सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १३७ ॥

६२ याज्ञवल्क्यस्मृतिः
ष्ठीवनासृक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १३७ ॥
ष्ठीवनमुद्गिरणम्, असृक् रक्तं, शकृत् पुरीषं प्रसिद्धम्, एतान्यप्सु न
निक्षिपेत् । एवं तुषादीनपि । यथाह शङ्खः—‘तुषकेशपुरीषभस्मास्थिश्लेष्म-
नखलोमान्यप्सु न निक्षिपेन्न पादेन पाणिना वा जलमभिहन्यात्’ इति । अग्नौ
च पादौ न प्रतापयेत् । नाप्यग्निं लङ्घयेत् । चकारात् ष्ठीवनादीन्यग्नौ न
निक्षिपेत् । मुखोपधमनादि चाग्नेर्न कुर्यात् । तथा च मनुः (४।५३)—नाग्नि
मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥
अधस्तान्नोपद्ध्याच्च न चैनमभिलङ्घयेत् । न चैनं पादतः कुर्यान्न प्राणिवैध-
माचरेत् ॥’ इति ॥ १३७ ॥
भाषा—थूक, रक्त, पुरीष, मूत्र, एवं वीर्य जल में न फेंके । अग्नि में पैरों
को न सेंके और न उसे लाँघे ॥ १३७ ॥
जलं पिबेन्नाञ्जलिना न शयानं प्रबोधयेत् ।
नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत् ॥ १३८ ॥
जलमञ्जलिना संहताभ्यां हस्ताभ्यां न पिबेत् । 'जल' ग्रहणं पेयमात्रोप-
लक्षणम् । विद्यादिभिरात्मनोऽधिकं शयानं न प्रबोधयेन्नात्थापयेत् । 'श्रेयांसं न
प्रबोधयेत्' इति विशेषस्मरणात् । अक्षादिभिर्न क्रीडेत् । धर्मघ्नैः पशुसम्भनादिभिर्न
क्रीडेत् । व्याधितैर्ज्वराद्यभिभूतैः सहकत्र न संविशेन्न शयीत ॥
भाषा—अंजलि से जल न पिए और न सोये हुए व्यक्ति को जगावे ।
जुआ न खेले, ( पशु हिंसक आदि ) धर्मभ्रष्ट व्यक्तियों के साथ न खेले और
न रोगी व्यक्ति के पास सोवे ॥ १३८ ॥
विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ १३९ ॥
जनपदग्रामकुलाचारविरुद्धं कर्म वर्जयेत् । प्रेतधूमं, बाहुभ्यां नदीतरणं
च, वर्जयेदिति सम्बद्ध्यते । केशादिषु च संस्थितिं वर्जयेत् । चकारादस्थिकार्पासा-
मेध्येषु च ॥ १३९ ॥
भाषा—( जनपद, गाँव और कुल के) विरुद्ध कर्म न करे । प्रेतधूम-
स्पर्श और तैर कर नदी पार करना कार्य न करे । केश, भस्म, भूसी, अंगार
और कपाल पर न बैठे ॥ १३९ ॥
१. मनुलङ्घयेत् । २. मतिलङ्घयेत् । ३. प्राणाबाध ।

आचाराध्यायः ६३
नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्क्वचित् ।
न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ १४० ॥
परस्य क्षीरादि १ पिबन्तीं गां परस्मै नाचक्षीत नच निवर्तयेत् । अद्वारेण
कापथेन क्वचिदपि नगरे ग्रामे मन्दिरे वा न प्रविशेत् । नच कृपणस्य शास्त्राति-
क्रमकारिणो राज्ञः सकाशात्प्रतिगृह्णीयात् ॥ १४० ॥
भाषा—पीती हुई या (बछड़े को) पिलाती हुई गाय को अलग न करे
और न उसके विषय में कहे । कहीं (गांव या मन्दिर में) उचितमार्ग को
छोड़कर किसी और मार्ग से प्रवेश न करे । लोभी, शास्त्र के विपरीत आचरण
करने वाले राजा का दान न ग्रहण करे ॥ १४० ॥
प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥ १४१ ॥
प्रतिग्रहे साध्ये सून्यादयः पञ्च पूर्वस्मात्पूर्वस्मात्परः परो दशगुणं दुष्टः ।
सूना प्राणहिंसा साऽस्यास्तीति सूनी प्राणहिंसापरः । चक्री तैलिकः । ध्वजी
सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपोऽनन्तरोक्तः ॥ १४१ ॥
भाषा—दान लेने में वधिक, तेली, कलाल, वेश्या और राजा-ये यथाक्रम
अपने पहले वाले से दस-दस गुना अधिक दोषी होते हैं ॥ १४१ ॥
अथाध्ययनधर्मानह—
अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ १४२ ॥
अधीयन्त इत्यध्याया वेदाः, तेषामुपाकर्म उपक्रममोषधीनां प्रादुर्भावे सति
श्रावणमासस्य पौर्णमास्यां, श्रवणनक्षत्रयुते वा दिने, हस्तेन युतायां पञ्चम्यां
वा, स्वगृह्योक्तविधिना कुर्यात् । यदा तु श्रावणे मासि ओषधयो न प्रादुर्भवन्ति,
तदा भाद्रपदे मासि श्रवणनक्षत्रे कुर्यात् । तत ऊर्ध्वं सार्धं चतुरो मासान्वेदानधी-
यीत् । तथा च मनुः (४।९५)—'श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि ।
युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् ॥' इति ॥ १४२ ॥
भाषा—(वेदों के) अध्ययन का उपाकर्म (आरम्भ) वनस्पतियों के
उग आने पर श्रावण महीने की पूर्णमासी को या श्रवणनक्षत्र से युक्त दिन को
अथवा हस्तनक्षत्र से युक्त श्रावण की पंचमी को करे ॥ १४२ ॥
१. क्षीरादि धयन्तीं गां । २. प्रतिग्रहेषु साध्येषु ।

६४ याज्ञवल्क्यस्मृतिः
उत्सर्जनकालः—
पौषमासस्य रोहिण्यामष्टकायामथापि वा ।
जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिः ॥ १४३ ॥
पौषमासस्य रोहिण्यामष्टकायां वा ग्रामाद्बहिर्जलसमीपे छन्दसां वेदानां
स्वगृह्योक्तविधिनोत्सर्गं कुर्यात् । यदा पुनभाद्रपदे मासि उपकर्म तदा माघ-
शुक्लप्रथमदिवसे उत्सर्गं कुर्यात् । यथोक्तं मनुना ( ४।९६ )—‘पुष्ये तु छन्द-
सां कुर्याद्बहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमेऽहनि ॥’
इति । तदनन्तरं पक्षिणमहोरात्रं वा विरम्य शुक्लपक्षेषु वेदान् कृष्णपक्षेष्वङ्गा-
न्यधीयीत । यथाह मनुः ( ४।९७ )—‘यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां
बहिः । विरमेत्पक्षिणीं रात्रिं यद्वाऽप्येकमहर्निशम् ॥ अत ऊर्ध्वं तु छन्दांसि
शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ इति ॥ १४३ ॥
भाषा—पौष मास की रोहिणी या अष्टमी को (गाँव से) बाहर जाकर
जलाशय के निकट वेदों का (अपने गृह्यसूत्र में उक्त) विधि के अनुसार
उत्सर्ग करे ॥ १४३ ॥
अनध्यायानाह—
त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ १४४ ॥
उक्तेन मार्गेणाधीयानस्य द्विजस्य शिष्यर्त्विग्गुरुबन्धुषु प्रेतेषु मृतेषु त्र्यह-
मनध्यायस्त्रीनहोरात्रानध्ययनं वर्जयेत् । उपाकर्मणि उत्सर्गाख्ये च कर्मणि
कृते त्र्यहमनध्यायः । उत्सर्गे तु मनूक्तपक्षिण्यहोरात्राभ्यां सहास्य विकल्पः ।
स्वशाखाश्रोत्रिये स्वशाखाध्यायिनि च प्रेते त्र्यहमनध्यायः ॥ १४४ ॥
भाषा—शिष्य, ऋत्विज, गुरु और बन्धु (सजाति) के मरने पर,
उपाकर्म (एवं वेदोत्सर्ग कर्म) के उपरान्त तथा अपनी शाखा का अध्ययन
करने वाले किसी व्यक्ति की मृत्यु पर तीन दिनों तक अनध्याय
होता है ॥ १४४॥
संध्यागर्जितनिर्घातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥ १४५ ॥
संध्यायां मेघध्वनौ, निर्घाते आकाशे उत्पातध्वनौ, भूमिचलने, उल्का-
पतने, मन्त्रस्य ब्राह्मणस्य वा समाप्तौ, आरण्यकाध्ययने च द्युनिशमहोरात्र-
मनध्यायः ॥ १४५ ॥

आचाराध्यायः ६५
भाषा—सन्ध्या समय मेघ का गर्जन होने पर, आकाश में उत्पात की
ध्वनि होने पर, भूकम्प, उल्कापात (तारा टूटकर गिरने पर), वेद के मन्त्र
या ब्राह्मण भाग की समाप्ति पर और आरण्यक का अध्ययन पूरा कर लेने
पर एक दिन और रात का अनध्याय होता है ॥ १४५ ॥
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ।
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १४६ ॥
पञ्चदश्याममावास्यायां पौर्णमास्यां चतुर्दश्यामष्टम्यां राहुसूतके चन्द्रसूर्ययो-
परागे च द्युनिशमनध्यायः । यत्तु—'त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके'
(मनु. ४।११०) इति तद्ग्रस्तास्तविषयम् । ऋतुसंधिगतासु च प्रतिपत्सु
श्राद्धिकभोजने तत्प्रतिग्रहे च द्युनिशमनध्यायः । एतच्चैकोद्दिष्टव्यतिरिक्त-
विषयम् ; तत्र तु त्रिरात्रम् मनुः (४।११०) - 'प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य
केतनम् । त्र्यहं न कीर्तयेद्ब्रह्म' इति स्मरणात् ॥ १४६ ॥
भाषा—अमावश्या, पौर्णमासी, चतुर्दशी, अष्टमी को चन्द्रग्रहण एवं
सूर्यग्रहण के समय ऋतुओं के आरम्भ की प्रतिपदा को, श्राद्ध का भोजन
करने पर तथा दान लेने पर (एक दिन-रात का अनध्याय होता है) ॥ १४६ ॥
पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः ।
कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ १४७ ॥
अध्येतॄणां पश्वादिभिरन्तरागमने कृते शक्रध्वजस्यावरोपणदिवसे, १उच्छ्राय-
दिवसे चाहोरात्रमनध्यायः । द्युनिशमिति प्रकृते पुनः 'अहोरात्र' ग्रहणं संध्या-
गर्जितनिर्घातभूकम्पोल्कानिपातेष्वाकालिकत्वज्ञापनार्थम् , 'आकालिकनिर्घात-
भूकम्पराहुदर्शनोल्काः' ( १।३।२२ ) इति गौतमवचनात् । यस्मिन्कालादारभ्या-
परेद्युर्यावांस्त एव कालस्तावत्काल अकालः, तत्र भव आकालिकोऽनध्यायः ।
एतच्च प्रातःसंध्यास्तनिते । सायसंध्यास्तनिते तु रात्रिमेव; २'सायंसंध्यास्तनिते
तु रात्रिः, प्रातःसंध्योस्तनितेऽहोरात्रम्' इति हारीतस्मरणात् । यत्पुनर्गौतमेनोक्तं
( १।७९) 'श्वनकुलसर्पमण्डूकमार्जाराणामन्तरागमने ३त्र्यहमुपवासो विप्रवासश्च'
इति तत्प्रथमाध्ययनविषयमेव४ ॥ १४७ ॥
भाषा—अध्ययन करने वालों के बीच किसी पशु, मेढक, नेवला, साही,
बिल्ली या चूहा के आ जाने पर, इन्द्रधनुष उठने पर तथा उत्सव के समय
एक दिन-रात (अनध्याय होता है) ॥ १४७ ॥
१. उत्सवदिवसे । २. संध्यामहोरात्रं । ३. मार्जाराणां त्र्यहं ।
४. ध्ययनविषय एव ।
५ या०

६६ याज्ञवल्क्यस्मृतिः
श्वक्रोष्ट्रगर्दभोल्लूक सामवाणार्तनिःस्वने ।
अमेध्यशव शूदdryन्त्यश्मशान पतितान्तिके ॥ १४८ ॥
श्वा कुक्कुरः, क्रोष्टा शृगालः, गर्दभो रासभः, उलूको घूकः साम सामानि,
वाणो वंशः, आर्तो दुःखितः, एषां श्वादीनां निःस्वने तावत्कालमनध्यायः । एवं
वीणादिनिःस्वनेऽपि । - 'वेणुवीणाभेरीमृदङ्गगन्त्र्यार्तशब्देषु' (१६।७) इति
गौतमवचनात् । गन्त्री शकटम् । अमेध्यादीनां सन्निधाने तावत्कालिकोऽन-
ध्यायः ॥ १४८ ॥
भाषा - कुत्ता, सियार, गदहा, उल्लू, सामगान, बांस और दुःखित व्यक्ति
का स्वर सुनाई पड़ने पर तथा अपवित्र वस्तु शव, शूद्र, अन्त्यज, श्मशान या
पतित व्यक्ति के निकट होने पर (उस स्थिति की अवधि तक अनध्याय
होता है) ॥ १४८ ॥
देशेऽशुचावात्मनि स विद्युत्स्तनितसंप्लवे ।
भुक्त्वाऽर्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥ १४९ ॥
अशुचौ देशेऽशुचावात्मनि च । तथा विद्युत्स्तनितसंप्लवे पुनः पुनर्विद्योत-
मानायां विद्युति, स्तनितसंप्लवे प्रहरद्वयं पुनः पुनर्मेघघोषे तावत्कालिकोऽनध्यायः ।
भुक्त्वाऽर्द्रपाणिर्नाधीयीत । जलमध्ये च । अर्धरात्रे महानिशाख्ये मध्यमप्रहरद्वये,
अतिमारुतेऽहन्यपि तावत्कालं नाधीयीत ॥ १४९ ॥
भाषा-अपवित्र स्थान पर, स्वयं अशुद्ध होने पर, बार-बार बिजली की
चमक होने, मेघ के बार-बार गर्जन के समय, भोजन के उपरान्त, गीले हाथ
रहने पर, जल के भीतर, आधी रात को और तीव्र वायु चलने पर उतने समय
तक (अध्ययन नहीं करना चाहिए) ॥ १४९ ॥
१पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ १५० ॥
औत्पातिके रजोवर्षे, दिग्दाहे यत्र ज्वलिता इव दिशो दृश्यन्ते । संध्ययोः,
नीहारे धूमिकायां, भीतिषु चौरराजादिकृतासु तावत्कालमनध्यायः । धावतस्त्व-
रितं गच्छतोऽनध्यायः । पूतिगन्धे कुत्सितगन्धे अमेध्यमद्यादिगन्धे । शिष्टे च
श्रोत्रियादौ गृहं प्राप्ते तदनुज्ञावध्यनध्यायः ॥ १५० ॥
भाषा - धूल भरी आँधी उठने पर, दिशाओं के जलती हुई सी दिखाई
पड़ने पर, दोनों सन्ध्याओं के समय धुंधले में और (चोर या राजा से)
भय होने पर (तत्काल अनध्याय होता है)। दौड़ते समय, अपवित्र वस्तु की
१. पांसुवर्षे दिशां दाहे पांसुवर्षे च दिग्दाहे । २. गृहमागते ।

आचाराध्यायः ६७
गन्ध आने पर (श्रोत्रियादि) शिष्ट व्यक्ति के घर पर (अनध्याय
होता है) ॥ १५० ॥
खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥ १५१ ॥
यानं रथादि, इरिण^१मूषरं मरुभूमिर्वा, खरादीनामारोहणे तावत्कालमन-
ध्यायः । एवं 'श्वक्रोष्टुगर्दभ-'इत्यस्मादारभ्य सप्तत्रिंशदनध्यायानेतांस्तात्कालि-
कान्निमित्तसमकालान्विदुरनध्यायविधिज्ञाः । 'विदुः इत्यनेन' स्मृत्यन्तरोक्तान-
न्यानपि संगृह्णाति । तथाह मनुः (४।११२)—'शयानः प्रौढपादश्च कृत्वा
चैवावसक्थिकाम्^३। नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥' इत्यादि ॥ १५१ ॥
भाषा—गदहा, ऊँट, रथ, हाथी, घोड़ा, नौका वृक्ष पर चढ़ने और ऊसर
भूमि या मरुस्थल में चलने पर अनध्याय होता है । इन सैंतीस अनध्यायों का
समय इनके निमित्त की सत्ता रहने तक समझना चाहिए ॥ १५१ ॥
एवमनध्यायानुक्त्वा प्रकृतानि स्नातकव्रतान्याह—
देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः ।
नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥ १५२ ॥
देवानां देवार्चानाम्ऋत्विक्स्नातकाचार्यराज्ञां परस्त्रियाश्च छायां नाक्रामेन्ना-
धितिष्ठेन्न लङ्घयेद्बुद्धिपूर्वकम् । तथाह मनुः (४।१३०)—'देवतानां गुरो राज्ञः
स्नातकाचार्ययोस्तथा । नाक्रामेत्कामतश्छायां बभ्रुगो दीक्षितस्य च ॥' इति ।
बभ्रुगो नकुलवर्णस्य यस्य कस्यचिद्धोरन्यस्य वा श्यामादेः,^४ 'बभ्रुणु' इति नपुंसक-
लिङ्गनिर्देशात् । रक्तादीनि च नाधितिष्ठेत् । 'आदि' ग्रहणात्स्नानोदकादेर्ग्रहण्म् ।
(मनु. ४।१३२)—'उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च । श्लेष्मनिष्ठ्यूत-
वान्तानि नाधितिष्ठेत कामतः ॥' इति ॥ १५२ ॥
भाषा—देवता, ऋत्विज्, स्नातक, आचार्य, राजा और पर स्त्री की
छाया न लाँघे । रुधिर, विष्ठा, मूत्र, खखार, उद्वर्तन (उबटन की झीली)
(तथा स्नान करने पर गिरे हुए जल) को भी न लाँघे ॥ १५२ ॥
विप्राद्दिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आ मृत्योः श्रियमाकाङ्क्षेन्न कञ्चिन्मर्माणि स्पृशेत् ॥ १५३ ॥
विप्रो बहुश्रुतो ब्राह्मणः, अहिः सर्पः, क्षत्रियो नृपतिः, एते कदाचिदपि
नावमन्तव्याः । आत्मा च स्वयं नावमन्तव्यः । आमृत्योर्यावज्जीवं श्रिय-
१. ऊखरं । २. अध्ययन अध्यापन । ३. कृतावसक्थिक ऊरुभ्यामवर्न
गतः । ४. सोमादेः ।