Skip to content
SarvaKosh
Back to the archive

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages
Page 596Permalink

षोडशः सर्गः | ५३७

चित्रित हाथियों के मस्तकों को सिंहों ने हाथी का मस्तक समझ कर उनपर पञ्जा मारकर फाड़ दिया है ॥ १६ ॥

स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् ।
स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः ॥ १७ ॥

अन्वयः—उत्क्रान्तवर्णक्रमधूसराणां स्तम्भेषु योषित्प्रतियातनानां फणिभिर्विमुक्ता निर्मोकपट्टाः सङ्गात् स्तनोत्तरीयाणि भवन्ति ।

स्तम्भेष्विति । उत्क्रान्तवर्णक्रमा वशीर्णवर्णविन्यासास्ताश्च धूसराश्च यास्तासां स्तम्भेषु योषित्प्रतियातनानां स्त्रीप्रतिकृतीनां दारुमयीणां फणिभिर्विमुक्ता निर्मोका कंचुका एव पट्टाः । 'समौ कञ्चुकनिर्मोकौ' इत्यमरः । सङ्गात्सक्तत्वात्स्तनोत्तरीयाणि स्तनाच्छादनवस्त्राणि भवन्ति ।

भाषार्थ—जिन बहुत से खम्भों में स्त्रियों की मूर्तियाँ बनी हुई थीं आजकल जगह-जगह रङ्ग उड़ गये हैं उन खम्भों को चन्दन का वृक्ष समझकर जो सांप उनसे लिपटे हैं उनकी केचुले छूटकर उन मूर्तियों से सट गई हैं और वे ऐसी लगती हैं मानों उन चित्रित स्त्रियों ने स्तन ढकने के लिए कोई कपड़ा डाल लिया हो ॥ १७ ॥

कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु ।
त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्च्छन्ति न चन्द्रपादाः ॥ १८ ॥

अन्वयः—कालान्तरश्यामसुधेषु इतस्ततः रूढतृणाङ्कुरेषु हर्म्येषु नक्तं मुक्तागुणशुद्धयः अपि ( ततः पूर्वं ये मूर्च्छन्ति स्म ) त एव चन्द्रपादा न मूर्च्छन्ति ।

कालेति । कालान्तरेण कालभेदवशेन श्यामसुधेषु । मलिनचूर्णेष्वितस्ततो रूढतृणाङ्कुरेषु हर्म्येषु गृहेषु नक्तं रात्रौ मुक्तागुणानां शुद्धिरिव शुद्धिः स्वाच्छ्यं येषां तादृशा अपि ततः पूर्वं ये मूर्च्छन्ति स्म त एव चन्द्रपादाश्चन्द्ररश्मयः । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । न मूर्छन्ति न प्रतिफलन्तीत्यर्थः ।

भाषार्थ—जिन भवनों पर कभी मोती की माला के समान शुभ्र चाँदनी चमका करती थी उनपर अब चाँदनी भी नहीं चमकती क्योंकि बहुत दिनों से मरम्मत न होने के कारण कोठे के चूने का रंग काला पड़ गया है और उनपर जहाँ तहाँ घास जम आई है ॥ १८ ॥

आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः ।
वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः ॥ १९ ॥

Page 597Permalink
५३८रघुवंशमहाकाव्ये

अन्वयः—विलासिनीभिः सदयं शाखा आवर्ज्य यासां पुष्पाणि उपात्तानि ता एव मदीयाः उद्यानलताः वन्यैः पुलिन्दैः इव वानरैः क्लिश्यन्ते ।

आवर्ज्येति । किंच विलासिनीभिः सदयं शाखा लतावयवानावर्ज्यनमय्य यासां लतानां पुष्पाण्युपात्तानि गृहीतानि ता मदीया उद्यानलताः वन्यैः पुलिन्दैम्लेंच्छविशेषैरिव वानरैः उभयैरपीत्यर्थः । क्लिश्यन्ते पीड्यन्ते । क्लिश्नातेः कर्मणि लट् । 'भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः' इत्यमरः ।

भाषार्थ—पहले उद्यान को जिन लताओं को टूटने के भय से धीरे से झुकाकर सुन्दरी स्त्रियां फूल उतारा करती थीं उन मेरी प्यारी लताओं को जङ्गली कोलभीलों के समान उत्पाती बन्दर झकझोर डालते हैं ॥ १९ ॥


रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि ।
तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा गवाक्षाः ॥ २० ॥

अन्वयः—रात्रौ अनाविष्कृतदीपभासः दिवा अपि कान्तामुखश्रीवियुताः विच्छिन्नधूमप्रसराः गवाक्षाः कृमितन्तुजालैः तिरस्क्रियन्ते ।

रात्राविति । रात्रावनाविष्कृतदीपभासः अप्रकटीकृतदीपदीप्तयः दीपप्रभाशून्या इत्यर्थः । दिवापि दिवसेऽपि कान्तामुखानां श्रिया कान्त्या वियुता रहिता विच्छिन्नो नष्टो धूमप्रसरो येषां ते गवाक्षाः कृमितन्तुजालैलूतातन्तुवितानैस्तिरस्क्रियन्ते छाद्यन्ते ।

भाषार्थ—आजकल अटारियों के झरोखों से न तो रातको दीपकों की किरणें निकलती हैं न दिन में सुन्दरियों का मुख दिखाई देता है और न कहीं से अगरु का धूंआं ही निकलता है । अब वे झरोखे मकड़ियों के जालों से ढँक गये हैं ॥२०॥


बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति ।
उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥ २१ ॥

अन्वयः—बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गम् अवाप्नुवन्ति सरयूजलानि शून्यानि उपान्तवानीरगृहाणि दृष्ट्वा दूये ।

बलिक्रियेति । 'बलिः पूजोपहारः स्यात्' इति शाश्वतः । बलिक्रियावर्जितानि सैकतानि येषां तानि स्नानीयानि स्नानसाधनानि चूर्णादीनि । "कृत्यल्युटो बहुलम्" इति करणेऽनीयर्प्रत्ययः । स्नानीयसंसर्गमनाप्नुवन्ति सरयूजलानि शून्यानि रिक्तान्युपान्तेषु वानीरगृहाणि येषां तानि च दृष्ट्वा दूये परितप्ये ।

भाषार्थ—मुझे वह देखकर बड़ा दुःख होता है कि अब न तो सरयू के घाटोंपर देवताओं की बलि दी जाती है और न स्त्रियों के स्नान करने से उसमें से अङ्ग-

Page 598Permalink

षोडशः सर्गः
५३९

राग आदि की गन्ध ही निकलती है। सरयू के तट पर बनी हुई बेंत की झोप-
ड़ियाँ भी सूनी पड़ी रहती हैं ॥ २१ ॥

तदर्हसीमां वसतिं विसृज्य मामभ्युपैतुं कुलराजधानीम्।
हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥ २२ ॥

**अन्वयः—**तत् इमां वसतिं विसृज्य कुलराजधानीं तां माम् अभ्युपैतुम् अर्हसि ते गुरुः तां कारणमानुषीं तनुं हित्वा परमात्ममूर्तिं यथा।

तदिति। तत्तस्मादिमां वसतिं कुशावतीं विसृज्य कुलराजधानीं राज्ञा धीयते-ऽस्यामिति राजधानी तामयोध्यां मामभ्युपैतुमर्हसि। कथमिव ? ते गुरुः पिता रामस्तां प्रसिद्धां कारणवशान्मानुषीं तनुं विष्णुमूर्तिमिव।

**भाषार्थ—**इसलिए जिस प्रकार आपके पिता राम ने राक्षसों को मारने के लिए मनुष्य का शरीर धारण किया था, उसे छोड़कर परमात्मा की मूर्ति को प्राप्त कर लिया; उसी प्रकार आप भी इस नई राजधानी कुशावती को छोड़कर अपनी कुल परम्परा की राजधानी में चलकर रहो ॥ २२ ॥

तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणाम्।
पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ २३ ॥

**अन्वयः—**रघूणां प्राग्रहरः तस्याः प्रणयं प्रतीतः तथा इति प्रत्यग्रहीत्, पूः अपि अभिव्यक्तमुखप्रसादा (सती) शरीरबन्धेन तिरोबभूव।

तथेति। रघूणां प्राग्रहरः श्रेष्ठः कुशस्तस्या पुरः प्रणयं याच्ञां प्रतीतो हृष्टः संस्तथेति प्रत्यग्रहीत्स्वीकृतवान्। पूः पुराधिदेवताऽप्यभिव्यक्तमुखप्रसादा सती इष्टलाभादिति भावः। शरीरयोगेन करणेन तिरोबभूवान्तर्दधे। मानदं रूपं विहाय दैवं रूपमग्रहीदित्यर्थः।

**भाषार्थ—**कुश ने प्रसन्न होकर उसकी प्रार्थना स्वीकार कर ली और कहा कि ऐसा ही करेंगे, यह सुनकर अयोध्या की अधिष्ठात्री देवता परम प्रसन्न होकर अन्तर्धान हो गई ॥ २३ ॥

तदद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस।
श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतमभ्यनन्दन् ॥ २४ ॥

**अन्वयः—**नृपतिः तदद्भुतं रात्रिवृत्तं प्रातः संसदि द्विजेभ्यः शशंस। ते श्रुत्वा एवं कुलराजधान्याः साक्षात्पतित्वे वृतम् अभ्यनन्दन्।

तदिति। नृपतिः कुशस्तदद्भुतं रात्रिवृत्तान्तं प्रातः संसदि सभायां द्विजेभ्यः

Page 599Permalink

५४० रघुवंशमहाकाव्ये

शशंस। ते द्विजाः श्रुत्वैनं कुशं कुलराजधान्याः साक्षात्स्वयमेव पतित्वे विषये वृत-
मभ्यनन्दन् पतित्वेन वृतोऽसीत्यपूजयन्। आशीर्भिरिति शेषः। अत्र गार्ग्यः—'दृष्ट्वा
स्वप्नं शोभनं नैव सुप्यात्पश्चाददृष्टो यः स पाकं विधत्ते। शंसेदिष्टं तत्र साधुर्द्वि-
जेभ्यस्ते चाशीर्भिः प्रीणयेयुर्नरेंद्रम्' । इदमपि स्वप्नतुल्यमिति भावः।

भाषार्थ—राजा कुश ने रात की वह आश्चर्यमयी घटना प्रातःकाल सभा में
ब्राह्मणों से कही। उन्होंने यह सुनकर उनकी प्रशंसा करते हुए कहा कि आप धन्य
हैं जिन्हें कुल राजधानी ने अपनी इच्छा से अपना पति चुना है ॥ २४ ॥

कुशावतीं श्रोत्रियसात् कृत्वा यात्रानुकूलेऽहनि सावरोधः।
अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥ २५ ॥

अन्वयः—स कुशावतीं श्रोत्रियसात् कृत्वा यात्रानुकूले अहनि सावरोधः
( सन् ) वायुः अभ्रवृन्दैः इव सैन्यैः अनुद्रुतः अयोध्याभिमुखः प्रतस्थे।

कुशावतीमिति। स कुशः कुशावतीं श्रोत्रियेषु छान्दसेष्वधीनां श्रोत्रियसात्।
"तदधीनवचने" इति सातिप्रत्ययः। "श्रोत्रियश्छन्दोऽधीते" इति निपातः। 'श्रोत्रिय-
श्छान्दसौ समौ' इत्यमरः। कृत्वा यात्रानुकूलेऽहनि सावरोधः सान्तःपुरः सन् वायु-
रभ्रवृन्दैरिव सैन्यैरनुद्रुतोऽनुगतः सन्नयोध्याभिमुखः प्रतस्थे।

भाषार्थ—कुश ने कुशावती वेदपाठी ब्राह्मणों को सौंप दी और जैसे वायु
के पीछे-पीछे बादल चलते हैं वैसे ही पीछे चलने वाली सेना के साथ शुभ मुहूर्त
में वे अयोध्या के लिए चल दिये ॥ २५ ॥

सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः।
सेना रथोदारगृहा प्रयाणे तस्याभवज्जङ्गमराजधानी ॥ २६ ॥

अन्वयः—केतुमालोपवना बृहद्भिः नागैः विहारशैलानुगता इव रथोदारगृहा
सा सेना तस्य प्रयाणे जङ्गमराजधानी इव अभवत्।

सेति। केतुमाला एवोपवनानि यस्याः स बृहद्भिर्नगैर्गजैर्विहारशैलैः क्रीडा-
शैलैरनुगतेव स्थिता रथा एवोदारगृहा यस्याः सा सेना तस्य कुशस्य प्रयाणे
जङ्गमराजधानी सञ्चारिणी नगरीवाभवद् बभूव।

भाषार्थ—यात्रा के समय चलती हुई कुशकी सेना चलती फिरती राजधानी
के समान लगती थी क्योंकि उसका ध्वजाओं वाला भाग लतावाले उपवनों के
समान लग रहा था बड़े-बड़े हाथी बनावटी क्रीड़ापर्वतों जैसे जान पड़ते थे और
रथ ऊँची-ऊँची अटारियों के समान लग रहे थे ॥ २६ ॥

Page 600Permalink

षोडशः सर्गः ५४१

तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् ।
बभौ बलौघः शशिनोदितेन वेलामुदन्वन्निव नीयमानः ॥ २७ ॥
**अन्वयः—**आतपत्रामलमण्डलेन तेन पूर्वनिवासभूमिं अयोध्यां प्रस्थापितः बलौघः उदितेन शशिना वेलां नीयमानः उदन्वान् इव बभौ ।
तेनेति । आतपत्रमेवामलं मण्डलं बिम्बं यस्य तेन कुशेन पूर्वनिवासभूमिमयोध्यां प्रति प्रस्थापितो बलौघः आतपत्रवदमलमण्डलेनोदितेन शशिना वेलां नीयमानः प्राप्यमाणः उदकमस्यास्तीत्युदन्वान् उदधिरिव बभौ । “उदन्वानुदधौ च” इति निपातनात्साधुः ।
**भाषार्थ—**जिस प्रकार चन्द्रमा उदित होकर समुद्र को तट तक खींच लेता है उसी प्रकार श्वेत छत्रधारी कुश अपनी सेना को रघुकुल की पुरानी राजधानी अयोध्या की ओर ले चले ॥ २७ ॥

तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् ।
वसुन्धरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥ २८ ॥
**अन्वयः—**प्रयातस्य तस्य वरूथिनीनां पीडां सोढुम् अपर्याप्तवती इव वसुन्धरा रजश्छलेन द्वितीयं विष्णुपदम् अध्यारुरोह ।
तस्येति । प्रयातस्य प्रस्थितस्य तस्य कुशस्य वरूथिनीनां सेनानां कर्त्रीणाम् । “कर्तृकर्मणोः कृति” इति कर्तरि षष्ठी । पीडां सोढुमपर्याप्तवतीवाशक्तेव वसुन्धरा रजश्छलेन द्वितीयं विष्णुपदमाकाशमध्यारुरोहेव इत्युत्प्रेक्षा ।
**भाषार्थ—**चलते समय कुश की सेना का भार पृथ्वी नहीं सँभाल सकी 'इस लिए उड़ती हुई धूल ऐसी जान पड़ती थी मानों पृथ्वी विष्णु के दूसरे पद (आकाश) में पहुँच गई है ॥ २८ ॥

उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती ।
सा यत्र सेना ददृशे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥ २९ ॥
**अन्वयः—**पश्चात् गमनाय पुरः निवेशे उद्यच्छमाना पथि च व्रजन्ती नृपस्य सा सेना यत्र ददृशे तत्रैव सामग्र्यमतिं चकार ।
उद्यच्छमानेति । पश्चात्कुशावत्याः सकाशाद्गमनाय प्रयाणाय तथा पुरोऽग्रे निवेशे निमित्ते निवेष्टुं चेत्यर्थः । उद्यच्छमानोद्योगं कुर्वती । 'समुदाङ्भ्यो यमोऽग्रन्थे” इत्यस्य सकर्मकाधिकारत्वादात्मनेपदम् । पथि च व्रजन्ती नृपस्य कुशस्य सा सेना यत्र पश्चात्पुरो मध्ये या ददृशे तत्रैव सामग्र्यमतिं कृत्स्नताबुद्धिं चकार । अपरिमिता तस्य सेनेत्यर्थः ।

Page 601Permalink

५४२ रघुवंशमहाकाव्ये

भाषार्थ—कुशावती से चलती हुई या आगे के पड़ाव पर पहुँची हुई या मार्ग में चलनेवाली जितनी भी कुशकी सेनाकी टुकड़ियाँ थीं वे सब पूरी सेना ही प्रतीत होती थीं ॥ २९ ॥

तस्य द्विपानां मदवारिसेकात्सुराभिघाताच्च तुरङ्गमाणाम् ।
रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ॥ ३० ॥

अन्वयः—नेतुः तस्य द्विपानां मदवारिसेकात् तुरङ्गमाणां खुराभिघातात् च पथि रेणुः पङ्कभावं प्रपेदे पङ्कोऽपि रेणुत्वं इयाय ।

तस्येति । नेतुस्तस्य कुशस्य द्विपानां मदवारिभिः सेकात्तुरङ्गमाणां खुराभि-
घाताच्च यथासंख्यं पथि रेणू रजः पङ्कभावं पङ्कतां प्रपेदे पङ्कोऽपि रेणुत्वमियाय
तस्य तावदस्तीत्यर्थः ।

भाषार्थ—नायक कुशके हाथियों के मदजलसे मार्ग की धूल कीचड़ बन गई और कीचड़ भी घोड़ों की टापसे धूल बन गई ॥ ३० ॥

मार्गैषिणी सा कटकान्तरेषु वैन्ध्येपु सेना बहुधा विभिन्ना ।
चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥ ३१ ॥

अन्वयः—वैन्ध्येपु कटकान्तरेषु मार्गैषिणी ( अत एव ) बहुधा विभिन्ना महाविरावा सा सेना रेवा इव गुहामुखानि बद्धप्रतिश्रुन्ति चकार ।

मार्गैति । वैन्ध्येपु विन्ध्यसम्बन्धि कटकान्तरेषु नितम्बावकाशेषु । ‘कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । मार्गावलोकिनी अत एव बहुधा विभिन्ना महाविरावा दीर्घशब्दा सा सेना रेवेव नर्मदेव । 'रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका' इत्यमरः । गुहामुखानि बद्धप्रतिश्रुन्ति प्रतिध्वानवन्ति चकाराकरोत् ।

भाषार्थ—मार्ग भूल जाने के कारण वह सेना विन्ध्याचल के आस-पास मार्ग ढूंढने लगी और कई भागों में विभक्त हो गई । उस सेना ने नर्मदा के समान जो गम्भीर गर्जन किया उससे पर्वत की गुफायें गूंज उठीं ॥ ३१ ॥

स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः ।
व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ॥ ३२ ॥

अन्वयः—धातुभेदारुणयाननेमिः प्रयाणध्वनिमिश्रतूर्यः स प्रभुः पुलिन्दैः उपपादितानि उपायनानि पश्यन् विन्ध्यं अलङ्घयत् ।

स इति । धातूनां गैरिकादीनां भेदेनाऽरुणा आरक्ता याननेमीरथचक्रधारा प्रयाणे ये ध्वनयः श्वेण्डेहेषादयः तन्मिश्राणि तूर्याणि यस्यैवंविधः स प्रभुः पुलिन्दैः किरातैरुपपादितानि समर्पितान्युपायनानि पश्यन् विन्ध्यं व्यलङ्घयत् ।

Page 602Permalink

षोडशः सर्गः ५४३

**भाषार्थ—**पर्वत की गैरिकादि धातुओं से जिसके रथ के पहिये लाल हो गये हैं और जिसकी चलती हुई सेना के शब्द से तुरही के शब्द भी दब गये हैं वे कुश विन्ध्याचल निवासी जनों के हाथ से पाई हुई भेंट की सामग्रियों को देखते हुए विन्ध्यपर्वत को लांघ गये ॥ ३२ ॥

तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् ।
अयत्नवालव्यजनीबभूवुर्हंसा नभोल्लङ्घनलोलपक्षाः ॥ ३३ ॥

**अन्वयः—**तदीये तीर्थे गजसेतुबन्धात् प्रतीपगां गङ्गाम् उत्तरतः अस्य नभोल्लङ्घनलोलपक्षाः हंसा अयत्नवालव्यजनीबभूवुः ।

तीर्थे इति । तदीये विन्ध्ये तीर्थेऽवतारे गजा एव सेतुस्तस्य बन्धाद्धेतोः प्रतीपगां पश्चिमवाहिनीं गंगामुत्तरतोऽस्य कूलस्य नभोल्लङ्घनेन लोलपक्षा हंसा अयत्नेन बालव्यजनीबभूवुश्चामराण्यभूवन् । अभूततद्भावे च्विः ।

**भाषार्थ—**विन्ध्य के तट पर उलटी पश्चिम की ओर बहने वाली गङ्गा के उत्तर भाग में हाथियों का पुल बनाकर वे पार उतरने लगे उस समय आकाश में जो चंचल पङ्ख वाले हंस उड़ते थे वे कुशपर डुलते हुए चंवर के समान लग रहे थे ॥ ३३ ॥

स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणाम् ।
सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौलुलितं ववन्दे ॥ ३४ ॥

**अन्वयः—**स कपिलेन रोषात् भस्मावशेषीकृतविग्रहाणां पूर्वजानां सुरालयप्राप्तिनिमित्तं नौलुलितं त्रैस्रोतसं अम्भो ववन्दे ।

स इति । स कुशः कपिलेन मुनिना रोषाद्भस्मावशेषीकृता विग्रहा देहा येषां तेषां पूर्वजानां वृद्धानां सगराणां सुरालयस्य स्वर्गस्य प्राप्तौ निमित्तं नौभिर्लुलितं क्षुभितं तिस्रोतस इदं त्रैस्रोतसं गाङ्गमम्भो ववन्दे ।

**भाषार्थ—**कुश ने नावों के चलने से चंचल जलवाली गंगाजी को प्रणाम किया क्योंकि कपिल के कोप से जले हुए उनके पूर्वज सगर के पुत्र उसी जल की कृपा से स्वर्ग पहुंचे थे ॥ ३४ ॥

इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः ।
वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणाम् ॥ ३५ ॥

**अन्वयः—**कैश्चित् अहोभिः अध्वनः अन्ते कुशः सरय्वाः कूलं समासाद्य वितताध्वराणां रघूणां वेदिप्रतिष्ठान् शतशः यूपान् अपश्यत् ।

Page 603Permalink
५४४रघुवंशमहाकाव्ये

इतीति। इति कैश्चिदहोभिरध्वनोऽन्तेऽवसाने कुशः सरय्वाः कूलं समासाद्यवितताध्वराणां विस्तृतमखानां रघूणां वेदिः प्रतिष्ठास्पदं येषां तान् यूपाञ्छतशोऽपश्यत्।

**भाषार्थ—**इस प्रकार कुछ दिन में मार्ग बिताकर कुश सरयू के किनारे पहुँचे वहाँ उन्हें बड़े-बड़े यज्ञ करने वाले रघुवंशी राजाओं के गाड़े हुए सैकड़ों यज्ञ के खंभे दिखाई दिये ॥ ३५ ॥

आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतराङ्गान् ।
तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥ ३६ ॥

**अन्वयः—**कुलराजधान्या उपवनान्तवायुः कुसुमद्रुमाणां शाखाः आधूय शीतान् सरयूतरांगान् स्पृष्ट्वा क्लान्तसैन्यं तं प्रत्युज्जगाम ।

आधूयेति । कुलराजधान्या उपवनान्तवायुः कुसुमद्रुमाणां शाखा आधूयेषद्धूत्वा सुरभिर्मन्दश्चेत्यर्थः । शीतान्सरयूतराङ्गांश्च स्पृष्ट्वा अनेन शैत्योक्तिः । क्लान्तसैन्यं तं कुशं प्रत्युज्जगाम ।

**भाषार्थ—**वंशपरम्परागत राजधानी अयोध्या के उपवन की वायु ने फूले हुए वृक्षों की डालियों को थोड़ा हिलाकर और सरयू के शीतल तरंगों का स्पर्श करके सेना के साथ थके हुए कुश का स्वागत किया अर्थात् शीतल मन्द सुगन्ध वायु ने क्लान्त कुश के श्रम को दूर किया ॥ ३६ ॥

अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा ।
कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥ ३७ ॥

**अन्वयः—**अथ रिपुमग्नशल्यः पौरसखः कुलध्वजः बली स राजा चलध्वजानि तानि बलानि तस्याः पुरः उपशल्ये निवेशयामास ।

अथेति । अथ रिपुषु मग्नं शल्यं शङ्कुः शरो वा यस्य सः । 'शल्यं शङ्कौ शरे वशे' इति विश्वः । पौराणां सखा पौरसखः । “राजाहः सखिभ्यष्टच्” इत्यनेन टच्प्रत्ययः । कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाश्चलन्तो वा ध्वजा येषां तानि तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये 'ग्रामान्तं उपशल्यं स्यात्' इत्यमरः । निवेशयामास ।

**भाषार्थ—**शत्रुसंहारक प्रजाहितैषी कुलको उन्नतिशील बनानेवाले और बलिष्ठ राजा कुश ने फहराती हुई ध्वजावाली अपनी सेना को नगर के आस-पास के स्थानों में ठहरा दिया ॥ ३७ ॥

तां शिल्पिसङ्घाः प्रभुणा नियुक्तास्तथागतां सम्भृतसाधनत्वात् ।
पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥ ३८ ॥

षोडशः सर्गः

Page 604Permalink

षोडशः सर्गः
५४५

अन्वयः—प्रभुणा नियुक्ताः शिल्पिसंघाः सम्भृतसाधनत्वात् तां तथागतां पुरं मेघाः अपां विसर्गात् निदाघग्लपितां उर्वीमिव नवीचक्रुः ।

तामिति । प्रभुणा नियुक्ताः शिल्पिनां तक्षादीनां सङ्घाः सम्भृतसाधनत्वान्मि-
लितोपकरणत्वात्तां तथागतां शून्यामित्यर्थः । पुरमयोध्यां मेघा अपां विसर्गा-
ज्जलेसेकात् निदाघग्लपितां ग्रीष्मतप्तामुर्वीमिव नवीचक्रुः परिपूर्णाञ्चक्रुः ।

भाषार्थ—जिस प्रकार इन्द्र की आज्ञा से मेघ पानी बरसाकर गर्मी से तपी
पृथ्वी को हरी-भरी कर देते हैं उसी प्रकार कुश की आज्ञा से कारीगरों ने अपने
यन्त्रों की सहायता से अयोध्या का कायापलट कर दिया ॥३८॥

ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः ।
उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास रघुपवीरः ॥ ३९ ॥

अन्वयः—ततः रघुपवीरः परार्ध्यप्रतिमागृहायाः पुरः उपोषितैर्वास्तुविधान-
विद्भिः सपशूपहारां सपर्याम् निर्वर्तयामास ।

तत इति । ततो रघुपवीरः कुशः प्रतिमा देवताप्रतिकृतयः अर्च्या इत्यर्थः ।
परार्ध्यप्रतिमागृहायाः प्रशस्तदेवतायतनायाः पुर उपोषितैर्वास्तुविधानविद्भिः
प्रयोज्यैः पशूपहारैः सहितां सपशूपहारां सपर्यां पूजां निर्वर्तयामास कारयामास । अत्र
ण्यन्ताण्णिच्पुनरित्यनुसन्धेयम् । अन्यथा वृतेरकंर्मकस्य करोत्यर्थत्वे कारयत्यर्थाभाव-
प्रसङ्गात् भवितव्यं वृतेरण्यन्तकर्त्रा प्रयोज्यत्वेन तन्निर्देशात्प्रयोगान्तरस्यापेक्षितत्वात् ।

भाषार्थ—इसके बाद व्रत एवं उपवास करने वाले वास्तुविद्या के विद्वानों के
द्वारा रघुश्रेष्ठ कुश ने बहुमूल्य मुनियों से परिपूर्ण घरोंवाली अयोध्या नगरी का
विधिपूर्वक पूजन कराया और पशुओं का बलिदान भी कराया ॥ ३९ ॥

तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य ।
यथार्हमन्यैरनुजीविलोकं सम्भावयामास यथाप्रधानम् ॥ ४० ॥

अन्वयः—सः तस्याः राजोपपदं निशान्तं कामी कान्ताहृदयम् इव प्रविश्य
अन्यैः अनुजीविलोकं यथाप्रधानं सम्भावयामास ।

तस्या इति । स कुशस्तस्याः पुरः सम्बन्धि राजोपपदं राजशब्दपूर्वं निशान्तं
राजभवनमित्यर्थः । ‘निशान्तं भवनौषसोः’ इति विश्वः । कामी कान्ताहृदयमिव
प्रविश्य अन्यैर्निशान्तैरनुजीविलोकममात्यादिकं यथाप्रधानं मान्यानुसारेण यथाहं
यथोचितं तत्तदुचितगृहैरित्यर्थः । सम्भावयामास सम्भावितवान् ।

भाषार्थ—जिस प्रकार कामी पुरुष कामिनी स्त्री के हृदय में बैठ जाता है उसी

३५ र० सम्पू०

Page 605Permalink

५४६ रघुवंशमहाकाव्ये

प्रकार कुश भी अयोध्या के राजभवन में प्रविष्ट हो गये और उन्होंने अपने मन्त्रियों आदि के रहने के लिए यथायोग्य दूसरे बहुत से भवन दे दिये ॥ ४० ॥

सा मन्दुरासंश्रयिभिस्तुरङ्गैः शालाविधिस्तम्भगतैश्च नागैः ।
पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥ ४१ ॥

अन्वयः—विपणिस्थपण्या सा पूः मन्दुरासंश्रयिभिः तुरङ्गैः शालाविधिस्तम्भगतैः नागैः च सर्वाङ्गनद्धाभरणा नारी इव आबभासे ।

· सेति । विपणिस्थानि पण्यानि क्रयविक्रयार्हवस्तूनि यस्या सा । 'विपणिः पण्यवीथिका' इत्यमरः । सा पूरयोध्या मन्दुरासंश्रयिभिरश्वशालासंश्रयणशीलैः । 'वाजिशाला तु मन्दुरा' इत्यमरः । “जिदृक्षो०” इत्यादिनेनिप्रत्ययः । तुरङ्गैरश्वैः शालासु गृहेषु ये विधिना स्थापिताः स्तम्भास्तान् गतः प्राप्तैर्नागैश्च सर्वाङ्गेषु नद्धान्याभरणानि यस्या सा नारीव आबभासे ।

भाषार्थ—अयोध्या के बाजारों में सुन्दर-सुन्दर वस्तुयें बिकने के लिए सजी हुई थीं, घुड़शालाओं में घोड़े बँधे हुए थे, हथिसारों के खम्भों से हाथी बँधे हुए थे । इस प्रकार वह नगरी ऐसी सुन्दर लगने लगी जैसे सारे शरीर में आभूषण पहनी हुई कोई स्त्री हो ॥ ४१ ॥

वसन्स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् ।
न मैथिलेयः स्पृहयाम्बभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥ ४२ ॥

अन्वयः—स मैथिलेयः पुराणशोभाम् अधिरोपितायां तस्यां वसतौ वसन् दिवः भर्त्रे अलकेश्वराय अपि न स्पृहयाम्बभूव ।

वसन्निति । स मैथिलेयः कुशः पुराणशोभां पूर्वशोभामधिरोपितायां तस्यां रघूणां वसतावयोध्यायां वसन् दिवो भर्त्रे देवेन्द्राय तथालकेश्वराय कुबेरायापि न स्पृहयाम्बभूव तावपि न गणयामासेत्यर्थः। 'स्पृहेरीप्सितः' इति सम्प्रदानत्वाच्चतुर्थी । एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ।

भाषार्थ—अयोध्या पुनः पहले जैसी सुन्दर लगने लगी, उसमें निवास करके मिथिलेशकुमारी सीताजी के पुत्र कुश को ऐसा सुख मिला जिससे न तो उन्हें सुन्दर-सुन्दर अप्सराओं से भरे स्वर्ग के स्वामी बनने की इच्छा रह गई और न असंख्य रत्नों वाली अलकापुरी को लेने की ॥ ४२ ॥

अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् ।
निःश्वासहार्यांशुकमाजगाम घर्मः प्रियावेशमिवोपदेष्टुम् ॥ ४३ ॥

षोडशः सर्गः ५४७

Page 606Permalink

षोडशः सर्गः ५४७

अन्वयः—अथ अस्य रत्नग्रथितोत्तरीयम् एकान्तपाण्डुस्तनलम्बिहारं निःश्वासहार्यांशुकं प्रियावेषं उपदेष्टुम् इव धर्मः आजगाम ।

अथेति । अथास्य कुशस्य रत्नैर्मुक्तामणिभिर्ग्रथितान्युत्तरीयाणि यस्मिंस्तम् । एकान्तमत्यन्तं पाण्ड्वोस्तयोर्लम्बिनो हारा यस्मिंस्तम् । निःश्वासहार्याण्यतिसूक्ष्माण्यंशुकानि यत्र तम् । एवं शीतलप्रायं प्रियाया वेषं नेपथ्यमुपदेष्टुमिव घर्मो ग्रीष्मः आजगाम ।

भाषार्थ—इतने में ग्रीष्म ऋतु आ गई जिसने मानो इन्हें अपनी उस प्रिया का स्मरण करा दिया जिसकी ओढ़नी में रत्न लगे हों, गोरे-गोरे स्तनों पर मोतियों के हार लटके हों और सांस से उड़ने वाले महीन कपड़े पहनी हुई हो ॥ ४३ ॥

अगस्त्यचिह्नादयनात्समीपे दिगुत्तरा भास्वति सन्निवृत्ते ।
आनन्दशीतामिव बाष्पवृष्टिं हिमस्स्रुतिं हैमवतीं ससर्ज ॥ ४४ ॥

अन्वयः—अगस्त्यचिह्नात् अयनात् भास्वति सन्निवृत्ते उत्तरादिक् आनन्दशीतां बाष्पवृष्टिं हैमवतीं इव हिमस्स्रुतिं ससर्ज ।

अगस्त्येति । अगस्त्यश्चिह्नं यस्य तस्मादयनान्मार्गाद्दक्षिणायनाद्भास्वति समीपं संनिवृत्ते सति उत्तरादिक् आनन्दशीतां बाष्पवृष्टिमिव हैमवतीं हिमवत्सम्बन्धिनीं हिमस्स्रुतिं हिमनिष्यन्दं ससर्ज । अत्र प्रोषितप्रियासमागमसमाधिर्गम्यते ।

भाषार्थ—गर्मी में जो हिम लगने लगा वह ऐसा लगता था मानो दक्षिण दिशा से सूर्य के लौट आने की प्रसन्नता में उत्तर दिशा ने आनन्द के ठण्डे आंसुओं के समान पानी की ठण्डी धार हिमालय से बढ़ाई हो ॥ ४४ ॥

प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी ।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥ ४५ ॥

अन्वयः—अतिमात्रं प्रवृद्धः दिवसः अत्यर्थम् एव तन्वी क्षणदा च इति उभौ विरोधक्रियया विभिन्नौ सानुशयो जायापती इव आस्ताम् ।

प्रवृद्धेति । अतिमात्रं प्रवृद्धतापो दिवसः, अत्यर्थमेवानल्पं तन्वी कृशा क्षणदा च इत्येतावुभौ विरोधक्रियया प्रणयकलहादिना विरोधाचरणेन विभिन्नौ सानुशयौ सानुतापौ जायापती दम्पती इव आस्ताम् । तयोरपि तापकार्श्यसम्भवात्तत्सदृशावभूतामित्यर्थः ।

भाषार्थ—अत्यन्त सन्ताप से भरे दिन और अत्यन्त छोटी रातें ये दोनों उन पछताते हुए पति-पत्नी के समान दिखाई देने लगे जो आपस में झगड़ा करके एक दूसरे से रूठ गए हों ॥ ४५ ॥

Page 607Permalink

५४८ रघुवंशमहाकाव्ये

दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः ।
उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥ ४६ ॥
अन्वयः—दिने दिने शैवलवन्ति अधस्तात् सोपानपर्वाणि विमुञ्चत् अतएव उद्दण्डपद्मं गृहदीर्घिकाणाम् अम्भोः नारीनितम्बद्वयसं बभूव ।
दिने दिन इति । दिने दिने प्रतिदिनं शैवलवन्त्यधस्ताद्यानि सोपानानां पर्वाणि भङ्ग्यस्तानि विमुञ्चत् अत एवोद्दण्डपद्मं गृहदीर्घिकाणामम्भः नारीनितम्बः प्रमाणमस्य नारीनितम्बद्वयसं बभूव । विहारयोग्यमभूदित्यर्थः । “प्रमाणे द्वयसज्दघ्नञ्मात्रचः” इति द्वयसच्प्रत्ययः ।
भाषार्थ—गर्मी के कारण घर की बावलियां भी सेवार जमी हुई सीढ़ियों को छोड़कर प्रति दिन पीछे हटने लगी और उनमें कमल की दण्डियां दिखाई देने लगीं एवं पानी घट कर स्त्रियों के नितम्ब के बराबर रह गया । अर्थात् पानी सूख कर स्त्रियों के कमर तक ही गहरा रह गया ॥ ४६ ॥

वनेषु सायंतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु ।
प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥ ४७ ॥
अन्वयः—वनेषु विजृम्भणोद्गन्धिषु सायंतनमल्लिकानां कुड्मलेषु सशब्दं प्रत्येकनिक्षिप्तपदः भ्रमरः एषां संख्यां चकार इव ।
वनेष्विति । वनेषु विजृम्भणेन विकासेनोद्गन्धिषूत्कटसौरभेषु । ‘गन्धस्य०’ इत्यादिना समासान्त इकारादेशः । सायन्तनमल्लिकानां कुड्मलेषु सशब्दं यथा तथा प्रत्येकमेकैकस्मिन्निक्षिप्तपदः मकरन्दलोभादित्यर्थः । भ्रमर एषां कुड्मलानां संख्यां गणनां चकारैव ।
भाषार्थ—वनों में चमेली खिल गई और उनकी उत्कट सुगन्ध चारों ओर फैलने लगी, सन्ध्या के समय गुन-गुनाते हुए भौंरे उसकी एक-एक कलिका पर बैठ कर मानो फूलों की गिनती करने लगे ॥ ४७ ॥

स्वेदानुविद्धार्द्रनखक्षताङ्के भूयिष्ठसन्दष्टशिखं कपोले ।
च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ ४८ ॥
अन्वयः—स्वेदानुविद्धार्द्रनखक्षताङ्के कामिनीनां कपोले भूयिष्ठसन्दष्टशिखं ( अत एव ) कर्णात् च्युतम् अपि शिरीषपुष्पं सहसा न पपात ।
स्वेदेति । स्वेदानुविद्धमार्द्रं नखक्षतमङ्को यस्य तस्मिन्कामिनीनां कपोले भूयिष्ठमत्यर्थं सन्दष्टशिखं विश्लिष्टकेसरम् अतएव कर्णाच्च्युतमपि शिरीषपुष्पं सहसा न पपात ।
भाषार्थ—स्त्रियों के गालों पर प्रियतम के हाथों से हुए नख क्षतों पर पसीने

Page 608Permalink

षोडशः सर्गः ५४९

की बूंदें फैल जाती थीं और कान पर रखे हुए सिरस के फूलों का केशर उनसे सट जाता था इस लिए जब वे फूल कान से गिरते थे तो सहसा पृथ्वी पर नहीं गिर पाते थे ॥ ४८ ॥

यन्त्रप्रवाहैः शिशिरं परीतान्रसेन धौतान्प्रलयोद्भवस्य ।
शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः ॥ ४९ ॥

अन्वयः—ऋद्धिमन्तः धारागृहेषु शिशिरैः यन्त्रप्रवाहैः परीतान् मलयोद्भवस्य रसेन धौतान् शिलाविशेषान् अधिशय्य आतपं निन्युः ।

यन्त्रेति । ऋद्धिमन्तो धनिका धारागृहेषु यन्त्रधारागृहेषु शिशिरैर्यन्त्रप्रवाहैर्यन्त्रसञ्चारितसलिलपूरैः परीतान्व्याप्तान्मलयोद्भवस्य रसेन चन्दनोदकेन धौतान्क्षालिताञ्शिलाविशेषान्मणिमयासनान्यधिशय्य तेषु शयित्वाऽऽतपं निन्युरातपपरिहारं चक्रुः ।

भाषार्थ—धनी लोग धारागृह में गर्मी में ठण्डी रहने वाली उन विशेष प्रकार की शिलाओं पर सोकर दुपहरी बिताते थे, जो चन्दन से धुली होती थी और जिनके चारों ओर जलधारायें छूटती रहती थीं ॥ ४९ ॥

स्नानाऽऽर्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु ।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ ५० ॥

अन्वयः—वसन्तात्ययमन्दवीर्यः कामः स्नानाद्र्रमुक्तेषु धूपवासं विन्यस्तसायंतनमल्लिकेषु अङ्गनानां केशेषु बलं लेभे ।

स्नानेति । वसन्तस्यात्मसहकारिणोऽत्ययेनातिक्रमेणमन्दवीर्योऽतिदुर्बलः कामः-स्नानाद्रे्राश्च ते मुक्ताश्च धूपसञ्चारणार्थमित्यर्थः । तेषु अनुधूपवासानन्तरं विन्यस्ताः सायन्तनमल्लिका येषु तेषु अङ्गनानां केशेषु बलं लेभे । तैरूद्दीपित इत्यर्थः ।

भाषार्थ—वसन्त बीत जाने के कारण जो कामदेव मन्द पड़ गया था वह स्त्रियों के उन केशों में जाकर बस गया जो स्नान करने पर खोल दिए जाते थे और जिनमें धूप से सुगन्धित करके शाम को फूलनेवाली चमेली के सुगन्धित फूल खोंस दिये जाते थे अर्थात् कामिनियों के केशों को देख कर कामोद्दीपन हुआ करता था ॥ ५० ॥

आपिञ्जरा बद्धरजःकणत्वान्मञ्जर्युदारा शुशुभेऽर्जुनस्य ।
दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभवस्य ॥ ५१ ॥

अन्वयः—बद्धरजःकणत्वात् आपिञ्जरा उदारा अर्जुनस्य मञ्जरी देहं दग्धा अपि रोषात् गिरिशेन खण्डीकृता मनोभवस्य ज्या इव शुशुभे ।

आपिञ्जरेति । बद्धरजःकणत्वाद्वद्याप्तरजःकणत्वादापिञ्जरोदारा द्राघीयस्य-

Page 609Permalink

५५० रघुवंशमहाकाव्ये

र्जुनस्य ककुभवृक्षस्य ‘इन्द्रद्रुः ककुभोऽर्जुनः’ इत्यमरः । मञ्जरी दग्ध्वापि रोषादि-
गरिशेन गिरिरस्त्यस्य निवासत्वेन स गिरिशस्तेन । लोमादित्वाच्छप्रत्ययः । गिरौ
शेत इति विग्रहे तु “गिरौ शेतेर्डः” इत्यस्य छन्दसि विधानाल्लोके प्रयोगानुपपत्तिः
स्यात् । तस्मात्पूर्वोक्तमेव विग्रहवाक्यं न्याय्यम् । खण्डकृता मनोभवस्य ज्या
मौर्वीव शुशुभे ।

**भाषार्थ—**पराग से परिपूर्ण कुछ पीली-पीली अर्जुन की मञ्जरी ऐसी लगती थी मानो कामदेव का शरीर भस्म करने के बाद शिवजी के हाथ से तोड़ी हुई कामदेव के धनुष की डोरी हो ॥ ५१ ॥

मनोज्ञगन्धं सहकारमङ्गं पुराणशीधुं नवपाटलं च ।
सम्बन्धता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥ ५२ ॥

**अन्वयः—**मनोज्ञगन्धं सहकारभङ्गं पुराणशीधुं नवपाटलं च सम्बन्धता निदाघावधिना कामिजनेषु सर्वे दोषाः प्रमृष्टाः ।

मनोज्ञेति । मनोज्ञगन्धमिति सर्वत्र सम्बध्यते । सहकारभङ्गं चूतः पल्लवखण्डं पुराणं वासितं शेरतेऽनेनेति शीधुः पक्वेक्षुरसप्रकृतिकः सुराविशेषस्तम् । “शीङो धुक्” इत्युणादिसूत्रेण ‘शीङ् स्वप्ने’ इत्यस्माद्धोर्धुक्प्रत्ययः । ‘पक्वैरिक्षुरसैःस्त्री शीधुः पक्वरसः शिवः’ इति यादवः । नवं पाटलायाः पुष्पं पाटलं च सम्बन्धता सङ्घटयता निदाघावधिना ग्रीष्मकालेन । ‘अवधिस्त्ववधाने स्यात्सीमनि काले बिलेऽपि च’ इति विश्वः । कामिजनेषु विषये सर्वे दोषास्तापादयः प्रमृष्टाः परिहृताः ।

**भाषार्थ—**सुगन्धित आमकी मंजरी पुरानी सुवासित मदिरा और नये पाटल-पुष्पों को संधित करते हुए ग्रीष्म ऋतु ने कामी पुरुषों की सारी कमी पूरी कर दी ॥ ५२ ॥

जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ ।
तापापनोदक्षमपादसेवौ स चोदयस्थौ नृपतिः शशी च ॥ ५३ ॥

**अन्वयः—**तस्मिन् समये विगाढे जनस्य द्वौ सविशेषकान्तौ बभूवतुः, तापापनोदक्षमपादसेवौ उदयस्थौ स च नृपतिः शशी च ।

जनस्येति । तस्मिन्समये ग्रीष्मे विगाढे कठिने सति जनस्य द्वौ सविशेषं सातिशयं यथा तथा कान्तौ बभूवतुः । कौ द्वौ तपापनोदे क्षमा योग्या पादयोरङ्घ्रयो पादानां रश्मीनां च सेवा यतोस्तावुदयस्थावभ्युदयस्थौ स च नृपतिः शशी च ।

**भाषार्थ—**उस कठिन ग्रीष्म ऋतु के समय में उदित होकर प्रजाओं के दो ही बहुत प्यारे हुए । एक तो सेवा से प्रसन्न होकर निर्धनता आदि सन्तापों को दूर

Page 610Permalink

षोडशः सर्गः | ५५१

करने वाले राजा कुश, दूसरे शीतल किरणों से गर्मी का ताप दूर करने वाले चन्द्रमा ॥ ५३ ॥

अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।
विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ ५४ ॥

अन्वयः—अथ ऊर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे ग्रीष्मसुखे सरय्वाः अम्भसि तस्य वनितासखस्य विहर्तुम् इच्छा बभूव ।

अथेति । अथोर्मिषु लोलाः सतृष्णा उन्मदा राजहंसा यस्मिंस्तस्मिन् । 'लोलश्चलसतृष्णयोः' इत्यमरः । रोधोलतापुष्पाणां । 'वह प्रापणे' पचाद्यच् । ग्रीष्मेषु सुखे सुखकरे सरय्वा अम्भसि पयसि तस्य कुशस्य वनितासखस्य वनिताभिः सहेत्यर्थः । विहर्तुमिच्छा बभूव ।

भाषार्थ—इसके बाद एक दिन राजा कुश की इच्छा हुई कि लहरों के लहराने से चञ्चल एवं मतवाले बने हुए हंस वाले, तटवर्ती लताओं के पुष्पों को बहाने वाले, ग्रीष्म काल से सुखप्रद सरयू के जल में अपनी रानियों के साथ विहार करें ॥ ५४ ॥

स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् ।
विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ ५५ ॥

अन्वयः—चक्रधरप्रभावः स तीरभूमौ विहितोपकार्याम् आनायिभिः अपकृष्टनक्रां तां श्रीमहिमानुरूपां विगाहितुं प्रचक्रमे ।

स इति । चक्रधरप्रभावो विष्णुतेजाः स कुशस्तीरभूमौ विहितोपकार्या यस्यास्ताम् । आनायो जालमेषामस्तीत्यानायिनो जालिकाः । “जालमानायः” इति निपातः । ‘आनायः पुंसि जालं स्यात्’ इत्यमरः । तैरपकृष्टनक्रामपनीतग्राहां तां सरयू श्रीमहिम्नोः सम्पतप्रभावयोरनुरूपं योग्यं यथा तथा विगाहितुं प्रचक्रमे । अत्र कामन्दकः—“परितापिषु वासरेषु पश्यंस्तटलेखास्तितमाप्तसैन्यचक्रम् । सुविशोधितनक्रमीनजालं व्यवगाहेत जलं सुहृत्समेतः” । इति ।

भाषार्थ—यह निश्चय करके भगवान् विष्णु के समान प्रभावशाली कुश सरयू के जल में स्नान करने चले । सरयू के तट पर सामियाना-तम्बू आदि तान दिये गये और मल्लाहों ने जाल डालकर ग्राह आदि जल-जन्तुओं को उसमें से निकाल डाला ॥ ५५ ॥

सा तीरसोपानपथावतारादन्योऽन्यकेयूरविघट्टिनीभिः ।
सनूपुरक्षोभपदामिरासीदुद्विग्नहंसा सरिदङ्गनाभिः ॥ ५६ ॥

Page 611Permalink

५५२ | रघुवंशमहाकाव्ये

**अन्वयः—**सा सरित् तीरसोपानपथावताराद् अन्योन्यकेयूरविघट्टनीभिः सनूपुरक्षोभपदाभिः अङ्गनाभिः उद्विग्नहंसा आसीत् ।

सेति । सा सरित्सरयूस्तीरसोपानपथेनावतारादवतरणादन्योन्यं केयूरविघट्टिनीभिः संनद्धाङ्गदसंघर्षिणीभिः सनूपुरक्षोभाणि सनूपुरस्खलनानि पदानि यासां ताभिरङ्गनाभिर्हेतुभिरुद्विग्नहंसा भीतहंसाऽऽसीत् ।

**भाषार्थ—**जब कुशकी रानियां पानी में उतरने लगीं तब उनके भुजबन्ध एक दूसरे से रगड़ खाने लगे, पैर के नूपुर बजने लगे, इन शब्दों को सुनकर सरयू के हंस मचल उठे ॥ ५६ ॥

परम्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी ।
नौसंश्रयः पार्श्वगतां किरातीमुपात्तबालव्यजनां बभाषे ॥ ५७ ॥

**अन्वयः—**नौसंश्रयः परस्पराभ्युक्षणतत्पराणां तासां मज्जनरागदर्शी नृपः पार्श्वगतां उपात्तबालव्यजनां किरातीम् वभाषे ।

परस्परेति । नौसंश्रयः परस्परमभ्युक्षणे सेचने तत्पराणामासक्तानां स्त्रीणां मज्जने रागोऽभिलाषस्तद्दर्शी नृपः पार्श्वगतामुपात्तबालव्यजनां गृहीतचामरां किरातीं चामरग्राहिणीं बभाषे । 'किरातस्तु द्रुमान्तरे । स्त्रियां चामरवाहिन्यां मत्स्यजात्यन्तरे द्वयोः' इति केशवः ।

**भाषार्थ—**रानियां एक दूसरी पर जल के छींटे उड़ाने लगीं, उनके स्नान की शोभा देखकर नावपर बैठे हुए राजा कुश पास में चंवर लेकर खड़ी हुई किरातिन से कहने लगे ॥ ५७ ॥

पश्यावशेषैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः ।
सन्ध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः ॥ ५८ ॥

**अन्वयः—**गलिताङ्गरागैः मदीयैः शतशः अवरोधैः विगाह्यमानः एषः सरयूप्रवाहः साभ्रः सन्ध्योदयः इव अनेकं वर्णं पुष्यति ( इति ) पश्य ।

पश्येति । गलिताङ्गरागमदीयैः शतशोऽवरोधैर्विगाह्यमानो विलोड्यमान एष सरयूप्रवाहः साभ्रः समेघः सन्ध्योदयः सन्ध्याविर्भावि इव अनेकं नानाविधं वर्णं रक्तपीतादिकं पुष्यति पश्य । वाक्यार्थः कर्म ।

**भाषार्थ—**देखो तो मेरे रनिवास की सैकड़ों रानियों के स्नान करने से और उनके शरीर से धुले हुए अङ्गराग के मिल जाने से सरयू की धारा ऐसी रङ्ग-विरंगी लगने लगी है जैसे बादलों से भरी सन्ध्या ॥ ५८ ॥

षोडशः सर्गः ५५३

Page 612Permalink

षोडशः सर्गः ५५३

विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः ।
तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥ ५९ ॥
**अन्वयः—**नौलुलिताभिः अद्भिः अन्तः पुरसुन्दरीणां यत् अञ्जनं विलुप्तं, तत् विलोचनेषु मदरागशोभां बध्नतीभिमां आसां प्रतिमुक्तम् ।

विलुप्तमिति । नौलुलिताभिनौक्षुभिताभिरद्भिरन्तःपुरसुन्दरीणां यदञ्जनं कज्जलं विलुप्तं हृतं तदञ्जनं विलोचनेषु नयनेषु मदेन या रागशोभा तां बध्नतीभिर्घटयन्तीभिरद्गिरासां प्रतिमुक्तं प्रत्यर्पितम् । प्रतिनिधिदानमपि तत्कार्यकारित्वात्प्रत्यर्पणमेवेति भावः ।

**भाषार्थ—**नावों के चलने से जल में जो लहरें उठती हैं उन्होंने इन सुन्दरियों की आँखों का अञ्जन धो दिया है और उसके बदले में मदपान के समय की लाली इनकी आँखों में भर दी है ॥ ५९ ॥

एता गुरुश्रोणिपयोधरत्वादात्मानमुद्बोढुमशक्नुवन्त्यः ।
गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥ ६० ॥
**अन्वयः—**गुरुश्रोणिपयोधरत्वात् आत्मानं उद्बोढुं अशक्नुवत्यः एता बाला गाढाङ्गदैः बाहुभिः क्लेशोत्तरं रागवशात् प्लवन्ते ।

एता इति । गुरु दुर्बहं श्रोणिपयोधरं यस्यात्मन इति विग्रहः । गुरुश्रोणिपयोधरत्वादात्मानं शरीरमुद्बोढुमशक्नुवत्य एता बाला गाढाङ्गदैः श्लिष्टाङ्गदैर्बाहुभिः क्लेशोत्तरं दुःखप्रायं यथा तथा रागवशात्क्रीडाभिनिवेशात्पारतन्त्र्यात्प्लवन्ते तरन्ति।

**भाषार्थ—**भारी-भारी नितम्बों और स्तनों के कारण ये रानियां अच्छी तरह तैर नहीं पातीं, किसी खेल में सम्मिलित होने के कारण मोटे-मोटे भुजबन्धों वाली बांहों से बड़ी कठिनाई से तैरती हैं ॥ ६० ॥

अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् ।
पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ॥ ६१ ॥
**अन्वयः—**वारिविहारिणीनां प्रभ्रंशिनः निम्नगायाः स्रोतसि पारिप्लवाः अमी शिरीषप्रसवावतंसाः शैवाललोलान् मीनान् छलयन्ति ।

अमी इति । वारिविहारिणीनामासां प्रभ्रंशिनो भ्रष्टा निम्नगायाः स्रोतसि पारिप्लवाश्चञ्चलाः । 'चञ्चलं चैव पारिप्लवपरिप्लवे' इत्यमरः । अमी शिरीषप्रसवां एवावतंसाः कर्णभूषाः शैवाललोलाञ्जलनीलिप्रियान् । 'जलनीली तु शैवालम्' इत्यमरः । मीनांश्छलयन्ति प्रादुर्भावयन्ति । शैवालप्रियत्वाच्छिरीषेषु शैवालाग्रात्प्रादुर्भवन्तीत्यर्थः ।

Page 613Permalink
५५४रघुवंशमहाकाव्ये

**भावार्थ—**इन क्रीडा करने वाली रानियों के कानों से सिरस के कर्णफूल नदी में गिरकर तैर रहे हैं, इनको देखकर मछलियों को सेवार का भ्रम हो रहा है और वे इन पर मुँह मारने को झपट रही हैं ॥ ६१ ॥

आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः ॥ ६२ ॥

**अन्वयः—**जलास्फालनतत्पराणाम् आसां मुक्ताफलस्पर्धिषु पयोधरोत्सर्पिषु शीकरेषु शीर्यमाणः छिदुरः हारः न संलक्ष्यते ।

आसामिति । जलस्यास्फालने तत्पराणामासक्तानामासां स्त्रीणां मुक्ताफलस्पर्धिषु मौक्तिकानुकारिषु पयोधरेषु स्तनेषूत्सर्पन्त्युत्पतन्ति ये येषु शीकरेषु शीकराणां मध्ये शीर्यमाणो गलन्हारोऽत एव छिदुरः स्वयं छिन्नोऽपि संलक्ष्यते । "विदिभिच्छिदेः कुरच्" इति कुरच्प्रत्ययः । शीकरसंसर्गाच्छिन्न इति न ज्ञायत इति भावः ।

**भावार्थ—**देख ! जल-क्रीडा में आसक्त इन रानियों को यह भी पता नहीं है कि हमारे हार टूट गये हैं और मोती बिखर गये हैं। ये उन मोतियों के समान बूंदों को ही मोती मानकर समझ बैठी हैं कि हार टूटा नहीं है ॥ ६२ ॥

आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवां द्वन्द्व चराः स्तनानाम् ।
जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ॥ ६३ ॥

**अन्वयः—**विलासिनीनां रूपावयवोपमानानि अदूरवर्तीनि जातानि, नतनाभिकान्तेः आवर्तशोभा भ्रुवां भङ्गः स्तनानां द्वन्द्वचराः ।

आवर्तैति । विलासिनीनां विलसनशीलानां स्त्रीणाम् । "वौ कषलसकत्थस्रम्भः" इति घिनुण्प्रत्ययः । रूपावयवानामुपमेयानां यान्युपमानानि लोकप्रसिद्धानि तान्यदूरवर्तीन्यन्तिकगतानि जातानि । कस्य किमुपमानमित्यत्राह नतनाभिकान्तेर्निम्ननाभिशोभाया आवर्तशोभा । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । भ्रुवां भङ्गस्तरङ्गः स्तनानां द्वन्द्वचराश्चक्रवाकाः उपमानमिति सर्वत्र सम्बध्यते ।

**भावार्थ—**देख ! सुन्दरी स्त्रियों के शरीर अंगों के समान जो वस्तुयें संसार में प्रसिद्ध हैं वे सब इन सुन्दरियों के आसपास जुट आई हैं। ये पानी की भँवर इनकी गहरी नाभि के समान है, लहर इनकी भौंहों के समान है और चकवा-चकवी इनके स्तनों के समान हैं ॥ ६३ ॥

तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैर्मिनन्द्यमानम् ।
श्रोत्रेषु संमूर्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥ ६४ ॥

Page 614Permalink

षोडशः सर्गः ५५५

अन्वयः— उत्कलापैः प्रस्निग्धकेकैः तीरस्थलीबर्हिभिः अभिनन्द्यमानं रक्तं गीतानुगम् आसां वारिमृदङ्गवाद्यं श्रोत्रेषु सन्मूर्च्छन्ति ।

तीरेति । उत्कलापैरुरुच्चबर्हैः प्रस्निग्धा मधुराः केका येषां तैस्तीरस्थलीषु स्थितैर्बर्हिभिर्मयूरैरभिनन्द्यमानं रक्तं श्राव्यं गीतानुगं गीतानुसार्यासां स्त्रीणां सम्बन्धि वार्येव मृदङ्गस्तस्य वाद्यं वाद्यध्वनिः श्रोत्रेषु सम्मूर्छति व्याप्नोति ।

भाषार्थ— ये गा-गा कर जो मृदंग बजाने के समान थपकी दे-देकर जल ठोक रही है उसे सुनकर तट पर बैठे हुए मोर अपनी पूँछें उठा कर और बोलकर इनका अभिनन्दन कर रहे हैं ॥ ६४ ॥


संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः ।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ ६५ ॥

अन्वयः— संदष्टवस्त्रेषु अबलानितम्बेषु इन्दुप्रकाशान्तरितोडुतुल्याः अमी जलापूरितसूत्रमार्गा रशनाकलापाः मौनं भजन्ते ।

संदष्टेति । संदष्टवस्त्रेषु जलसेकात्संश्लिष्टांशुकेष्वबलानां नितम्बेष्वधिकरणेष्विन्दुप्रकाशेन ज्योत्स्नायान्तरितान्यावृतानि यान्युडूनि नक्षत्राणि तत्तुल्याः । मुक्तामयत्वादिति भावः । जलापूरितसूत्रमार्गाः । निश्चला इत्यर्थः । रशना एव कलापा भूषाः । ‘कलापो भूषणे बर्हे’ इत्यमरः । मौनं निःशब्दतामित्यर्थः ।

भाषार्थ— इन रानियों ने अपने नितम्बों पर सफेद वस्त्र लपेट लिया है जिसके नीचे करधनी के घुंघरू ऐसे दिखाई देते हैं जैसे चाँदनी से ढके हुए तारे हों । करधनी के डोरे में जल भर जाने से इन स्त्रियों के इधर-उधर दौड़ने पर भी ये बज नहीं रहे हैं ॥ ६५ ॥


एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः ।
वक्रेतराग्रैरलकैस्तरुण्योऽचूर्णारुणान्वारिलवान्वमन्ति ॥ ६६ ॥

अन्वयः— दर्पात् करोत्पीडितवारिधाराः सखीभिः वदनेषु सिक्ताः एताः तरुण्यः वक्रेतराग्रैः अलकैः चूर्णारुणान् वारिलवान् वमन्ति ।

एता इति । दर्पात्सखीजनं प्रति करैरुत्पीडिता उत्सारिता वारिधारा याभिस्ताः स्वयमपि पुनस्तथैव सखीभिर्वदनेषु सिक्ता एतास्तरुण्यो वक्रेतराग्रैर्जलसेकादृजुग्रैरलकैः करणैश्चूर्णैः कुङ्कुमादिभिररुणान्वारिलवानुदकबिन्दून्वमन्ति वर्षन्ति ।

भाषार्थ— जब इनकी सखियाँ इनके मुँह पर पानी डालती हैं और ये अहंकार से अपनी सखियों पर पानी उछालती हैं तब इनके सीधे लटके बालों से कुंकुम मिली हुई लाल रंग की बूँदें चूने लगती हैं ॥ ६६ ॥

Page 615Permalink

५५६ रघुवंशमहाकाव्ये

उद्बन्धकेशश्च्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्टः ।
मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥ ६७ ॥

**अन्वयः—**उद्बन्धकेशश्च्युतपत्रलेखः विश्लेषिमुक्ताफलपत्रवेष्टः अम्भोविहारा-
कुलितः प्रमदामुखानां वेषः मनोज्ञ एव ।

उद्बन्धेति । उद्बन्धा उद्भ्रष्टाः केशा यस्मिन्सः च्युतपत्रलेखः क्षतपत्ररचनः
विश्लेषिणो विस्रंसिनो मुक्ताफलपत्रवेष्टा मुक्तामयताटङ्का यस्मिन्सः । एवमम्भो-
विहाराकुलितोऽपि प्रमदामुखानां वेषो नेपथ्यं मनोज्ञ एव । 'रम्याणां विकृतिरपि
श्रियं तनोति' इति भावः ।

**भाषार्थ—**यद्यपि स्नान के कारण बाल खुल जाने से मुँह पर और स्तनों
पर बनी हुई चित्रकारी घुल जाने से तथा मोतियों के कर्णफूल कान से निकल
जाने से इन स्त्रियों का वेश बेढंगा हो गया फिर भी देख, ये कितनी मनोहर
लग रही हैं ॥ ६७ ॥

स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु ।
स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥ ६८ ॥

**अन्वयः—**स नौविमानात् अवतीर्य विलोलहारः ( सन् ) ताभिः सह
करेणुभिः सह स्कन्धावलग्नोद्धृतपद्मिनीकः वन्यः द्विपेन्द्र इव अप्सु रेमे ।

स इति । कुशो नौविमानमिव नौविमानम् । उपमितसमासः । तस्मादवतीर्य
विलोलोहारः संस्ताभिः स्त्रीभिः सह करेणुभिः सह स्कन्धावलग्नोद्धृतपद्मिन्युत्पाटित-
नलिनी यस्य स तथोक्तः सन् । "नद्यृतश्च" इति कप्प्रत्ययः । वन्यौ द्विपेन्द्र इव
अप्सु रेमे ।

**भाषार्थ—**यह कह कर हिलते हुए हार वाले कुश भी विमान के समान
नाव से पानी में उतर पड़े और जैसे कमलिनियों को उखाड़कर कन्धे पर
लटकाये हाथी हथिनियों के साथ जलक्रीड़ा करता है वैसे ही वे भी उनके साथ
जलविहार करने लगे ॥ ६८ ॥

ततो नृपेणानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयः विरेजुः ।
प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥ ६९ ॥

**अन्वयः—**ततः भ्राजिष्णुना नृपेण अनुगताः ताः स्त्रियः सातिशयं विरेजुः,
प्राक् एव मुक्ता नयनाभिरामः उन्मयूखम् इन्द्रनीलं प्राप्य किमुत ।

तत इति । ततो भ्राजिष्णुना प्रकाशनशीलेन । "भुवश्च" इति चकारादिष्णुच् ।
नृपेणानुगताः सङ्गतास्ताः स्त्रियः सातिशयं यथा तथा विरेजुः । प्रागेव इन्द्रनील-