Skip to content
SarvaKosh
Back to the archive

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

About this granth

Subhashita Ratna Bhandagara (सुभाषितरत्नभाण्डागार, 'Treasury of Gem-like Sayings') is a large anthology of Sanskrit subhashitas, the short, polished verses quoted for their wit and wisdom. It was compiled by Pandit Kashinath Sharma (Kashinath Pandurang Parab) and published by the Nirnaya Sagar Press, Bombay; the English title page describes it as a collection of more than ten thousand verses gathered from poems, plays, works on statecraft and stray stanzas.

The book opens with a subject index giving the page and verse numbers for each topic. The first section, of invocations, has verses on Parabrahman, Ganesha, Sarasvati, Shiva, the Ganga, Vishnu, Lakshmi, the ten avatars, Krishna, Radha and others, and later sections take up conduct, kingship, allegory, love and nature.

At about 516 pages, it remains a standard place to look for a fitting Sanskrit verse on a given theme.

Page 183
Page 183 scan
१६८सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

सुसंदिग्धस्य भक्तस्य दन्तस्य चालितस्य च । अमात्यस्य च दुष्टस्य मूलादुद्धरणं वरम् ॥ ६५४ ॥
दीर्घशृङ्गमनड्वाहं चण्डां च बहुभाषिणीम् । शूद्रमक्षरसंयुक्तं दूरत परिवर्जयेत् ॥ ६५५ ॥
सिद्ध मन्त्रौषधं धर्म गृहच्छिद्रं च मैथुनम् । कुभुक्तिं कुश्रुतं चैव वचनं न प्रकाशयेत् ॥ ६५६ ॥
धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु । अतृप्ता मानवा सर्वे याता यास्यन्ति यान्ति च ॥ ६५७ ॥
सौहार्दस्वर्णरेषाणामुच्चावचभिदाजुषाम् । परोक्षेमिति कोऽप्यास्ति परीक्षानिकषोपल ॥ ६५८ ॥
परापकारनिरतैर्दुर्जनैः सह संगति । वदामि भवतस्तत्त्वं न विधेया कदाचन ॥ ६५९ ॥
नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ॥ ६६० ॥
वारिजेनेव सरसी शशिनेव निशीथिनी । यौवनेनेव वनिता नयेन श्रीर्मनोहरा ॥ ६६१ ॥
दान वित्ताद्दतं वाच कीर्तिर्धर्मो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 184
Page 184 scan

सामान्यनीतिः १६९

भाति पुंसा चित्ते परागय । प्रतिमा मुखचन्द्रस्य कृपाणे याति दीर्घताम् ॥ ६९७ ॥ अधन बाधते भूयो दुःखवेगो न तृत्तमम् । पादद्वय रुजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६९८ ॥ यत एवागतो दोषस्तत एव निवर्तते । अग्निदग्धस्य विस्फोटशान्तिः स्यादग्निना ध्रुवम् ॥ ६९९ ॥ बुद्धिमत्त्वाभिमान. को भवेद्यज्ञोपजीविनाम् । अन्यदीयैरलङ्कारैर्नाहंकारो विभूषणे ॥ ७०० ॥ उत्तमोऽप्यधमस्य साध्याच्चानन्नग्रकर. क्वचित् । कौस्तुभादीनि रत्नानि ययाचे हरिरम्बुधिम् ॥ ७०१ ॥ प्रयत्ने समके केचिदेव स्यु फलभागिन । क्षीरोदमथनाद्देवैरमृतं प्रापि नासुरै ॥ ७०२ ॥ भोग परोपतापेन पुंसा दुखाय न स्थिर । पानमप्यसृज क्षिप्रं स्वपीडायै जलौकसाम् ॥ ७०३ ॥ नोपभोगपरानर्थान्कोऽपि सचिनुते चिरम् । आखवः किमलकारानात्मन्याहृत्य कुर्वते ॥ ७०४ ॥ विवर्णवचनैर्मृत्सुगृहोऽप्यन्त. प्रकाशते । इन्धनान्तरसस्थैश्च ज्वलत्यग्निः पय कणै ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 185
Page 185 scan
१७०सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

लघिमा गरिमाणं वक्रता तनुते । छन्दःशास्त्र इवाङ्घ्रिलोके सरलः सखे किमसि ॥ ७३८ ॥

सुहृदि निरन्तरचित्ते गुणवति भृत्ये प्रियासु नारीषु । स्वामिनि शक्तिसमेते निवेद्य दुःखं जनः सुखी भवति ॥ ७३९ ॥

प्राप्य चलानधिकारान्शत्रुषु मित्रेषु बन्धुवर्गेषु । नापकृतं नोपकृतं न सत्कृतं किं कृतं तेन ॥ ७४० ॥

वित्तं परिमितमधिकव्ययशीलं पुरुषमाकुलीकुरुते । ऊनांशुकमिव पीनस्तनजघनायाः कुलीनायाः ॥ ७४१ ॥

अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यम् । नयनविहीने भर्तरि लावण्यमिवेह खञ्जनाक्षीणाम् ॥ ७४२ ॥

बहुतरहिते रसातले उत्तिष्ठन्ते हि सुमनसस्तपसि । कान्तार्र्जनवेगं विषह्य सद्रसफलास्तु विरला स्युः ॥ ७४३ ॥

प्रतिगृहकोणं गुणिनो लूताकीटा इव स्फुरन्ति शतम् । तद्भासकः खगोभिः को वा रविरिव गुणज्ञोऽस्ति ॥ ७४४ ॥

रमणीयः स हि पुरुषो रमणी यत्रैव रज्यति विदग्धा । श्लोकः स एव सुभगश्चित्तं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 186
Page 186 scan

सामान्यनीतिः १७१

सुखमरो गी । उद्युक्तो विद्यान्तं धर्मार्थयशांसि च विनीतः
॥ ७७४ ॥ निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति
विद्वांसः । यत्कमपि वहति गर्भं महतामपि यो गुरुर्भवति
॥ ७७५ ॥ अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियाम्
लभते । निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः
॥ ७७६ ॥ विषमस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् ।
उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ॥ ७७७ ॥
दुरधिगमः परंभागो यावत्पुरुषेण पौरुषं न कृतम् । जयति
तुलामधिरूढो भास्वानपि जलदपटलानि ॥ ७७८ ॥
आपदि येनापकृतं येन च हसितं दशासु विषमासु ।
अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ ७७९ ॥
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । दम्भी
भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ ७८० ॥
पश्यति परस्य युवतिं सकाममपि तन्मनोरथं कुरुते ।
ज्ञात्वैव तदप्राप्तिं व्यर्थे मनुजो हि पापभागभवति ॥ ७८१ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 187
Page 187 scan
१७२सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

विचिन्तयेत्प्राप्नुयात्स कुमतिः स्वय हि तत् । पूतना हरि-
वधार्थमाययौ प्राप सैव वधमात्मनस्ततः ॥ ८१२ ॥ काके
शौचं द्यूतकारे च सत्यं सर्पे क्षान्ति स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्य मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्ट श्रुत वा
॥ ८१३ ॥ एको देव केशवो वा शिवो वा एकं मित्रं
भूपतिर्वा यतिर्वा । एका भार्या सुन्दरी वा दरी वा एको
वासः पत्तने वा वने वा ॥ ८१४ ॥ चित्तायत्तं धातुबद्धं
शरीरं नष्टे चित्ते धातवो यान्ति नाशम् । तस्माच्चित्तं
सर्वदा रक्षणीयं स्वस्थे चित्ते बुद्धय संभवन्ति ॥ ८१५ ॥
शुक्ले पक्षे शीतरश्मिर्बलीयान्न प्राधान्यं तारकायास्तु दृष्टम् ।
शक्त्या युक्ते विद्यमानेऽपि कान्ते न प्राधान्य योषितां
क्वापि दृष्टम् ॥ ८१६ ॥ दाता दानस्वान्तरा स्यात्पृथिव्या
गेहे गेहे याचकाना समूह । चिन्तारत्नस्यास्ति सत्त्वे
विवादो मार्गे मार्गे रेणव सन्त्यसख्या. ॥ ८१७ ॥ मास
मृगाणा दंशनौ

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 188
Page 188 scan

सामान्यनीतिः १७३

तुराणा न भयं न लज्जा । विद्यातुराणा न सुखं न निद्रा।
क्षुधातुराणा न रुचिर्न वेला ॥ ८४५ ॥ विवाहकाले ऋतु-
सप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थेऽप्यनृतं
वदेयु पञ्चानृतान्याहुरपातकानि ॥ ८४६ ॥ यत्रास्ति लक्ष्मी-
र्विनयो न तत्र ह्यभ्यागतो यत्र न तत्र लक्ष्मी. । उभौ च
तौ यत्र न तत्र विद्या नैकत्र सर्वो गुणसन्निपातः ॥ ८४७ ॥
द्वारि प्रविष्टः सहसा ततः किं दृष्टः प्रभु स्मेरमुखस्ततः
किम् । कथा श्रुता श्रोत्ररसा ततः किं व्यथा न शान्ता
यदि जाठरीया ॥ ८४८ ॥ सुपात्रदानाच्च भवेद्धनाढ्यो धन-
प्रभावेण करोति पुण्यम् । पुण्यप्रभावात्सुरलोकवासी पुन-
र्धनाढ्य. पुनरेव भोगी ॥ ८४९ ॥ कुपात्रदानाच्च भवेद्दरिद्रो
दारिद्र्यदोषेण करोति पापम् । पापप्रभावान्नरकं प्रयाति पुन-
र्दरिद्रः पुनरेव पापी ॥ ८५० ॥ प्रभुर्विवेकी धनवांश्च दाता
विद्वान्विरागी प्रमदा सुशीला । तुरंगम. शस्त्रनिपातधीरो
भूमण्डलस्याभरणानि पञ्च ॥ ८५१ ॥ स्वदेशजातस्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 189
Page 189 scan

१७४ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्

स्थितो देहविनाशनाय । यथा स्थित काष्ठगतो हि वह्निः
स एव वह्निर्दहते शरीरम् ॥ ८८० ॥ यथा विहंगास्तरु-
माश्रयन्ति नद्यो यथा सागरमाश्रयन्ति । यथा तरुण्यः
पतिमाश्रयन्ति सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ८८१ ॥
यती व्रती चापि पतिव्रताश्च वीराश्च शूराश्च दयापराश्च ।
त्यागी च भोगी च बहुश्रुतश्च स्वसङ्गमात्रेण दहन्ति पापम्
॥ ८८२ ॥ वसन्त्यरण्येषु चरन्ति दूर्वाः पिबन्ति तोयान्य-
परिग्रहाणि । तथापि वध्या हरिणा नराणां को लोकमारा-
धयितुं समर्थः ॥ ८८३ ॥ न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम् । धर्मो न वै यत्र च
नास्ति सत्यं सत्यं न तद्यच्छलनानुविद्धम् ॥ ८८४ ॥ वरं
सखे सत्यरुषापमानितो न नीचसंसर्गगुणैरलीकृतः । वराश्व-
पादेन हतो विराजते न रासभस्योपरि संस्थितो नरः ॥ ८८५॥
आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 190
Page 190 scan
सामान्यनीतिः१७५

विराजते कुरूपता शीलतया विराजते । कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥ ९१३ ॥
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा ॥ ९१४ ॥
कुदेशमासाद्य कुतोऽर्थसञ्चयः कुपुत्रमासाद्य कुतो जलाञ्जलिः । कुगेहिनीं प्राप्य गृहे कुतं सुखं कुशिष्यमध्यापयत कुतो यशः ॥ ९१५ ॥
मात्रा समं नास्ति शरीरपोषणं चिन्तासमं नास्ति शरीरशोषणम् । भार्यासमं नास्ति शरीरतोषणं विश्वासमं नास्ति शरीरभूषणम् ॥ ९१६ ॥
गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः । पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः ॥ ९१७ ॥
सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम् । सुखाच्च यो याति नरो दरिद्रता धृतः शरीरेण मृत स जीवति ॥ ९१८ ॥
स दीक्षितो यः सकलं सदीक्षते स पण्डितो यः करणेरखण्डितः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 191
Page 191 scan

| १७६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |

| कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषया ननु तापयन्ति ॥ ९४६ ॥ वित्तेन किं वितरणं यदि नास्ति दीने किं सेवया यदि परोपकृतौ न यत्नः । किं सङ्गमेन तनयो यदि नेक्षणीयः किं यौवनेन विरहो यदि वल्लभायाः ॥ ९४७ ॥ किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् ॥ ९४८ ॥ प्राप्ताः श्रियः सकलकामदुघस्ततः किं दत्तं पदं शिरसि विद्विषता ततः किम् । संतर्पिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृता तनुभिस्ततः किम् ॥ ९४९ ॥ आदौ न वा प्रणयिना प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य उत्क्षिपत्ति तत्प्रकरोति लज्जा भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥ ९५० ॥ वाञ्छैव सूचयति पूर्वतरं भविष्यं पुंसा यदन्यतनुजं त्वशुभं शुभं वा । विज्ञायते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 192
Page 192 scan

सामान्यनीतिः १७७

द्रवति च हिमरश्मावुद्गते चन्द्रकान्त ॥ ९७४ ॥ प्रथम-
दिवसचन्द्र सर्वलोकैकवन्द्यः स च सकलकलाभिः पूर्णचन्द्रो
न वन्द्यः । अतिपरिचयदोषात्कस्य नो मानहानिर्नवनवगुण-
रागी प्रायशः सर्वलोकः ॥ ९७५ ॥ भवति हृदयहारी
कोऽपि कस्यापि हेतुर्न खलु गुणविशेषः प्रेमबन्धप्रयोगे ।
किसलयितवनान्ते कोकिलारावरम्ये विकसति न वसन्ते
मालती कोऽत्र हेतुः ॥ ९७६ ॥ परीवादस्तथ्यो भवति
वितथो वापि महता तथाप्युच्चैर्धाम्नो हरति महिमानं जन-
रवः । तुलोत्तीर्णस्यापि प्रकटितहुताशेषतमसो रवेस्तादृक्तेजो
नहि भवति कन्यां गतवतः ॥ ९७७ ॥ बहिः सर्वाकार-
प्रगुणरमणीयं व्यवहरणमभ्युत्थानान्यपि तनुतराणि
स्थगयति । जनं विद्वानैकः सकलमभिसंधाय कपटैस्तटस्थः
स्वानर्थान्घटयति च मौनं च भजते ॥ ९७८ ॥ कलारत्नं
गीतं गगनतलरत्नं दिनमणि सभामारत्नं विद्वाञ्श्रवणपुटरत्नं
हरिकथा । निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी महीरत्नं
श्रीमाञ्जयति रघुनाथो नृपवरः ॥ ९७९ ॥ नराः संस्कारार्हा
जगति किल

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 193
Page 193 scan
१७८सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

वनं ततः । तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं
परिचितजनद्वेषी लोको नवं नवमीहते ॥ ९९८ ॥ दद्या-
त्साधुर्यदि निजपदे दुर्जनाय प्रवेशं तन्नाशाय प्रभवति ततो
वाञ्छमानः स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावका-
शोऽधमानां जारोऽपि स्याद्गृहपतिरिति श्रूयते वाक्यतोऽत्र
॥ ९९९ ॥ मौने मौनी गुणिने गुणवान्पण्डिते पण्डितोऽसौ
दीने दीनः सुखिनि सुखवान्भोगिनि प्राप्तभोगः । मूर्खे मूर्खो
युवतिषु युवा वाग्मिषु प्रौढवाग्मी धन्यः कोऽपि त्रिभुवन-
जयी योऽवधूतेऽवधूतः ॥ १००० ॥ विद्यातीर्थे जगति
विबुधाः साधवः सत्यतीर्थे गङ्गातीर्थे मलिनमनसो योगिनो
ध्यानतीर्थे । धारातीर्थे धरणिपतयो दानतीर्थे धनाढ्या लज्जा-
तीर्थे कुल्युवतयः पातकं क्षालयन्ति ॥ १००१ ॥ साध्वीस्त्रीणां
दयितविरहे मानिनां मानभङ्गे श्लोकानामपि जनरवे निग्रहे
पण्डितानाम् । अन्योद्रेके कुटिलमनसां निर्गुणानां विदेशे
भृत्याभावे भवति मरणं किं तु संभावित्तानाम् ॥ १००२ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 194
Page 194 scan

सामान्यनीतिः १७९

राज्येन किम् ॥ १०१९ ॥ सूनु सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः स्निग्धं मित्रमवञ्चकः परिजनो निःक्लेश-लेशं मन । आकारो रुचिर, स्थिरश्च विभवो विद्यावदातं सुखं तुष्टे विष्टपकष्टहारिणि हरौ संप्राप्यते देहिना ॥ १०२० ॥ का श्लाघ्या गुणिना क्षमा परिभव को य. स्वकुल्यै कृतः कि दुःखं परसश्रयो जगति क श्लाघ्यो य आश्रीयते । को मृत्युर्व्यसन शुच जहति के यैर्निर्जिता शत्रव. कैर्विज्ञातमिद विगतनगरे छन्नस्थितैः पाण्डवैः ॥ १०२१ ॥ स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं सा स्त्री यानुविधायिनी स मतिमान्य. सद्भिर् + यर्च्यते । सा श्रीर्या न मद करोति स सुखी यस्तृष्णया मुच्यते तन्मित्रं यदकृत्रिम म पुरुषो य. खिद्यते नेन्द्रियै ॥ १०२२ ॥ प्रायेणात्र कुलान्वित कुकुलजा. श्रीवल्लभ दुर्भगा दातार कृपणा ऋजूननृजवो वित्तान्वितं निर्धना । वैरुप्योपहताश्च कान्तवपुषं धर्माश्रयं पापिनो नानाशास्त्रविचक्षण च पुरुष निन्दन्ति मूर्खा जना ॥ १०२३ ॥ पौलस्त्य. कथमन्दारहरणे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

षोडशाब्दावधि स्यात्कन्या करपीडनावधि सुतस्त्री तद्वशत्वा-

Page 195
Page 195 scan

१८० सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्

षोडशाब्दावधि स्यात्कन्या करपीडनावधि सुतस्त्री तद्वशत्वा-
वधि । जामाता बहुलार्पितावधि सखा साधुप्रलापावधि
शिष्यो गुह्यनिरूपणावधि परे चैतेऽधनत्वावधि ॥ १०४० ॥
स्त्रीणां यौवनमर्थिनामन्वगमो राज्ञां प्रतापः सतां स्वास्थ्यं
स्वल्पधनस्य संहतिरसद्वृत्तेश्च वाग्डम्बरः । स्वाचारस्य सद्-
र्च्चनं परिणतेर्विद्या कुलसैकता प्रज्ञाया धनमुन्नतेरतिनतिः
शान्तेर्विवेको बलम् ॥१०४१॥ नागो भाति मदेन ¹कं जल-
रुहैः पूर्णेन्दुना शर्वरी शीलेन प्रमदा जवेन तुरगो नित्योत्स-
वैर्मन्दिरम् । वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः
सत्पुत्रेण कुल नृपेण वसुधा लोकत्रयं विष्णुना ॥१०४२॥
एहि स्वागतमाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्ता
³परिदुर्बलोऽसि नितरां प्रीतोज्झि ते दर्शनात् । इत्येव समु-
पागतं द्विजवरं संभावयन्त्यादरात्तेषा युक्तमशङ्कितेन मनसा
गेहेषु गन्तुं सदा ॥ १०४३ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 196
Page 196 scan

चतुर्थं चित्रप्रकरणम्

समस्याख्यानम्

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । दलितश्चकि-
तश्छन्नस्तव सैन्ये विसर्पति ॥ १ ॥ कामं कामदुधं धुङ्क्ष्व
मित्राय वरुणाय च । वयं धीरेण दानेन सर्वान्कामानशी-
महि ॥ २ ॥ असमाने समानत्वं भविता कलहे मम ।
इति मत्वा ध्रुव मानी मृगात्सिंहः पलायते ॥ ३ ॥ हीन-
हत्या दधात्येव लाघव महतामपि । इति मत्वा द्विपद्वेषी
मृगात्सिंहः पलायते ॥ ४ ॥ तिष्ठार्जुनोद्य सङ्ग्रामे त्वा हनि-
ष्याम्यह शरैः । तिष्ठामि कर्ण किं मूढ मृगात्सिंहः पलायते
॥ ५ ॥ ऋषेरस्याश्रमे पुण्ये शापसन्त्रस्तमानसः । सुद्रुग्ध-
तोऽपि प्रायोऽद्य मृगात्सिंहः पलायते ॥ ६ ॥ अयं मृग समा-
याति त्वरितैस्त्वरितैः पदैः । ततो वेगात्पलायस्व मृगात्सिंह
पलायते ॥ ७ ॥ विधाया दुर्मदो येषा कार्पण्यं विभवे
सति । तेषा दैवामिशक्षाना

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 197
Page 197 scan

१८२ सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम्

॥ २८ ॥ कर्पूरपूरच्छविवादविद्यासवावदूक्यतियुक्तितार्ये ।
इन्दौ नृपेद्रोहि तमोवितान सूर्योदये रोदिति चक्रवाकी
॥ २९ ॥ विलोक्य बालामुरवचन्द्रबिम्ब कण्ठे च मुक्तावलि-
हारताराः । पुनर्निशाया भयभीतभीता सूर्योदये रोदिति
चक्रवाकी ॥ ३० ॥ सर्वस्य जन्तोर्भवति प्रमोदो विरोधिवर्गे
परिभूयमाने । तिरोहिते त्वद्यशसा नरेन्द्र चन्द्रोदये नृत्यति
चक्रवाकी ॥ ३१ ॥ न कापि गमाहितसशयाया विना
नमात्व^(२) जनकात्मजाया । गुर सुराणाङ्कपुर सराणा-
मङ्गारपूर्ण कमल प्रफुल्लम् ॥ ३२ ॥ पुजायमानाऽरुणरत्नहार
कान्तोऽरसि सावदनङ्ग भाति । सिध्येदमुष्योपमितियदि
स्यादङ्गारपूर्ण कमल प्रफुल्लम् ॥ ३३ ॥ रे पुत्र सत्सङ्गमवामुहि
त्वमसत्प्रसङ्ग त्वरया विहाय । धन्योऽपि निन्दा लभते
कुसङ्गात्सिन्दूरबिन्दुर्विवधवाललाटे ॥ ३४ ॥ श्रुत्वा प्रदग्धं
तनय सशोका पुनर्निशम्याऽथशरीरमावम् । पश्यत्सु देवेषु
च धावमाना र्मा मुदा ^१शकरमालिङ्ग ॥ ३५ ॥ सुतं
पतन्तं प्रसमीक्ष्य पावके न

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 198
Page 198 scan

समस्याख्यानम् १८३

कटितटे शार्दूलचर्माम्बरम् । माया यस्य रुणद्धि विश्वम-
खिलं तस्मै नमः शंभवे जम्बूवज्जलविन्दुवज्जलजवज्जम्बा-
लवज्जालवत् ॥ ५० ॥ ख्यातस्त्वं फलवृष्टिपुष्टिसुमनःस्वा-
धीनजाम्बूनद. शीर्णास्ते रिपुसंपद प्रतिदिनं मित्रोदये
मोदसे । पान्थाना कुरुषे विलम्बनमहो दृग्तान्तरस्तेजसा
जम्बूवज्जलविन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ५१ ॥
मङ्गामे रिपुभूभुजा मुखरुचिर्जीवेश्च देवाङ्गणाचक्षु ग्रोलम-
ढक्ष्मासनिवहैस्तन्मेदिनीमण्डनम् । त्वच्चापोद्गतबाणसंहति-
म्भूच्छीराम भूपते जम्बूवज्जलविन्दुवज्जलजवज्जम्बालवं-
जालवत् ॥ ५२ ॥ वैदेही समवाप्य दाशगथिनारम्बे प्रया-
णेऽप्यतो दृष्टा' पुष्पकसंस्थितेन रभसादाकाशमारोहता ।
लङ्कासागरजानकीवनरणक्षोभ्यभ्रत्कारिका जम्बूवज्जलवि-
न्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ५३ ॥ यो द्रोणाचलमा-
दधौ करतले योऽतीतस्तसागर यश्चोत्खातितवास्त्वरुनुद-
वहत्युच्छेन दावानलम् । यो रक्षान्समरेऽरुणत्कपिंवर
पायाद्धनूमान्सौ

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 199
Page 199 scan

१८४ सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम्

जाक्षि कृतकं मन्ये भयं योषिताम् ॥ ६८ ॥ उग्रग्राहसुदु-
न्वतो जलमतिक्रामत्यनालम्बने व्योम्नि भ्राम्यति दुर्गमक्षि-
तिभृता मूर्धानमारोहति । व्याघ्रं याति विषाकुलैरुहिकुलैः
पातालमेकाकिनी कीर्तिस्ते मदनाभिराम कृतकं मन्ये भयं
योषिताम् ॥ ६९ ॥ चित्रं नर्तनमम्बरे शिखरिणौ शीतांशु-
बिम्बे नमः सञ्चार जलचं कपोतरणितं कामागमप्रक्रिया ।
मीनौ विद्युति तारका विहरणं ज्योत्स्ना विकोशाम्बुजे कुर्वाते
कुरुते करोति कुरुतः कुर्वन्त्यलंकुर्वते ॥ ७० ॥ यस्य द्वारि
सदा समीरवरुणौ समार्जनं हव्यवाट् पाक शीतगुरातपत्र-
करणं दक्षौ प्रतीहारताम् । देवा लाक्षविधि च दास्यममरा
वर्ण्यो दशास्यः कथं कुर्वाते कुरुते करोति कुरुत. कुर्वन्त्य-
लंकुर्वते ॥ ७१ ॥ कश्चित्पान्थस्तृषार्तः पथि तपनऋतौ
गम्यमानोऽन्यपान्थं पप्रच्छानन्दलीनो वद पथिक कुतो
जह्नुकन्याप्रवाहः । तेनासौ शीघ्रवाचा प्रचलितमनसा विप-
र्ययेण चोचे सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गा-
प्रवाहः ॥ ७२

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 200
Page 200 scan

Blank page

Page 201
Page 201 scan

१८६ सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम्

शृङ्गेश्वरो दोषानिष्टकरो न धर्मनिरतः कीलालपो नासुरः ।
नृणां पृष्ठपलाशनो न पिशुनः शीतांगमो नो हयः शश्वद्रात्रि-
चरो न राक्षसगणः कोऽयं सखि ब्रूहि मे ॥ ३७ ॥ सर्व-
स्वापहरो न तस्करगणो रक्षो न रक्ताशनः सर्पो नैव बिले-
शयोऽखिलनिशाचारी न भूतोऽपि च । अन्तर्धानपटुर्न सिद्ध-
पुरुषो नाप्याशुगो मारुतस्तीक्ष्णास्यो न तु सायकस्तमिह ये
जानन्ति ते पण्डिताः ॥३८॥ जाता शुद्धकुले जघान पितरं
हत्वापि शुद्धा पुनः स्त्री चैषा वनिता पितैव सततं विश्वस्य या
जीवनम् । सङ्गं प्राप्य पितामहेन जनकं प्रसूत या कन्यका
सा सर्वैरपि वन्दिता क्षितितले सा नाम का नायिका ॥३९॥

अपह्नुतयः

वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया । पतिं बुद्ध्वा
सखि ततः प्रबुद्धास्मीत्यपूरयत् ॥१॥ रुचिरस्वरवर्णपदा रस-
भाववती जगन्मनो हरति । तत्किं तरुणी नहि नहि वाणी
बाणस्य मधुरशीलस्य ॥ २ ॥ सीत्कारं शिक्षयति व्रणत्यधरं
तनोति रोमाञ्चम् । नागरिकः किं मिलितो नहि नहि सखि
हेमन्तः पवनः ॥ ३ ॥ काले पयोधराणामुपतितया नैव
शक्यते स्थातुम् । उत्कण्ठितासि बाले नहि नहि सखि
पिच्छिलः पन्थाः ॥ ४ ॥ प्रहरति न पञ्चबाणः केवलमबले
निमेषोऽपि । वर्षति परं न देवः क्षणदायी विप्रयोगं ते ॥ ५ ॥
मधुरखना धृतोर्णी भण्याभरणा सुशोभना सुदती । मस्त्व-
ङ्गोत्थितदण्डा भिक्षो दयितास्ति किं न मे वीणा ॥ ६ ॥ रागी
भिनत्ति निद्रां तल्पं न जहाति निष्ठुरं दशति । चतुरे किं
प्राणेशो नहि नहि सखि मत्कुणव्रातः ॥ ७ ॥ आदौ गृहीत-
पाणिः पश्चादारूढजघनकटिभागा । नखमुखलालनसुखदा सा
किं रामास्ति नैव भोः पौमा ॥ ८ ॥ नाथ विलोकय मेघं नहि
नहि दायं तथातिपुण्यायाः । नहि कथयामि पयोधरमपसारय
कञ्चुकीमुरसः ॥ ९ ॥ पञ्चदशीरजनिसमा तारामणिभूषणापि
शोभितवपुः । चन्द्रसमा गतवसना हस्तगता स्त्री न मे वीणा ॥ १० ॥

नाथ मयूरो नृत्यति तुरगाननवक्षसः कथं नृत्यम्
नहि कथयामि कलापिनमिह सुखलापी प्रिये कोऽस्ति ॥११॥
अक्षरमैत्रीभाजः सालंकारस्य चारुवृत्तस्य । किं ब्रूमो सखि यूनो
नहि नहि सखि पद्यबन्धस्य ॥ १२ ॥ इह पुरोऽनिलकम्पित-
विग्रहा मिलति का न वनस्पतिना लता । स्मरसि किं सखि
कान्तरतोत्सवं नहि घनागमरीतिरुदाहृता ॥ १३ ॥ तन्वी
चारुपयोधरा सुवदना श्यामा मनोहारिणी नीता निष्करुणेन
केनचिदहो देशान्तरादागता । उत्सङ्गोचितया तया रहितया
किं जीवनं प्रेक्षसे भिक्षो ते दयितास्ति किं नहि नहि प्राण-
प्रिया तुम्बिका ॥ १४ ॥ या पाणिग्रहलालिता सुसरला तन्वी
सुवंशोद्भवा गौरी स्पर्शसुखावहा गुणवती नित्यं मनोहा-
रिणी । सा केनापि हृता तया विरहितो गन्तुं न शक्तोऽस्म्यहं
रे भिक्षो तव कामिनी नहि नहि प्राणप्रिया यष्टिका ॥ १५ ॥

कूटानि

केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः । रुदन्ति
कौरवाः सर्वे हा केशव कथं गतः ॥१॥ पानीयं पातुमिच्छामि
त्वत्तः कमललोचने । यदि दास्यसि नेच्छामि नो दास्यसि
पिबाम्यहम् ॥ २ ॥ विषं भुङ्क्ष्व महाराज खजनैः परि-
वारितः । विना केन विना नौभ्यां कृष्णेनाजिनमर्कण्टकम्
॥ ३ ॥ अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ।
सीदन्ति मम गात्राणि माघमा सेगवा इव ॥ ४ ॥ यस्य
षष्ठी चतुर्थी च विह्वस्य च विहाय च । अहं कथं द्वितीया
स्याद्वितीयां स्यामहं कथम् ॥ ५ ॥ समरे हेमरेखाङ्गं
बाणं मुञ्चति राघवे । सरावणोऽपि सुमुचे मंध्येरीतिधरं
शरम् ॥ ६ ॥ शिलार्पितपदद्वन्द्वा नासार्पितकरद्वया । अभू-
द्यक्तस्तनी नारी कथमेतद्भविष्यति ॥ ७ ॥ सुवर्णस्य सुर्व-

(३७, ३८) मत्कुणः.
(३९) जलवृष्टिः. यतः सा शुद्धजलसमुदाय-रूपेणोत्पद्य स्वजन्मना स्वोत्पादकं मेघं विनाशयति, तथापि स्वयं शुद्धा सच्छीलास्ति. पितुरिव समस्तस्य जगतो जीवनं च भवति. सूर्यकिरणैः समुद्रोदके शोषिते सति तस्मान्मेघोत्तिर्भवतीति समुद्रो मेघपिता. सा पूर्वोक्ता जलवृष्टिर्मेघस्य पित्रा स्वपितामहीभूतेन सागरेण सह सङ्गादिद्वारा संगतं प्राप्य तेन तज्जलं वर्धयित्वा पुनर्मेघोत्पत्त्य एव हेतुर्भवतीति जनकं प्रासूतेत्यस्याभिप्रायः.

१ हेकस्तनवन्ती
२ पतिं विना; पक्षे,-पतनाभावेन.
३ पङ्किलः.
४ कुचोपोद्विदस्ता पक्षे, - कुचोर्ध्वदण्डा.
५ शोभना दन्ता यस्याः सा; पक्षे,-हस्तित्वनखनिर्मितालंकारवती.
६ अनुरक्तः; पक्षे,-रक्तवर्णः.
७ कण्डू रोगा.
८ अभ्रदम्; पक्षे,-नेदं पापम्.
९ मेघम्; पक्षे,-स्तनम्.
१० 'मे उरः' इति पदच्छेदः.
११ समीपे स्थातुं योग्याया; पक्षे, - अङ्कमारोढुं योग्याया.
१२ विवाहः; पक्षे, - पाणौ धारणम्.
१३ कुलम्; पक्षे,-वेणुः.
१४ जले.
१५ मृतकम्.
१६ कृष्णकाकः.
१७ शृगालाः.
१८ यदि दासी असि नेच्छामि. नो दासी असि तदा पिबाम्यहमिति पदच्छेदः.
१९ विगतः षकारो यस्मात्.
२० ककारेण विना.
२१ नकारद्वयरहितम्.
२२ कृष्णाजिनम्. अत्र ककार-षकार-नकाराणां निष्कासने 'ऋ आजि अम्' इति स्थिते संधी कृते 'राज्यम्'.
२३ शरुरहितम्.
२४ 'माघमा कर्कटी प्रोक्ता तदपत्यानि सेगवाः' इत्युक्तेः कर्कट्या अपत्यानि यथा जन्मसमये तस्या अङ्गानि विदार्य बहिर्यान्ति तद्वदिमे बाणा ममाङ्गानि विदारयन्तीत्यर्थः.
२५ सहधर्मिणी.
२६ मध्यमभागे रीतिः पित्तलं तद्विशिष्टम्; पक्षे, मध्ये रीकारविशिष्टं शरम्. शरीरमित्यर्थः.
२७ 'अधस्ताद्धारुणि शिला'.
२८ 'नासा दारूपरि स्थितम्'.
२९ उज्ज्वलवर्णस्य.
३० शोभनावर्णा नामाक्षराणि यत्र तस्य.

Page 202
Page 202 scan
कूटानि१८४
$^{१}$र्णस्य $^{२}$सुवर्णस्य च जानकि । प्रेषिता तव रामेण $^{३}$सुवर्णस्य
च मुद्रिका ॥ ८ ॥ निश्चितं $^{३}$सैसुरं कोडपि न $^{४}$कुलीनं ममे-
$^{५}$ऽमतिः । सर्वथा $^{६}$सुरसंबद्धं काव्यं यो नाभिनन्दति ॥ ९ ॥
येनाकारि $^{८}$पराभूतिर्दिननायकसूनवे । यद्गोत्रोत्समभवाकान्त
तन्महं श्रेयसेऽस्तु व ॥ १० ॥ $^{११}$विजितात्मभवद्वेषिगुरु
पादहतो जनः । हिमापहामित्रधैर्य्यासं व्योमाभिनन्दति
॥ ११ ॥ $^{१३}$शंकरं पतितं दृष्ट्वा पार्वती हर्षनिर्भरा । रुरुदुः
पन्नगाः सर्वे हा हा शंकर शंकर ॥ १२ ॥ हनूमति $^{१५}$हता-
रामे वानरा हर्षनिर्भरा । रुदन्ति राक्षसाः सर्वे हा हा राम
हता हता ॥ १३ ॥ $^{१६}$विहंगराजपुत्रारेर्यन्नाम चतुरक्षरम् ।
पूर्वार्धं तव शत्रूणा परार्धं तव संगरे ॥ १४ ॥ $^{१७}$अट्टशूला
जनपदा शिवशूलाश्चतुष्पथाः । प्रमदा केशशूलिन्यो
भविष्यन्ति कलौ युगे ॥ १५ ॥ कुन्दकुङ्कमसु पश्य सरसी-
रुहलोचने । $^{१८}$अर्मुना कुन्दकुङ्केन मखि मे किं प्रयोजनम्
॥ १६ ॥ राजन्कमलपत्राक्ष तत्ते भवतु चाक्षयम् ।
आसादयति यद्रूपं $^{१९}$करेणु करणाविना ॥ १७ ॥ $^{२०}$स्तनमण्डल-
माश्रित्य नभस्य वरयोषिताम् । कदाकर्ण्यते गीतं रमया
सह रङ्गराट् ॥ १८ ॥ $^{२१}$एकोना विंशतिः स्त्रीणा स्नानार्थंसर्यू गता । विंशति पुनरायाता एको व्याघ्रेण भक्षितः
॥ १९ ॥ $^{१}$नैलोके न्योपमनस्याः सम्ने किमिति भाषसे ।
अनन्तरा सा नादिर्वा न तृतीयेति मे मतिः ॥ २० ॥
$^{२}$सुवर्णालंकृता कन्या हेमालंकारवर्जिता । $^{४}$सा कन्या विधवा
जाता गृहे गेदिति तत्पति ॥ २१ ॥ अह च त्व च
राजेन्द्र लोकनाथावुभावपि । बहुव्रीहिगहं राजन्षष्ठीतत्पुरुषो
भवान् ॥ २२ ॥ $^{६}$अप पिबन्प्रपापालीमनुरक्तो विलोकयन् ।
अगस्त्यं चिन्तयामास चतुरः मापि सागरान् ॥ २३ ॥
ब्रह्म नान्तमपि क्लीव मन सान्तं न पश्यति । किं चित्र
लोकजनक वाङ्कान्ता $^{१०}$नैव्वकान्तकम् ॥ २४ ॥ $^{११}$अर्धरात्रे
दिनस्यार्धे अर्धचन्द्रेऽर्धभास्करे । रावणेन हता सीता
कृष्णपक्षे मिताष्टमी ॥ २५ ॥ $^{१२}$शमीगर्भस्य यो गर्भस्तस्य
गर्भस्य यो रिपुः । रिपुगर्भस्य यो भर्ता स मे विष्णु
प्रसीदतु ॥ २६ ॥ $^{१३}$कैहमस्मि गुहावक्ति प्रश्वेऽस्मुष्मिन्कि-
मुत्तरम् । कथमुक्त न जानासि कदर्ययसि यत्सखि ॥ २७॥
विहंगों $^{१४}$ वाहन येषां त्रिकचक्रैधरपाणयः । $^{१६}$पमालासहिता
देवाः सदा तिष्ठन्तु ते गृहे ॥ २८ ॥ शस्त्रं $^{१७}$ नै खलु कर्तव्य-

१ अशीतिरक्तिकापरिमितस्य २ काञ्चनस्य ३ सुरया सहितं मद्यप इत्यर्थः, पक्षे,-ससुर इति पदच्छेदे सुरो देव ४ मत्कुलप्रभूतं , पक्षे, -कोलीन ५ ममे सावौ अमति श्रद्धादहित इति यावत्, पक्षे,-ममे विष्णौ मतिर्यस्य म ६ शोभनरसविशिष्ट बद्ध ग्रथितम्, पक्षे,-असुरे मद्यड युक्तम् ७ कविसुतिम, पक्षे,-शुक्रम् ८ परार्य्य, पक्षे,-परा उत्कृष्टा भृतिरैश्वर्यम ९ कर्णाय सुग्रीवाय यमाय व १० गाखायन्ते ते गोपास्तेषामात्मभवा गोपिकास्तासा कान्त मनोरम् अथ च गोत्राया पृथ्व्या जात्मभवा सीता मा कान्ता यस्य तत् अथ च गोत्रस्य हिमालयस्यात्मभवा पार्वती मा कान्ता यस्य तत् ११ कृष्णाय रामस्य शिवाय च १२ विना गरुडेनामृतानहरणसमये जित इन्द्रस्तस्यात्मवोऽर्जुनस्तद्वेषी कर्णस्तडुरु पिता सूर्यस्तत्पादहस्ततत्किरणस्तप्त हिमापहोऽग्निस्तदमित्र पानीय तडरो मे सूर्यकिरणसतप्तो जनो मेधाच्छन्नमाकाशमभिनन्दतीति तात्पर्यार्थ १३ श्रेष्ठचन्दनम् १४ पर्वतवासिनी स्त्री भिल्ली १५ हते जारा मे रावणस्योद्याने दाहिते सतीत्यर्थ १६ वय पक्षिणस्तेषा राजा गरुडस्तद्वाना विष्णुस्तत्पुत्रो मदनस्तदरि शिवस्तस्य चतुरक्षर नाम 'मृत्युजय' इति तत्पूर्वार्ध मृत्युरीति सगरे तव शत्रूणाम् उत्तरार्ध जय इति तव १७ 'अष्टमञ्च शिवो वेदो ब्राह्मणश्च चतुष्पथ । केगो भग इति प्रोक्त शूलो विक्रय उच्यते ॥' इति १८ मुकाररहितेन मुकुन्दकुञ्जेनेति यावत् १९ करेणु कर शैविना ककार रेफ णकारैर्विना यद्रूपमासादयति प्राप्नोति तत्तेऽक्षय भवत्वित्यन्वय उक्तव्यञ्जनत्रयरहितम् 'अ उ इ' इति स्वरत्रयम् तत्र अ इ इत्यत्र वृद्धौ ऐ उ इत्यत्र आयादेशे 'आयु' इति सिद्धम् २० खस्याकाशस्य मण्डलमाश्रित्य हे कद मेघ' मा स्तन गर्जितं मा कुरु यतो रङ्गराड्रङ्गनाथो रमया सह वरयोषिता गीतमाकर्णयत इत्यन्वय २१ एकोना इति विंशतेर्विशेषणेन विरोधः एको ना नरः इति पदच्छेदेन परिहार.१ कश्चित्स्वनायिका स्तौति न प्रति अन्या प्रतिभाषते हे सखे ' एतस्यास्त्रैलोक्ये उपमा नास्तीति किमिति कुतो भाषसे यत मा उपमैव अनन्तरा मध्यवर्णरहिता उमेति यावत् अथवा नैव उमा अनादि आद्यवर्णरहिता मा लक्ष्मीरिति यावत् उपमा उपमानमस्तीति भाव तृतीया नास्तीति मे बुद्धि २ सुसुवर्णेन कान्त्यालकृता ३ विशुदित्यर्थ ४ विविधा धवा पतयो यस्या सा कुलटेत्यर्थ ५ बहुव्रीहिपक्षे, -लोका जना नाथा स्वामिनो यस्यैवंविधोऽहम याचकत्वात् षष्ठीतत्पुरुषपक्षे,-लोकाना जनाना नाथ एवविधम्त्वम राजत्वेन पालकत्वात् ६ समुद्रमपि करे चुलुकयतो मुने सामर्थ्य मम चेत्स्यात्तर्हि झटिति तुष्टशान्त्यभावाच्चिरमेना पश्यामीति पान्थाभिप्राय यदि चतुर सागरा संनिहिता स्युस्तदानवरत जलधारा विसृजन्ती विरमेत्तद्दर्शनसुखमनुभवेयमिति प्रपापाव्यभिप्राय ७ न विद्यतेऽन्तो यस्य तत्, पक्षे,-नकारान्तम् ८ अन्तेन सहितम्, पक्षे,-सकारान्तम् ९ ककारोऽन्ते यस्या, पक्षे,-कान्ता रमणी १० अकस्य दु खस्यान्तक नाशकम्, पक्षे,- ककारान्तं न भवतीति तत् सान्त मनो नान्त ब्रह्म न पश्यतीनि युक्तमेव पर स्वय कान्ता वाक् अकान्तकमपि लोकजनकत्वात्कान्त ब्रह्म नैतीति चित्रमिति भाव ११ कृष्णपक्षे,- याष्टमी तस्य दिनस्यार्धे रावणेन सीता हता किल्लक्षणाष्टमी ? अर्धरात्रे सिता पु० कि० अर्धचन्द्रे किभूतेऽर्धचन्द्रे अर्धे भा करोति अर्धभास्करस्तस्मिन् १२ शम्याः शमीवृक्षस्य गर्भोऽन्तः सारस्तस्य गर्भोऽग्निस्तन्मन्थनेनोद्भवमानत्वात्, तस्याग्ने रिपुर्जल तद्गर्भो लक्ष्मीस्तस्या सागरमथनेन जलजातत्वात् तस्या भर्तेत्यादि शमीगर्भपदेन अश्वत्थ इत्यपि केचित् तदापि सुवर्णं अश्वत्थस्यापि वह्नियोनित्वात् १३ कहमित्यत्र कथ 'खधथधभास्' इति कात्यायमसूत्रेण प्राकृते थकारस्थाने हकार १४ वि गरुड, हंस, गोः वृषभ १५ त्रिशूलः, कम्बुः चक्रम् १६ पार्वती, सावित्री, लक्ष्मी० १७ नखान् लुनातीति नखलु नखच्छेदकम्.