सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 141, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 141

स्पृष्टम्, यदा चयं गच्छति । कदाचित् स्पृष्टहेतुकं स्पृष्टम्, यदा चयवतां
चयः । कदाचिदस्पृष्टहेतुकमस्पृष्टम्, यदा वातायनरज." इति ।
यदि परमाणवः स्पृशेयुरुत्तरक्षणावस्थानं स्यादिति भदन्तवसुमित्रः ।
न स्पृशन्ति, निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः ।
भदन्तमतं चेष्टव्यम् । अन्यथा हि सान्तराणां परमाणूनां शून्येध्वन्तरेषु
गतिः केन प्रतिबध्येत, यतः सप्रतिघा इष्यन्ते ।
नच परमाणुभ्योऽन्ये सघाता इति । त एव ते संघाता. परमाणवः¹
स्पृश्यन्ते यथा रूप्यन्ते ।
यदि च परमाणोर्दिग्भागभेदः कल्प्येत², स्पृष्टस्यास्पृष्टस्य वा सावयवत्व-
प्रसङ्गः । न³ चेत्, स्पृष्टस्याप्यप्रसङ्गः ॥ ४३ ॥
क्रियमाणा । यदा चय गच्छतीति । तद्यथा हिमम् । तद्धि पूर्वं सूक्ष्मं पश्चान्महद्
भवति । चयवता चय इति । तद्यथा मृत्पिण्डद्वयसन्निपाते ।
उत्तरक्षणावस्थानं स्यादिति । उत्पद्य स्पृष्टियोगात् । निरन्तरे तु स्पृष्टसंज्ञेति
भदन्तः । भदन्तमतं चेष्टव्यमिति । वैभाषिकमतं कस्मान्नेष्टव्यम्, ननु वैभाषिकै-
रप्येवमुक्तम्—'तदेवेषां निरन्तरत्वं यन्मध्ये नास्ति किञ्चिद्' इति ? अस्त्येवम्,
सावकाशं तु तद्वचनम्, यत् 'मध्ये नास्ति किञ्चिद्' इति ब्रुवाणा वैभाषिका मध्य
आलोकादि नेच्छन्ति, अन्यपरमाणुप्रवेशानवकाशं तु न ब्रुवते । अन्यथा हि
सान्तराणा परमाणूना शून्येष्वन्तरषु गतिः केन प्रतिबध्येत । गतिमत इति
वाक्यशेषः ।
अयं चापरो दोष. । न च परमाणुभ्योऽन्ये सङ्घाताः । यथा वैभाषिकाः
कल्पयन्ति । त एव ते सङ्घाताः परमाणवः स्पृश्यन्ते यथा रूप्यन्त इति । सङ्घाता
एव, नैक इत्यर्थः ।
यदि च परमाणोरिति विस्तरः । परमाणुपरिनिष्पत्ति वक्तुकाम आचार्यो
विचारयति—यदि परमाणोरेकस्य पूर्वादिदिग्भागभेद कल्प्येत स्पृष्टस्यान्योन्य-
सम्पृष्टस्य वा सावयवत्वप्रसङ्गः । न चेत् । किम् ? दिग्भागभेद इति वर्तते ।
स्पृष्टस्याप्यप्रसङ्गः । कस्य ? सावयवत्वस्य । अत्र साधनम्—'न निरवयव.
परमाणुर्दिग्भागभेदवत्त्वात्, माषराशिवद्' इति । तदेनद्दिग्भागभेदवत्त्वं नेच्छन्ति
१. सघाते—पाठा० । २. कल्प्यते—का० ।
३. नो—का० ।