आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
धर्मलक्षणम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११३
(१)प्रेत्यभावापवादी । बालः श्रुतरहितः । एतेषां वादेषु अनसूयुः स्यात् ।
असूयया द्वेषो लक्ष्यते । द्वेष्टा न स्यात् । तान् विषयीकृत्य द्वेषमपि न
कुर्यात् । तथा दुष्प्रलम्भश्च स्यात् । प्रलम्भनं विसंवादनं मिथ्याफलाख्यानम् ।
(२)गृधिवञ्च्योः प्रलम्भन' इति दर्शनात् । दुष्प्रलम्भो विसंवादयितुं
मिथ्याफलाख्यानेन प्रवर्तयितुमशक्यः । कुहकादिवादेषु वञ्चितो न
स्यात् । तद्वशो न स्यादित्यर्थः ॥ ५ ॥
वञ्चनस्य सम्भवमाह—
न धर्माधर्मौ चरत 'आवां स्व' इति, न देवगन्धर्वा न
पितर इत्याचक्षतेऽयं धर्मोऽयमधर्म, इति ॥ ६ ॥
आवामिति छान्दस रूपम् । भाषायां तु(३)'प्रथमायाश्च द्विवचने
भाषाया'मित्यात्व प्राप्नोति । यदि हि धर्माधर्मौ विग्रहवन्तौ गोष्याग्रव-
च्चरेतामावा स्व इति ब्रुवाणौ, यदि वा देवादयः प्रकृष्टज्ञाना ब्रूयुरिमौ
धर्माधर्माविति ततः कुहकादिवादेषु न स्याद्वञ्चना । तदभावात्तु वञ्च-
नासम्भव इति । इदं चात्र द्रष्टव्यम्—प्रत्यक्षादेर्न गोचरौ धर्माधर्मौ ।
किंतु नित्यनिर्दोषवेदगम्यौ । तदभावे तन्मूलधर्मशास्त्रगम्याविति ॥ ६ ॥
यत्र तु प्रायश्चित्त्तादौ विषयव्यवस्था दुष्करा तत्र निर्णयमाह—
यं त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मो, यं
गर्हन्ते सोऽधर्मः ॥ ७ ॥
आर्याः शिष्टास्त्रैवर्णिकाः । बहुवचनाच्चत्वारस्त्रयो वा । यथाऽऽह या-
ज्ञवल्क्यः—
(४)‘चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा ।
सा ब्रूते यं स धर्मस्स्यादेको वाऽध्यात्मवित्तमः ॥’ इति ॥७॥
इदानीं श्रुतिस्मृत्योः प्रत्यक्षयोरदर्शने शिष्टाचारादप्यवगम्य धर्मः
कार्य इत्याह—
सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्य-
ग्विनीतानां वृद्धानामात्मवतामलोलुपाना-
मदाम्भिकानां वृत्तसादृश्यं भजेत ॥८॥
सम्यग्विनीताः । आचार्याधीनः स्या'(२.१९)दित्यादिना विनयनसम्प
१. प्रेत्याभाववादी इति. क पु. २. पा. सू. १. ३ ६९.
३. पा. सू. ७. २. ८८ ४ या. स्मृ. १ ९.
आप० ध० १५
११४ आपस्तम्बधर्मसूत्रे [ (प. ७.) क. २०.
ज्ञाः । वृद्धाः परिणतवयसः। यौवने विषयवश्यताऽपि स्यादितीदमुक्तम् ।
आत्मवन्तो जितेन्द्रियाः। अलोलुपा अकृपणाः । अदाम्भिका अधर्मध्वजा,
एकान्तप्रकाशयोरेकवृत्ताः । एवंभूतानामार्याणां सर्वजनपदेषु यदेकान्तेनाऽव्य-
भिचारेण समाहितमनुमतं वृत्तमनुष्ठानम् , न मातुलसुतापरिणयनवत्क-
तिपयविषयम्, तद्वृत्तसादृश्यं भजेत । तदनुरूपं चेष्टेत । न तेषामनुष्ठानं
निर्मूलम्। सम्भवति च वेदिकानामुत्सन्नपाठब्राह्मणानुभव इति ॥ ८ ॥
एवमुभौ लोकावभिजयति ॥ ९ ॥
एव श्रुतिस्मृतिसदाचारमूलमनुष्ठानं कुर्वन् उभौ लोकावभिजयति
इमं चाऽमुं च ॥ ९ ॥
अविहिता ब्राह्मणस्य वणिज्या ॥ १० ॥
क्रयविक्रयव्यवहारो वणिज्या । सा स्वयं कृता ब्राह्मणस्य वृत्तिर्न विहिता
प्राप्तानुवादोऽ(१)यमपवादविधानार्थ ॥ १० ॥
आपदि व्यवहरेत पण्यानामपण्यानि व्युदस्यन् ॥ ११ ॥
ब्राह्मणवृत्तेरभाव आपत् । तस्यां सत्याम् । पण्यानाम् । (२)व्यवहृ-
पणोः समर्थयो'रिति कर्मणि षष्ठी । व्यवहरेत । क्रयश्च विक्रयश्च व्य-
वहारः, पण्यानि क्रीणीयात् विक्रीणीत चेत्यर्थः । अपण्यानि वक्ष्यमाणानि
व्युदस्यन् वर्जयन् । कृत्स्नाया वैश्यवृत्तेरुपलक्षणमिदम् । क्षत्रियवृत्तिश्च
(३)दण्डापूपिकया सिद्धा । तथा च गौतमः—(४)'तदलाभे क्षत्रिय-
वृत्तिः । स्तदलाभे वैश्यवृत्ति'रिति ॥ ११ ॥
अपण्यान्याह—
मनुष्यान् रसान् रागान् गन्धानन्नं चर्म गवां वशां श्ले-
ष्मोदके तोक्मकिण्वे पिप्पलीमरीचे धान्यं
मांसमायुधं सुकृताशां च ॥१२॥
मनुष्या दारदासादयः । रसा गुडलवणादयः, क्षीरादयो वा । रागाः
कुसुम्भादयः रज्यन्तेऽनेनेति । रज्यन्त इति वा रागा वस्त्रादयः ।
१. नापदि विधानार्थं इति क पु २. पा सू २. ३. ५७.
३. कश्चित् दण्डे प्रोतान् अपूपान् कस्यचित् निकटे निक्षिप्य बहिर्गत्वा पुनः प्रति-
निवृत्य तं पृष्टवान्-क्व मे दण्ड इति । तेनोक्तम्-मूषिकैर्भक्षित इति । तदा तेनाऽर्थापत्त्या
कल्पित यदा दण्डोऽपि मूषिकैर्भक्षितः तदा किमु वक्तव्यमपूपास्तैर्भक्षिता इति । अय दण्डा-
पूपिकान्यायः ॥ ४. गौ. ध. ७ ६, ७
अपण्यानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११५
गन्धाश्चन्दनादयः । गवां मध्ये वशा वन्ध्या गौः । श्लेष्म जतुवज्रादिः,
येन विश्लिष्टं चर्मादि सन्धीयते । 'यथा(१) श्लेष्मणा चर्मण्यं वाऽन्यद्वा
विश्लिष्टं संश्लेषये' दिति बह्वृचब्राह्मणे दर्शनात् । उदकं कुम्भजलम् ।
तोक्म ईषदङ्कुरितानि व्रीह्यादीनि । किण्वं सुराप्रकृतिद्रव्यम् । सुकृतं
पुण्यं तस्य फलं सुकृताशा । शिष्टानि प्रसिद्धानि । (२)एतान्यपण्यानि
वर्जयित्वा अन्येषां पण्यानां व्यवहरेत् । मनुष्यादीन्वर्जायित्वेत्येव
सिद्धे 'अपण्यानी'ति वचनमन्येषामप्यपण्यानां व्युदासार्थम् । तत्र मनु-
(३)सर्वान् रसानपोहेत कृतान्नं च तिलैस्सह ।
अश्मनो लवणं चैव पशवो ये च मानुषाः ॥
सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च।
अपि चेत्स्युररक्तानि फलमूले तथौषधीः ॥
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः ।
क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥
आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांसि च ।
मद्यं नीलीं च लाक्षां च सर्वांश्चैकशफान् पशून् ॥'
इति ॥ १२ ॥
तिलतण्डुलांस्त्वेव धान्यस्य विशेषेण न
विक्रीणीयात् ॥ १३ ॥
धान्यानां मध्ये तिलतण्डुलानेव विशेषतोऽतिशयेन न विक्रीणीयान् न वि-
क्रीणीत । अन्येषां विकल्पः । स्वयमुत्पादितेषु नाऽयं प्रतिषेधः । मानवे
हि श्रुतम् (४)—
'काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः ।
विक्रीणीत तिलाञ्छुद्धान् धर्मार्थमचिरस्थितान् ॥' इति ॥१३॥
अविहितश्चैतेषां मिथो विनिमयः ॥ १४ ॥
विनिमयः परिवर्तनम् । येषां विक्रयः प्रतिषिद्धः तेषां परस्परेण विनि-
मयोऽप्यविहितः प्रतिषिद्धः, न कर्तव्य इत्यर्थः ॥ १४ ॥
तेष्वेव केषां चिद्विनिमयोऽनुज्ञायते—
अन्नेन चाऽन्नस्य मनुष्याणां च मनुष्यै रसानां च
१. ऐ. ब्रा. ५ प. ३२. ख २. आपणीयानि इति क. पु
३. म. स्मृ. १०. ८६, ८९. ४. म. स्मृ. १०-९०.
११६ आपस्तम्बधर्मसूत्रे [(प.७.)क.२१.
रसैर्गन्धानां च गन्धैर्विद्यया च विद्यानाम् ॥१५॥
अन्नादीनां विद्यान्तानां विनिमयो भवत्येवेत्यर्थः । तथा च
वसिष्ठः(१)—रसा रसैस्समतो हीनतो वा ॰॰॰॰ । तिलतण्डुलपक्वान्नं
विद्यामनुष्याश्च विहिताः परिवर्तनेन' इति । मानवे तु विशेषः—
(२)'रसा रसैर्निमातव्या न त्वेव लवणं रसैः ।
कृतान्नं चाकृतान्नेन तिला धान्येन तत्समाः ॥' इति ।
गौतमीये तु—(३)'विनिमयस्तु । रसानां रसैः । पशूनां च । न लवण-
कृतान्नयोः । तिलानां च । समेनाऽऽमेन तु पक्वस्य सम्प्रत्यर्थ' इति । तस्मा-
दत्र प्रतिषेधानुवृत्तिर्न शङ्कनीया । पूर्वत्र चोक्त 'ब्रह्मणि मिथो विनियोगे
न गतिर्विद्यत' (१३.१७) इति । (४)विनिमयाभ्यनुज्ञानादेव विद्यादीनां
विक्रयोऽपि प्रतिषिद्धो वेदितव्यः ॥ १५ ॥
अक्रीतपण्यैर्व्यवहरेत् ॥ १६ ॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ विंशतितमी कण्डिका ॥ २० ॥
मुञ्जबल्बजैर्मूलफलैः ॥ १ ॥
अक्रीतानि स्वयमुत्पादितानि अरण्यादाहृतानि वा यानि पण्यानि तैर्व्य-
वहरेत मुञ्जादिभिः ॥ १६ ॥
मुञ्जबल्बजास्तृणविशेषाः ॥ १ ॥
तृणकाष्ठैराविकृतैः ॥ २ ॥
तृणानां विकारो रज्ज्वादिभावः । काष्ठानां विकारः स्थूणादिभावः ।
तृणत्वादेव सिद्धे मुञ्जबल्बजग्रहणं विकारार्थम् ॥ २ ॥
नाऽत्यन्तमन्ववस्येत् ॥ ३ ॥
प्रतिषिद्धानामपि विक्रयविनिमयाभ्यां जीवेत् । न पुनरत्यन्तमन्व-
वस्येत् अवसीदेत् । तथा च गौतमः(५) 'सर्वथा तु वृत्तिरशक्तावशौद्रेण ।
तदप्येके प्राणसंशय' इति । मनुरपि--
(६)'जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः ।
आकाशमिव पङ्केन न स दोषेण लिप्यते' ॥ इति ॥ ३ ॥
१ व. ध. २-३२—३९ २. म. स्मृ १०. ९४.
३. गौ ध ७ १६—२१ ४. नियमाभ्य. इति क. पु.
५. गौ. ध. ७ २२, २३ ६. म. स्मृ १०-१०४
पतनीयानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११७
वृत्तिं प्राप्य विरमेत् ॥ ४ ॥
गतम् ॥ ४ ॥
न पतितैस्संव्यवहारो विद्यते ॥ ५ ॥
पतिताः स्तेनादयो वक्ष्यमाणास्तैः सह न कश्चिदपि व्यवहार कर्तव्यः ।
तत्र मनुः(१)—
संवत्सरेण पतति पतितेन सहाऽऽचरन् ।
याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥' इति ।
यानादिभिस्संवत्सरेण पतति । याजनादिभिस्तु सद्य एव ॥ ५ ॥
तथाऽपपात्रैः ॥ ६ ॥
अपपात्राश्चण्डालादय । तैश्च संव्यवहारो न कर्तव्य ॥ ६ ॥
अथ पतनीयानि ॥ ७ ॥
द्विजातिकर्मभ्यो हानिः पतनं, तस्य निमित्तानि कर्माणि वक्ष्यन्ते ॥७॥
स्तेयमाभिशस्त्यं पुरुषवधो ब्रह्मोज्झं गर्भशातनं मा-
तुः पितुरिति योनिसम्बन्धे सहापत्ये स्त्रीगमनं
सुरापानमसंयोगसंयोगः ॥ ८ ॥
स्तेयं सुवर्णचौर्यम् । आभिशस्त्यं ब्रह्महत्या । 'ब्राह्मणमात्रं च हत्वा-
भिशस्त' (२४ ७.) इति वक्ष्यमाणत्वात् । पुरुषवधो मनुष्यजातिवधः । तेन
स्त्रीवधोऽपि गृह्यते । ब्रह्मोज्झं उज्झ उत्सर्गे । भावे घञ् । छान्दसो लिङ्ग-
व्यत्ययः । ब्रह्म वेदः तस्याऽधीतस्य नाशनं ब्रह्मोज्झम् । औषधादिप्रयोगेण
गर्भस्य वधो गर्भशातनम् । मातुर्योनिसम्बन्धे मातृष्वस्रादौ । पितुर्योनिस-
म्बन्धे पितृष्वस्रादौ सहापत्ये अपत्येन सहिते स्त्रीगमन मातृष्वसृगमनं त-
त्सुतागमनं मातुलसुतागमनं चेत्यर्थः ।
(२)‘गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः ॥
इति मानवे निषिद्धायाः सुरायाः, पानं सुरापानम् । असंयोगाः, संयो-
गानर्हाः प्रतिलोमादयः । तैः संयोग एकगृहवासादिः असंयोगसंयोगः ।
एतानि पतनीयानि ॥ ८ ॥
गुर्वीसखिं गुरुसखिं च गत्वाऽन्यांश्च परतल्पान् ॥ ९ ॥
१. म स्मृ ११. १८० २. म. स्मृ ११ ९४.
[Page Header: ११८ | आपस्तम्बधर्मसूत्रे | [ (१.७.) क. २१. ]
सखीशब्दस्य छान्दसो ह्रस्वः। गुर्वीसखी मात्रादीनां सखी। गुरुसखी
पित्रादिनां सखी तां गत्वा। किम् २ पततीत्युत्तरत्र श्रुतमपेक्ष्यते। अन्याश्च
परतल्पान् गत्वा पतति। तल्पशब्देन शयनवाचिना दारा लक्ष्यन्ते ॥ ९ ॥
नाऽगुरुतल्पे पततीत्येके ॥ १० ॥
गुरुदारव्यतिरेकेण परतल्पगमने पातित्यं नास्तीत्येके मन्यन्ते ।
यद्यपि सामान्येन पतनीयानीत्युक्तम् , प्रायश्चित्ते तु गुरुलघुभावो
द्रष्टव्यः ॥ १० ॥
अधर्माणां तु सततमाचारः ॥ ११ ॥
तुश्चार्थे । उक्तव्यतिरिक्तानामप्यधर्माणां सततमाचारः पतनहेतु ॥११॥
अथाऽशुचिकराणि ॥ १२ ॥
अशुचिं पुरुष कुर्वन्तीत्यशुचिकराणि, तानि वक्ष्यन्ते ॥ १२ ॥
शूद्रगमनमार्यस्त्रीणाम् ॥ १३ ॥
त्रैवर्णिकस्त्रीणां शूद्रगमनमशुचिकरम् ॥ १३ ॥
प्रतिषिद्धानां मांसभक्षणम् ॥ १४ ॥
येषां मांसं प्रतिषिद्धं तेषां मांसस्य भक्षणमशुचिकरम् ॥ १४ ॥
तत्रोदाहरणम्—
शुनो मनुष्यस्य च कुक्कुटसूकराणां ग्राम्याणां
क्रव्यादासाम् ॥ १५ ॥
ग्राम्याणा'मिति वचनादारण्यानामप्रतिषेधः। अदनमदः, भावेऽ-
सुन्प्रत्ययः। क्रव्यविषयमदनं येषां ते क्रव्यादासः केवलं मांसवृत्तयो
गृध्रादयः ॥ १५ ॥
मनुष्याणां मूत्रपुरीषप्राशनम् ॥ १६ ॥
मूत्रपुरीषग्रहणं तादृशस्य रेतसोऽप्युपलक्षणम् ॥ १६ ॥
शूद्रोच्छिष्टमपपात्रगमनं चाऽऽर्याणाम् ॥ १७ ॥
शूद्रोच्छिष्टं भुक्तमार्याणां त्रैवर्णिकानामशुचिकरम्। अपपात्राः प्रतिलो-
मस्त्रियः तासां च गमनम् ॥ १७ ॥
एतान्यपि पतनीयानीत्येके ॥ १८ ॥
यान्येतान्यशुचिकरत्वेनाऽनुक्रान्तानि एतान्यपि पतनीयान्येवेत्येके मन्यन्ते।
अशुचिकराणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११९
अतोऽन्यानि दोषवन्त्यशुचिकराणि भवन्ति ॥१९॥
उक्तव्यतिरिक्तानि दोषवन्ति कर्माणि दुष्प्रतिग्रहहिंसादीनि तान्य-
शुचिकराणि भवन्ति ॥ १९ ॥
दोषं बुध्वा न पूर्वः परेभ्यः पतितस्य समाख्याने
स्याद्वर्जयेच्चैनं धर्मेषु ॥ २० ॥
पतितस्य दोषं परैरविदितं बुध्वा परस्य समाख्याने पूर्वो न स्यात् ।
परैरविदितं स्वयं विद्वानपि न परेभ्यः पूर्वमाचक्षीत । किं तु स्वयं
धर्मकृत्येष्वेनं वर्जयेत् , यथा परे न जानन्ति । अन्यथा दोषवान् स्यात् ॥२०॥
इत्यापस्तम्बधर्मसूत्रवृत्तावेकविंशी कण्डिका ॥ २१ ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्ज्वलायां प्रथमप्रश्ने सप्तमः पटलः ॥७॥
अथाऽष्टमः पटलः ॥
( अध्यात्मपटलः )
अध्यात्मिकान् योगाननुतिष्ठेन्न्यायसंहिताननैश्रारिकान् १
श्रीमच्छङ्करभगवत्पादप्रणीतं विवरणम् ॥
अथ 'अध्यात्मिकान् योगान्'-इत्याद्यध्यात्मपटलस्य संक्षेपतो
विवरणं प्रस्तूयते । किमिह प्रायश्चित्तप्रकरणे समाम्नानस्य प्रयो-
जनमिति । उच्यते-कर्मक्षयहेतुत्वसामान्यात् । अनिष्टकर्मक्षयहे-
तूनि हि प्रायश्चित्तानि भवन्ति । सर्वं च कर्म वर्णाश्रमविहितमनिष्टमेव
विवेकिनः, देहग्रहणहेतुत्वात् । तत्क्षयकारणं चाऽऽत्मज्ञानम्, प्रवृत्तिहे-
तुदोषनिवर्तकत्वात् । दोषाणां च निर्घाते आत्मज्ञानवतः पण्डितस्य
धर्माधर्मक्षये क्षेमप्राप्तिरिह विवक्षितेत्यात्मज्ञानार्थमध्यात्म(१)पटलमा-
रभ्यते, कर्मक्षयहेतुत्वसामान्यात् ।
ननु वर्णाश्रमविहितानां कर्मणामफलहेतुत्वात् तत्क्षयो नेष्ट इति, न,
“सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम्” ( २. २. २. )
इत्यादिश्रवणात् । अपरिमितवचनात् क्षेमप्राप्तिरेवेति चेन्न, 'तत्प
रिवृत्तौ कर्मफलशेषेण' ( २ २. ३. ) इत्यादिश्रवणात् । गौतमश्च-
(२) 'वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय" इत्यादि
ना संसारगमनमेव दर्शयति कर्मणां फलम् । सर्वाश्रमाणां हि दोषनि-
र्घातलक्षणानि समयपदानि विधिनाऽनुतिष्ठन् सार्वगामी भवति, न तु
स्वधर्मानुष्ठानात् । वक्ष्यति च-
'विधूय कविः' ( २२. ५ ) "सत्यानृते सुखदुःखे वेदानिमं लोकममुं
च परित्यज्याऽत्मानमन्विच्छेद्” ( २. २१. १३ ) इत्यादि ।
“तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति" (२. २१. २)
१. अत्र पटलशब्दो नपुंसकलिङ्गः प्रयुक्तः । 'समूहे पटल न ना' ( अमरको. ३.
३. २००) इत्यमरकोशात् समूहवाचिनः पटलशब्दस्यैव क्लीबत्वम् । 'तिलके च परि-
च्छेदे पटलः' इति शेषकोशात् परिच्छेदवाचकस्य पटलशब्दस्य तु पुँल्लिङ्गत्वैवेत्यवग-
म्यते । अत एव च सर्वे ग्रन्थकाराः 'इति प्रथमः पटलः, इत्येव लिखन्ति । अतोऽत्रापि
पुँल्लिङ्गेनैव भाव्यं यद्यपि पटलशब्देन तथापि भेदाविवक्षया प्रयोग कृत इति भाति ॥
२ गौ. ध. ११. २९
ध्यात्मपटलम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १२१
इति वचनात् क्षेमशब्दस्य चाऽपवर्गार्थत्वात् सर्वाश्रमकर्मणां ज्ञा-
नरहितानामेव फलार्थत्वं, ज्ञानसंयुक्तानि तु क्षेमप्रापकाणि, यथा वि-
षद्घ्यादीनि मन्त्रशर्करादिसंयुक्तानि कार्यान्तरारम्भकाणि, तद्वदिति
चेत्-न; अनारभ्यत्वात् क्षेमप्राप्तेः । यदि हि क्षेमप्राप्तिः कार्या स्यात् तत
इदं चिन्त्यम्-किं केवलैः कर्मभिरारभ्या ? ज्ञानसहितैर्वा? ज्ञानकर्मभ्यां वा?
केवलेन ज्ञानेन कर्मासंयुक्तेन वेति । न त्वारभ्या केनचिदपि; क्षेमप्राप्तेः
नित्यत्वात् । अतोऽसदिदम्-ज्ञानसंयुक्तानि कर्माणि क्षेमप्राप्तिमारभन्ते
इति। ज्ञानसंयुक्तानां ज्ञानवदेव क्षेमप्राप्तिप्रतिबन्धापनयकर्तृत्वमिति
चेत्-न, सकार्यकारणानामेव कर्मणां क्षेमप्राप्तिप्रतिबन्धकत्वात् । अवि-
द्यादोषहेतूनि हि सर्वकर्माणि सहफलैः कार्यभूतैः क्षेमप्राप्तिप्रतिबन्धका-
नि । तदभावमात्रमेव हि क्षेमप्राप्तिः । न च तदभाव आत्मज्ञानादन्यतः
कुतश्चिदुपलभ्यते । तथाह्युक्तम्-
“निर्दह्य भूतदाहान् क्षेमं गच्छति पण्डितः” ( २२. ११.) इति ।
पाण्डित्यं चेहात्मज्ञानं, प्रकृतत्वात् । श्रुतेश्च (१)“आनन्दं ब्रह्मणो विद्वान्
न बिभेति कुतश्चनेति” इति । अभयं हि क्षेमप्राप्तिः । (२)'अभयं वै
जनक ! प्राप्तोऽसि' इति श्रुत्यन्तरात् ।
“तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति' (२.२१.२.)
इत्याचार्यवचनमन्यार्थम् । कथम् ? यथोद्दिष्टेष्वाश्रमधर्मेष्वव्यग्रो निष्का-
मस्सन् प्रवर्तमानो ज्ञानेऽधिकृतो भवति, न यथेष्टं(३) चेष्टन् कामकामी
जायापुत्रवित्तादिकामापहृतव्यग्रचेताः । ज्ञानी च सन् सर्वसन्यासक्र-
मेण क्षेमं गच्छतीत्येषोऽर्थः । न हि दोषनिर्घातः कदाचिदपि कर्मेभ्य
उपपद्यते । समिथ्याज्ञानानां हि दोषाणां प्रवृत्तौ सत्यां प्राबल्यमिहोप-
लभ्यते । 'सङ्कल्पमूलः कामः' इति च स्मृतेः । प्रवृत्तिमन्द्ये च' दोषत-
नुत्वदर्शनात् । न चाऽनिर्हृत्य समिथ्याज्ञानान् दोषान् क्षेमं प्राप्नोति क-
श्चित् । न च जन्मान्तरसञ्चितानां शुभकर्मणां विहितकर्मभ्यो निवृत्ति-
रुपपद्यते, शुद्धिसामान्ये विरोधाभावात् । सत्सु च तेषु तत्फलोपभो-
गाय शरीरग्रहणं, ततो धर्माधर्मप्रवृत्तरागद्वेषौ, पुनः शरीरग्रहणं चेति
संसारः केन वार्यते ? तस्मान्न कर्मभ्यः क्षेमप्राप्तिस्तत्प्रतिबन्धन्निवृत्तिर्वा।
कर्मसहिताज्ज्ञानादविद्यानिवृत्तिरिति चेत् ! यद्यपि ज्ञानकर्मणो
र्भिन्नकार्यत्वाद् विरोधः तथापि तैलवर्त्यग्नीनामिव संहत्य कर्मणा
१. तैत्ति. उ. २, ९. २. बृ. उ. ४. २. ४.
३. 'चेष्टन्' इति शत्रन्तः प्रयोगस्साधुरिति न प्रतीमः ।
आप० ध० १६
१३२ आपस्तम्बधर्मसूत्रे [(प.८.) क.२२.
ज्ञानमविद्यादि संसारकारणं निवर्तयतीति चेन्न । क्रियाकारकफलानुप-
मर्देनाऽऽत्मलाभाभावात् ज्ञानस्य कर्मभिः संहतत्वानुपपत्तेः । तैलवर्त्य-
ग्नीनां तु सहभावित्वोपपत्तेरितरेतरोपकार्योपकारकत्वोपपत्तेश्च संहत-
त्वं स्यात् । न तु ज्ञानकर्मणोस्तदुभयानुपपत्तेः संहतत्वं कदाचिदपि
सम्भवति । केवलज्ञानपक्षे शास्त्रप्रतिषेधवचनाद्युक्तमिति चेन्न । ज्ञान-
कार्यानिवर्तकत्वाच्छास्त्रप्रतिषेधवचनस्य ।
योऽयं कर्मविधिपरैः केवलज्ञानपक्षस्य सर्वसन्न्यासस्य विप्रतिषे-
धो विरोधः, स नैव ज्ञानकार्यमविद्यादोषक्षयं वारयति (१)'भिद्यते हृद-
यग्रन्थिः' (२)'तस्य तावदेव चिरम्' (३)'मृत्युमुखात् प्रमुच्यते' इत्ये-
वमादिश्रुतिस्मृतिशतसिद्धम्, कर्मविधिपरत्वात् प्रवृत्तिशास्त्रस्य । न च
(तत्) ज्ञानस्वरूपं ब्रह्मात्मैकत्वविषयं वारयति, सर्वोपनिषदामप्रा-
माण्यानर्थक्यप्रसङ्गात्, 'पूः प्राणिनः'(२२ ४.) 'आत्मा वै देवता'
इत्यादिस्मृतीनां च । तस्माद्यद्यपि बहुभिः प्रवृत्तिशास्त्रैर्विप्रतिषिद्धं
केवलज्ञानशास्त्रमात्मैकत्वविषयमल्पं, तथापि सकार्यस्य ज्ञानस्य बल-
वत्तरत्वान्न केनचिद्वारयितुं शक्यम् ।
जीवतो दुःखानिवर्तकत्वाज्ज्ञानस्याऽनैकान्तिकं क्षेमप्रापकत्वमिति
चेत्, न, 'भिद्यते हृदयग्रन्थिः' 'ब्रह्मविदाप्नोति परम्', 'निचाय्य तं मृ-
त्युमुखात् प्रमुच्यते' (४)'ब्रह्म वेद ब्रह्मैव भवति' इत्यादिश्रुतिस्मृति-
न्यायेभ्यः । बहुभिर्विप्रतिषिद्धत्वात् सर्वत्यागशास्त्रस्य लोकवत् त्या-
ज्यत्वमिति चेन्न, तुल्यप्रमाणत्वात् । मानसान्तानि सर्वाणि कर्मा-
ण्युक्त्वा । (५)"तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्"
इति तपःशब्दवाच्यानां कर्मणामवरत्वेन संसाराविषयत्वमुक्त्वा न्यास-
शब्दवाच्यस्य ज्ञानस्य केवलस्य 'न्यास एवात्यरेचयत्' (६)'त्यागेनै-
के अमृतत्वमानशुः' इत्यमृतत्वफलं दर्शयति शास्त्रम् ।
(७)"तस्यैव विदुषो यज्ञस्याऽऽत्मा यजमानः" इत्यादिना च वि-
दुषः सर्वक(र्म?र्मा) भावं दर्शयति;
“द्वौ पन्थानावत्रानुनिष्क्रान्ततरौ कर्मपथश्चैव पुरस्तात् सन्न्यासश्च,
तयोः सन्न्यास एवातिरेचयति"
इति च । विप्रतिषेधवचनस्य निन्दापरत्वादयुक्तमिति चेन्न । अ-
१ मु. उ. २. २. ८. २. छा. उ. ६. १४. २. २. कठो. २. ३ १५,
४. मुण्ड. उ. ३. १ ९. ५. नारा. उ. ७८.
६. नारा. उ. ३. ७. नारा. उ. ८०
आत्मज्ञानोपायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १२३
विद्वद्विषयस्य कर्मणः स्तुत्यर्थत्वोपपत्तेः । मन्दबुद्धयो हि लोकेऽदृष्ट-
प्रयोजनाः प्ररोचनेन प्रवर्तयितव्याः कर्मसु । न दृष्टप्रयोजना विद्वांसः ।
परनिन्दा हि परस्तुतिरिति केवलज्ञाननिन्दया कर्मस्तुतिपरमाचार्यव-
चनम् ।
यत्तु “बुद्धे चेत् क्षेमप्रापणम्, इहैव न दुःखमुपलभेत” (२.२१.१६)
इति ज्ञानस्य साधनत्वानैकान्तिकवचनं, तद् (१) 'ब्रह्मविदा-
प्नोति परम्' इत्यादिवाक्येभ्यः प्रत्युक्तम्, आचार्यान्तरवचनाच्च
'त्यज धर्ममधर्मं च' 'न तत्र क्रमते बुद्धिः' 'नैष्कर्म्यमाचरेत्' 'तस्मात्
कर्म न कुर्वन्ति' इत्यादेः । तस्मात् केवलादेव ज्ञानात् क्षेमप्राप्तिः ॥
अध्यात्मिकान् योगानिति । अध्यात्मं भवन्तीत्यध्यात्मिकाः । छा-
न्दसं ह्रस्वत्वम् । के ते आध्यात्मिका योगाः ? वक्ष्यमाणा अक्रोधादयः ।
ते हि चित्तसमाधानहेतुत्वाद् योगाः । बाह्यनिमित्तनिरपेक्षत्वाच्चा-
ध्यात्मिकाः । तानध्यात्मिकान् योगान् । न्यायसहितान् उपपत्तिसम-
न्वितान् । ते हि क्रोधादिषु दोषनिर्घातं प्रति समर्था उपपद्यन्ते न्याय-
तः । अनैशारिकान् निश्चारयन्ति मनोऽन्तःस्थं बहिर्विषयेभ्य इति
नैशारिकाः क्रोधादयो दोषाः, तत्प्रतिपक्षभूता ह्येते नैशारिकाः ।
अक्रोधादिषु हि सत्सु चित्तमनिश्चरणस्वरूपं प्रसन्नमात्मावलम्बनं
तिष्ठति । अतस्ताननुतिष्ठेत् सेवेत । अक्रोधादिलक्षणं चित्तसमाधानं
कुर्यादित्यर्थः । तथा हि परः स्व आत्मा लभ्यते । क्रोधादिदोषापहृत-
चेतस्तया हि स्वोऽपि पर आत्माऽविज्ञातोऽलब्ध इव सर्वस्य यतः,
अतस्तल्लाभाय योगानुष्ठानं कुर्यात् ॥ १ ॥
उज्ज्वला ।
उक्तानि पतनीयान्यशुचिकराणि च कर्माणि । तेषां प्रायश्चित्तानि
वक्ष्यन्नादित आत्मज्ञानं तदुपयोगिनश्च योगानधिकुरुते । तस्यापि स-
र्वपापहरत्वेन मुख्यप्रायश्चित्तत्वात् । श्रूयते हि—
(२)भिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥' इति ।
(३)'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हाऽस्य सर्वे पाप्मानः
प्रदूयन्त' इति च । याज्ञवल्क्योऽप्याह—
(४)इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ॥' इति ।
१. तै. उ. २. १. २. मुण्डकोप. २. २. ८
३. छा. उ. ५. २४. ३ ४. या स्मृ. १. ८.
१२४ आपस्तम्बधर्मसूत्रे [(प.८.)क.२२.
अध्यात्मनि भवानध्यात्मिकान् । छान्दसो वृद्धयभावः । आत्मनो लम्भ-
यितॄन् । योगान् चित्तसमाधानहेतून् वक्ष्यमाणानक्रोधादीनुपायान् ।
अनुतिष्ठेत् सेवेत न्यायसंहितान् उपपत्तिसमन्वितान्, उपपद्यन्ते हि ते न्या-
यतः क्रोधादीना दोषाणा निर्घाते । अनैश्वारिकान् निश्चारश्चित्तस्य बहिर्वि-
क्षेपः, तस्मै ये प्रभवन्ति क्रोधादयो वक्ष्यमाणाः ते नैश्वारिकाः तत्प्रति
पक्षभूतान् । अक्रोधादिषु सत्सु चित्तमनिश्चरणशीलमात्मालम्बनं नि-
श्चलं तिष्ठति तस्मात्ताननुतिष्ठेत् । आत्मानं लब्धुमक्रोधादिलक्षणं
चित्तसमाधानं कुर्यादिति ॥ १ ॥
विवरणम् ।
पुत्रवित्तादिलाभो हि परो दृष्टो लोके । किमात्मलाभेन ? इत्यत आह-
आत्मलाभान्न परं विद्यते ॥ २ ॥
आत्मलाभाद् आत्मनः परस्य स्वरूपप्रतिपत्तेः न पर लाभान्तरं
विद्यते । तथा विचारित बृहदारण्यके(१)'तदेतत् प्रेयः पुत्राद्' इ
त्यादिना ॥ २ ॥
उज्ज्वला।
किंपुनरात्मा प्रयत्नेन लब्धव्यः ? ओमित्याह-
आत्मलाभात्परमुत्कृष्टं लाभान्तर नास्ति । तस्मात्तस्य लाभाय
यत्न आस्थेय इति । कः पुनरसावात्मा ? प्रत्यगात्मा । नन्वसौ नित्यल-
ब्धः । न हि स्वयमेव स्वस्याऽलब्धो भवति । सत्यम्, प्रकृतिमेलनात्त-
द्धर्मतामुपगतो विनष्टस्वरूप इव भवति । प्रकृत्या हि नित्यसम्बद्धः
पुरुषः । तथाविधश्च सम्बन्धो यथा परस्पर विवेको न ज्ञायते । अन्यो-
न्यधर्माश्चान्योन्यत्राऽध्यस्यन्ते । यथा क्षीरोदके संपृक्ते न ज्ञायते
विवेकः-इयत् क्षीरिमियदुदकमिति, अमुष्मिन्नवकाशे क्षीरममुष्मिन्नवकाश-
उदकमिति । यथा वा अग्न्ययोगोलकयोरभिसम्बद्धयोर्ये अग्निधर्मा
उष्णत्वभास्वरत्वादयः ते अयोगोलके ऽध्यस्यन्ते । ये वा अयोगोलक-
धर्माः काठिन्यदैर्ध्यादयः ते ऽग्नावध्यस्यन्ते । एवं हि तत्र 'प्रतिपत्तिः-
एकं वस्तु उष्णं दीर्घं भास्वरं कठिनमिति । तद्वदिहापि पुरुषधर्माश्चैत
न्यादयः प्रकृतावध्यस्यन्ते । प्रकृतिधर्माश्च सुखदुःखमोहपरिणामादयः
पुरुषे । ततश्च एकं वस्तु चेतनं सुखादिकालिल परिणामीति व्यवहारः ।
वस्तुतस्तु तस्मिन् सङ्घाते अचेतनांशः परिणामी । चेतनांशस्तु
तमनुधावति । येन येन रूपेण परिणमति तेन तेनाऽभेदाध्यासमापद्यते ।
१. बृह उ. १. ४. ८.
आत्मज्ञानप्रशंसा ] उज्ज्वलोपेतं प्रथमः प्रश्नः । १२५
यथा क्षीरावस्थागतं घृतं क्षीरे दध्यात्मना परिणमति तामप्यवस्था-
नुप्रविशति तद्वदिहापि । तदिदमुच्यते-(१) 'तत्त्सृष्ट्वा तदेवानुप्राविश'
दिति । सर्गेऽप्यात्मनः कर्तृत्वमिदमेव-यदुत भोक्तृतया निमित्तत्वम् ।
तदेवं स्वभावतः स्वच्छोऽप्यात्मा प्रकृत्या सहाभेदमापन्नः तद्धर्मा
भवति । एवं तद्विकारेण महता तद्विकारेणाऽहङ्कारेण, इत्याशरीराद्द्रष्ट-
व्यम् । स्थूलोऽहं कृशोऽहं देवोऽहं मनुष्योऽहं तिर्यगहमिति । तस्यैवं-
तस्यापेक्षितव्यस्वरूपलाभः नीचैरिव वर्धितस्य राजपुत्रस्य । तद्यथा-
शबरादिभिर्बाल्यात्प्रभृति स्वसुतैस्सह संवर्धितो राजपुत्रस्तज्जातीय-
मात्मानमवगमयन्मात्रा स्वरूपे कथित लब्धस्वरूप इव भवति । तथा
प्रकृत्या (२)वेश्ययेव स्वरूपान्तरं नीत आत्मा मातृस्थानीयया(३) 'त-
त्वमसी' ति श्रुत्या स्वभावं नीयते-यदेवंविधं परिशुद्धं वस्तु तदेव त्व-
मसि, यथा मन्यसे 'मनुष्योऽहं दुःख्यह' मित्यादि न तथेति । यथा य
एवभूतो राजा स त्वमसीति राजपुत्रः ।
ननु तत्त्वमसीति ब्रह्मणा तादात्म्यमुच्यते । को ब्रूते ? नेति । ब्रह्माऽपि
नान्यदात्मनः । किं पुनरयमात्मा एक ? आहो स्विन्नाना ? किमनेन
ज्ञानेन ? त्वं तावदेवंविधश्चिदेकरसो नित्यनिर्मलः संसर्गात्क-
लुषतामिव गतः । तद्वियोगश्च ते मोक्षः । त्वयि मुक्ते यद्यन्ये सन्ति ते
संसरिष्यन्ति । का ते क्षतिः ? अथ न सन्ति तथापि कस्ते लाभ इत्य-
लमियता । महत्येषा कथा । तदप्येते श्लोका भवन्ति-
नीचानां वसतौ तदीयतनयैः सार्धं चिरं वर्धित
स्तज्जातीयमवैति राजतनयः स्वात्मानमप्यञ्जसा ।
संघाते महदादिभिस्सहवसंसंस्तद्गतत्परः पूरुषः
स्वात्मानं सुखदुःखमोहकलिलं मिथ्यैव धिङ्मन्यते ॥ १ ॥
दाता भोगपरः समग्रविभवो यः शासिता दुष्कृतां
राजा स त्वमसीति मातृमुखतः श्रुत्वा यथावत्स तु ।
राजीभूय(४) जयार्थमेव यतते तद्वत्पुमान् बोधितः
श्रुत्या तत्त्वमसीत्यपास्य दुरितं ब्रह्मैव सम्पद्यते ॥ २ ॥
इत्येवं बहवोऽपि राजतनयाः प्राप्ता दशामीदृशीं
नैवान्योन्यभिदामपस्य सहसा सर्वे भजन्त्येकताम् ।
किं तु स्वे परमे पदे पृथगमी तिष्ठन्ति भिन्नास्तथा
१. तै. उ. २. ६. २. वश्यया. इति. ख. पु
३. छा. उ. ६. ९. ३, ४. यथार्थमेव क. पु.
१२६ आपस्तम्बधर्मसूत्रे [ (प.८.)क. २२.
क्षेत्रज्ञा इति तत्त्वमादिवचसः का भेदवादे क्षतिः ॥ ३ ॥
तेष्वेको यदि जातु मातृवचनात् प्राप्तो निजं वैभवं
नान्येन क्षतिरस्य यत्किल परे सत्यन्यथा च स्थिता ।
यद्वान्ये न भवेयुरेवमपि को लाभोऽस्य तद्द्रुतिः
पुंसामित्यभिदां भिदां च न वयं निर्बन्ध्य निश्चिन्महे॥४॥ इति॥
तत्राऽऽत्मलाभीयाञ्छ्लोकानुदाहरिष्यामः॥ ३ ॥
विवरणम् ।
सत्य क्रोधादयो दोषा आत्मलाभप्रतिबन्धभूता अक्रोधादिभिर्नि
र्ह(न्य?ष्य)न्ते; तथापि न मूलोद्धर्तनेन निवृत्तिः क्रोधादीनाम्, सर्वदोष-
बीजभूतमज्ञानं न निवृत्तमिति तस्य चाऽनिवृत्तौ बीजस्याऽनिवर्तित
त्वात् सकृन्निवृत्ता अपि क्रोधादयो दोषा पुनरुद्भविष्यन्तीति ससा-
रस्याऽऽत्यन्तिकोच्छेदो न स्यात् । तद्दोषबीजभूतस्याऽज्ञानस्य मदान्,
ज्ञानादन्यतो न निवृत्तिरित्यात्मस्वरूपप्रकाशनायात्मज्ञानाय मदान्
शाखान्तरोपनिषदृचः, तत्र तस्मिन् आत्मलाभप्रयोजने निमित्ते । आ
त्मानं करतलन्यस्तमिव ल(म्भि ? म्भयि)तुं समर्थान् आत्मलाभीयान्
श्लोकानुदाहरिष्यामः उद्धृत्याऽऽहरिष्यामः । ग्रन्थीकृत्य दर्शयिष्याम
इत्यर्थः ॥ ३ ॥
उज्ज्वला ।
तदिहाऽपेक्षितमात्मज्ञानमुपदिश्यते । तच्च त्रिविधम्-श्रुतं मननं
निदिध्यासनमिति । (२)श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इति
श्रवणात् । तत्र श्रुतमुपनिषदादिशब्दजन्यं ज्ञानम् । मननमुपपत्तिभि
र्निरूपणम् । एवं श्रुते मते चात्मनि साक्षात्कारहेतुरविक्षिप्तेन चेतसा
निरन्तरं भावना(३)निदिध्यासनम्। तत्राऽऽत्मसिद्धये श्रोतं ज्ञानं तावदाह-
तत्रेति वाक्योपन्यासे । आत्मलाभीयानात्मलाभप्रयोजनान् । अनुप्रव-
चनादिषु दर्शनाच्छप्रत्ययः । श्लोकान् पादबद्धानौपनिषदाम् मन्त्रान् ।
उदाहरिष्यामः उज्जृत्याहरिष्यामः ग्रन्थे निवेशयिष्यामः ॥ ३ ॥
पूः प्राणिनः सर्व एव गुहाशयस्याऽहन्यमानस्य
विकल्मषस्याऽचलं चलनिकेतं येऽनुति-
ष्ठन्ति तेऽमृताः ॥ ४ ॥
१. बृ. उ. २. ४. ५ २. ध्यानमिति. ख. च. पु.
आत्मज्ञानप्रशंसा ] उज्ज्वलोपेते प्रथमः प्रश्नः । १२७
विवरणम् ।
पूः पुरं शरीरम् । प्राणिन प्राणवन्तः । सर्व एव ब्रह्मादीनि स्त-
म्बपर्यन्तानि प्राणिनः । पुरं पुरमिव राज्ञः उपलब्ध्याधिष्ठानम् । कस्य
पुरम् ? गुहाशयस्याऽऽत्मनः । यथा स्वकीयपुरे राजा सचिवादिपरिवृत
उपलभ्यते, एव देहेष्वात्मा बुद्ध्यादिकरणसंयुक्त उपलभ्यते । उपल-
भते च बुद्ध्यादिकरणोपसंहृतान् भोगान् । अतोऽविद्यावरणात्मभूता-
यां बुद्धिगुहायां शेत इति गुहाशयः । तस्य पुरम् । तस्यां बुद्धाववि
द्यादिदोषमलापनये विद्वद्भिस्सूक्ष्मैषणैरुपलभ्यते । इदमपरं विशेषणं
गुहाशयस्याऽहन्यमानस्य, छेदनभेदनजरारोगादिभिर्हन्यमाने देहे न
हन्यते । (१)'न वधेनाऽस्य हन्यते' इतिच्छान्दोग्ये । तस्य विकल्मषस्य, क
ल्मषं पापं तदस्य नास्तीति विकल्मषः । सर्वं ह्यविद्यादोषसहितं धर्मा
धर्माख्यं कर्म कल्मषं भवति, विकल्मषस्येति विशेषणेन तत् प्रतिषिध्यते
तत्कार्यं जरारोगादिदुःखरूपमहन्यमानस्येति । एवं हेतुफलसम्बन्धर-
हितस्याऽसंसारिण उपलब्ध्याधिष्ठानं पूः सर्वे प्राणिनः । अतो न संसा-
र्येभ्यो ऽस्ति । (२)'एको देवः सर्वभूतेषु 'गूढ' इति श्वेताश्वतरे ।
(३)“एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते” इति च काठके ।
(४)'नान्यदतोऽस्ति द्रष्टा' इत्यादि वाजसनयके । (५) 'स
आत्मा तत्त्वमसी'ति च छान्दोग्ये । पूर्वार्धेन ब्रह्मणो याथात्म्यमुक्त्वो
त्तरार्धेन तद्विज्ञानवतस्तद्विज्ञानफलमाह-यस्य सर्वे प्राणिनः पुर अह
न्यमानस्य विकल्मषस्य, तस्य सर्वप्राणिसम्बन्धादर्थसिद्धमाकाशवत्
सर्वगतत्वम्, 'आकाशवत् सर्वगतश्च नित्य' इति च श्रुतेः। सर्वगतस्य
चाऽचलत्वमर्थसिद्धमेव । तमचलं चलनिकेतं चलायां हि प्राणिगुहायां
स्वयं शेते तमचलं चलनिकेतम् । येऽनुतिष्ठन्ति ममात्मेति साक्षात् प्र
तिपद्यन्ते, तेऽमृताः अमरणधर्माणो भवन्ति ॥ ४॥
उज्ज्वला ।
गुहेति प्रकृतिनाम ।
'यत्तत्स्मृत कारणमप्रमेयं ब्रह्म प्रधानं प्रकृतिप्रसूतिः ।
आत्मा गुहा योनि(६)रनाद्यनन्त क्षेत्रं तथैवामृतमक्षरं च ॥' इति
पुराणे दर्शनात् । तस्यां शेते तया सहाऽऽविभागामापन्नास्तिष्ठतीति
गुहाशय आत्मा ।
१. छा. उ. ८ १० ४. २. श्वेता. उ. ६. ११.
३. कठो १ ३, १२. ४. बृ. उ. ३. ८. ११
५. छा. ६. ८. ९. ६ अनाद्यनन्त इति. ख. पुस्तके'
१२८ आपस्तम्बधर्मसूत्रे [ (प८.) क. २२.
(१)'अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः,
इति च मन्त्रान्तरम् । अह्न्यमानस्य न ह्यसौ शरीरे हन्यमानेऽपि हन्यते
(२)तथा चोक्तं भगवता-(३)'न हन्यते हन्यमाने शरीरे' इति । विकल्मषस्य
निर्लेपस्य । सर्व एव हि धर्माधर्मादिरन्तःकरणस्य धर्मः, आत्मनि त्वध्य-
स्तः । एवंभूतस्यात्मनः सर्व एव प्राणिनः ब्रह्माद्यास्तिर्यगन्ताः प्राणादि-
मन्तः संघाता पू पुरं उपभोगस्थानम् । यथा राजा पुरमधिवसन्
सचिवैरानीतान् भोगानुपभुङ्क्ते, तथाऽयं देवादि शरीरमधिवसन् करणै-
रुपस्थापितान् भोगानुपभुङ्क्ते । तमेवभूतमचलं सर्वगतत्वेन निश्चलम् ।
चलनिकेतं निकेतं स्वस्थान शरीरं तद्यस्य चलं तं येऽनुतिष्ठन्ति उपासते
एवंभूतोऽहमिति प्रतिपद्यन्ते, तेऽमृताः मुक्ता भवन्तीति ।' ४ ॥
विवरणम् ।
कथं तदनुष्ठानमिति ? उच्यते—
यदिदमिदिहेदिह लोके विषयमुच्यते ।
विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ॥ ५ ॥
यदिदं प्रत्यक्षतोऽवगम्यमानं स्त्र्यन्नपानादिसंभोगलक्षणम् । इदिति
किञ्चिदर्थे । यत्किञ्चिदिदं प्रत्यक्षम् । इहाऽस्मिन् लोके । विषयम् ।
इदंशब्दसामानाधिकरण्यान्नपुंसकलिङ्गप्रयोगो विषयमिति । उभयलि-
ङ्गो वा विषयशब्दः । द्वितीय इच्छब्द इहशब्दश्च । तयोः क्वचिद्विनियो-
गः । इच्छब्दश्चार्थे । इहशब्दोऽमुष्मिन्नर्थे । लोकशब्दः काकाक्षिवदुभ-
यत्र सम्बध्यते । इह लोके इह च लोकेऽमुष्मिंश्च यदिदं विषयमुच्यते,
स्वर्गादिलोके पार्श्वस्थमध्यस्थो व्यपदिशति इह लोके इति च लोके इत
तत्सर्वं विधूय परित्यज्य । कविः क्रान्तदर्शी, मेधावीत्यर्थः । फलं सा-
धनं च तद्विधूय एषणात्रयाद् व्युत्थायेत्यर्थः । अनुतिष्ठेद् गुहाशयं य-
थोक्तलक्षणमात्मतत्त्वम् ॥ ५ ॥
उज्ज्वला ।
विषयसङ्गपरित्यागेनाऽयमुपास्य इत्याह—
यदिद, विषयं, मेतदिति सर्वत्र लिङ्गव्यत्ययश्छान्दसः । एवमितिशब्दे
तकारस्य दकारः । इतिशब्दः प्रसिद्धौ । हशब्द आश्चर्ये । इतिशब्देना-
१. तै. आ ( नारायणोपनिषदि ) १०. १.
२. 'तथा चोक्तं भगवता-न हन्यते हन्यमाने शरीरे ।' इति नास्ति क. पुस्तके.
३. भगवद्गी. २. २०.
आत्मज्ञानसम्पादनम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १९९
वृत्तेन शब्दादिषु विषयेष्ववान्तरप्रकारभेदः प्रतिपाद्यते । विषयापहृत
चेतसो हि वदन्ति–‘इति ह तस्या गीतम् , इति ह तस्याः सुखस्पर्शः,
इति ह तस्या रूपं निष्ठप्तमिव कनकम् , इति ह तस्याः स्वादिष्ठोऽधर-
मणिः, इति ह तस्या गन्धो घ्राणतर्पण’ इति । एवं दिव्यमानुषभेदोऽपि
द्रष्टव्यः । अत्राऽनन्तरमपर इतिशब्दोऽध्याहार्यः । इति ह इति हेति यो
ऽयं लोके विषय उच्यते, सामान्यापेक्षमेकवचनम् , एतद्विधूय गुहाशय-
मनुतिष्ठेत् । कविर्मेधावी ॥ ५ ॥
विवरणम् ।
तत् क्वाऽनुष्ठातव्यमिति । उच्यते--
आत्मन्नेवाऽहमलब्ध्वैतद्धितं सेवस्व नाऽहितम् ।
अथाऽन्येषु प्रतीच्छामि साधुष्ठानमनपेक्षया ।
महान्तं तेजसस्कायं सर्वत्र निहितं प्रभुम् ॥ ६ ॥
आत्मन्नेव आत्मन्येव । प्रत्यगात्मा हि परमात्मा । सर्वै ह्यत्रानुष्ठेयम् ।
यदि देहादन्यत्राऽनुष्ठीयेत, सोऽनात्मा कल्पितः स्यात्। तस्माद् देहादि-
सङ्घात आत्मन्येव विधूय बाह्यासङ्गं गुहाशयमात्मतत्त्वमनुष्ठेयम् । किम-
न्येष्वननुष्ठेयमिति भगवतो मतम् ? बाढम् , प्रथममेव नान्येष्वनुष्ठेय-
मात्मतत्त्वम् । कथं तर्हि ? सर्वप्रयत्नेनाऽपि स्वदेहादिसङ्घाते यथोक्तमा-
त्मतत्त्वं न लभेत, अथाऽहमन्येष्वादित्यादिषु प्रतीच्छामि अभिवाञ्छामि ।
साधुष्ठानं साधोः परमात्मनः उपलब्धिस्थानं, यत्र गुहाशयं ब्रह्म-
तत्त्वमनुष्ठेयम् । अनपेक्षयाऽन्यत् पुत्रवित्तलोकादिसुखं छित्वा निःस्पृ-
हतया । न ह्यात्मानुष्ठानं बाह्यार्थाकाङ्क्षा च सह सम्भवतः । कस्मात्
पुनरनेकान्यन्यानि हितप्रकाराण्यनपेक्ष्याऽत्मानुष्ठानमेव यत्नत आ-
स्थीयत इत्यत आहाऽऽचार्यः—यथान्यन्यानिहितानि हितबुध्या परिगृही-
तानि, न तथैवमात्मसेवनम् । किं तर्हि ? (ए)तद्धितमेव । तस्मात्
सेवस्वेति । किंविशिष्टश्चाऽऽत्मा सेवितव्य इत्याह—महान्तम् अमितान्तम्
अनन्त(र)त्वादबाह्यात्वाच्च महानात्मा, तं महान्तम् । गुणैर्वापाधिस-
हचारिभिर्महान्तं, बृंहणमिति यद्वत् । तेजसस्कायं तेजःशरीरमित्यर्थः।
चैतन्यात्मज्योतिःस्वरूपम् । तद्धि तेजसां तेजः । (१)‘येन सूर्यस्तपति
तेजसेद्धः’(२) ‘तस्य भासा सर्वमिदं विभाति’ इति श्रुतेः । सर्वत्र सर्व-
देहेषु ब्रह्मादिस्तम्बपर्यन्तेषु । निहितं स्थितम्, उपलब्धिरूपेणाभिव्यक्त-
१. तै. ब्रा. १२. ९. ७. २. मुण्ड. २. २. १०.
आप० ध० १७
मित्यर्थः । न हि ब्रह्मणोऽभिव्यक्तिनिमित्तत्वव्यतिरेकेण कस्यचिदा-
धारत्वसम्भवः । निराधारं हि ब्रह्म, सर्वगतत्वोपपत्तेः । प्रभु प्रभवति
सर्वानीश्वरान् प्रति, अचिन्त्यशक्तित्वात् । एवमाद्यनन्तगुणविशिष्ट-
मात्मानं सेवस्वेति ॥ ६ ॥
उज्ज्वला ।
विषयत्यागे हेतुमाह—
शिष्यं प्रत्याचार्यस्य वचनमेतत्। द्वौ चात्र हेतू विषयाणां त्यागे—पराधी-
नत्वमहितत्वं च । महान्त गुणतः । तेजसस्कायं तेजसश्शरीरं तेजोराशिं
स्वयंप्रकाशम् । (१)'आत्मज्योतिः सम्राडिति होवाचे'ति बृहदारण्यकम्।
सर्वत्र निहितं सर्वगतम् । प्रभु स्वतन्त्रम् । एवम्भूतं गुहाशयं एतावन्तं
कालं अहमात्मन् , सप्तम्येकवचनस्य लुक्, आत्मनि । अस्मिन् मदीये स-
ङ्घाते अन्यानपेक्ष्यैव लब्धुं योग्यमलब्ध्वा अथाऽन्येषु इन्द्रियादिषु तं तं वि-
षयं प्रतीच्छामि लब्धैर्र्थै लट्, प्रत्येच्छम् । इदानीं तु त लब्ध्वा न तथा-
विधोऽस्मि । त्वमप्येतदेव हितं साधुष्ठानं साधुमार्गे सेवस्व नाहितं विषया-
नुधावनमिति ॥ ६ ॥
सर्वभूतेषु यो नित्यो विपश्चिदमृतो ध्रुवः ।
अनङ्गोऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्छुचिः ।
स सर्वं परमा काष्ठा स वैषुवतं स वै वैभाजनं पुरम् ॥७॥
विवरणम् ।
विशिष्टमात्मानं सेवस्वेति क्रियापद्मनुवर्तते । किं च सर्वभूतेषु
ब्रह्मादिष्वनित्येषु यो नित्योऽविनाशी । विपश्चिन्मेधावी, सर्वज्ञ इत्यर्थः ।
अमृतोऽत एव । यो ह्यनित्योऽसर्वज्ञः स मर्त्यो दृष्टः; अयं तु तद्विपरी-
तत्वादमृतः । ध्रुव अविचलः । निष्कम्पस्वभाव इत्यर्थः । अनङ्गः स्थू-
लशरीररहित इत्यर्थः । स्थूले हि शरीरे शिरआद्यङ्गानि सम्भवन्ति ।
अशरीर इति लिङ्गशरीरवर्जित इत्येतत् । अशब्दः नाऽस्य शब्दगुणः
सम्भवति । शब्दविद्धि सन् अन्यथा शब्दात्मकः शब्दात्मकमेव विजा-
नीयात् । न चैतदस्ति । अतोऽशब्दः । तथा अस्पर्शः आकाशवायुभूत-
द्वयगुणप्रतिषेधेन शब्दादयो गन्धावसानाः सर्वभूतगुणाः प्रतिषिद्धा
वेदितव्याः । तत इदं सिद्धमाकाशादपि सूक्ष्मत्वम् । शब्दादिगुण-
बाहुल्याद्वाय्वादिषु स्थौल्यतारतम्यमुपलभ्यते । शब्दादिगुणाभावा-
न्निरतिशयसूक्ष्मत्वं सर्वगतत्वादि चाऽप्रतिबन्धेन धर्मजातं तर्केणाऽपि
१. बृह. उ. ४. ३ ६. अत्र पाठभेदो दृश्यते.
आत्मस्वरूपम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३१
शक्यं स्थापयितुम् । महान्, अत एव शुचिर्निरञ्जनः । अथवा शुचिः पावन
इत्यर्थः । शुचि हि वस्तु पावनं दृष्टम्, यथा लोके वाय्वग्न्यादि । किञ्च
य आत्मा प्रकृतः, स सर्वम् । (१)'इदं सर्वं यदयमात्मे'ति हि वाज-
सनेयके । न ह्यात्मव्यतिरेकेण किञ्चिन्निरूप्यमाणमुपपद्यते । अत
एव परमा प्रकृष्टा । काष्ठा अवसानम् । (२)'सा काष्ठा सा परा गति-
रि'ति काठके । संसारगतीनां अवसानं निष्ठा समाप्तिरित्यर्थः । स वैषुवतं
मध्यं सर्वस्य, सर्वान्तरश्रुतेः। विषुवत्सु वा(३) दिवाकीर्त्येषु मन्त्रेषु नित्यं
प्रकाश्यं भवतीति वैषुवतः । स परमात्मा ।
ननु 'स सर्वं परमा काष्ठा स वैषुवत'मित्युक्तम् । कस्मात्
पुनस्तदात्मतत्त्वं विभक्तमुपलभ्यत इति । उच्यते-स परमात्मा
वैभाजनं, विभक्तिर्विभजनं विवेकः आत्मनो यस्मिन् देहे क्रियते,
तत् । विभाजनमेव वैभाजनम् । आत्मनो विवेकोपलब्ध्य-
धिष्ठानं हि शरीरम् । तच्चाऽनेकधा विभक्तम् । तदुपाध्यनुवर्ति-
त्वाद् वैभाजनम् सर्वथा शुद्धमेव सर्वैर्नोपलभ्यते । किं तर्हि ? विभक्तो
विपरीतश्चोपलभ्यते ॥ ७ ॥
उज्ज्वला ।
पुनरप्यसौ कीदृश इत्याह-
सर्वभूतेषु मनुष्यादिषु सङ्घातेषु यो नित्यः विनश्यत्स्वपि न विनश्यति
विपश्चित् मेधावी चित्स्वरूपः । अमृतः नित्यत्वादेवाऽमरणधर्मा । अतः ध्रुवः
एकरूपः, विकाररहितः । न प्रधानवद्विकारिणस्सतो धर्मिरूपेणाऽस्य
नित्यत्वमित्यर्थः । अनङ्गः करचरणाद्यङ्गरहितः । अशब्दोऽस्पर्श इति भूत-
गुणानामुपलक्षणम् । शब्दादिगुणरहितः अशरीरः सूक्ष्मशरीरेणाऽपि वर्जि
तः । महाञ्छुचिः महत्त्व शौचस्य विशेषणम् । परमार्थतोऽत्यन्तशुद्धः ।
स सर्व प्रकृत्यभेदद्वारेण । स एव परमा काष्ठा, ततः पर गन्तव्याभावात् ।
स वैषुवत विषुवान्नाम गवामयनस्य मध्ये भवमहः । 'एकविंशमेतदह •
रुपयन्ति विषुवन्तं मध्ये सम्वत्सरस्ये'ति दर्शनात् । विषुवानेव वै-
१ बृह उ. ४. ५. ७ २. काठ. १. ३ ११.
३. गवामयनाख्यस्सवत्सरसाध्यस्सत्रविशेष । स एकषष्ट्यधिकशतत्रयादिवस
(३६१) साध्यः । तत्राशीत्युत्तरशत ( १८० ) दिनानि पूर्व पक्ष. । तावन्त्येव दिना-
न्युत्तरं पक्षः । मध्यमं यदहरेकाशीत्युत्तरशततमरू (१८१) पं स विषुवान् । तत्र दिवा-
कीर्त्याह्य साम ब्रह्मसाम भवति । तेन च साम्ना परमात्मा गीयते । अतो विषुवद्वत्
मध्यस्थानत्वात् तत्प्रतिपाद्यत्वाद्वा ब्रह्म वैषुवतमिति भाव. ।
१३२ आपस्तम्बधर्मसूत्रे [ (प.८) क.२३
ध्रुवतम् । तद्यथा सम्वत्सरस्य मध्ये भवति एवमङ्गानामेष
मध्ये । (१) 'मध्यं ह्येषामाङ्गानामात्मे'ति बह्वृचब्राह्मणम् । स एव च वैभा-
जनं पुरं विविधैर्मार्गैर्भजनीयं विभजनम् । तदेव वैभाजनं प्रज्ञादिरनुश-
तिकादिश्च । यथा समृद्धं पुरं सर्वैरर्थिभिः प्राप्यमेवमयमपीति ॥ ७ ॥
तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चाऽस्य सदाऽऽचरेत् ।
दुर्दर्शं निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ॥ ८ ॥
विवरणम् ।
अतस्तदुपाध्यनुवर्तिस्वभावदर्शनमविद्याख्यं हित्वा विद्यया शा-
स्त्रजनितदर्शनेन तं यथोक्तलक्षणमात्मानमनुतिष्ठेत् । । सर्वत्र सर्वस्मिन्
काले । किञ्च न केवलमनुष्ठानमात्रमस्य । प्राध्वं बन्धनम् आत्मैकत्वरस-
प्रज्ञतां स्थिरां बाह्यैषणाव्यावृत्तरूपां सर्वसन्न्यासलक्षणाम् । तद्धि
बन्धनं विदुषो ब्रह्मणि । एवं हि बद्धो ब्रह्मणि संसाराभिमुखो नाऽऽव-
र्तते । तस्माद् बन्धनं चाऽस्य सदाऽऽचरेत् । तदनुष्ठानबन्धने सदाचरतः
किं स्यादिति ? उच्यते—दुर्दर्शं दुःखेन ह्येषणात्यागादिना स दृश्यत इति
दुर्दर्शम् । निपुणं यस्माद्धि दुर्दर्शं तस्मान्निपुणम् । अत्यन्तकौशलेन
समाहितचेतसा युक्तो यः पश्येत् साक्षादुपलभेत—अहमात्मेति, स
मोदेत । एवं दृष्ट्वा हर्षमानन्दलक्षणं प्राप्नुयात् । विष्टपे विगतसन्ताप-
लक्षणेऽस्मिन् ब्रह्मणित्यर्थः ॥ ८ ॥
उज्ज्वला ।
तमेवंभूतमात्मानं योऽनुतिष्ठेदुपासीत यश्चाऽस्य सर्वत्र सर्वास्ववस्थासु
सदा प्राध्वमानुकूल्यमाचरेत् । आनुकूल्यं प्रतिषिद्धवर्जनं नित्यनैमित्ति-
ककर्मानुष्ठानं च । यश्च दुर्दर्शं निपुण(२) सूक्ष्मतः युक्तः समाहितो भूत्वा
पश्येत् साक्षात्कुर्यात् । सः विष्टपे विगततापे स्वे महिम्नि स्थितो मोदेत
सर्वदुःखवर्जितो भवति । संसारदशायां वा तिरोहितं निरतिशयं स्व-
मानन्दमनुभवतीति ॥ ८ ॥
॥ इत्यापस्तम्बसूत्रवृत्तावुज्ज्वलायां द्वाविंशी काण्डका ॥ २२ ॥
आत्मन् पश्यन् सर्वभूतानि न मुह्येच्चिन्तयन्कविः ।
आत्मानं चैव सर्वत्र यः पश्यत्स वै ब्रह्मा नाकपृष्ठे
विराजति ॥ ९ ॥ १ ॥
१. ऐ. ब्रा. ६. प. ८. ख. २. सूक्ष्ममेत इति क. ख. पु.