सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 179, कुल 516 में से
संदर्भ में पढ़ें१६४ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ ४७८ ॥ दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम् । कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते ॥ ४७९ ॥ स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि च । नहि चूडामणिः पादे नूपुरं मूर्ध्नि धार्यते ॥ ४८० ॥ मुकुटे रोपितः काचश्चरणामरणे मणिः । नहि दोषो मणेरस्ति किंतु साधोरविज्ञता ॥ ४८१ ॥ बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः । रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥ ४८२ ॥ बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः । आपन्निकषपाषाणे नगे जानाति सारताम् ॥ ४८३ ॥ अप्युन्मार्गगमने कार्यकार्यात्ययेषु च । कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः ॥ ४८४ ॥ कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः । अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः ॥ ४८५ ॥ अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव स । दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥ ४८६ ॥ अप्रियस्यापि पथ्यस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें