सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 147, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 147

१२८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
कायरूपे स्वभूमिके विज्ञानचक्षुषी तद्भूमिके । प्रथमध्यानभूमीनि पश्यतो रूपाणि
त्रीण्यपि तद्भूमिकानि । द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतः कायरूपे स्व-
भूमिके चक्षुस्तद्भूमिकं विज्ञानं प्रथमध्यानभूमिकम् । प्रथमध्यानभूमीनि पश्यतो विज्ञा-
नरूपे तद्भूमिके काय कामावचारश्चक्षुर्द्वितीयध्यानभूमिकम् । द्वितीयध्यानभूमीनि
पश्यतश्चक्षूरूपे तद्भूमिके काय कामावचरो विज्ञानं प्रथमभूमिकम् । एवं तृतीय-
चतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकोधरभूमिकानि रूपाणि पश्यतो योजयितव्यम् ।
प्रथमध्यानेपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकम-
धराणि पश्यतः त्रय स्वभूमिकम् । द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं
स्वभूमिकं चक्षुस्तद्भूमिकम् । कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके
रूपाण्यधराणि चक्षुस्तद्भूमिकम् । द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे तद्भूमिके ।
शेषं स्वभूमिकम् ।
एव तृतीयादिध्यानचक्षुषा¹ योज्यम् । द्वितीयादिध्यानेपपन्नस्य स्वपर-
चक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथायोगं योजयितव्यम् ॥ ४५ ॥
अयं तु नियमः—
न कायस्याधरं चक्षुः,
पञ्चभूमिकानि हि कायचक्षूरूपाणि कामावचराणि यावच्चतुर्थध्यानभूमिकानि ।
द्विभूमिकं चक्षुर्विज्ञानम्—कामावचरम्, प्रथमध्यानभूमिकं च । तत्र यद्भूमिक.
एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकोधरभूमिकानि रूपाणि पश्यतो
योजयितव्यमिति । तस्यैव कामधातावुपपन्नस्य योजयितव्यम् । एवं तृतीयादिध्यान-
चक्षुषा योज्यमिति । तस्यैव प्रथमध्यानेपपन्नस्य तृतीयचतुर्थध्यानचक्षुषा पश्यतो
योज्यम् ॥ ४५ ॥
“न कायस्याधरं चक्षुः” इति । अधरभूमिकमित्यर्थः । स्वभूमिकमूर्ध्वभूमिकं
चाभ्यनुज्ञातं भवति । पञ्चभूमिकानि हि कायचक्षूरूपाणि । कायः = शरीरम् ।
एतानि कायादीनि पञ्चभूमिकानि । कामावचराणि प्रथमध्यानभूमिकानि
यावच्चतुर्थ्यानभूमिकानि । आरूप्यधातावभावात् । द्विभूमिकं चक्षुर्विज्ञानमिति ।
कामावचरं प्रथमध्यानभूमिकं च । तयोर्वितर्कविचारसद्भावात्, चक्षुर्विज्ञानस्य
चावश्यं सवितर्कविचारत्वात् ।
१ तृतीयध्यान०—का० ।