Skip to content
SarvaKosh
Back to the archive

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages

चतुर्दशः सर्गः ४७३

Page 532Permalink

चतुर्दशः सर्गः ४७३

सुन कर सीतापति राम का हृदय वैसे ही फट गया जैसे घन की चोट से तपाया हुआ लोहा फट जाता है ॥ ३३ ॥

किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत संत्यजामि ।
इत्येकपक्षाश्रयविकलत्वादासीत्स दोलाचलचित्तवृत्तिः ॥ ३४ ॥

अन्वयः—किम् आत्मनिर्वादकथां उपेक्षे उत अदोषां जायाम् सन्त्यजामि इति एकपक्षाश्रयविकलत्वात् स दोलाचलचित्तवृत्तिः आसीत् ।

किमिति । आत्मनो निर्वादोऽपवाद एव कथा तां किमुपेक्षे । उत अदोषां साध्वीं जायां सन्त्यजामि । उभयत्रापि प्रश्ने लट् । इत्येकपक्षाश्रयेऽन्यतरपक्षपरिग्रहे विकलत्वादपरिच्छेत्तृत्वात्स रामो दोलेव चला चित्तवृत्तिर्यस्य स आसीत् ।

भाषार्थ —वे अपने मन में सोचने लगे कि अब दो ही उपाय हैं या तो मैं इस बात को अनसुनी कर दूं और टाल दूं या निर्दोष सीता को सदा के लिए छोड़ दूं । उस समय उनका चित्त डांवाडोल हो गया क्योंकि वह निश्चय ही नहीं कर पा रहे थे कि क्या करूँ ॥ ३४ ॥

निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुमैच्छत् ।
अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः ॥ ३५ ॥

अन्वयः—वाच्यम् अनन्यनिवृत्ति निश्चित्य पत्न्याः त्यागेन परिमार्ष्टुम् ऐच्छत् हि यशोधनानां पुंसां स्वदेहादपि यशो गरीयः इन्द्रियार्थात् किमुत ?

निश्चित्येति । किंच वाच्यमपवादं नास्त्यन्येन त्यागातिरिक्तोपायेन निवृत्तिर्यस्य तदनन्यनिवृत्ति निश्चित्य पत्न्यास्त्यागेन परिमार्ष्टुं परिहर्तुमैच्छत् । तथा हि यशोधनानां पुंसां स्वदेहादपि यशो गरीयो गुरुतरम् । इन्द्रियार्थात्स्रक्चन्दनवनितादेरिन्द्रियविषयाद्गरीय इति किमुत वक्तव्यम् । "पञ्चमी विभक्ते" इत्युभयत्रापि पञ्चमी । सीता चेन्द्रियार्थ एव ।

भाषार्थ—किन्तु उस कलंक को मिटाने का कोई दूसरा मार्ग नहीं था इसलिए उन्होंने निश्चय कर लिया कि सीता को त्याग कर ही यह कलंक मिटाना चाहिए क्योंकि यशस्वियों को अपना यश अपने शरीर से भी अधिक प्यारा है फिर स्त्री आदि भोग की वस्तुओं की तो बात ही क्या है ॥ ३५ ॥

स सन्निपात्यावरजान्हतोजास्तद्विक्रियादर्शनलुप्तहर्षान् ।
कौलीनमात्माश्रयमाचचक्षे तेभ्यः पुनश्चेदमुवाच वाक्यम् ॥ ३६ ॥

अन्वयः—हतौजाः सः तस्य विक्रियादर्शनलुप्तहर्षान् अवरजान् सन्निपात्य नात्माश्रयं कौलीनं तेभ्यः आचचक्षे पुनः च इदं वाक्यं उवाच ।

Page 533Permalink

४७४ | रघुवंशमहाकाव्ये

स इति। हतौजा निस्तेजस्कः सः रामस्तस्य रामस्य विक्रियादर्शनेन लुप्तहर्षानवरजान्संनिपात्य संगमय्यात्माश्रयं स्वविषयकं कौलीनं निन्दां तेभ्य आचचक्षे । पुनरिदं वाक्यमुवाच च ।

भाषार्थ—उदास मुख से राम ने छोटे भाइयों को बुलाया तो वे भी उनकी दशा देखकर सन्न रह गये । वे अपने विषय में होने वाली निन्दा को उनसे कहकर पुनः यह वचन बोले ॥ ३६ ॥

राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयम् ।
मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य ॥ ३७ ॥

अन्वयः—रविप्रसूते राजर्षिवंशस्य सदाचारशुचेः मत्तः दर्पस्य पयोदवातात् इव कीदृशः अयं कलङ्कः उपस्थितः ( इति ) पश्यत् ।

राजर्षीति । रवेः प्रसूतिर्जन्म यस्य तस्य राजर्षिवंशस्य सदाचारशुचेः सद्-वृत्ताच्छुद्धान्मत्तो मत्सकाशात् दर्पणस्य पयोदवातादिव । अम्भःकणादित्यर्थः कीदृशोऽयं कलंक उपस्थितः प्राप्तः पश्यत ।

भाषार्थ—यद्यपि मैं सदाचारी होने के कारण निष्कलंक हूँ फिर भी जैसे भाप पड़ने से दर्पण धुंधला हो जाता है । वैसे ही देखो सूर्यवंशी राजाओं के कुल में मेरे कारण कैसा अकल्पनीय कलंक लग रहा है ॥ ३७ ॥

पौरेषु सोऽहं बहुलीभवन्तमपां तरङ्गेष्विव तैलविन्दुम् ।
सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः ॥ ३८ ॥

अन्वयः—सः अहं अपां तरंगेषु तैलविन्दुम् इव पोरेषु बहुलीभवन्तं तत्पूर्ववर्णं द्विपेन्द्रः आलानिकं स्थाणुम् इव सोढुं न ईशे ।

पौरेष्विति । सोऽहम् । अपां तरंगेषु तैलविन्दुमिव पौरेषु बहुलीभवन्तं स एवं पूर्वो यस्य स तं तत्पूर्वमवर्णमपवादम् । 'अववर्णाक्षेपनिर्वादपरीवादापवादवत्' इत्यमरः । द्विपेन्द्रः आलानमेवाला निकं । विनयादित्वात्स्वार्थे ठक् । अथवाऽऽलानं बन्धनं प्रयोजनमस्येत्यालानिकम् । “प्रयोजनम्” इति ठक् । स्थाणुं स्तम्भमिव भूतवृक्ष इतिवत्सामान्यविशेषभावादपौनरुक्त्यं द्रष्टव्यम् । सोढुं नेशे न शक्नोमि ।

भाषार्थ—जिस प्रकार पानी के तरङ्गों के ऊपर तेल की बूंद फैल जाती है उसी प्रकार इस समय घर-घर मेरी निन्दा फैल रही है । इस सर्वप्रथम अपयश को उसी प्रकार सहने में असमर्थ हूँ जिस प्रकार गजराज पहले पहल बांधने वाले खूटों को सहने में असमर्थ होता है ॥ ३८ ॥

Page 534Permalink

चतुर्दशः सर्गः  ४७५

तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः ।
त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव ॥ ३९ ॥

अन्वयः—तस्य अपनोदाय फलप्रवृत्तौ उपस्थितायां अपि निर्व्यपेक्षः (सन्) वैदेहसुतां पुरस्तात् पितुः आज्ञया समुद्रनेमिं इव त्यक्ष्यामि ।

तस्येति । तस्यावर्णस्यापनोदाय दूरीकरणाय फलप्रवृत्तावपत्योत्पत्तावुपस्थितायां सत्यामपि निर्व्यपेक्षो निःस्पृहः सन् वैदेहसुतां पुरस्तात्पूर्वं पितुराज्ञया समुद्रनेमिं समुद्रो नेमिरेव नेमिर्यस्याः सा भूमिः । तामिव त्यक्ष्यामि ।

भाषार्थ—इस समय यद्यपि सीता का पुत्र रूप फल होने वाला है तो भी इस कलंक को मिटाने के लिए सब माया मोह तोड़कर उसे वैसे ही छोड़ दूंगा जैसे पिता की आज्ञा से समुद्र पर्यन्त पृथ्वी को छोड़ दिया था ॥ ३९ ॥


अवैमि चैनामनघेति किन्तु लोकापवादो बलवान्मतो मे ।
छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः ॥ ४० ॥

अन्वयः—एनाम् अनघा इति अवैमि किन्तु लोकापवादः बलवान् मे मतः हि प्रजाभिः भूमेः छाया शुद्धिमतः शशिनः मलत्वेन आरोपिता ।

अवैमीति । एनां सीतामनघा साध्वीति चावैमि किन्तु मे मम लोकापवादो बलवान्मतः । कुतः हि यस्मात्प्रजाभिर्भूमेश्छाया प्रतिबिम्बं शुद्धिमतो निर्मलस्य शशिनो मलत्वेन कलङ्कत्वेनारोपिता । अतो लोकापवाद एव बलवानित्यर्थः ।

भाषार्थ—मैं जानता हूँ कि सीता निर्दोष हैं पर लोक निन्दा को मैं सत्य से भी बड़ा मानता हूँ, देखो निर्मल चन्द्रबिम्ब के ऊपर पड़ी हुई पृथ्वी की छाया को लोग चन्द्रमा का कलंक कहते हैं और असत्य होने पर भी सारा संसार उसे सत्य मानता है ॥ ४० ॥


रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय ।
अमर्षणः शोणितकांक्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥ ४१ ॥

अन्वयः—मे रक्षोवधान्तः प्रयासः व्यर्थः न च (किन्तु) स वैरप्रतिमोचनाय । (हि) अमर्षणः द्विजिह्वः पदा स्पृशन्तं शोणितकांक्षया दशति किम् ।

रक्ष इति । किंच मे रक्षोवधान्तः प्रयासो व्यर्थो न किन्तु स वैरप्रतिमोचनाय वैरशोधाय । तथा हि अमर्षणोऽसहनो द्विजिह्वः सर्पः सदा पादेन स्पृशन्तं पुरुषं शोणितकांक्षया दशति किम् ? किंतु वैरनिर्यातनायेत्यर्थः ।

भाषार्थ—यदि यह कहो कि ऐसा ही था तो राक्षसों को क्यों मारा ? इसका उत्तर यह है कि सीता को छुड़ाने के लिए मैंने जो राक्षसों को मारा

Page 535Permalink
४७६रघुवंशमहाकाव्ये

वह मेरा प्रयत्न सीता को निकाल देने से व्यर्थ नहीं हो जायेगा, क्योंकि वह तो विरोध का बदला लेने का था, जब कोई सांप पैर के नीचे दब जाता है तब वह रक्त के लोभ से थोड़े ही डंसता है, वह तो बदला लेने के लिए ही डंसता है ॥ ४१ ॥

तदेष सर्गः करुणाद्र्रचित्तैर्न मे भवद्भिः प्रतिषेधनीयः ।
यद्यर्थिता निहृतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः ॥ ४२ ॥

**अन्वयः—**तत् एष मे सर्गः करुणाद्र्रचित्तैः भवद्भिः न प्रतिषेधनीयः निहृत-वाच्यशल्यान् प्राणान् चिरं धारयतुं वः अर्थिता यदि ( अस्ति ) ।

तदिति । तत्तस्मादेष मे सर्गो निश्चयः 'सर्गं स्वाभाविकमोक्षनिश्चयाध्याय-सृष्टिषु' इत्यमरः । करुणाद्र्रचित्तैर्भवद्भिर्न प्रतिषेधनीयः । निहृतं वाच्यमेव शल्यं येषां तान्प्राणान्मया चिरं धारयितुं धारणं कारयितुं वो युष्माकमर्थितार्थित्व-मिच्छा । यदि अस्तीति शेषः ।

**भाषार्थ—**इसलिए यदि तुम लोग इस कलंक के बाण को मेरे हृदय से निकालकर मुझे जीवित रखना चाहते हो तो करुणार्द्र हृदय होकर मेरे इस निश्चय का निषेध न करो, क्योंकि ऐसी निन्दा होने पर मैं जीने की अपेक्षा मर जाना अच्छा समझता हूँ ॥ ४२ ॥

इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् ।
न कश्चन भ्रातृषु तेषु शेक्तो निषेद्धुमासीदनुमोदितुं वा ॥ ४३ ॥

**अन्वयः—**इति उक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशं ईशं तेषु कश्चन अपि निषेद्धुं अनुमोदितुं वा शक्तः नासीत् ।

इतीति । इत्युक्तवन्तं जनकात्मजायां विषये नितान्तरूक्षाभिनिवेशमतिक्रूरा-ग्रहमीशं स्वामिनं तेषु भ्रातृषु मध्ये कश्चनापि निषेद्धुं निवारयितुमनुमोदितुं वा शक्तो नासीत् । पक्षद्वयस्यापि प्रबलत्वादित्यर्थः ।

**भाषार्थ—**इस प्रकार कहते हुए सीता के सम्बन्ध में अत्यन्त कठोर निश्चय किये हुये राम को भाइयों में से न तो कोई उनका समर्थन ही कर सका न विरोध ही ॥ ४३ ॥

स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः ।
सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश ॥ ४४ ॥

**अन्वयः—**लोकत्रयगीतकीर्तिः यथार्थभाषी लक्ष्मणपूर्वजन्मा सः निदेशे स्थितं लक्ष्मणं विलोक्य हे सौम्य ! इति आभाष्य च पृथक् आदिदेश ।

Page 536Permalink

चतुर्दशः सर्गः ४७७

स इति । लोकत्रयगीतकीर्तिस्त्रैलोक्ये प्रथितयशा यथार्थभाषी लक्ष्मणपूर्वजन्मा लक्ष्मणाग्रजः स रामो निदेशे स्थितमाज्ञाकारिणं लक्ष्मणं विलोक्य ‘हे सौम्य ! सुभग ! इत्याभाष्य च पृथग्भरतशत्रुघ्नाभ्यां विनाकृत्यादिदेशाज्ञापयामास ।

भाषार्थ— तीनों लोकों में प्रसिद्ध यशस्वी यथार्थवक्ता और लक्ष्मण के बड़े भाई राम ने जब देखा कि केवल लक्ष्मण उनकी आज्ञा मानने को तत्पर हैं तब उन्होंने लक्ष्मण से कहा—हे सौम्य ! कहकर उन्हें एकान्त में ले जाकर कहा ॥ ४४ ॥

प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव ।
स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥ ४५ ॥

अन्वयः— दोहदशंसिनी ते प्रजावती तपोवनेषु स्पृहयालुः एव । सः त्वं रथी ( सन् ) तद् व्यपदेशनेयाम् एनां वाल्मीकिपदं प्रापय्य त्यज ।

प्रजावतीति । दोहदो गर्भिणीमनोरथः तच्छंसिनी ते प्रजावती भ्रातृजाया । ‘प्रजावती भ्रातृजाया’ इत्यमरः । तपोवनेषु स्पृहयालुरेव सस्पृहैव । ‘स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्’ इत्यनेनालुच्प्रत्ययः । स त्वं रथी सन् तद्व्यपदेशेन दोहदमिशेण नेयां नेतव्यामेनां सीतां वाल्मीकेः पदं स्थानं प्रापय्य गमयित्वा । “विभाषापः” इत्ययादेशः । त्यज ।

भाषार्थ— गर्भिणी तुम्हारी भाभी सीता तपोवन देखना चाहती है इसलिए तुम इसे इसी बहाने रथ पर ले जाकर वाल्मीकि जी के आश्रम तक पहुँचा कर छोड़ आओ ॥ ४५ ॥

स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वत् ।
प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया ॥ ४६ ॥

अन्वयः— पितुः नियोगात् भार्गवेण मातरि द्विषद्वत् प्रहृतं शुश्रुवान् । सः तत् अग्रजशासनं प्रत्यग्रहीत् । हि गुरूणाम् आज्ञा अविचारणीया ( अस्ति ) ।

स इति । पितुर्जमदग्नेर्नियोगाच्छासनाद्भागर्वेण जामदग्न्येन कर्त्रा । “न लोकाव्ययनिष्ठाखलर्थतृनाम्” इत्यनेन षष्ठीप्रतिषेधः । मातरि द्विपतीव द्विषद्वत् । ‘तत्र तस्येव” इति वतिप्रत्ययः । प्रहृतं प्रहारं शुश्रुवाञ्छ्रुतवान् । “भाषायां सदवसश्रुवः” इति क्वसुप्रत्ययः । स लक्ष्मणस्तदग्रजशासनं प्रत्यग्रहीत् । हि यस्मात् गुरूणामाज्ञाऽविचारणीया ।

भाषार्थ— लक्ष्मण ने सुन रखा था कि पिता की आज्ञा पाकर परशुराम ने अपनी माता को निर्दयता पूर्वक शत्रु के समान मार डाला था इसलिए उन्होंने

Page 537Permalink

४७८ रघुवंशमहाकाव्ये

पिता के समान बड़े भाई की आज्ञा शिर चढ़ा ली क्योंकि बड़ों की आज्ञा में विचार करना ठीक नहीं है ॥ ४६ ॥

अथानुकूलश्रवणप्रतीतामत्रस्नुभिर्युक्तधुरं तुरङ्गैः ।
रथं सुमन्त्रप्रतिपन्नरश्मिमारोप्य वैदेहसुतां प्रतस्थे ॥ ४७ ॥

अन्वयः—अथ असौ अनुकूलश्रवणप्रतीतां वैदेहसुतां अत्रस्नुभिः तुरङ्गैः युक्तधुरं सुमन्त्रप्रतिपन्नरश्मि रथं आरोप्य प्रतस्थे ।

अथेति । अथासौ लक्ष्मणः अनुकूलश्रवणेन प्रतीतामिष्टाकर्णनेन तुष्टां वैदेहसुतामत्रस्नुभिरभीरुभिर्गर्भिणीवहनयोग्यैः । “त्रसिगृधिघृषिक्षिपेः क्नुः” इति क्नुप्रत्ययः । तुरङ्गैर्युक्तधुरं सुमन्त्रेण प्रतिपन्नरश्मिं गृहीतप्रग्रहं रथमारोप्य प्रतस्थे।

भाषार्थ—सीताजी यह सुनकर बड़ी प्रसन्न हुई कि लक्ष्मण मुझे तपोवन दिखाने ले जा रहे हैं, लक्ष्मणजी उन्हें ऐसे रथपर चढ़ाकर ले चले जिसे स्वयं सुमन्त्र हाँक रहे थे और जिसके घोड़े ऐसे सधे हुए थे कि रथ के चलते समय सीता की थोड़ी भी हिचक नहीं लगने पाती थी ॥ ४७ ॥

सा नीयमाना रुचिरान्प्रदेशान्प्रियङ्करो मे प्रिय इत्यनन्दत् ।
नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् ॥ ४८ ॥

अन्वयः—सा रुचिरान् प्रदेशान् नीयमाना मे प्रियः प्रियङ्कर इति अनन्दत् तम् आत्मनि कल्पद्रुमतां विहाय असिपत्रवृक्षं जातं न अबुद्ध ।

सेति । सा सीता रुचिरान्मनोज्ञान्प्रदेशान्नीयमाना प्राप्यमाणा सती मे मम प्रियः । प्रियं करोतीति प्रियङ्करः । प्रियकारीत्यनन्दत् । “क्षेमप्रियभद्रेण” इति चकारात्खच्प्रत्ययः । तं प्रियमात्मनि विषये कल्पद्रुमतां सुरवृक्षतां विहायासिपत्रवृक्षं जातं नाबुद्ध नाज्ञासीत् । बुध्यतेर्लुङ् । असिपत्रः खड्गाकारदलः कऽप्यपूर्वो वृक्षविशेषः । 'असिपत्रो भवेत्कोषकारे च नरकान्तरे' इति विश्वः । आसन्नघातुक इति भावः ।

भाषार्थ—मनोहर प्रदेशों में जाती हुई सीताजी यह सोचकर बड़ी प्रसन्न हुई कि मेरे प्राणप्रिय सदा मेरे मन की ही बात करते हैं । उन्हें क्या पता था कि इस समय वे मनोरथ पूरा करनेवाले कल्पवृक्ष के बदले उस असिपत्र के वृक्ष के समान दुखदायी हो गये हैं, जिसके पत्ते तलवार के समान पैने होते हैं ॥४८॥

जुगूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा ।
आख्यातमस्यै गुरु भावि दुःखमत्यन्तलुप्तप्रियदर्शनेन ॥ ४९ ॥

अन्वयः—पथि लक्ष्मणः यत् तस्याः जुगूह तत् गुरु भावि दुःखम् अत्यन्तलुप्तप्रियदर्शनेन स्फुरता सव्येतरेण अक्ष्णा अस्यै आख्यातम् ।

Page 538Permalink

चतुर्दशः सर्गः ४७९

जुगूहेति। पथि लक्ष्मणो यद्दुःखं तस्याः सीताया जुगूह प्रतिसंहृतवांस्तद्गुरु भावि भविष्यद्दुःखमत्यन्तलुप्तं प्रियदर्शनं यस्य तेन स्फुरता सव्येतरेण दक्षिणेनाक्ष्णास्यै सीताया आख्यातम्। स्त्रीणां दक्षिणाक्षिस्फुरणं दुर्निमित्तमाहुः।

भाषार्थ--लक्ष्मण ने सीताजी से मार्ग में कुछ भी नहीं बतलाया या कि तुम पर क्या विपत्ति आने वाली है ? पर सीताजी के दाहिने नेत्र ने फड़ककर आगे आनेवाले दुःख की सूचना दे ही तो दी ॥ ४९ ॥

सा दुर्निमित्तोपगताद्विषादात्सद्यः परिम्लानमुखारविन्दा।
राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैरबाह्यैः ॥ ५० ॥

अन्वयः--सा दुर्निमित्तोपगतात् विषादात् सद्यः परिम्लानमुखारविन्दा (सती) सावरजस्य शिवं भूयात् इति अबाह्यैः करणैः आशशंसे।

सेति। सा सीता दुर्निमित्तेन दक्षिणाक्षिस्फुरणरूपेणोपगतात्प्राप्ताद्विषादाद्दुःखात्सद्यः परिम्लानमुखारविन्दा क्लान्तमुखकमला सती सावरजस्य सानुजस्य राज्ञो रामस्य शिवं भूयादित्यबाह्यैः करणैरन्तःकरणैराशशंसे। शंसतेरपेक्षायामात्मनेपदमिष्यते। करणैरिति बहुवचनं क्रियावृत्त्यभिप्रायम्। पुनः पुनराशशंस इत्यर्थः।

भाषार्थ--यह अपशकुन होते ही सीता का मुंह उदास हो गया और वे मन ही मन मनाने लगी कि भाइयों के साथ राजा सुख से रहें उन पर कोई आंच न आवे ॥ ५० ॥

गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन्।
अवार्यतेवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा स्थितया पुरस्तात् ॥ ५१ ॥

अन्वयः--गुरोः नियोगात् साध्वीं वनितां वनान्ते विहास्यन् सुमित्रातनयः पुरस्तात् स्थितया जह्नोः दुहितुयाः उत्थितवीचिहस्तै अवार्यत इव।

गुरोरिति। गुरोज्र्येष्ठस्य नियोगात्साध्वीं वनिताम्। अत्याज्यामित्यर्थः। वनान्ते विहास्यंस्त्यक्ष्यन्सुमित्रातनयो लक्ष्मणः पुरस्तादग्रे स्थितया जह्नोर्दुहित्रा जाह्नव्योत्थितैर्वीचिहस्तैर्वार्यतेव। अकार्यं मा कुर्वित्यवार्यतेव इत्युत्प्रेक्षा।

भाषार्थ--मार्ग में गंगाजी पड़ी उनमें जो लहरें उठ रहीं थीं वे बड़े भाई की आज्ञा से पतिव्रता सीता को वन में छोड़ने के लिए ले जाते हुए लक्ष्मण से मानों हाथ हिलाकर कह रही थीं कि ऐसा न करो ॥ ५१ ॥

रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृजायां पुलिनेऽवतार्य।
गङ्गां निषादाहृतनौविशेषस्ततार संधामिव सत्यसन्धः ॥ ५२ ॥

अन्वयः--सत्यसन्धः सः यन्त्रा निगृहीतवाहात् रथात् भ्रातृजायां पुलिने अवतार्य निषादाहृतनौविशेषः (सन्) गङ्गां सन्धाम् इव ततार।

Page 539Permalink

४८० रघुवंशमहाकाव्ये

रथादिति। सत्यसन्धः सत्यप्रतिज्ञः स लक्ष्मणो यन्त्रा सारथिना निगृहीत-
वाहादुद्ग्राह्याश्वद्रथाद्भातृजायां पुलिनेऽवतार्यारोप्य निषादेन किरातेनाहृतनौविशेष
आनीतदृढनौकः सन् गङ्गां भागीरथीं संधां प्रतिज्ञामिव ततार । 'सन्धा प्रतिज्ञा
मर्यादा' इत्यमरः ।

भाषार्थं—गंगाजी के तट पर पहुँचकर सारथी ने घोड़ों की रास खींच
ली, सत्यप्रतिज्ञ लक्ष्मण ने सीता को रेती पर उतार लिया, केवट द्वारा लायी
हुई नाव पर चढ़कर सीता के साथ गङ्गाजी के पार के साथ अपनी उस
प्रतिज्ञा से भी पार हो गये जो उन्होंने सीता को गङ्गा पार छोड़ने के लिए
राम से कही थी ॥ ५२ ॥

अथ व्यवस्थापितवाक्कथञ्चित्सौमित्रिरन्तर्गतबाष्पकण्ठः ।
औत्पातिकं मेघ इवाश्मवर्षं महीपतेः शासनमुज्जगार ॥ ५३ ॥

**अन्वयः—**अथ कथंचित् व्यवस्थापितवाक् अन्तर्गतबाष्पकण्ठः सौमित्रिः
महीपतेः शासनं मेघः औत्पातिकं अश्मवर्षम् इव उज्जगार ।

अथेति । अथ कथंचिद्व्यवस्थापिता प्रकृतिमापादिता वाग्येन सः अन्तर्गत-
बाष्पः कण्ठो यस्य सः । कण्ठस्तम्भिताश्रुरित्यर्थः । सौमित्रिर्महीपतेः शासनं
मेघ उत्पाते भवमौत्पातिकमश्मवर्षं शिलावर्षमिव उज्जगारोद्गीर्णवान् । दारुण-
त्वेनावाच्यत्वादुज्जगारेत्युक्तम् ।

**भाषार्थं—**पार पहुँचकर लक्ष्मण ने आंसू रोककर रुंधे हुए गले से सीताजी
को राम की आज्ञा इस प्रकार सुनाई, जिस प्रकार कोई भयंकर मेघ ओले
बरसा रहा हो ॥ ५३ ॥

ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना ।
स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ॥ ५४ ॥

**अन्वयः—**ततः अभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना सीता लता
इव सहसा स्वमूर्तिलाभप्रकृतिं धरित्रीं जगाम ।

तत इति । ततः अभिषङ्गः भर्तृपरित्यागरूपः पराभवः । 'अभिषङ्गः
पराभवे' इत्यमरः । स एवानिलस्तेन विप्रविद्धा अभिहता प्रभ्रश्यमानानि
पतन्त्याभरणान्येव प्रसूनानि यस्याः सा सीता लतेव सहसा स्वमूर्तिलाभस्य
स्वशरीरलाभस्य स्वोत्पत्तेः प्रकृतिं कारणं धरित्रीं जगाम । भूमौ पपातेत्यर्थः ।
स्त्रीणामापदि मातैव शरणमिति भावः ।

**भाषार्थं—**जिस प्रकार लू लगने से लता के फूल झर जाते हैं और वह

Page 540Permalink

चतुर्दशः सर्गः
४८१

सूखकर पृथ्वी पर गिर पड़ती है, उसी प्रकार इस अपमानजनक बात को सुनकर सीता के आभूषण भी गिर पड़े और वे भी अपनी मां पृथ्वी की गोद में गिर पड़ी ॥५४॥

इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः।
इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥ ५५ ॥

अन्वयः—इक्ष्वाकुवंशप्रभवः आर्यवृत्तः पतिः त्वाम् अकस्मात् कथं त्यजेत् इति संशयिता इव तावत् जननी क्षितिः तस्यै प्रवेशं न ददौ ।

इक्ष्वाक्विति । इक्ष्वाकुवंशप्रभवः महाकुलप्रसूतिरित्यर्थः । आर्यवृत्तः साधुचरितः पतिर्भर्ता त्वामकस्मादकारणात्कथं त्यजेत् । असम्भावितमित्यर्थः । इति संशयितेव सन्दिहानेव तावत् त्यागहेतुज्ञानावधेः प्रागित्यर्थः । जननी क्षितिस्तस्यै सीतायै प्रवेशम् आत्मनीति शेषः । न ददौ ।

भाषार्थ—उस समय पृथ्वी ने मानो दुविधा में पड़कर अपनी गोद में नहीं समा लिया कि इक्ष्वाकुवंश में उत्पन्न एवं सदाचारी राम सीता को इस प्रकार अचानक क्यों छोड़ देंगे ॥ ५५ ॥

सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यदान्तः ।
तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः ॥ ५६ ॥

अन्वयः—लुप्तसंज्ञा सा दुःखं न विवेद प्रत्यागतासुः ( सतीः ) अन्तः समतप्यत तस्याः सुमित्रात्मजयत्नलब्धः प्रबोधः मोहात् कष्टतरः अभूत् ।

सेति । लुप्तसंज्ञा नष्टचेतना मूर्च्छिता सा दुःखं न विवेद । प्रत्यागतासुर्लब्धसंज्ञा सत्यन्तः समतप्यत । दुःखेनादह्यतेत्यर्थः । तपेः कर्मणि लङ् । कर्मकर्तरीति केचित् तन्न “तपस्तपःकर्मकस्यैव” इति यङ्नियमात् । तस्याः सीतायाः सुमित्रात्मजयत्नलब्धः प्रबोधो मोहात्कष्टतरोऽभूत् । दुःखवेदनासंभवादिति भावः ।

भाषार्थ—मूर्च्छा आ जाने से उन्हें उस समय तो दुःख नहीं हुआ; किन्तु जब वे मूर्च्छा से जगीं तब उनके हृदय में बड़ी व्यथा हुई । लक्ष्मण ने जलसिंचन आदि प्रयत्न करके जो उनकी मूर्च्छा दूर की, वह बात उन्हें मूर्च्छा से भी अधिक कष्ट देनेवाली जान पड़ी ॥ ५६ ॥

न चावदद्भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि ।
आत्मानमेव स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द ॥५७ ॥

अन्वयः—आर्या वृजिनात् विना अपि निराकरिष्णोः भर्तुः अवर्णं न अवदत् किन्तु स्थिरदुःखभाजम् ( अत एव ) दुष्कृतिनं आत्मानम् एव पुनः पुनः निनिन्द ।

३१ र० स०

Page 541Permalink

४८२ | रघुवंशमहाकाव्ये

न चेति । आर्या साध्वी सा सीता वृजिनादृते एनसो विनाऽपि । 'कलुषं वृजिनै-नोऽघम्' इत्यमरः । "अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते" इत्यनेन पञ्चमी । निराकरिष्णोर्निरासकस्य । "अलंकृञ्निराकृञ्०" इत्यनेनेष्णुच्प्रत्ययः । भर्तुरवर्णमपवादं न चावदन्नैवावादीत् । किन्तु स्थिरदुःखभाजमत एव दुष्कृतिन-मात्मानं पुनः पुनर्निनिन्द ।

भाषार्थ— सीता इतनी साध्वी थीं कि निरपराध त्याग करने वाले अपने पति को उन्होंने कुछ भी भला बुरा नहीं कहा किन्तु बार-बार स्थिर दुःख को भोगने वाली अपनी आत्मा की ही निन्दा की ॥ ५७ ॥

आश्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः ।
निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि ! क्षमस्वेति बभूव नम्रः ॥ ५८ ॥

अन्वयः— रामावरजः सतीं ताम् आश्वास्य आख्यातवाल्मीकिनिकेतमार्गः निघ्नस्य मे भर्तृनिदेशरौक्ष्यं हे देवि ! क्षमस्व इति नम्रः बभूव ।

आश्वास्येति । रामावरजो लक्ष्मणः सतीं साध्वीं तामाश्वास्य आख्यान उप-दिष्टो वाल्मीकेर्निकेतस्याश्रमस्य मार्गो येन स तथोक्तः सन् । निघ्नस्य पराधीनस्य । 'अधीनो निघ्न आयत्तः' इत्यमरः । मे भर्तृनिदेशेन स्वाम्यनुज्ञया हेतुना यद्रौक्ष्यं पारुष्यं तद्धे देवि ! क्षमस्व इति नम्रः प्रणतो बभूव ।

भाषार्थ— राम के छोटे भाई लक्ष्मण ने साध्वी सीता को बहुत कुछ समझा बुझा ओर महर्षि वाल्मीकि के आश्रम का मार्ग दिखाकर नम्रतापूर्वक कहा कि हे देवि ! मैं पराधीन हूँ, इसलिए स्वामी की आज्ञा से मैंने आपके साथ जो कठोर व्यवहार किया है उसे आप क्षमा कीजिए ॥ ५८ ॥

सीता तमुत्थाप्य जगाद वाक्यं प्रीताऽस्मि ते सौम्य ! चिराय जीव ।
विडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥ ५९ ॥

अन्वयः— सीता तम् उत्थाप्य वाक्यं जगाद हे सौम्य ! ते प्रीता अस्मि चिराय जीव, यत् विडौजसा विष्णुः इव अग्रजेन भ्रात्रा त्वम् इत्थं परवान् असि ।

सीतेति । सीता तं लक्ष्मणमुत्थाप्य वाक्यं जगाद । किमिति ? हे सौम्य साधो ! ते प्रीताऽस्मि चिराय चिरं जीव । यद्यस्मात् विडौजसेन्द्रेण विष्णुरुपेन्द्र इव अग्रजेन ज्येष्ठेन भ्रात्रा त्वमित्थं परवान्परतन्त्रोऽसि ।

भाषार्थ— सीताजी लक्ष्मण को उठाकर बोली-हे वत्स ! मैं तुम पर प्रसन्न हूँ तुम अधिक दिन तक जीवो, क्योंकि जिस प्रकार इन्द्र के छोटे भाई विष्णु अपने

Page 542Permalink

चतुर्दशः सर्गः [४८३]

बड़ भाई इन्द्र की आज्ञा सदा मानते हैं, उसी प्रकार तुम भी अपने बड़े भाई की आज्ञा मानने वाले हो ॥ ५९ ॥

श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः ।
प्रजानिषेकं मयि वर्तमानं सूनोरनुध्यायंत चेतसेति ॥ ६० ॥

अन्वयः—सर्वं श्वश्रूजनम् अनुक्रमेण प्रापितमत्प्रणामः (सन्) विज्ञापय मयि वर्तमानं सूनोः प्रजानिषेकं चेतसा अनुध्यायतः इति ।

श्वश्रूजनमिति । सर्वं श्वश्रूजनमनुक्रमेण प्रापितमत्प्रणामः सन् । मत्प्रणाममुक्त्वेत्यर्थः । विज्ञापय । किमिति । निषिच्यत इति निषेकः मयि वर्तमानं सूनोस्त्वत्पुत्रस्य प्रजानिषेकं गर्भं चेतसाऽनुध्यायतः । शिवमस्त्विति चिन्तयतेति ।

भाषार्थ—तुम जाकर सभी सासों से यथायोग्य मेरा प्रणाम कहकर कहना कि मेरे गर्भ में आपके पुत्र का तेज है इसलिए आप लोग हृदय से उसका कुशल मनाते रहिएगा ॥ ६० ॥

वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् ।
मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥ ६१ ॥

अन्वयः—स राजा त्वया मद्वचनात् वाच्यः समक्षं वह्नौ विशुद्धाम् अपि मां लोकापवादश्रवणात् अहासीः ( इति ) यत् तत् श्रुतस्य कुलस्य सदृशं किम् ?

वाच्य इति । स राजा त्वया मद्वचनान्मद्वचनमिति कृत्वा । ल्यब्लोपे पञ्चमी । वाच्यो वक्तव्यः । किमित्यत आह—'वह्नौ' इत्यादिभिः सप्तभिः श्लोकैः । अक्ष्णोः समीपे विभक्त्यर्थेऽव्ययीभावः सामीप्यार्थे वा "अव्ययीभावे शरत्प्रभृतिभ्यः" इति समासान्तष्टच्प्रत्ययः । समक्षमग्रे वह्नौ विशुद्धामपि मां लोकवादस्य मिथ्यापवादस्य श्रवणाद्धेतोरहासीरत्याक्षीरिति यत्तच्छ्रुतस्य प्रख्यातस्य कुलस्य सदृशं किम् । किं त्वसदृशमित्यर्थः । यद्वा श्रुतस्य श्रवणस्य चेति योजना । कामचारयंसीति भावः ।

भाषार्थ—और राजा से जाकर तुम मेरी ओर से कहना कि आपने अपने सामने ही अग्नि से मुझे शुद्ध पाया था, इस समय लोकापवाद के भय जो आपने मुझे छोड़ दिया है क्या वह उस विख्यात कुल के लिए उचित है ? जिसमें आपने जन्म लिया है ॥ ६१ ॥

कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः ।
ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥ ६२ ॥

अन्वयः—अथवा कल्याणबुद्धेः तव मयि अयं न कामचारः ( किन्तु ) ममैव-जन्मान्तरपातकानाम् अप्रसह्यः विपाकविस्फूर्जथुः ( अस्ति ) ।

Page 543Permalink
४८४रघुवंशमहाकाव्ये

कल्याणेति । अथवा कल्याणबुद्धेः सुधियस्तव कर्तुः मयि विषयेऽयं त्यागो न कामचारः इच्छया करणं न शङ्कनीयः । कामचारशङ्काऽपि न क्रियत इत्यर्थः । किन्तु ममैव जन्मान्तरपातकानामप्रसह्यो विपच्यत इति विपाकः फलं स एव विस्फूर्जथुरशनिनिर्घोषः । 'स्फूर्युवज्रनिघोषः' इत्यमरः ।

भाषार्थ— अथवा आप तो सबकी भलाई करनेवाले हैं आप अपने मन से मेरे साथ ऐसा व्यवहार नहीं कर सकते, यह सब मेरे पूर्वजन्म के पापों का ही फल है जो वज्रपात के समान असह्य है ॥ ६२ ॥

उपस्थितां पूर्वमपास्य लक्ष्मीं वनं मया सार्धमसि प्रपन्नः ।
तदास्पदं प्राप्य तयातिरोषात्सोढाऽस्मि न त्वद्भवने वसन्ती ॥ ६३ ॥

अन्वयः— पूर्वम् उपस्थितां लक्ष्मीम् अपास्य मया सार्द्धं वनं प्रपन्नः असि तत् तया अतिरोषात् त्वद्भवने आस्पदं प्राप्य वसन्ती अहं सोढा न अस्मि ।

उपस्थितामिति । पूर्वमुपस्थितां प्राप्तां लक्ष्मीमपास्य मया सार्धं वनं प्रपन्नोऽसि तत्तस्मात्तया लक्ष्म्याऽतिरोषात्त्वद्‌भवने आस्पदं प्रतिष्ठाम् । “आस्पदं प्रतिष्ठायाम् ।” इति निपातः । प्राप्य वसन्त्यहं सोढा नास्मि ।

भाषार्थ— मुझे जान पड़ता है कि पहले आप जिस राजलक्ष्मी को त्याग करके मेरे साथ वन में चले गये थे, अब वह राजलक्ष्मी मुझसे रुष्ट हो गई है और उससे आपके घर में प्रतिष्ठा पूर्वक मेरा रहना नहीं देखा गया है ॥ ६३ ॥

निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् ।
भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने ॥ ६४ ॥

अन्वयः— निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् शरण्या भूत्वा अद्य त्वयि दीप्यमाने अन्यं कथं प्रपत्स्ये ।

निशाचरेति । निशाचरैरुपप्लुताः पीडिता भर्तारो यासां ताः निशाचरोपप्लुतभर्तृकाः । “नद्युतश्च” इति कप्प्रत्ययः । तासां तपस्विनीनां भवतः प्रसादादनुग्रहाच्छरण्या शरणसमर्था भूत्वा अद्य त्वयि दीप्यमाने प्रकाशमाने सत्येव शरणार्थमन्यं तपस्विनं कथं प्रपत्स्ये प्राप्स्यामि ।

भाषार्थ— पहली बार वनवास के समय आपकी कृपा से मैंने बहुत सी ऐसी तपस्विनियों को अपने यहां आश्रय दिया था, जिनके पतियों को राक्षसों ने सता रखा था, अब आप ही बताइए कि आपके रहते हुए मैं किस मुँह से उन्हीं की आश्रिता होकर रहूँगी ॥ ६४ ॥