
जायते(२) वेणुना नर्तको वैणः ॥ ६ ॥
एतेनाऽन्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु
योनिषु जायन्ते वर्णपरिध्वंसायाम् ॥ ७ ॥
वर्णपरिध्वंसा वर्णेभ्यः प्रच्यवनं तस्यां वर्णपरिध्वंसायाम् । यथा ब्राह्म-
णादयश्चण्डालाद्या जायन्ते । एतेन प्रकारेण स्तेनाभिशस्ताभ्यां
अन्येऽपि दोषफलैः कर्मभिर्दोषफलासु सूकरादिषु, योनिषु जायन्ते । परिध्वंसाः
स्वजातिपरिभ्रष्टा इत्यर्थः । ते तथाऽवगन्तव्या इति ॥ ७ ॥
यथा चण्डालोपस्पर्शने सम्भाषायां दर्शने च
दोषस्तत्र प्रायश्चित्तम् ॥ ८ ॥
१. तत्रोक्त व्यत्ययेन पठनीयम् । इति. घ. पु.
२. वेणुर्नर्तकः स एव वैणः । इति. घ पु.
गृहस्थधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १८५
चण्डालोपस्पर्शने दोषो भवति । तथा सम्भाषाया दर्शने च । उपसम-
स्तमपि चण्डालग्रहणमभिसम्बध्यते । तत्र सर्वत्र प्रायश्चित्तं वक्ष्यते ॥८॥
अवगाहनमपामुपस्पर्शने ॥९॥ सम्भाषायां ब्राह्मणस-
म्भाषा ॥ १० ॥ दर्शने ज्योतिषां दर्शनम् ॥ ११ ॥
उपस्पर्शने सत्यवगाहनमपां प्रायश्चित्तम् । ऋजुनी उत्तरे द्वे सूत्रे । अस्मिन्
कर्मप्रशंसाप्रकरणे प्रायश्चित्ताभिधानं स्वकर्मच्युतानां निन्दार्थम् । एवं-
नाम निन्दितश्चण्डालः यस्य दर्शनेऽपि प्रायश्चित्तं स एव जायते स्व-
कर्मच्युतो ब्राह्मण इति ॥ ९–११ ॥
इत्यास्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां द्वितीयप्रश्ने
द्वितीया कण्डिका ॥ २ ॥
इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां
द्वितीयप्रश्ने प्रथमः पटलः ॥ १ ॥
आप० ध० २४
अथ द्वितीयः पटलः ॥
आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः ॥ १ ॥
आर्यास्त्रैवर्णिकाः । 'आर्याधिष्ठिता वा शूद्रा' (२.३,४) इत्युत्तरत्र दर्श-
ातू । प्रयताः स्नानादिना शुद्धाः । वैश्वदेवे गृहमेधिनोभोजनार्थे पाके ।
'गृहमेधिनो यदशनीयस्ये' (३-१२) ति दर्शनात् । अन्नसंस्कर्तार स्युः । अन्नं
भक्ष्यभोज्यपेयादिकं तत् संस्कुर्युः । न स्वयं, नाऽपि स्त्रियः ॥ १ ॥
भाषां कासं क्षवधुमित्यभिमुखोऽन्नं वर्जयेत् ॥ २ ॥
भाषा शब्दोच्चारणम् । कासः कण्ठे घुरुघुराशब्दः । क्षवथुः क्षुतम् ।
एतत्त्रितयमन्नाभिमुखो न कुर्यात् । 'संस्कर्तारः स्यु'रिति बहुवचने प्र-
कृते 'वर्जये'दित्येकवचन प्रत्येकमुपदेशार्थम् ॥ २ ॥
केशानङ्गं वासश्चाऽऽलभ्याऽप उपस्पृशेत् ॥ ३ ॥
केशादीनात्मीयानन्यदीयान्वा । आलभ्य स्पृष्ट्वा । अप उपस्पृशेत् । नेदं
स्नानम् । किं तर्हि ? स्पर्शमात्रम् । केशालम्भे पूर्वमप्युपस्पर्शनं विहि
तम् । इद तु तत्रोक्तं वैकल्पिकं शकृदाद्युपस्पर्शनं मा भूदिति ॥ ३ ॥
आर्याधिष्ठिता वा शूद्रास्संस्कर्तारः स्युः ॥ ४ ॥
त्रैवर्णिकैरधिष्ठिता वा शूद्रास्संस्कर्तार स्युः । प्रकरणादन्नस्येति गम्यते ॥४॥
तेषां स एवाऽऽचमनकल्पः ॥ ५ ॥
तेषां शूद्राणामन्नसंस्कारे ऽधिकृतानां स एवाऽऽचमनकल्पो वेदितव्यः,
यस्याऽन्नं पचन्ति । यदि ब्राह्मणम्य, हृदयङ्गमाभिरद्भिः । यदि क्षत्रि-
यस्य, कण्ठगाभिः । यदि वैश्यस्य, तालुगाभिः । इन्द्रियोपस्पर्शनं
च भवति ॥ ५ ॥
अधिकमहरहः केशश्मश्रुलोमनखवापनम् ॥ ६ ॥
शूद्राः पचन्तः प्रत्यहं केशादि वापयेयुः । इदमेषामधिकमार्येभ्यः ॥६॥
उदकोपस्पर्शनं च सह वाससा ॥ ७ ॥
सहैव वाससा स्नानं कुर्युः । आर्याणां तु परिहितं वासो निधाय कौ
पीनाच्छादनमात्रेणाऽपि स्नानं भवति । शूद्राणामपि पाकादन्यत्र । त-
वैश्वदेवम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८७
था च मनुः-
(१)'न वासोभिस्सहाऽज्जं नाऽविज्ञाते जलाशये ।' इति ॥ ७ ॥
अपि वाऽष्टमीष्वेव पर्वसु वा वपेरन् ॥ ८ ॥
यदि वाऽष्टमीष्वेव वपेरन् केशादीन् पर्वस्वेव वा । न प्रत्यहम् । 'वपेर'न्निति
अन्तर्भावितण्यर्थः । वापयेरन्नित्यर्थः । तथा च 'लोमनखवापन'मिति
पूर्वत्र णिच्प्रयुक्तः ॥ ८ ॥
परोक्षमन्नं संस्कृतमग्नावधिश्रित्याऽद्भिः प्रोक्षेत्त-
द्वेवपवित्रमित्याचक्षते ॥ ९ ॥
यदि शूद्राः परोक्षमन्नं संस्कुर्युः आर्यैरनधिष्ठिताः । तदा तत्परोक्षमन्न
संस्कृत स्वयमग्नावधिश्रयेत् । अधिश्रित्याऽद्भिः प्रोक्षेत् । तदेवंभूतमन्नं देवपवित्र-
मित्याचक्षते । देवानामपि तत्पवित्रं किं पुनर्मनुष्याणामिति ॥ ९ ॥
सिद्धेऽन्ने तिष्ठन् भूतमिति स्वामिने प्रब्रूयात् ॥ १० ॥
सिद्धे पक्वेऽन्ने तिष्ठन् पाचकोऽधिष्ठाता वा भूतमिति प्रब्रूयात् । कस्मै ? य-
स्य तदन्न तस्मै स्वामिने । भूतं निष्पन्नमित्यर्थः ॥ १० ॥
तत्सुभूतं विराडन्नं तन्मा क्षायीति प्रतिवचनः ॥ ११ ॥
तत्सुभूतमित्यादि प्रतिवचनो मन्त्रः । तदन्नं सुभूतं सुनिष्पन्नम् ।
विराट् विराजः साधनम् । अन्नमशनम् । तन्न मा क्षायि क्षीणं मा भू-
दित्यर्थः ॥ ११ ॥
गृहमेधिनो यदशनीयं तस्य होमा बलयश्च
स्वर्गपुष्टिसंयुक्ताः ॥ १२ ॥
गृहमेधिनो यदशनीय पकमन्नं वा उपस्थितं तस्यैकदेशेन होमा बलयश्च
वक्ष्यमाणाः कर्तव्याः । स्वर्गः पुष्टिश्च तेषां फलमिति ॥ १२ ॥
तेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्या ब्रह्मचर्यं
क्षारलवणवर्जनं च ॥ १३ ॥
तेषां होमानां बलीनां च ये मन्त्रास्तेषामुपयोगे । उपयोगो नियम-
पूर्वकं विद्याग्रहणम्(२) । तत्र द्वादशाहमधश्शय्या स्थण्डिलशायित्वम् । ब्रह्म
१. म. स्मृ. ४. १२९
२. तथा च बौधायनः-'तेषां ग्रहणे द्वादशरात्र' मित्यादि इत्याधिकं ख. पुस्तके ।