सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
इस ग्रन्थ के बारे में
सुभाषितरत्नभाण्डागार संस्कृत सुभाषितों, यानी सुन्दर और सारगर्भित श्लोकों, का एक विशाल संकलन है। इसे पण्डित काशीनाथ शर्मा (काशीनाथ पाण्डुरंग परब) ने संगृहीत किया था और यह निर्णय सागर प्रेस, बम्बई से छपता रहा है। अंग्रेज़ी मुखपृष्ठ इसे दस हज़ार से अधिक सुभाषितों का संग्रह बताता है। इसमें काव्य, नाटक, नीति-ग्रन्थों और स्फुट पद्यों से चुने गए श्लोक विषय के अनुसार सजाए गए हैं।
पुस्तक के आरम्भ में 'विषयानुक्रमकोश' है, जिसमें प्रत्येक विषय के साथ पृष्ठ और श्लोक-संख्या दी गई है। पहला मङ्गलाचरण-प्रकरण परब्रह्म, गणेश, सरस्वती, शिव, गङ्गा, विष्णु, लक्ष्मी, ब्रह्मा, दशावतार, कृष्ण, राधा और रुक्मिणी जैसे विषयों पर श्लोक देता है। आगे के प्रकरणों में नीति, राजधर्म, अन्योक्ति, शृङ्गार और प्रकृति-वर्णन जैसे विषयों के श्लोक मिलते हैं।
लगभग ५१६ पृष्ठों का यह ग्रन्थ संस्कृत के विद्यार्थियों, वक्ताओं और लेखकों के लिए किसी विषय पर उपयुक्त श्लोक खोजने का एक पुराना और भरोसेमन्द साधन है।
| १४८ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |

मतम् ॥ २२८ ॥ न तथोत्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा । अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत् ॥ २२९ ॥ विजेतुं प्रयतेतारीन्न युद्धेन कदाचन । अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ॥ २३० ॥ साम्ना दानेन भेदेन समस्तैरथवा पृथक् । साधितुं प्रयतेतारीन्न युद्धेन कदाचन ॥ २३१ ॥ बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । यद्युद्धं हस्तिना सार्धं नराणां मृत्युमावहेत् ॥ २३२ ॥ स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते । कलिर्बलवता सार्धं कीटपक्षोद्गमो यथा ॥ २३३ ॥ महत्यल्पेऽप्युपायज्ञ सममेव भवेत्क्षम । समुन्मूलयितुं वृक्षांस्तृणानीव नदीरय ॥ २३४ ॥ धान्यानां संग्रहो राजन्नुत्तमः सर्वसंग्रहात् । निक्षिप्तं हि मुखे रत्नं न कुर्यात्प्राणधारणम् ॥ २३५ ॥ यथा प्रमृष्टकान्तानामाधुध्यन्ते भुवि मानवाः । न तथा बहुभिर्दत्तैर्द्रविणैरपि भूपते ॥ २३६ ॥ अविद्वानपि भूपालो विद्यावृद्धोपसेवया । परां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| राजनीतिः | १४९ |

कस्तत्र क्षणमप्यार्यो विद्यमानगतिर्वसेत् ॥ २७२ ॥ काचे मणिर्मणौ काचो येषा बुद्धि. प्रवर्त्तते । न तेषा सन्निधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥ २७३ ॥ यस्मिन्कृत्यं समावेश्य निर्विशङ्केन चेतसा । आस्यते सेवक. स स्यात्कलत्रमिव चापरम् ॥ २७४ ॥ य कृत्वा सुकृत राज्ञो दुष्कर हितमुत्तमम् । लज्जया वक्ति नो किञ्चित्तेन राजा सहायवान् ॥ २७५ ॥ कुत सेवाविहीनाना चामरोद्धतसपद । उद्दण्डधवलच्छत्रवाजिवारणवाहिनी ॥ २७६ ॥ अपि स्वल्पमसत्य य. पुरो वदति भूभुजाम् । देवाना च विनश्येत स द्रुतं सुमहानपि ॥ २७७ ॥ अकुलीनोऽपि मूर्खोऽपि भूपाल योऽत्र सेवते । अपि समानहीनोऽपि स सर्वत्रापि पूज्यते ॥ २७८ ॥ अपि कापुरुषो भीरु. स्याच्चेन्नृपतिसेवक । यदामोति बल लोकात्तत्साश्रमपि नो गुणी ॥ २७९ ॥ यत्सकाशात्न लाभ. स्यात्केवला. स्युर्विपत्तय. । स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः ॥ २८० ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१५० सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पोऽप्यवज्ञया । बहिरल्पोऽपि संवृद्धः कुरुते भस्मसाद्वनम् ॥ ३१५ ॥
कौर्मं संकोचमास्थाय प्रहारानपि मर्षयेत् । प्राप्ते काले च मतिमांस्तिष्ठेत्कृष्णसर्पवत् ॥ ३१६ ॥
स्वाम्यमात्यश्च राज्यं च कोषो दुर्गं बलं सुहृत् । एतावदुच्यते राज्यं सत्त्वबुद्धिव्यपाश्रयम् ॥ ३१७ ॥
संविविग्रहयानानि संस्थिति संश्रयस्तथा । द्वैधीभावश्च भूपानां षड्गुणा परिकीर्तिताः ॥ ३१८ ॥
उत्साहश्च प्रभोर्मन्त्रस्तैवं शक्तित्रयं मतम् । आत्मनः सुहृदश्चैव तन्मित्रस्योदयास्त्रयः ॥ ३१९ ॥
सामदाने भेददण्डावित्यपायचतुष्टयम् । हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३२० ॥
क्षत्रियस्योपरि क्षत्रं पृष्ठे ब्रह्म व्यवस्थितम् । तेन पृष्ठं न दातव्यं पृष्ठदो ब्रह्महा भवेत् ॥ ३२१ ॥
रक्षाविकागदीशत्वादहूतानुग्रहकारणात् । यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः ॥ ३२२ ॥
राजा नाम चरत्येष भूमौ
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंराजनीतिः १५१
| नाङ्कुरितं शौर्य जयाय न तु केवलम् । अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा मृतिः ॥ ३५९ ॥ मृदुभिर्बहुभिः शूर पुंभिरेको न बाध्यते । कपोतपोतकैरैकः श्येनो जातु न बाध्यते ॥ ३६० ॥ विपक्षमनिखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कता धूलिमुदकं नावतिष्ठते ॥ ३६१ ॥ म्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम् । पुरः क्लिश्नाति सोमं हि सैहिकेयोऽसुरद्रुहाम् ॥ ३६२ ॥ रिक्ताः कर्मणि पटवस्तृप्तास्त्वलसा भवन्ति भृत्या ये । तेषां जलौकसामिव पूर्णीनां रिक्तता कार्या ॥ ३६३ ॥ गन्तव्या राजसभा द्रष्टव्या राजपूजिता लोकाः । यद्यपि न भवन्त्यर्थास्तथाप्यनर्था विनश्यन्ति ॥ ३६४ ॥ अतितेजस्यपि राजा पानासक्तो न साधयत्यर्थान् । तृणमपि दग्धुमशक्तो वडवाग्निः सपिबत्यब्धिम् ॥ ३६५ ॥ अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । नवसरोपणशिथिलस्तरुख सुखकरः समुद्धर्तुम् ॥ ३६६ ॥ सप्रतिबन्धं कार्यं प्रभुरधिगन्तुं सहायवानेव । दृश्यं तमसि न पश्यति दीपेन विना |
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१५२
सुभाषितरत्नभाण्डागारम्
[ ३ प्रकरणम्
रामागतं मावमंस्त सुहृदं महीपतिम् ॥ ३९३ ॥ आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च । येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ ३९४ ॥ स किन्सखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसंपदः ॥ ३९५ ॥ नराधिपा नीचजनानुवर्तिनो बुधोपदिष्टेन न यान्ति ये पथा । विशन्त्यतो दुर्गममार्गनिर्र्गमं समस्तसबाधमनर्थपञ्जरम् ॥ ३९६ ॥ नृपोऽपकृष्टः सचिवात्तदर्पणः स्तनन्धयोऽन्तन्शिशुः स्तनादिव । अदृष्टलोकव्यवहारमूढधीर्मुहूर्तमुत्सहते न वर्तितुम् ॥ ३९७ ॥ व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ॥ ३९८ ॥ क्रतौ विवाहे व्यसने रिपुक्षये यशस्करे कर्मणि मित्रसंग्रहे । प्रियासु नारीष्वथनेषु बन्धुषु धनव्ययस्तेषु न गण्यते बुधैः ॥ ३९९ ॥ परं विनीतत्वमुपैति सेवया महीपतीनां विनयो हि भूषणम् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंराजनीतिः, सामान्यनीतिः १५३
ये विपत्तिषु पुनस्ते तत्प्रतिष्ठायै । भर्तुर्ये प्रलयेऽपि पूर्व-
सुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुर वहन्ति कृतिनस्ते
दुर्लभास्तादृशाः ॥ ४१९ ॥ द्वारे रुद्धमुपेक्षते कथमपि प्राप्तं
पुरो नेक्षते विज्ञातौ गजमीलनानि कुरुते गृह्णाति वाक्य-
च्छलम् । निर्यात्यस्य करोति दोषकथन तद्विद्विषामग्रत. स
स्वामी यदि सेव्यते कुमतिभि. किं नः पिशाचै कृतम्
॥ ४२० ॥ वृत्तिच्छेदविधौ द्विजातिमरणे मित्रार्थसम्प्रेषणे
सम्प्राप्ते मरणे कलत्रहरणे स्वामिग्रहे गोग्रहे । प्राणत्राणपरा-
यणेकमनसा येषा न शस्त्रग्रहस्तानालोक्य विलोकते च
मनसा सूर्योऽपि सूर्यन्तरम् ॥ ४२१ ॥ धर्म प्रागेव चिन्त्य.
सचिवगतिमती भावनीये सदैव ज्ञेया लोकानुवृत्तिश्चरचर-
नयनैर्मण्डलं वीक्षणीयम् । प्रच्छायौ रागरोषौ मृदुपुरुषयुतौ
वर्जनीयौ च काले स्वात्मा यत्नेन रक्ष्यौ रणशिरसि पुनः
सोऽपि नापेक्षणीय ॥ ४२२ ॥ कोऽह कौ देशकालौ सम-
विषमगुणा केऽरय.
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १५४ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |

॥ ३४ ॥ चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः । नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ ३५ ॥ अनायके न वस्तव्यं न वसेद्बहुनायके । स्त्रीनायके न वस्तव्यं न वसेद्बालनायके ॥ ३६ ॥ सर्वथा संत्यजेद्वादं न कंचिन्मर्मणि स्पृशेत् । सर्वानपरित्यजेदर्थान्स्वाध्यायस्य विरोधिनः ॥ ३७ ॥ अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् । कर्मणा फलमस्तीति मनसा त्रितयं चरेत् ॥ ३८ ॥ प्राणातिपातं स्तेन्यं च परदाराभिमर्शनम् । त्रीणि पापानि विदुषा नित्यशः परिवर्जयेत् ॥ ३९ ॥ न कश्चिदपि जानाति किं कस्य श्वो भविष्यति । अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ ४० ॥ अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदम् । विचिन्त्य तदनुष्ठेयं कर्म हेयं ततोऽन्यथा ॥ ४१ ॥ उपकारः परो धर्मः परार्थं मर्म नैपुणम् । पात्रे दानं परः कामः परो मोक्षो वितृष्णता ॥ ४२ ॥ अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम् । अवन्ध्यं दिवस
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसामान्यनीतिः १५५
पाणिनाम् । विश्वासो नैव कर्तव्य स्त्रीषु राजकुलेषु च
॥ ७९ ॥ न कुर्यादभिचारोद्यमवद्यादिकुहकक्रियाम् ।
लक्ष्मणेनेन्द्रजित्कृत्याभिचारसमये हतः ॥ ८० ॥ व्याकुलोऽपि
विपत्यार्तै. स्मरेद्विष्णु सदा हृदि । शरतल्पगतो भीष्मः
सस्मार गरुडध्वजम् ॥ ८१ ॥ चिन्ता जरा मनुष्याणा-
मनध्वा वाजिनां जरा । असंभोगो जरा स्त्रीणां वस्त्राणा-
मातपो जरा ॥ ८२ ॥ प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति
जन्तवः । तस्मात्तदेव वक्तव्यं वचने का दरिद्रता
॥ ८३ ॥ पञ्चभिः सह गन्तव्यं स्थातव्यं पञ्चभिः सह ।
पञ्चभिः सह वक्तव्यं न दुःखं पञ्चभिः सह ॥ ८४ ॥ यान्ति
न्यायप्रवृत्तस्य ^१तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु
गच्छन्तं सोदरोऽपि विमुञ्चति ॥ ८५ ॥ विद्याभ्यासो
विचारश्च समयोरेव शोभते । विवाहश्च विवादश्च समयो-
रेव शोभते ॥ ८६ ॥ लक्ष्मीर्वसति जिह्वाग्रे जिह्वाग्रे
मित्रबान्धवा । जिह्वाग्रे बन्धनं प्राप्तं जिह्वाग्रे मरणं
ध्रुवम् ॥ ८७ ॥ यस्मिन्देशे न समानो न प्रीतिर्न च
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| २५६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |

अत्यासन्ना विनाशाय दूरतश्चाफलप्रदाः । मध्यभावेन से-
व्यन्ते राजा वह्निर्गुरुः स्त्रियः ॥ १२४ ॥ अमृतं दुर्लभं
नृणां देवानामुदकं तथा । पितॄणां दुर्लभः पुत्रस्तर्कं शक्रस्य
दुर्लभम् ॥ १२५ ॥ शनैः पन्थाः शनैः कन्था शनैः पर्वत-
मस्तके । शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ॥ १२६ ॥
अन्वयागतविद्यानामन्वयागतसंपदाम् । विदुषा च प्रभूणा
च हृदयं नावलिप्यते ॥ १२७ ॥ मक्षिका मशको वेश्या
मूषको याचकस्तथा । ग्रामणीर्गणकश्चैव सप्तैते परमक्षकाः
॥ १२८ ॥ अकुतोप्रद्रवः कश्चिन्महानपि न पूज्यते ।
अर्चयन्ति नरा नागं न तार्क्ष्यं न गजादिकम् ॥ १२९ ॥
शोभन्ते विद्यया विप्राः क्षत्रिया विजयश्रिया । श्रियोऽनुकूल-
दानेन लज्जया च कुलाङ्गनाः ॥ १३० ॥ ब्राह्मणा
गणका वेश्याः सारमेयाश्च कुक्कुटाः । दृष्टेष्वन्येषु कुप्यन्ति
न जाने तस्य कारणम् ॥ १३१ ॥ पुत्रपौत्रवधूभृत्यैः
सपूर्णमपि सर्वदा । भार्याहीनगृहस्थस्य शून्यमेव गृहं
मतम् ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसामान्यनीतिः
१५७
॥ १६६ ॥ उपभोक्तुं न जानाति श्रियं प्राप्यापि मानवः।
आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया ॥ १६७ ॥
आर्त्ता देवात्नमस्यन्ति तप कुर्वन्ति रोगिणः ।
निर्धना दानमिच्छन्ति वृद्धा नारी पतिव्रता ॥ १६८ ॥
जामाता जठरं जाया जातवेदा जलाशयः । पूरिता
नैव पूर्यन्ते जकारा पञ्च दुर्भरा ॥ १६९ ॥
जननी जन्मभूमिश्च जाह्नवी च जनार्दन । जनकः
पञ्चमश्चैव जकाराः पञ्च दुर्लभाः ॥ १७० ॥ सा
श्रीर्या न मदं कुर्यात्स सुखी तृष्णयोज्झितः । तन्मित्रं
यत्र विश्वास. पुरुषः स जितेन्द्रियः ॥ १७१ ॥ सुलभं
वस्तु सर्वस्य न यात्यादरणीयताम् । स्वदारपरिहारेण पर-
दारार्थिनो जनाः ॥ १७२ ॥ एकस्य कर्म सवीक्ष्य करो-
त्यन्योऽपि गर्हितम् । गतानुगतिको लोको न लोक.
पारमार्थिक. ॥ १७३ ॥ क्वचिद्रुष्ट क्वचित्तुष्टो रुष्टस्तुष्टः
क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१५८ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
विराजते । चकोरनयनद्वन्द्वमाह्लादयति चन्द्रमाः ॥ २०८॥
साक्षरा विपरीताश्चेद्राक्षसा एव केवलम् । सरसो विपरीत-
श्चेत्सरसत्वं न मुञ्चति ॥ २०९ ॥ यदीच्छसि वशीकर्तुं
जगदेकेन कर्मणा । परापवादसस्येभ्यो गा चरन्तीं निवा-
रय ॥ २१० ॥ एकस्तपो द्विरध्यायी त्रिभिर्गीतं चतुः पथम् ।
सप्त पञ्च कृषीणां च सङ्ग्रामो बहुभिर्जनै ॥ २११ ॥
काकः पक्षिषु चाण्डालः स्मृत पशुषु गर्दभः । नराणां
कोऽपि चाण्डालः स्मृतः सर्वेषु निन्दक ॥ २१२ ॥
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न
लभ्येयुश्चत्वारः सहजा गुणाः ॥ २१३ ॥ लोभमूलानि
पापानि रसमूलानि व्याधयः । इष्टमूलानि शोकानि
त्रीणि त्यक्त्वा सुखी भव ॥ २१४ ॥ प्रदोषे दीपकश्चन्द्रः
प्रभाते दीपको रवि । त्रैलोक्ये दीपको धर्म सुपुत्रः
कुलदीपकः ॥ २१५ ॥ सुखार्थी त्यजते विद्यां विद्यार्थी
त्यजते सुखम् । सुखार्थिन कुतो विद्या कुतो विद्यार्थिन
सुखम् ॥ २१६ ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसामान्यनीति
१५९
लक्षं पाण्डित्यं मित्रसङ्ग्रहः । अचोरहरणीयानि पञ्चैतान्यक्षयो निधिः ॥ २५३ ॥
मातृवत्परदाराणि परद्रव्याणि लोष्टवत् ।
आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ २५४ ॥
धर्मार्थकाममोक्षाणा यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ २५५ ॥
स जीवति गुणा यस्य धर्मो यस्य स जीवति । गुणधर्मविहीनो यो निष्फलं तस्य जीवितम् ॥ २५६ ॥
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपलभ्यते ॥२५७॥
षट्पद. पुष्पमध्यस्थो यथा सारं समुद्धरेत् । तथा सर्वेषु शास्त्रेषु सारं गृह्णन्ति पण्डिता ॥ २५८ ॥
गुणान्भूषयते रूपं शीलं भूषयते कुलम् । सिद्धिर्भूषयते विद्या भोगो भूषयते धनम् ॥ २५९ ॥
अगुणस्य हत रूपमशीलस्य हत कुलम् । असिद्धेस्तु हता विद्या अभोगस्य हृत धनम् ॥ २६० ॥
दिवा पश्यति नोलूकः काको नक्तं न पश्यति ।
अपूर्व कोऽपि कामान्धो दिवा नक्तं न पश्यति ॥ २६१ ॥
यौवन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१६० सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
रेण नाहारे न च मैथुने ॥ २९७ ॥ अतिदूरपथश्रान्ता-
श्छायां यान्ति च शीतलाम् । शीतलाञ्च पुनर्यान्ति का
कस्य परिदेवना ॥ २९८ ॥ अपमानं पुरस्कृत्य मानं
कृत्वा च पृष्ठतः । स्वकार्यमुद्धरेत्प्राज्ञः कार्यध्वंसो हि मूर्खता
॥ २९९ ॥ कृतस्य करणं नास्ति मृतस्य मरणं तथा ।
गतस्य शोचनं नास्ति ह्येतद्वेदविदां मतम् ॥ ३०० ॥
नाकाले म्रियते जन्तुर्विद्ध शरशतैरपि । कुशकण्टक-
विद्धोऽपि प्राप्तकालो न जीवति ॥ ३०१ ॥ निमग्नस्य पयो-
राशौ पर्वतात्पतितस्य च । तक्षकेणापि दष्टस्य आयुर्मर्माणि
रक्षति ॥ ३०२ ॥ नानृषि कुरुते काव्यं नारुद्र क्रम-
पाठकः । नादेवांशो ददात्यन्नं नाविष्णु पृथिवीपतिः
॥ ३०३ ॥ कवयः किं न पश्यन्ति किं न भक्षन्ति
वायसाः । मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः
॥ ३०४ ॥ वह्निज्वालेव गृहिणी रक्षणीया प्रयत्नतः ।
बुद्धिक्षयविकाराभ्यां स्वाश्रयक्षेममिच्छता ॥ ३०५ ॥
ददाति प्रतिगृह्णाति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसामान्यनीतिः १६१
नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः । पृथिवीभूषणं राजा विद्या सर्वस्य भूषणम् ॥ ३४२ ॥
लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥ ३४३ ॥
दूरतः शोभते मूर्खो लम्बशाटपटावृतः । तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषते ॥ ३४४ ॥
सकृद्दुष्टं च मित्रं यः पुनः संधातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ३४५ ॥
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः । कारणेन हि जायन्ते मित्राणि रिपवस्तथा ॥ ३४६ ॥
हस्ती हस्तसहस्रेण शतहस्तेन वाजिनः । शृङ्गिणो दशहस्तेन स्थानत्यागेन दुर्जनः ॥ ३४७ ॥
आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ३४८ ॥
परदारान्परद्रव्यं परीवादं परस्य च । परीहास गुरौ स्थाने चापल्यं च विवर्जयेत् ॥ ३४९ ॥
अग्रगल्भस्य या विद्या कृपणस्य च यद्धनम् । यच्च बाहुबलं भीरोर्व्यर्थमेतत्त्रयं भुवि ॥ ३५० ॥
शरीरनिरपेक्षस्य दक्षस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १६२ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |

शोच्यं मैथुनमप्रजम् । निराहाराः प्रजा. शोच्या. शोच्य राज्यमराजकम् ॥ ३८८ ॥ कुलीनै. सह संपर्क पण्डितैः सह मित्रताम् । ज्ञातिभिश्च समं मेलं कुर्वाणो न विनश्यति ॥ ३८९ ॥ कष्टा वृत्तिः पराधीना कष्टो वासो निराश्रय. । निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता ॥ ३९० ॥ तस्करस्य कुतो धर्मो दुर्जनस्य कुत. क्षमा । वेश्याना च कुतः स्नेह. कुत' सत्यं च कामिनाम् ॥ ३९१ ॥ प्रेषितस्य कुतो मानः कोपनस्य कुतः सुखम् । स्त्रीणा कुत सतीत्वं च कुतो मैत्री खलस्य च ॥ ३९२ ॥ दुर्बलस्य बलं राजा बालाना रोदन बलम् । बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम् ॥ ३९३ ॥ यो ध्रुवाणि परित्यज्य अध्रुवं परिवेषते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ ३९४ ॥ शुष्कं मास स्त्रियो वृद्धा बालार्कस्तरुण दधि । प्रभाते मैथुनं निद्रा सद्य.प्राणहराणि षट् ॥ ३९५ ॥ सद्योमास नवान्नं च बाला स्त्री क्षीरभोजनम् । घृतमुष्णोदकं चैव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसामान्यनीतिः १६३
मृतं तदपि मृत्यवे ॥ ४३३ ॥ न संशयमणारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥ ४३४ ॥ गतानुगतिको लोक. कुट्टनीमुपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ॥ ४३५ ॥ प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतेषु दया कुर्वन्ति साधवः ॥ ४३६ ॥ प्रत्याख्याने च दाने च सुखदुखे प्रियाप्रिये । आत्मौपम्येन पुरुष प्रमाणमविगच्छति ॥ ४३७ ॥ अवश्येन्द्रियचित्ताना हस्तिस्नानमिव क्रिया । दुर्भगाभरणप्रायो ज्ञान भार. क्रिया विना ॥ ४३८ ॥ शङ्काभि सर्वमाक्रान्तमन्न पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ॥ ४३९ ॥ सुमहन्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः । छेत्तारः संशयाना च क्लिश्यन्ते लोभमोहिता. ॥ ४४० ॥ षड्दोषा. पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भय क्रोध आलस दीर्घसूत्रता ॥४४१॥ माता मित्र पिताचेति स्वभावान्त्रितय हितम् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१६४ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ ४७८ ॥ दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम् । कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते ॥ ४७९ ॥ स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि च । नहि चूडामणिः पादे नूपुरं मूर्ध्नि धार्यते ॥ ४८० ॥ मुकुटे रोपितः काचश्चरणामरणे मणिः । नहि दोषो मणेरस्ति किंतु साधोरविज्ञता ॥ ४८१ ॥ बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः । रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥ ४८२ ॥ बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः । आपन्निकषपाषाणे नगे जानाति सारताम् ॥ ४८३ ॥ अप्युन्मार्गगमने कार्यकार्यात्ययेषु च । कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः ॥ ४८४ ॥ कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः । अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः ॥ ४८५ ॥ अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव स । दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥ ४८६ ॥ अप्रियस्यापि पथ्यस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसामान्यनीतिः १६५
[स्तम्भ १]
निमन्त्राणि कुर्वीत समानान्येव चात्मनः ॥ ५२२ ॥ अपि
सम्पूर्णतायुक्तैः कर्तव्या सुहृदो बुधैः । नदीश परिपूर्णो-
ऽपि चन्द्रोदयमपेक्षते ॥ ५२३ ॥ यो मित्रं कुरुते मूढ
आत्मनोऽसदृशं कुधी । हीन वाऽप्यधिकं वापि हास्यता
यात्यसौ जनः ॥ ५२४ ॥ कारणान्मित्रता याति कारणा-
द्याति शत्रुताम् । तस्मान्मित्रत्वमेवात्र योज्यं वैर न
धीमता ॥ ५२५ ॥ उपकाराच्च लोकाना निमित्तान्मृग-
पक्षिणाम् । भयाल्लोभाच्च मूर्खाणा मैत्री स्याद्दर्शनात्सताम्
॥ ५२६ ॥ यस्य न ज्ञायते वीर्य न कुल न विचेष्टितम् ।
न तेन सगतिं कुर्यादित्युवाच बृहस्पतिः ॥ ५२७ ॥ शनैः-
शनैश्च भोक्तव्यं स्वय वित्तमुपार्जितम् । रसायनमिव
प्राज्ञैर्हेलया न कदाचन ॥ ५२८ ॥ मृतो दरिद्रः पुरुषो
मृतं मैथुनमप्रजम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वद-
क्षिणः ॥ ५२९ ॥ गुरोः सुता मित्रभार्या स्वामिसेवकगे-
हिनीम् । यो गच्छति पुमाँल्लोके तमाहुर्ब्रह्मघातिनम्
॥ ५३० ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १६६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |

लिकाः ॥ ५६५ ॥ क्षन्तव्यो मन्दबुद्धीनामपराधो मनीषिणा । नहि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित् ॥ ५६६ ॥ राजा पश्यति कर्णाभ्यां युक्त्या पश्यन्ति पण्डिताः । पशुः पश्यति गन्धेन भूतैः पश्यन्ति बर्बराः ॥ ५६७ ॥ प्रत्यूहः सर्वसिद्धीनामुत्तापः प्रथमः किल । अतिशीतलमप्यग्निः किं भिनत्ति न भूभृतः ॥ ५६८ ॥ अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति । स तत्र निधनं याति कीलोत्पाटीव वानरः ॥ ५६९ ॥ हतं ज्ञानं क्रियाहीनं हताश्चाज्ञानिनो नराः । हतं चानायकं सैन्यमभर्तारो हताः स्त्रियः ॥ ५७० ॥ कन्या निष्कासिता श्रेष्ठा वधूः श्रेष्ठा प्रवेशिता । अन्नं संकलितं श्रेष्ठं धर्मः श्रेष्ठो दिने दिने ॥ ५७१ ॥ सत्यं सत्यं सुनेर्वाक्यं नादत्तमुपतिष्ठते । अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ ५७२ ॥ न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् । नेन्धनेन जयेद्वह्निं न पानेन सुरां जयेत् ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसामान्यनीतिः १६७
| याञ्च चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक
आचरेत् ॥ ६१० ॥ धर्मार्थौ यत्र न स्याता शुश्रूषा वापि
तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे
॥ ६११ ॥ विद्ययैव समं काम मर्तव्यं ब्रह्मवादिना । आप-
द्यपि हि घोराया न त्वेनामिरिणे वपेत् ॥ ६१२ ॥ सावित्री-
मात्रसारोऽपि वर विप्र सुयंत्रित । नायन्त्रितश्चतुर्वेदी
सर्वाशी सर्वविक्रयी ॥ ६१३ ॥ न हायनैर्न पलितैर्न
वित्तेन न बन्धुभि । ऋषयश्चक्रिरे धर्मं योऽनूचान. स नो
महान् ॥ ६१४ ॥ नारुतुद. स्यादात्तोऽपि न परद्रोहकर्मभि. ।
ययाऽस्योद्विजते वाचा नालोक्या तामूदीरयेत् ॥ ६१५ ॥
यथा खनन्खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगता
विद्या शुश्रूषुरधिगच्छति ॥ ६१६ ॥ य मातापितरौ क्लेशं
सहेते संभवे नृणाम् । न तस्य निष्कृति. शक्या कर्तुं वर्ष-
शतैरपि ॥ ६१७ ॥ पित्रोर्नित्यं प्रिय कुर्यादाचार्यस्य च
सर्वदा । तेषु हि त्रिषु तुष्टेषु तपः सर्व समाप्यते ॥ ६१८ ॥
श्रद्दधान |
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें