सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

एव सप्रपञ्चं प्रतिपादितमिति योगीश्वरेण न पुनरत्रोक्तम् ॥

व्यवहाराध्यायः ३८५
वशे ॥'इत्यादि ॥ यद्यपि स्त्रीपुंसयोः परस्परमर्थिप्रत्यर्थितया १'नृपसमक्षं व्यवहारो
निषिद्धः, तथापि प्रत्यक्षेण कर्णपरम्परया वा विदिते तयोः परस्परातिचारे दण्डा-
दिना दम्पती निजधर्ममार्गे राज्ञा स्थापनीयौ । इतरथा दोषभाग्भवतीति व्यव-
हारप्रकरणे राजधर्ममध्येऽस्य स्त्रीपुंसधर्मजातस्योपदेशः । एतच्च विवाहप्रकरण
एव सप्रपञ्चं प्रतिपादितमिति योगीश्वरेण न पुनरत्रोक्तम् ॥
सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तल्लक्षणं च कथितं नारदेन
(१७.१-४)-'प्रकीर्णकेषु २विज्ञेया व्यवहारा नृपाश्रयाः । राज्ञामाज्ञाप्रतीघातस्त-
त्कर्मकरणं तथा ॥ पुरःप्रदानं संभेदै३ः प्रकृतीनां तथैव च । पाखण्डिनैगमश्रेणि-
गणधर्मविपर्ययाः ॥ पित्रापुत्रविवादश्च प्रायश्चित्तव्यसंक्रमः । प्रतिग्रहविलोपश्च
कोपश्चाश्रमिणामपि ॥ वर्णसंकरदोषश्च तद्वृत्तिनियमस्तथा । न दृष्टं यच्च पूर्वेषु
सर्वं तत्स्यात्प्रकीर्णके ॥' इति ॥ प्रकीर्णकं विवादपदे ये विवादा राजाज्ञोल्लङ्घन-
तदाज्ञाकरणादिविषयास्ते नृपसमवायिनः । नृप एव तत्र स्मृत्याचारव्यपेतमार्गे
वर्तमानानां प्रतिकूलतामास्थाय व्यवहारनिर्णयं कुर्यात् ॥ एवं च वदता यो
नृपाश्रयो व्यवहारस्तत्प्रकीर्णकमित्यर्थाल्लक्षितं भवति ॥
तत्रापराधविशेषेण दण्डविशेषमाह—
४ऊनं ५वाऽभ्यधिकं ६वाऽपि लिखेद्यो राजशासनम् ।
पारदारिकचौरै७ वा मुञ्चतो दण्ड उत्तमः ॥ २९५ ॥
राजदत्तभूमेर्निबन्धस्य वा परिमाणान्यूनत्वमाधिक्यं वा प्रकाशयन् राज
शासनं योऽभिलिखति, यश्च पारदारिकं चौरं वा गृहीत्वा राज्ञेऽनर्पयित्वा मुञ्चति
तावुभावुत्तमसाहसं दण्डनीयौ ॥ २९५ ॥
भाषा—जो राजा की आज्ञा को घटा-बढ़ाकर लिखता है और जो
परायी स्त्री से व्यभिचार करने वाले या चोर को पकड़ करके भी छोड़ देता है
उसे उत्तम साहस का दण्ड होता है ॥ २९५ ॥
प्रसङ्गान्नृपाश्रयव्यतिरिक्तव्यवहारविषयमपि दण्डमाह—
८अभक्ष्येण द्विजं दूष्यो दण्ड्य उत्तमसाहसम् ।
मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ॥ २९६ ॥
१. नृपसमीपं । २. र्णके पुनज्ञेया । ३. भेदश्च । ४. न्यूनं वा ।
५. वाऽपि यो लिखेद्वाज । ६. वाऽप्यधि । ७. चौरौ । ८. द्विजं
प्रदूष्याभक्ष्येण दण्ड्य उत्तमसाहसम् । क्षत्रियं मध्यमं वैश्यं प्रथमं शूद्रमर्धि-
कम् । अभक्ष्यैदूषयन् विप्रं दण्ड उत्तमसाहसम् ।

३८६ याज्ञवल्क्यस्मृतिः
मूत्रपुरीषादिना अभक्ष्येण अद्यानर्हेण दूष्यान्नपानादिमिश्रणेन स्वरूपेण
वा ब्राह्मणं दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनरेवं
दूषयित्वा मध्यमम् , वैश्यं दूषयित्वा प्रथमम् , शूद्रं दूषयित्वा प्रथमसाहस-
स्यार्धम् , 'दण्ड्यो भवति' इति संबन्धः । लशुनाद्यभक्ष्यदूषणे तु दोषतारत-
म्याद्दण्डतारतम्यूहनीयम् ॥ २९६ ॥
भाषा—मूत्र, पुरीष आदि अपवित्र या अभक्ष्य पदार्थ द्वारा ब्राह्मण के
अन्न और जल को दूषित करने वाला उत्तम साहस के दण्ड का भागी
होता है । क्षत्रिय को इस प्रकार दूषित करने वाला मध्यम साहस के,
वैश्य को दूषित करने वाला प्रथम साहस के और शूद्र को इस प्रकार
दूषित करने वाला प्रथम साहस के आधा दण्ड के योग्य होता है ॥ २९६ ॥
कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।
त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥ २९७ ॥
किंच, रसवेधाद्यापादितवर्णोत्कर्षैः कूटैः स्वर्णैर्व्यवहारशीलो यः स्वर्णका-
रादिः । यश्च विमांसस्य कुत्सितमांसस्य श्वादिसंबद्धस्य विक्रयशीलः सौनिकादिः,
‘च’शब्दात्कूटरजतादिव्यवहारी च, ते सर्वे प्रत्येकं नासाकर्णकरैस्त्रिभिरङ्गैर्हीनाः
कार्याः । 'च'शब्दोस्त्र्यङ्गच्छेदेन समुच्चितमुत्तमसाहसं दण्डं दाप्याः । यत्पुनर्मनु-
नोक्तम् ( ९-२९२ )—'सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्तमान-
मन्याये छेदयेल्लवशः क्षुरैः ॥' इति,-तदेतद् देवब्राह्मणराजस्वर्णविषयम् ॥२९७॥
भाषा—कूट स्वर्ण ( सोने का पानी चढ़ाकर बनाये गये खोटे सोने ) का
व्यवहार करने वाले और निषिद्ध अर्थात् कुत्ते आदि का मांस बेचने वाले
के तीन अंग ( नाक, कान और हाथ ) काट कर उन्हें उत्तम साहस का
दण्ड देना चाहिए ॥ २९७ ॥
विषयविशेषे दण्डाभावमाह—
चतुष्पादकृतो दोषो नापेहीति प्रजल्पतः ।
काष्ठलोष्टेषुपाषाणबाहुयुग्यकृतस्तथा ॥ २९८ ॥
चतुष्पादैर्गोजादिभिः कृतो यो दोषो मनुष्यमारणादिरूपोऽसौ गवादि-
स्वामिनो न भवति, अपसरेति प्रकर्षेणोच्चैर्भाषमाणस्य । तथा लकुटलोष्टसायक-
पाषाणोत्क्षेपणेन बाहुना युग्येन च युगं वहताश्वादिना कृतो यः पूर्वोक्तो दोषः
सोऽपि काष्ठादीन्प्रास्यतो न भवत्यपसरेति प्रजल्पतः । काष्ठाद्युत्क्षेपणेन हिंसायां
दोषाभावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तं पुनरबुद्धिपूर्वककरणनिमित्त
मस्त्येव । काष्ठादिग्रहणं च शक्तितोमरादेरुपलक्षणार्थम् ॥ २९८ ॥
१. द्रव्यरूपेण । २. शब्दवाद्यङ्गच्छेदेन । ३. 'ण बाह्रायुग्य' ।

व्यवहाराध्यायः ३८७
भाषा—'हटो हटो' इस प्रकार चिल्लाकर स्वामी के सावधान करने
पर भी यदि चौपाए ( गाय, बैल, हाथी आदि ) कोई दोष करें अर्थात्
किसी को मार दें तो स्वामी का दोष नहीं होता; इसी प्रकार हटने के लिये
आवाज देते हुए काठ, ढेला, बाण, पत्थर फेंकने से, हाथ चलाने से और
रथ में जुते हुए घोड़ों से किसी को चोट लगने पर भी फेंकने, चलाने या
हाँकने वाले का दोष नहीं होता ॥ २९८ ॥
छिन्ननस्येन यानेन तथा भग्नयुगादिना ।
पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ २९९ ॥
किंच, नसि भवा रज्जुर्नस्या छिन्ना शकटादियुक्तबलीवर्दंनस्या रज्जुर्य-
स्मिन्द्याने तत् छिन्ननस्यं शकटादि तेन, तथा भग्नयुगेन 'आदि'ग्रहणाद्भग्ना-
क्षचक्रादिना च यानेन पश्चात्पृष्ठतोऽपसरता 'च'शब्दात्तिर्यगपगच्छता प्रतिमुखं
वागच्छता च मनुष्यादिहिंसने स्वामी प्राजको वा दोषभाङ् न भवति । अतत्प्र-
यत्नजनितत्त्वाद्धिंसनस्य । तथा च मनुः ( ८।२९१।२९२ )—'छिन्ननस्ये
भग्नयुगे तिर्यक्प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ छेदने
चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च । आक्रन्दे सत्यपैहीति न दण्डं मनुर-
ब्रवीत् ॥' इति ॥ २९९ ॥
भाषा—गाड़ी में बैलों को नाँधने के लिए लगी हुई रस्सी ( जोता ) के
टूटने पर और जुए आदि के टूटने से तथा यान ( गाड़ी ) के पीछे चलने से
किसी मनुष्य आदि की हिंसा हो जाय तो यान का स्वामी दोषी नहीं
होता ॥ २९९ ॥
उपेक्षायां स्वामिनो दण्डमाह—
शक्तोऽप्यमोक्षयन्स्वामी दंष्ट्रिणां शृङ्गिणां तथा ।
प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा ॥ ३०० ॥
अप्रवीणप्राजकप्रेरितैर्दंष्ट्रिभिर्गजादिभिः शृङ्गिभिर्गवादिभिर्वध्यमानं सम-
र्थोऽपि तत्स्वामी यद्यमोक्षयन्नुपेक्षते, तदा अकुशलप्राजकनियोजननिमित्तं
प्रथमसाहसं दण्डं दद्यात् । यदा तु 'मारितोऽहम्' इति विक्रुष्टेऽपि न मोक्षयति
तदा द्विगुणम् । यदा पुनः प्रवीणमेव प्राजकं प्रेरयति तदा प्राजक एव दण्ड्यो
न स्वामी । यथाह मनुः ( ८।२९४ )—'प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति'
इति ॥ प्राजको यन्ता । आप्तोऽभियुक्तः । प्राणिविशेषाच्च दण्डविशेषः कल्पनीयः ।
यथाह मनुः ( ८।२९६-९८ )—'मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषी भवेत् ।
१. तिर्यगपसरता । २. आक्रन्दनेप्यपैहीति ।
२५ या०

३८८ याज्ञवल्क्यस्मृतिः
प्राणभृत्सु महस्त्वर्धं गोगजोष्ट्रहयादिषु ॥ क्षुद्राणां च पशूनां तु हिंसायां द्विशतो
दमः । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ गर्दभाजाविकानां तु दण्डः
स्यात्पञ्चमाषकः । माषकस्तु भवेद्दण्डः श्वशूकरनिपातने ॥' इति ॥ ३०० ॥
भाषा—दाँत वाले (हाथी आदि) और सींग वाले (बैल आदि)
पशुओं का स्वामी यदि समर्थ होते हुए भी इनके आक्रमण से किसी को न
छुड़ावे तो उसे प्रथम साहस का दण्ड होता है और यदि उस व्यक्ति के
(जिसे पशु मार रहा हो) रक्षा के लिये चिल्लाने पर भी नहीं बचाता तो
वह प्रथम साहस के दण्ड से दूना दण्ड का भागी होता है ॥ ३०० ॥
जारं चौरेत्यभिवदन्दाप्यः पञ्चशतं दमम् ।
उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥ ३०१ ॥
किंच, स्ववंशकलङ्कभयाज्जारं पारदारिकं 'चौर ! निर्गच्छे'त्यभिवदन् पञ्च-
शतं पणानां पञ्च शतानि यस्मिन्दमे स तथोक्तस्तं दमं दाप्यः । यः पुनर्जा रह-
स्ताद्धनमुपजीव्य उत्कोचरूपेण गृहीत्वा जारं मुञ्चत्यसौ यावद् गृहीतं तावदष्ट-
गुणीकृतं दण्डं दाप्यः ॥ ३०१ ॥
भाषा—यदि कोई अपने कुल की प्रतिष्ठा बचाने के लिए जार (अर्थात्
व्यभिचारी) को चोर-चोर कहकर भाग जाने दे तो उससे पाँच सौ पण
दण्ड लेना चाहिए और यदि उस जार से उत्कोच के रूप में धन लेकर उसे
छोड़ दे तो उसके अठगुना दण्ड होता है ॥ ३०१ ॥
राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् ।
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ ३०२ ॥
किंच, राज्ञोऽनिष्टस्यानभिमतस्यामित्रैस्तोत्रादेः प्रकर्षेण भूयो भूयो वक्तारं
तस्यैव राज्ञ आक्रोशकारिणं निन्दाकरणशीलं तदीयस्य च मन्त्रस्य
स्वराष्ट्रविवृद्धिहेतोः परराष्ट्रापचयकरस्य वा भेत्तारं अमित्रकर्णेषु जपन्तं तस्य
जिह्वामुत्कृत्य स्वराष्ट्रा निष्कासयेत् । कोशापहरणादौ पुनर्वध एव ।
(मनुः ९।२७५)—'राज्ञः कोशापहतॄंश्च प्रतिकूलेषु च स्थितान् । घातयेद्विवि-
धैर्दण्डैररीणां^३ चोपकारकान् ॥' इति मनुस्मरणात् । विविधैः सर्वस्वापहाराङ्गच्छे-
दवधरूपैरित्यर्थः । सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तन्नापहर्तव्यम् चौर्यो-
पकरणं विना । यथाह नारदः— (१७।१०,११) 'आयुधान्यायुधीयानां बाह्यादी-
न्वाह्यजीविनाम् । वेश्यास्त्रीणामलङ्कारान्वाद्यातोद्यादि तद्विदाम् ॥ यच्च यस्योप-
करणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥' इति ।
१. क्षुद्रकाणां पशूनां तु । २. मित्रैस्तवादेः । ३. चोपजापकान् ।

व्यवहाराध्यायः ३८६
ब्राह्मणस्य पुनः 'न शारीरो ब्राह्मणे दण्डः' (गौ० १२।४६) इति निषेधाद्वध-
स्थाने शिरोमुण्डनादिकं कर्तव्यम् - 'ब्राह्मणस्य वधो मौण्ड्यं पुरात्रिर्वासनाङ्कने ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन तु ॥' इति मनुस्मरणात् ॥ ३०२ ॥
भाषा-पुनः पुनः राजा का अहित कहने वाले, उसकी निन्दा करने
वाले और उसकी (राजनीति की) गुप्त बातों को खोलने वाले की जीभ
काटकर अपने राज्य से निकाल देना चाहिए ॥ ३०२ ॥
मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा ।
राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥ ३०३ ॥
किंच' मृतशरीरसंबन्धिनो वस्त्रपुष्पादेर्विक्रेतुः गुरोः पित्राचार्यादेस्ताडयितुः
तथा राजानुमतिं विना तद्यानं गजाश्वादि आसनं सिंहासनादि आरोहतश्चोत्तम-
साहसो दण्डः ॥ ३०३ ॥
भाषा-शव के ऊपर की वस्तु (वस्त्र आदि) बेचने वाले, पिता एवं
आचार्य आदि को ताड़ना देने वाले और राजा की सवारी या सिंहासन पर
बैठने वाले को उत्तम साहस का दण्ड होता है ॥ ३०३ ॥
द्विनेत्रभेदिनो राजद्विष्टादेशकस्तथा ।
विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ ३०४ ॥
किंच, यः पुनः क्रोधादिना परस्य नेत्रद्वयं भिनत्ति । यश्च ज्योतिःशास्त्रवित्
गुर्वादिहितेच्छुव्यैतिरिक्तॊ राज्ञो द्विष्टमनिष्टं 'संवत्सरान्ते तव राज्य-
च्युतिर्भविष्यति' इत्येवमादिरूपमादेशं करोति । तथा च यः शूद्रो भोजनार्थं
यज्ञोपवीतादीनि ब्राह्मणलिङ्गानि धारयति तेषामष्टशतो दमः । अष्टौ पणशतानि
यस्मिन्दमे स तथोक्तः । 'श्राद्धभोजनार्थं पुनः शूद्रस्य विप्रवेषधारिणस्तप्त-
शलाकया यज्ञोपवीतवद्वपुष्यालिखेत्' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । वृत्त्यर्थं तु
यज्ञोपवीतादिब्राह्मणलिङ्गधारिणो वध एव । - 'द्विजातिलिङ्गिनः शूद्रांश्चातयेत्'
इति स्मरणात् ॥ ३०४ ॥
भाषा-किसी की दोनों आँखें फोड़ने वाले, राजा के अनिष्ट (राज्यनाश
आदि) की बात फैलाने वाले और शूद्र होकर ब्राह्मण का वेष बनाकर
जीविका निर्वाह करने वाले को आठ सौ पण दण्ड होता है ॥ ३०४ ॥
रागलोभादिनाऽन्यथा व्यवहारदर्शने दण्डमाह -
⁴दुर्दृष्टांस्तु पुनर्द्दष्ट्वा व्यवहारान्नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥३०५॥
१. न शारीरो दण्डः । २. मध्यमसाहसः । ३. हितेप्सु । ४. सभ्य-
स्तद्वा तु दुर्दृष्टान्नथ । ५. द्विगुणं पृथक् ।

३६० याज्ञवल्क्यस्मृतिः
दुर्द्दष्टान्स्मृत्याचारप्राप्तधर्मोल्लङ्घनेन रागलोभादिभिरसम्यग्विचारितत्वेनाश-
क्क्यमानान् व्यवहारान्पुनः स्वयं राजा सम्यग्विचार्य निश्चितदोषाः पूर्वसभ्याः
संजयिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्द्विगुणं दाप्याः। अप्राप्तजेतृ-
दण्डविधिपरत्वाद्धनस्य रागाल्लोभादित्यादिना श्लोकेनापौनरुक्त्यम् । यदा
पुनः साक्षिदोषेण व्यवहारस्य दुर्द्दष्टत्वं ज्ञातं तदा साक्षिण एव दण्ड्याः, न
जयौ नापि सभ्याः । यदा तु राजानुमत्या व्यवहारस्य दुर्द्दष्टत्वं ज्ञातं तदा
सर्व एव राजसहिताः सभ्यादयो दण्डनीयाः ।—'पादो गच्छति कर्त्तारं पादः
साक्षिणमृच्छति । पादः सभासदः सर्वान्पादो राजानमृच्छति ॥' (८।१७) इति
वचनात् । एतच्च प्रत्येकं राजादीनां दोषप्रतिपादनपरं, न पुनरेकस्यैव पापा-
पूर्वस्य विभागाय । यथोक्तम्—'कर्तृसमवायिफलजननस्वभावत्वादपूर्वस्य'इति ॥
भाषा—पहले सभासदों द्वारा अधर्मपूर्वक देखे गये व्यवहार पर फिर से
न्याय के साथ विचार करके राजा पहले विजयी घोषित किये गये व्यक्ति
और सभासदों से विवाद में हारने वाले पर जितना दण्ड होता हो उसका
दूना धन पृथक्-पृथक् ले ॥ ३०५ ॥
न्यायतो निर्णीतव्यवहारस्य प्रत्यावर्त्तयितुर्द्दण्डमाह—
यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ।
तमायान्तं पुनर्जित्वा दापयेद् द्विगुणं दमम् ॥ ३०६ ॥
यः पुनर्न्यायमार्गेण पराजितोऽपि औद्धत्यात् 'नाहं पराजितोऽस्मि' इति
मन्यते तमायान्तं कूटलेख्याद्युपन्यासेन पुनर्धर्माधिकारिणमभितिष्ठन्तं धर्मेण
पुनः पराजयं नीत्वा द्विगुणं दण्डं दापयेत् ॥ नारदेनाप्युक्तम्—'तीरितं चानुशि-
ष्टं च मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत् ॥' इति ।
तीरितं साक्षिलेख्यादिनिर्णीतमनुद्भूतदण्डम् । अनुशिष्टमुद्धृतदण्डम् । दण्डप-
र्यन्तं नीतमिति यावत् । यत्पुनर्मनुवचनम् ( ९।२३३ )—'तीरितं चानुशिष्टं
च यत्र क्वचन विद्यते । कृतं तद्धर्मतो ज्ञेयं न तत्प्राज्ञो निवर्त्तयेत् ॥' इति,
तदर्थिप्रत्यर्थिनोरन्यतरवचनाद्व्यवहारस्याधर्मतो वृत्तत्वाशङ्कायां पुनर्द्विगुणदण्ड-
प्रतिज्ञापूर्वकं व्यवहारं प्रवर्त्तयेत् , न पुनर्धर्मतो वृत्तत्वनिश्चयेऽपि राज्ञा लोभा-
दिना प्रवर्त्तयितव्य इत्येवंपरम् । यत्पुनर्नृपान्तरेणापि न्यायापेतं कार्यं निर्वत्तितं
तदपि सभ्यैःपरीक्षणेन धर्म्ये पथि स्थापनीयम् । 'न्यायापेतं यदन्येन राज्ञा ज्ञान-
कृतं भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥' इति स्मरणात् ॥३०६॥
भाषा—जो न्यायतः पराजित होने पर भी स्वयं को पराजित नहीं मानता
उसे पुनः धर्मपूर्वक पराजित करके राजा उससे दुगुना दण्ड वसूल करे ॥३०६॥
१. अपिसहिताः । २. दुर्द्दष्टा तदा । ३. रैकैकस्यैव ।

व्यवहाराध्यायः ३६१
अन्यायगृहीतदण्डधनस्य गतिमाह—
राज्ञाऽन्यायेन यो दण्डो गृहीतो वरुणाय तम् ।
निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ ३०७ ॥२
अन्यायेन यो दण्डो राज्ञा लोभादिना गृहीतस्तं त्रिंशद्गुणीकृतं वरुणा-
येदमिति संकल्प्य ब्राह्मणेभ्यः स्वयं दद्यात् । यस्माद्दण्डरूपेण यावद् गृहीतम-
न्यायेन तावत्तस्मै प्रतिदेयम्, इतरथापहारदोषप्रसङ्गात् । अन्यायदण्डग्रहणे
पूर्वस्वामिनः स्वत्वविच्छेदाभावाच्चेति ॥ ३०७ ॥
इति श्रीमत्पद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकाचार्य-
विज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षराख्यायां याज्ञवल्क्यीयधर्म-
शास्त्रविवृतौ द्वितीयोऽध्यायो व्यवहाराख्यः संपूर्णः ॥
अथास्मिन्नध्याये प्रकरणानुक्रमणिका कथ्यते । आद्यं साधारणव्यवहारमा-
तृकाप्रकरणम् १ । असाधारणव्यवहारमातृकाप्रकरणम् २ । ऋणादानम् ३ ।
उपनिधिप्रकरणम् ४ । साक्षिप्रकरणम् ५ । लेख्यप्रकरणम् ६ । दिव्यप्रकरणम्
७ । दायविभागः ८ । सीमाविवादः ९ । स्वामिपालविवादः १० । अस्वामिवि-
क्रयः ११ । दत्ताप्रदानिकम् १२ । क्रीतानुशयः १३ । अभ्युपेत्याशुश्रूषा १४ ।
संविद्व्यतिक्रमः १५ । वेतनादानम् १६ । द्यूतसमाह्वयाख्यम् १७ । वाक्पारु-
ष्यम् १८ । दण्डपारुष्यम् १९ । साहसम् २० । विक्रियासंप्रदानम् २१ । संभूय-
समुत्थानम् २२ । स्तेयप्रकरणम् २३ । स्त्रीसंग्रहणम् २४ । प्रकीर्णकम् २५ ।
इति पञ्चविंशतिप्रकरणानि ॥
उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः ।
धर्मशास्त्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥ १ ॥
भाषा—यदि राजा ने अन्याय से कोई दण्ड लिया हो तो स्वयं उसको
तीस गुना करके उसे वरुण देवता के लिये संकल्प करके ब्राह्मणों को देवे;
(और जिससे जितना धन अन्यायपूर्वक लिया हो उसे उतना धन लौटा
देवे) ॥ ३०७ ॥
व्यवहाराध्याय समाप्त
१. अन्यायेन तु यो दण्डौ । २. राजभिर्घृतदण्डास्तु कृत्वा पापानि
मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ एवमुद्धृतदण्डानां
विशुद्धिः पापकर्मिणाम् । स्वधर्मस्थापनाद्राजा प्रजाभ्यो धर्ममश्नुते ॥ यत्र
दण्डविधिर्नोक्तः सर्वैरेव महात्मभिः । देशकालादि संचिन्त्य तत्र दण्डो
विधीयते ॥