रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
by महाकवि कालिदास
Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)
Page 605 of 735
Read in context५४६ रघुवंशमहाकाव्ये
प्रकार कुश भी अयोध्या के राजभवन में प्रविष्ट हो गये और उन्होंने अपने मन्त्रियों आदि के रहने के लिए यथायोग्य दूसरे बहुत से भवन दे दिये ॥ ४० ॥
सा मन्दुरासंश्रयिभिस्तुरङ्गैः शालाविधिस्तम्भगतैश्च नागैः ।
पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥ ४१ ॥
अन्वयः—विपणिस्थपण्या सा पूः मन्दुरासंश्रयिभिः तुरङ्गैः शालाविधिस्तम्भगतैः नागैः च सर्वाङ्गनद्धाभरणा नारी इव आबभासे ।
· सेति । विपणिस्थानि पण्यानि क्रयविक्रयार्हवस्तूनि यस्या सा । 'विपणिः पण्यवीथिका' इत्यमरः । सा पूरयोध्या मन्दुरासंश्रयिभिरश्वशालासंश्रयणशीलैः । 'वाजिशाला तु मन्दुरा' इत्यमरः । “जिदृक्षो०” इत्यादिनेनिप्रत्ययः । तुरङ्गैरश्वैः शालासु गृहेषु ये विधिना स्थापिताः स्तम्भास्तान् गतः प्राप्तैर्नागैश्च सर्वाङ्गेषु नद्धान्याभरणानि यस्या सा नारीव आबभासे ।
भाषार्थ—अयोध्या के बाजारों में सुन्दर-सुन्दर वस्तुयें बिकने के लिए सजी हुई थीं, घुड़शालाओं में घोड़े बँधे हुए थे, हथिसारों के खम्भों से हाथी बँधे हुए थे । इस प्रकार वह नगरी ऐसी सुन्दर लगने लगी जैसे सारे शरीर में आभूषण पहनी हुई कोई स्त्री हो ॥ ४१ ॥
वसन्स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् ।
न मैथिलेयः स्पृहयाम्बभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥ ४२ ॥
अन्वयः—स मैथिलेयः पुराणशोभाम् अधिरोपितायां तस्यां वसतौ वसन् दिवः भर्त्रे अलकेश्वराय अपि न स्पृहयाम्बभूव ।
वसन्निति । स मैथिलेयः कुशः पुराणशोभां पूर्वशोभामधिरोपितायां तस्यां रघूणां वसतावयोध्यायां वसन् दिवो भर्त्रे देवेन्द्राय तथालकेश्वराय कुबेरायापि न स्पृहयाम्बभूव तावपि न गणयामासेत्यर्थः। 'स्पृहेरीप्सितः' इति सम्प्रदानत्वाच्चतुर्थी । एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ।
भाषार्थ—अयोध्या पुनः पहले जैसी सुन्दर लगने लगी, उसमें निवास करके मिथिलेशकुमारी सीताजी के पुत्र कुश को ऐसा सुख मिला जिससे न तो उन्हें सुन्दर-सुन्दर अप्सराओं से भरे स्वर्ग के स्वामी बनने की इच्छा रह गई और न असंख्य रत्नों वाली अलकापुरी को लेने की ॥ ४२ ॥
अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् ।
निःश्वासहार्यांशुकमाजगाम घर्मः प्रियावेशमिवोपदेष्टुम् ॥ ४३ ॥