सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 139, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 139

भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
यद्यप्राप्तविषयं चक्षुः, कस्मान्न सर्वमप्राप्तं पश्यति दूरं तिरस्कृतं च !
कथं तावदयस्कान्तो न सर्वमप्राप्तमयः कर्षति ! प्राप्तविषयत्वेऽपि चैतत् समानम् ।
कस्मान्न सर्वं प्राप्तं पश्यत्यञ्जनशलाकां वा । यथा च घ्राणादीनां हि प्राप्तो विषयो
सहभूगन्धाद्यग्रहणात्, एव चक्षुषोऽप्यप्राप्तः स्यात्, न तु सर्वः ।
मनस्त्वरूपित्वात् प्राप्तुमेवाशक्तम् ।
पुन श्रोत्रं प्राप्ताप्राप्तविषयं मन्यन्ते; कर्णाभ्यन्तरेऽपि शब्द-
शेषं तु घ्राणजिह्वाकायाख्यम् ।
त्रयमन्यथा ॥ ४३ ॥
प्राप्तविषयमित्यर्थः । घ्राणं कथं प्राप्तविषयम् ? निरुच्छ्वासस्य गन्धाग्रहणात् ।
यद्यप्राप्तविषयं चक्षुरिति विस्तरः । आसन्नेनातिदूरस्थेन तिरस्कृतेन वा
यथा तदप्राप्तिरिति तत्र दर्शनं प्रसज्येत । किमिदं परस्य साधनम्, उत दूषण-
मिति ? यदि तावदेवं साधनम्—'अतिदूरं तिरस्कृतं चक्षुःश्रोत्रेण गृह्यते,
अप्राप्तत्वात्, आसन्नविषयवत्' इति, तदसाधनम्, हेतोः स्वयमनिश्श्चितत्वात्,
पूर्वाभ्युपगमविरोधाच्च । अथ दूषणम्—'सर्वाप्राप्तग्राहकत्वं चक्षुःश्रोत्रलक्षणस्य
धर्मिणः प्रसज्यते', तद्दूषणम्, अनुमानबाधनात् । कथम् ? इत्याह—कथं ताव-
दयस्कान्तो न सर्वमप्राप्तमयः कर्षतीति । प्रश्नमुखेनायस्कान्तनिदर्शनमुपन्यस्य
सर्वाप्राप्तग्राहकत्वं चक्षुःश्रोत्रस्य साधयति—न सर्वाप्राप्तग्राहकं चक्षुःश्रोत्रम्,
सर्वाप्राप्तग्रहणशक्तिहीनत्वात् , अयस्कान्तवत् । अयस्कान्तो ह्यप्राप्तमयो
गृह्णाति, कर्षतीत्यर्थः, न च सर्वमप्राप्तं गृह्णाति, तद्वच्चक्षुःश्रोत्रम् । प्राप्त-
विषयत्वेऽपि चैतत् समानमिति । नातिदूरतिरस्कृतो विषयश्चक्षुःश्रोत्रेण गृह्यते,
ग्रहणायोग्यत्वात्, सम्प्राप्ताञ्जनशलाकावत् । अथवा—न सर्वस्वग्राह्यग्राहि
चक्षुःश्रोत्रम्, इन्द्रियस्वभाव्यात्, घ्राणेन्द्रियादिवत् । घ्राणादीनां हि प्राप्तो
विषयो न तु सर्वः, सहभूगन्धाद्यग्रहणात् । घ्राणादिसहभूतानि हि गन्धरसस्प्रष्ट-
व्यानि घ्राणादिभिर्न गृह्यन्ते, शक्तिर्हीन्द्रियाणामीदृशीति । मनस्त्वरूपित्वादिति।
प्राप्तत्वं मूर्तानामेव व्यवस्थाप्येत, नामूर्तानामिति । मनोऽप्राप्तविषयमिति न
विचारः क्रियते ।
“त्रयमन्यथा” इति । प्राप्तविषयमेव त्रयमिति इष्टावधारणार्थमारम्भः ।
अन्यथा हि प्राप्ताप्राप्तविषयमित्यपि सम्भाव्येत । निरुच्छ्वासस्य गन्धाग्रहणा-
दिति । यदुच्छ्वासेन सार्धं सूक्ष्मं भूतचतुष्कं घ्राणमागतं तस्य गन्धो घ्राणेन