सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 168, कुल 516 में से
संदर्भ में पढ़ेंराजनीतिः, सामान्यनीतिः १५३
ये विपत्तिषु पुनस्ते तत्प्रतिष्ठायै । भर्तुर्ये प्रलयेऽपि पूर्व-
सुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुर वहन्ति कृतिनस्ते
दुर्लभास्तादृशाः ॥ ४१९ ॥ द्वारे रुद्धमुपेक्षते कथमपि प्राप्तं
पुरो नेक्षते विज्ञातौ गजमीलनानि कुरुते गृह्णाति वाक्य-
च्छलम् । निर्यात्यस्य करोति दोषकथन तद्विद्विषामग्रत. स
स्वामी यदि सेव्यते कुमतिभि. किं नः पिशाचै कृतम्
॥ ४२० ॥ वृत्तिच्छेदविधौ द्विजातिमरणे मित्रार्थसम्प्रेषणे
सम्प्राप्ते मरणे कलत्रहरणे स्वामिग्रहे गोग्रहे । प्राणत्राणपरा-
यणेकमनसा येषा न शस्त्रग्रहस्तानालोक्य विलोकते च
मनसा सूर्योऽपि सूर्यन्तरम् ॥ ४२१ ॥ धर्म प्रागेव चिन्त्य.
सचिवगतिमती भावनीये सदैव ज्ञेया लोकानुवृत्तिश्चरचर-
नयनैर्मण्डलं वीक्षणीयम् । प्रच्छायौ रागरोषौ मृदुपुरुषयुतौ
वर्जनीयौ च काले स्वात्मा यत्नेन रक्ष्यौ रणशिरसि पुनः
सोऽपि नापेक्षणीय ॥ ४२२ ॥ कोऽह कौ देशकालौ सम-
विषमगुणा केऽरय. के सहायाः का शक्तिः कोऽभ्युपाय.
फलमिह च कियत्कीदृशी दैवसपत् । सपत्तौ को निबन्धः
प्रविदितवचनस्योत्तर किं नु मे स्यादित्येव कार्यसिद्धाववहित-
मनसो हस्तगाः संपद स्यु ॥ ४२३ ॥
सामान्यनीतिः
अनुगन्तुं सता वर्त्म कृत्स्न यदि न शक्यते । स्वल्पम-
प्यनुगन्तव्य मार्गस्थो नावसीदति ॥ १ ॥ प्रत्यह प्रत्य-
वेक्षेत नरश्चरितमात्मन. । किं नु मे पशुभिस्तुल्य किं नु
सत्पुरुषैरिति ॥ २ ॥ सद्भिरेव सहासीत सद्भिः कुर्वीत
संगतिम् । सद्भिर्विवादं मैत्रीं च नासद्भिः किंचिदाचरेत्
॥ ३ ॥ न द्विषन्ति न याचन्ते परनिन्दा न कुर्वते ।
अनाहूता न चायान्ति तेनाश्मानोऽपि देवताः ॥ ४ ॥ पठतो
नास्ति मूर्खत्व जपतो नास्ति पातकम् । मौनिनः कलहो
नास्ति न भयं चास्ति जाग्रतः ॥ ५ ॥ गैतेऽपि वयसि
ग्राह्या विद्या सर्वात्मना बुधै. । यद्यपि स्यान्न फलदा सुलभा
साऽन्यजन्मनि ॥ ६ ॥ यस्य चाप्रियमन्विच्छेद्वतस्य कुर्यात्सदा
प्रियम् । व्याधा मृगवध कर्तुं सम्यग्गायन्ति सुस्वरम् ॥७॥
प्रहरिष्यन्प्रिय ब्रूयात्प्रहृत्यापि प्रियोत्तरम् । अपि चास्य
शिरश्छित्त्वा रुद्याच्छोचेत्तथापि च ॥ ८ ॥ सुमन्त्रिते सुवि-
क्रान्ते सुकृतौ सुविचारिते । प्रारम्भे कृतबुद्धीना सिद्धिरव्य-
भिचारिणी ॥ ९ ॥ नालसाः प्राप्नुवन्त्यर्थान्न शठा न च
मायिनः । न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिण. ॥१०॥
नोदन्वानर्थितामेति सदाऽम्भोभिः प्रपूर्यते । आत्मा तु पात्रता
नेयः पात्रमायान्ति संपदः ॥ ११ ॥ काकतालीययोगेन
यदनात्मवति क्षणम् । करोति प्रणयं लक्ष्मीस्तदस्या. स्त्रीत्व-
चापलमू ॥ १२ ॥ यो यमर्थ प्रार्थयते यदर्थ घटतेऽपि
च । अवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते ॥ १३ ॥
केचिदज्ञानतो नष्टाः केचिन्नष्टा. प्रमादत. । केचिज्ज्ञाना-
वलेपेन केचिन्नष्टैस्तु नाशिता. ॥ १४ ॥ मित्रस्वजनबन्धुना
बुद्धेर्धैर्यस्य चात्मनः । आपन्निकषपाषाणे नरो जानाति
सारताम् ॥ १५ ॥ दुष्टैरपि निजैरेव व्रावृत सर्वमुत्तमम् ।
वर जीर्णाम्बरं वापि हट्टे कर्पदमर्हति ॥ १६ ॥ चिन्त-
नीया हि विपदामादावेव प्रतिक्रियाः । न कूपखननं युक्तं
प्रदीप्ते वह्निना गृहे ॥ १७ ॥ वर दारिद्र्यमन्यायप्रभवाद्वि-
भवादिह । कृशताऽभिमता देहे पीनता न तु शोफत. ॥१८॥
स्त्री विनश्यति रूपेण ब्राह्मणो राजसेवया । गावो दूरप्रचा-
रेण हिरण्यं लोभलिप्सया ॥ १९ ॥ अतिदानाद्वलिर्बद्धो
ह्यतिमानात्सुयोधन । विनष्टो रावणो लौल्यादति सर्वत्र वर्ज-
येत् ॥ २० ॥ धनमस्तीति वाणिज्यं किंचिदस्तीति कर्ष-
णम् । सेवा न किचिदस्तीति भिक्षा नैव च नैव च ॥ २१ ॥
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजंगमः । हसन्नपि नृपो
हन्ति मानयन्नपि दुर्जन. ॥ २२ ॥ गीतशास्त्रविनोदेन
कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणा निद्रया
कलहेन वा ॥ २३ ॥ जानन्ति पशवो गन्धाद्वेदाज्जानन्ति
पण्डिताः । चाराञ्जानन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥२४॥
युक्तियुक्त प्रगृह्णीयाद्बालादपि विचक्षण । रवेरविषयं वस्तु
किं न दीपः प्रकाशयेत् ॥ २५ ॥ वृथा वृष्टिः समुद्रेषु
वृथा तृप्तस्य भोजनम् । वृथा दानं समर्थस्य वृथा दीपो
दिवापि च ॥ २६ ॥ अजायुद्धमृषिश्राद्ध प्रभाते मेघडम्ब-
रम् । दम्पत्यो. कलहश्चैव परिणामे न किचन ॥ २७ ॥
अर्थनाश मनस्ताप गृहे दुश्चरितानि च । वञ्चनं चापमानं
च मतिमान्न प्रकाशयेत् ॥ २८ ॥ अवृत्तिक त्यजेद्देश वृत्ति
सोपद्रवा त्यजेत् । त्यजेन्मायाविन मित्रं धनं प्राणहर
त्यजेत् ॥ २९ ॥ सौहृदेन परित्यक्तं निःस्नेह खलवत्त्यजेत् ।
सोदर भ्रातरमपि किमुतान्यं पृथग्जनम् ॥ ३० ॥ यन्नि-
मित्तं भवेच्छोको दुःखं वा त्रास एव च । आयासो वा
यतः शूलस्तदेकाङ्गमपि त्यजेत् ॥ ३१ ॥ त्यजेदेकं कुल-
स्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्राम जनपदस्यार्थे
ह्यात्मार्थे पृथिवी त्यजेत् ॥ ३२ ॥ न गणस्याग्रतो गच्छे-
त्सिद्धे कार्ये समं फलम् । यदि कार्यविपत्तिः स्यान्मुखर-
स्तत्र हन्यते ॥ ३३ ॥ धनिक श्रोत्रियो राजा नदी
वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते न तत्र दिवस वसेत्
१ वृद्धत्वेऽपि
२० सु. र. भां.