अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 140, कुल 1258 में से
संदर्भ में पढ़ें[निर्देश.] प्रथमं कोशस्थानम् १२१
केयं प्राप्तिर्नाम ? निरन्तरोत्पत्तिः ।
किं पुनः परमाणव स्पृशन्त्यन्योन्यम् ? आहोस्विन्न ? न स्पृशन्तीति
काश्मीराः। किं कारणम् ? यदि तावत् सर्वात्मना स्पृशेयुर्मिश्रीभवेयुर्द्रव्याणि ।
अथैकदेशेन, सावयवाः प्रसज्येरन् । निरवयवाश्च परमाणव ।
कथं शब्दाभिनिष्पत्तिर्भवति ? अत एव यदि हि स्पृशेयुर्हस्तो हस्तेना-
हत सज्येत, उपलश्चोपले ।
कथं १ चितं प्रत्याहतं न विशीर्यते ? वायुधातुसन्धारित्वात् । कश्चिद्वायु-
धातुर्विकिरणाय प्रवृत्तो यथा संवर्त्तन्याम्, कश्चित् सन्धारणाय यथा विवर्त्तन्यामिति।
कथमिदानीं निरन्तरप्राप्त्या प्राप्तविषयं त्रयमुच्यते ? तदेवैषा निरन्तरत्वं २ यन्मध्ये
नास्ति किञ्चित् । अपि खलु सङ्घाताः सावयवत्वात् स्पृशन्तीत्यदोष ।
एवं च कृत्वा अयमपि ग्रन्थ उपपन्नो भवति विभाषायाम् - "किं नु
स्पृष्टहेतुकं स्पृष्टमुत्पद्यते आहोस्विदस्पृष्टहेतुकम्" इति प्रश्नयित्वा आह - "कारणं
प्रति । कदाचित् स्पृष्टहेतुकमस्पृष्टमुत्पद्यते, यदा विशीर्यते । कदाचिदस्पृष्टहेतुकं
घ्रायते । वायो गन्धान्तरमुत्पन्नमित्यपरे । मिश्रीभवेयुरेकदेशीभवेयु । अथैक-
देशेन । किम् ? स्पृशेयुरिति वर्तते
कथं शब्दाभिनिष्पत्तिरिति । यदि न स्पृशन्ति, अनभिघाते शब्दाभि-
निष्पत्तिर्न प्राप्नोतीत्यभिप्रायः । अत एवेति काश्मीराः । यदि हि स्पृशेयुर्हस्तो
हस्तेऽभ्याहतः सञ्जेत । जतुनीव जत्वन्तरम् । कथं चितं प्रत्याहतं न विशीर्येत
इति । अन्योन्यमस्पृशता परमाणूना सङ्घात प्रत्याहतः पाण्यादिभिः कथं न
विशीर्यते । तदेवैषा निरन्तरत्वं यन्मध्ये नास्ति किञ्चिदिति । आलोकादि मध्ये
नास्तीति निरन्तरत्वमेषा व्यवस्थाप्यते । तदेव च प्राप्तत्वम्, नान्यथेति ।
अपि खल्विति । अपि चेत्यर्थः । सङ्घाताः सावयवत्वात् स्पृशन्तीत्यदोषः । योऽसौ
दोष उक्तः - यदि सर्वात्मना स्पृशेयुर्मिश्रीभवेयुर्द्रव्याणि, अथैकदेशेन सावयवाः
प्रसज्येरन्निति ।
कारणं प्रतीति । यस्य यादृशं कारणं तस्य तत्कारणं स्पृष्टमस्पृष्टं वा प्रति ।
आह-कदाचिदिति । विस्तर - स्पृष्टहेतुकमिति । स्पृष्टमन्योन्यं हेतुरस्य स्पृष्ट-
हेतुकम् । एवमस्पृष्टहेतुकम् । यदा विशीर्यत इति । तद्यथा शुष्का मृच्चूर्णी-
१. कथ तर्हि-का० । २. निरन्तरस्य-का० ।