ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
द्वितीयारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १९ )
१३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
प्रकारः । एतेषां पञ्चप्रकाराणां सोमयागादन्यत्रासंभवात्सोमयाग एव संपन्नतमः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये
द्वितीयारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १९ )
अथ चतुर्थः खण्डः । ( षोडशः )
पूर्वत्र [ ऐ० आ० २ अ० ३ ख० ३ ] समुद्ररूपत्वादिध्यानमुक्तम् । अत्र स्तोमपञ्चैकत्वादिध्यानमुच्यते । तस्मिन्ध्याने परोचनार्थं प्राणरूपमुक्थं प्रशंसति—
यो ह वै यज्ञे यज्ञं वेदान्वहर्देवेषु देवम-
ध्यूळ्हं स संप्रतिविदेष वै यज्ञे यज्ञोऽन्वहर्दे-
वेषु देवोऽध्यूळ्हो यदेतन्महदुक्थम् , इति ।
यथा हस्तिनोऽप्यत्यन्तश्रेष्ठो राजा हस्तिनमारोहति, एवमत्र श्रेष्ठो यज्ञ इतरं यज्ञमधिरूढ इत्युपचर्यते । तथैवोत्कृष्टमहरितरस्मिन्नहन्यधिरूढम् । उत्तमश्च देव इतरदेवेष्वधिरूढः । तथा सति यः पुमानधमयज्ञादिष्वध्यूळ्हमुपर्यवस्थितमुत्तमयज्ञादिरूपमुपास्ते स पुमान्संप्रतिवित्सम्यगभिज्ञः । कोऽसावुत्तमयज्ञादिरूपः पदार्थ इति चेदुच्यते—यदेतन्महदुक्थं प्रौढं निष्केवल्यशस्त्रमेष एवोत्तमयज्ञादिरूपः पदार्थ इति सोमयागस्य संपन्नतमत्वं पूर्वमुक्तम् [ ऐ० आ० २ अ० ३ ख० ३ ] । अतोऽयं वर्तमानः सहस्रसंवत्सरसत्रारूपोऽयं सोमयाग इतरयज्ञेऽग्निहोत्रादावधिरूढः, तथा महद्व्रतं महतो व्रतमित्यादिनिर्वचनविशेषस्य पूर्वमेव [ ऐ० आ० १ अ० १ ख० १ ] दर्शितत्वान्महाव्रताख्यमेवैतदहरितरस्मिन्नहन्यध्यूळ्ह(ढ)म्, देवेषु प्राणरूपः श्रेष्ठत्वाद्रागादिदेवेष्वधिरूढः, तद्रूपत्वादुक्थमधिकम् ।
तस्योक्थस्य पञ्चविधत्वध्यानं विधत्ते—
तदेतत्पञ्चविधं त्रिवृत्पञ्चदशं सप्तदशमेकविंशं
पञ्चविंशमिति स्तोमतो गायत्रं रथंतरं
बृहद्भद्रं राजनमिति सामतो गायत्र्युष्णिग्बृ-
हतीत्रिष्टुब्द्बिपदेति च्छन्दस्तः शिरो दक्षिणः
पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम्, इति ।
गीयमानतृचावस्थितानामृग्विशेषाणां समूहः स्तोमः । स च सामगैस्त्रिवृदादिनाम्ना व्यवह्रियते । तत्र त्रिवृत्स्तोमस्य स्वरूपं सामब्राह्मणे समाम्नातम्—“तिसृभ्यो
^१ क. ख. एवं । ^२ क. ख. पूर्व । ^३ ग. 'त्र सोमप' । ^४ घ. ङ. स्तोभप' । ^५ क. 'ष्ककादिरूपत्वं ध्या' । ख. 'ष्ककादिरूपत्वध्या' । ^६ ख. ग. श्रेष्ठय' । ^७ घ. ङ. 'मान्यज्ञा' । ^८ घ. ङ. 'वत्याख्यं श' । ^९ क. ख. ग. 'नः सं' । ^१० ग. 'ति । इत्यारभ्य पुच्छमात्मेत्याख्यानमित्यन्तेन गी' ।
अध्या० १ ख० ४ (१६)] ऐतरेयारण्यकम् । १३५
हिं करोति स प्रथमया तिसृभ्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमयोद्यती त्रिवृतो विष्टुतिः ” इति । अयमर्थः— “उपास्मै गायता” [ ऋ० सं० म० ९ सू० ११ ऋ० १ ] इत्यादीनि तृचात्मकानि त्रीणि सूक्तानि सन्ति, तेषु तिसृभिर्ऋग्भिर्हिं करोति गायेत् । काभिस्तिसृभिः, प्रथमया त्रिष्वपि सूक्तेषु या या प्रथमा तया स उद्गाता गायेत् । तथा सति तिसृभिर्गीतं भवति, सोऽयं प्रथमः पर्यायः । द्वितीये सूक्तत्रयगतया मध्यमया गायेत् । तृतीयपर्याये सूक्तत्रयगतयोत्तमया गायेत् । अनेन प्रकारेण त्रिवृत्स्तोमसंन्बन्धिनी विशिष्टा स्तुतिः संपद्यते । सेयं स्तुतिरुद्यतीति नाम्नाऽभिधीयत इति । पञ्चदशस्तोम एवमाम्नातः— “पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिं करोति स एकया स एकया स तिसृभिः पञ्चर्पञ्चिनी पञ्चदशस्य विष्टुतिः” इति । पूर्वोक्तत्रिवृत्स्तोम एक एव सूक्तत्रयनिष्पाद्यः, अन्ये तु स्तोमा एकैकेनैव तृचात्मकेन सूक्तेन निष्पाद्यन्ते । तत्रायं क्रमः—प्रथमपर्याये आवृत्तिसहिताभिः पञ्चभिर्ऋग्भिर्गायेत् । तद्यथा—प्रथमपर्याये प्रथमामृचं त्रिर्गायेत् । इतरे द्वे सकृत्सकृद्गायेत् । द्वितीयपर्याये मध्यमां त्रिर्गायेत् । तृतीयपर्याये तूत्तमां त्रिर्गायेत् । सेयं पञ्चदशस्य स्तोमस्य संबन्धिनी विष्टुतिः पञ्चर्पञ्चिनीति नाम्ना व्यवह्रियते । सप्तदशस्तोम एवमाम्नातः— “पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिर्दशसप्त सप्तदशस्य विष्टुतिः ” इति । प्रथमपर्याये प्रथमामृचं त्रिर्गायेत् । द्वितीयपर्याये मध्यमां त्रिर्गायेत् । तृतीयपर्याये मध्यमामुत्तमां च त्रिर्गायेत् । सेयं सप्तदशस्तोमसंन्बन्धिनी विष्टुतिः । सेयं दशसप्तेत्युच्यते । एकविंशस्तोम एवमाम्नातः— “सप्तभ्यो हिं करोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिं करोति स तिसृभिः स एकया स तिसृभिः सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिः सप्तसँस्तिन्येकविंशस्य विष्टुतिः” इति । प्रथमपर्याय उत्तमां सकृद्गायेत् । द्वितीयपर्याये मध्यमां सकृद्गायेत् । तृतीयपर्याये प्रथमां सकृद्गायेत् । सेयमेकविंशस्तोमसंन्बन्धिनी विष्टुतिः सप्तसंतिनीत्यभिधीयते । पञ्चविंशस्तोमस्य त्वावृत्तिप्रकारभेदः *सामसूत्रे
* “ पञ्चविंशस्तोमस्यैवं विष्टुतिः—अष्टाभ्यो हिं करोति स तिसृभिः स चतसृभिः स एकयाऽष्टाभ्यो हिं करोति स एकया स तिसृभिः स चतसृभिर्नवभ्यो हिं करोति स पञ्चभिः स एकया स तिसृभिरिति । धानंजय्यमतेनैकस्थः पक्षो नवभ्यो हिं करोति स चतसृभिर्द्वाभ्यां स तिसृभिरिति परिचरायामावापक्षो गौतमीयः ” इति ग. पुस्तकटिप्पण्याम् ।
१ क. घ. ॰पञ्चनी । २ क. ॰यमात्रं । ३ क. ॰थमा । ४ क. घ. ङ. ॰पञ्चनी । ५ क. ग. घ. ङ. ॰सृभिः सप्तदशस्य । ६ क. ॰यं सप्तदशेत्यु । ७ घ. ङ. ॰ससन्ने । ८ क. ख. घ. ङ. प्रथमां । ९ क. ख. घ. ङ. मध्यमां । १० घ. ङ. ॰ससनी ।
१३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
द्रष्टव्यः । तदेवमुक्थं स्तोमवशात्पञ्चविधं ध्यायेत् । “तत्स॑वि॒तुर्वरे॑ण्यम्” [ ऋ०
सं० म० ३ सू० ६२ ऋ० १० ] इत्यस्यामृच्युत्पन्नं साम गायत्रनामकम् ।
“अ॒भि त्वा॒ शूर॑” [ ऋ० सं० म० ७ सू० ३२ ऋ० २२ ] इत्यस्यामुत्पन्नं
रथंतरम् । “त्वामिद्धि हवामहे” [ ऋ० सं० म० ६ सू० ४६ ऋ० १ ] इत्य-
स्यामृच्युत्पन्नं बृहत् । “इ॒मा नु कम्” [ ऋ० सं० म० १० सू० १५७ ऋ० १ ]
इत्यस्यामृच्युत्पन्नं भद्रम् । “इन्द्रं॒ नरो॒ नेम॑ धिता” [ ऋ० सं० म० ७ सू० २७
ऋ० २८] इत्यस्यामृच्युत्पन्नं राजनम् । एवमुक्थस्य सामतः पञ्चविधत्वम् । चतुर्विंश-
त्यक्षरा गायत्री । अष्टाविंशत्यक्षरोष्णिह् । षट्त्रिंशदक्षरा बृहती । चतुश्चत्वारिंशदक्षरा
त्रिष्टुप् । पादद्वयेनैव निष्पन्ना द्विपदा । इत्येवं छन्दोवशात्पञ्चविधत्वम् । यथा पक्षिणः
शिरःपक्षाद्यवयवास्तथा निष्केवल्यशस्त्रस्य “इन्द्र॒मिद्गा॒थिनो॑” [ ऋ० सं० म० १
सू० ७ ऋ० १ ] इत्यादिमन्त्रसमूहः शिरः । अभि त्वा शूर” [ ऋ० सं० म० ७
सू० ३२ ऋ० २२ ] इत्यादिको दक्षिणः पक्षः । “त्वामिद्धि” [ ऋ० सं०
म० ६ सू० ४६ ऋ० १ ] इत्यादिक उत्तरः पक्षः । “इमा नुकम्” [ ऋ०
सं० म० १० सू १५७ ऋ० १] इत्यादिसमूहः पुच्छम् । “तदिदास” [ऋ० सं०
म० १० सू० १२० ऋ० १ ] इत्यादिको मध्यशरीररूप आत्मा । इत्येवं पक्षि-
रूपं ब्राह्मणेनाऽऽम्नायते । तदेतदारूणायमानं पञ्चविधं पक्षिरूपमुक्थे ध्यायेदित्यर्थः ।
प्रकारान्तरेण पञ्चविधत्वध्यानं विधत्ते—
पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः
प्रतिहरति पञ्चकृत्व उपद्रवति पञ्चकृत्वो निध-
नमुपयन्ति तत्स्तोभसहस्रं भवति, इति ।
सामगा महाव्रते राजननाम्ना स्तुवते । साम्नि च पञ्च भागाः सन्ति । प्रस्ताव
उद्गीथः प्रतिहार उपद्रवो निधनमित्येते भागाः । तत्र प्रस्तावभागं गायन्प्रस्तोता पञ्च-
कृत्व आवृत्तं गायति । एवमुद्गाताप्रतिहर्त्तारौ स्वस्वभागं पञ्चकृत्वो गायतः । ऋत्वि-
गन्तराभावादुपद्रवभागमुद्गातैव गायति । सोऽपि पञ्चकृत्वो गायति । सर्वे निधनमुप-
यन्तीतिविधानात्प्रस्तोत्रादयः सर्वेऽपि पञ्चकृत्वो निधनभागं गायन्ति । एवं सत्यत्र
भागभेदेन यत्पञ्चविधत्वं यच्चैकैकस्याऽऽवृत्त्या पञ्चविधत्वं तदुभयमुक्थे ध्यातव्यम् ।
प्रस्तावादिभागानां पञ्चकृत्वो गानमस्ति । तत्तस्मिन्गाने स्तोभानां सहस्रं संपद्यते ।
ऋगक्षरव्यतिरेकेण गीतिपूरणार्थं येऽक्षरसमूहाः प्रक्षिप्यन्ते ते स्तोभसंज्ञकास्तेषां सहस्र-
त्वसंपादनं सामसूत्रे द्रष्टव्यम् । सेयं सहस्रसंख्या यथोक्तपञ्चविधत्वप्रशंसार्थमुपन्यस्यते ।
१ घ. ङ. स्तुवन्ति । २ क. स्तोमानां । ख. ग. स्तोमभागानां । ३ ग. 'तिपरिपूर्' ।
अध्या० ३ ख० ४ (१६)] ऐतरेयारण्यकम् । १३७
प्रकारान्तरेण पञ्चविधत्वध्यानं विधत्ते—
एवं होताः पञ्च विधा अनुशस्यन्ते यत्प्राक्तृचाशीतिभ्यः
सैका विधा तिस्रस्तृचाशीतयो यदूर्ध्वं सा पञ्चमी, इति ।
यथा प्रस्तावादिभागैस्तत्तदावृत्तिभिश्च पञ्चविधं स्तोत्रं सामगाः संपादयन्ति, एवमेवैता निष्केवल्यगता ऋचो होत्रा पञ्च विधा अनुशस्यन्ते । कथं पाञ्चविध्यमिति चेत्तदुच्यते—“महाँ इन्द्रो य ओजसा” [ ऋ० सं० म० ८ सू० ७ ऋ० १ ] इत्यादिका येयं गायत्री तृचाशीतिर्या च “मा चिदन्यत्” [ ऋ० सं० म० ८ सू० १ ऋ० १ ] इत्यादिका बार्हती तृचाशीतिर्याऽपि “य इन्द्र सोम [पातम:]” [ ऋ० सं० म० ८ सू० १२ ऋ० १ ] इत्यादिकौष्णिही तृचाशीतिस्तास्तिस्रस्तृचाशीतयः । शस्त्रपक्षिणोऽन्नरूपास्ताभ्यः प्राचीनमात्मशिरःपक्षादिभागरूपं यन्मन्त्रजातमस्ति सेयमेका विधा । तृचाशीतयस्तु त्रि(तिस्रो)विधाः । ताभ्य ऊर्ध्वमुदरभागश्चेत्येवंरूपं यन्मन्त्रजातमस्ति सा पञ्चमी विधा । तदेतच्छस्त्रस्य पञ्चविधत्वं ध्यायेत् ।
तदेतच्छस्त्रगतं पञ्चविधत्वं प्रशंसति—
तदेतत्सहस्रं तत्सर्वं तानि दश दशेति वै सर्वमेतावत्या
हि संख्या दश दशतस्तच्छतं दश शतानि तत्सहस्रं
तत्सर्वं तानि त्रीणि च्छन्दांसि भवन्ति त्रेधा विहितं
वा इदमन्नमशनं पानं खादस्तदेतैराप्नोति , इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये
चतुर्थः खण्डः ॥ ४ ॥ ( १६ )
यथोक्तपञ्चविधे शस्त्रे यदेतन्मन्त्रजातमस्ति तत्सर्वं मिलित्वा बुद्धिकौशलेनाक्षरगणनया बृहतीसहस्रं संपद्यते । पूर्वोक्तस्तोभद्वारा बृहतीद्वारा च यत्सहस्रं संपन्नं तत्सर्वम् । नहि सहस्रव्यतिरेकेण किंचिज्जगदस्ति, अशेषसंख्यायाः सहस्रेऽन्तर्भावात् । संख्येयस्य च वस्तुजातस्य संख्यायामन्तर्भावात् । कथमशेषसंख्यायाः सहस्रेऽन्तर्भाव इति चेदुच्यते—तानि संख्यापर्वाणि दश दशेत्येव व्यवह्रियन्तेऽतः संख्याजातं सर्वं सहस्रेऽस्ति । दशशब्देन यावत्युच्यत एतावत्येव लोके विद्यमाना सर्वा संख्या न त्वितोऽधिका काचिदस्ति । तथा हि—एकं द्वे त्रीणीत्येवं गणनायां दशपर्यन्ता नूतनाः संख्यास्तत ऊर्ध्वं तस्या एव संख्याया आवृत्तिर्गण्यते । एकादश
^१ घ. ङ. ‘भागैषु तत्त’।
^२ क. ‘र्थी च य’।
^३ क. ख. ‘वं य’।
^४ क. सेयं।
^५ क. ख. घ. ‘न्नेति । द’।
१३८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
द्वादशेत्येवं दशकादूर्ध्वमेकादिसंख्याया एव व्यवह्रियमाणत्वात् । शतं सहस्रमयुतमित्यादिकं संख्यान्तरं विद्यत इति चेन्न । तस्याप्यावृत्तायां दशसंख्यायामन्तर्भावात् । दश दशत् इत्यादिनाऽन्तर्भाव एवोदाहृत्य प्रदर्श्यते । तकारान्तो दशच्छब्दो दशानां समूहं ब्रूते । “पञ्चद्दशतो वर्गे वा” [ पा० सू० अ० ५ पा० १ सू० ६० ] इति पाणिनिना सूत्रितत्वात् । दशसंख्याकानि वर्गरूपाणि दशकानि यानि सन्ति तानि मिलित्वा शतशब्देनोच्यन्ते । तथा दशसंख्याकानि शतानि यानि सन्ति तानि मिलित्वा सहस्रशब्देनोच्यन्ते । एवं दशत्वसंख्यावृत्तित्वादेवापुतलक्षादिनिष्पत्तेस्तत्सर्वं संख्याजातं यथोक्तेष्वेव दशशतसहस्ररूपेषु संख्यापर्वस्वन्तर्भवति । यद्यपि दशसंख्यायामेवान्तर्भावस्तथाऽपि तदुत्पत्तये शतसंख्या सहस्रसंख्या चोदाहरणीया, तस्मात्तानि संख्यापर्वाणि त्रीणि च्छन्दांसि च्छादकानि सर्वसंख्याव्यापकानि भवन्ति । तच्च पर्वत्रयं त्रेधेत्यादिना प्रशस्यते । लोके प्राणिभिर्भुज्यमानं यदिदमन्नमस्ति तच्च त्रेधा विहितमशनमोदनरूपं पानं जलक्षीरादिरूपं खादो लड्डुकादि । तैच्च त्रिविधमन्नमेतैर्दश शतं सहस्रमित्येवंरूपैस्त्रिभिः संख्यापर्वभिः प्राप्नोति । फलेन प्रशस्यमानत्वात्पर्वत्रयं ध्यातव्यम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके तृतीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( १६ )
अथ पञ्चमः खण्डः । ( सप्तदशः )
उक्थस्य पञ्चविधत्वादिध्यानमभिधाय बृहतीसहस्ररूपत्वध्यानं विधत्ते—
तद्वा इदं बृहतीसहस्रं संपन्नम्, इति ।
यन्निष्केवल्यशस्त्रमुपासनायां प्रतीकत्वेन प्रकृतं तदेवेदमक्षरगणनया बृहतीछन्दस्कानाम्ऋचां सहस्रं संपन्नमिति ध्यायेत् ।
तदेतत्स्वमतं प्रशंसितुं परमतमुपन्यस्यति—
तद्धैतदेके नानाच्छन्दसां सहस्रं प्रतिजानते किमन्यत्सदन्यद्ब्रूयामेति , इति ।
एके शाखिनो नानाविधानां छन्दसां सहस्ररूपं निष्केवल्यशस्त्रमिति प्रतिज्ञां कुर्वन्ति । तत्र सहस्रसंपादन एव नियमो न बृहतीच्छन्दंसीति तेषामभिप्रायः । ते हि
१ क. ख. ग. 'यां सहस्रसं' । २ क. 'ते तथा "प° । ३ क. °ति च भ° । ४ क. ख. घ. ङ. तद्यत्रिर्वि° । ५ ग. न तु बृ° । ६ क. °न्दसामिति ।
अध्या० ३ ख० ९(१७)] ऐतरेयारण्यकम् । १३९
परस्परं विचार्य निश्चिन्वन्ति । प्रकृताद्बृहतीसहस्रादन्यच्छन्दोन्तरयुक्तं सहस्रं किं तत्समीचीनमित्येवमेकस्य प्रश्नः । अत्रेतरस्योत्तरार्थं सच्छन्द आवर्तनीयः । प्रश्नोत्तराभ्यां मतान्तरस्य सम्यक्त्वनिश्चयाद्बृहतीसहस्रादन्यच्छन्दोन्तरयुक्तं सहस्रं ब्रूयामेति परस्परमुक्तवन्तः ।
अन्यत्र पक्षेऽप्यवान्तरमतभेदान्दर्शयति—
त्रिष्टुप्त्सहस्रमेके जगतीसहस्रमेकेऽनुष्टुप्त्सहस्रमेके, इति ।
तत्रानुष्टुब्वादिनः स्वमतप्रशंसार्थं मन्त्रमुदाहरति—
तदुक्तमृषिणा, इति ।
स च मन्त्रः संहितायामेवमाम्नातः—
“बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् ।
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषा ” इति ॥
[ ऋ० सं० म० १० सू० १२४, ऋ० ९ ]
योऽयमिन्द्रोऽस्ति तमिन्द्रमभिज्ञाः पुरुषा हंसमाहुः । हन्ति वर्षणाय मेघं भिनत्तीति हंसः । कीदृशमिन्द्रं दिव्यानां द्युलोकवर्तिमेघस्थितानामपां सख्ये चरन्तम् । आपो हि स्वप्रवर्तकत्वेनेन्द्रं सखायं मन्यन्ते । कीदृशीनामपां बीभत्सूनाम् । संबन्धमिच्छवो बीभत्सवः । मेघगता ह्यापः स्थावरजङ्गमप्राणिनामुपकारं कर्तुं तैः प्राणिभिः सह भूमौ संबन्धमिच्छन्ति । अतस्तादृशीनामपां भूमौ प्रेरणायेन्द्रस्ताभिरद्भिः सह युज्यते । तादृशं सयुजमाहुरित्यन्वयः । अनुष्टुप्शब्देन मेघगर्जनरूपा वागुपलक्ष्यते “ वाग्वा अनुष्टुप् ” [ नृ० पू० १ । १ ] इति श्रुतेः । तादृशीमनुष्टुप्शब्दोपलक्षितां गर्जनरूपां वाचमनुसृत्य चर्चूर्यमाणं पुनः पुनश्चरन्तमिन्द्रं परमैश्वर्ययुक्तं प्राणदेवं कवयो मेधाविन उपासका मनीषा मननेन विवेकज्ञानेन निचिक्युर्नितरामुपासितवन्तः । ध्यातवन्त इत्यर्थः ।
अस्य मन्त्रस्योत्तरार्धं प्रकृतस्यानुष्टुप्पक्षस्योपयुक्तं व्याचष्टे—
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति
वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत्तदुक्तं भवति, इति ।
अनुष्टुप्शब्दोपलक्षितायां वाच्येव तदोपासनकाले प्राणमिन्द्रसंबन्धिनं न्यचायन्नितरां ध्यातवन्तः । इत्येतदर्थजातं तत्तेनोत्तरार्धेनोक्तं भवति ।
अस्मिन्पक्षे पूर्ववादिनोऽभिप्रेतं गुणं दर्शयति—
स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः, इति ।
१ ग. 'र्षणमयं मे' । २ ग. 'नां बन्धनं दृक्संब' ।
१४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
सोऽनुष्टुप्सहस्रेण शंसिता होता यशोयुक्तः पुण्यकीर्तियुक्तश्च भवितोरीश्वरो भवितुं प्रभवति । यशो धनादिनिमित्तं लौकिकम् । कल्याणकीर्तियागादिनिमित्ता वैदिकी । त्रिष्टुब्जगत्यपक्षयोरप्ययं गुणो द्रष्टव्यः ।
इदानीं सिद्धान्ती तस्मिन्ननुष्टुप्पक्षे दोषं दर्शयति—
ईश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह
स्माऽऽहाकृत्स्नो ह्येष आत्मा यद्वागभि हि
प्राणे न मनसेऽस्यमानो वाचा नानुभवति, इति ।
तुशब्देनानुष्टुप्पक्षो निराक्रियते । अनुष्टुप्सहस्रेण शंसन्होता कृतादायुषः पुरा प्रैतोरीश्वरो भवति । मर्तुं प्रभुर्भवति । अपमृत्युना म्रियत इत्यर्थः । इत्येवमभिज्ञः पुरुष आह स्म । युक्तं चैतदभिज्ञस्य वचनम् । अनुष्टुब्रूपस्याऽऽत्मनोऽकृत्स्नत्वात् । कथमकृत्स्नत्वमिति चेत्तदुच्यते—यद्यदा वागभि हि वाग्रूपत्वेन स्तुतामनुष्टुभमेवाभिलक्ष्य शस्त्रे प्रवर्तते न तु प्राणत्वेन स्तुते बृहतीसहस्रे प्रवर्तते । “वाग्वा अनुष्टुप्पाणो बृहती” इत्येवं हि तत्तद्रूपेण स्तुतिः। तदानीं प्राणरूपां बृहतीमुपेक्ष्य वाग्रूपायामनुष्टुभ्येव मनसेऽस्यमानः स्वचित्तेनास्यमानः प्रेर्यमाणो होता स्वकीयया वाचा तच्छस्त्रं नानुभवति । न हि प्राणशक्तिसहायमन्तरेण केवलं मानसमात्रेण होता वाचा शस्त्रं वक्तुं क्षमते, सर्वस्येन्द्रियव्यापारस्य प्राणाधीनत्वात् ।
एवमकृत्स्नत्वदोषेणेतरपक्षं निन्दित्वा स्वपक्षं समर्थयते—
बृहतीमभि संपादयेदेष वै कृत्स्न आत्मा यद्बृहती, इति ।
अक्षरगणनया बृहतीं संपाद्य यदा ध्यायेत्तदानीं बृहतीति यदस्ति प्राणरूप एष एव प्राणः कृत्स्नः संपूर्ण आत्मा । “प्राणो बृहती ” इत्युक्तत्वाद्वृहत्याः प्राणरूपत्वम् । प्राणस्या(श्चा)भिवदनादिसर्वेन्द्रियव्यापारनिष्पादकत्वात्संपूर्ण आत्मा ।
लौकिकजीवात्मदृष्टान्तेनै बृहतीं प्रशंसति—
सोऽयमात्मा सर्वतः शरीरैः परिवृतस्तद्यथाऽयमात्मा सर्वतः
शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता, इति ।
देहमध्यवर्ती लौकिकप्रसिद्धो यो जीवात्मा सोऽयं [सर्वतः शरीरैः] परिवृतः सर्वासु दिक्षु शरीरावयवैर्वेष्टितो वर्तते । तत्तथा सति जीवात्मवदेव बृहत्यपि सहस्रत्वेन संपादिता सती सर्वतः शस्त्रमध्ये सर्वेषु स्थानेषु च्छन्दोभिरध्ययनकालीनैस्तत्तदृग्गतैर्गायत्र्यादिभिः सर्वतो वेष्टिता ।
१ क. ख. ग. धननि° । २ क. ख. °ष्टुब्युक्तस्याऽऽ° । ३ क. ख. ग. °शक्ति स° । ४ ख. ग. °वलमनसेच्छामा’ । ५ ग °न तु बृ° ।
अध्या० ३ ख० ६ ( १८ )] ऐतरेयारण्यकम् । १४१
जीवात्मदृष्टान्तेन प्रशस्य मध्यशरीरदृष्टान्तेनापि प्रशंसति—
मध्यं ह्येषामङ्गानामात्मा मध्यं छन्दसां बृहती , इति ।
जीवात्मनोऽवस्थानप्रदेशत्वाद्वृदयरूपो मध्यदेहभागो वाऽऽत्मशब्देन विवक्षितः । स चाङ्गानामितरेषां हस्तपादादीनां मध्यं भवति । तथा छन्दसां मध्ये बृहती मध्यं न्यूनानां गायत्र्यादीनामधिकानां त्रिष्टुबादीनां च बृहत्या अभितो विद्यमानत्वात् ।
अनुष्टुप्पक्षोक्तदोषं स्वमते तत्परिहारं चानूद्य स्वमतमुपसंहरति—
स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽऽह कृत्स्नो ह्येष आत्मा यद्बृहती तस्माद्बृहतीमेवाभि संपादयेत्, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये
पञ्चमः खण्डः ॥ ५ ॥ ( १७ )
यथा बृहतीसहस्रं संपाद्य ध्यानमुक्तं तथैवानुष्टुप्संपादनेनापि ध्यानमुच्यते ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ ( १७ )
अथ षष्ठः खण्डः । ( अष्टादशः )
यद्वाऽनुष्टुवन्तर्भावसंपादनेन बृहती प्रशस्यते—
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहती-
सहस्रस्य संपन्नस्यैकादशानुष्टुभां शतानि भवन्ति
पञ्चविंशतिश्चानुष्टुभ आप्तं वै भूयसा कनीयः, इति ।
षट्त्रिंशदक्षरायामेकैकस्यां बृहत्यां द्वात्रिंशदक्षराया अनुष्टुभ ऊर्ध्वमक्षराणि चत्वा-
र्यतिरिच्यन्ते । तेषां चातिरिक्तानामक्षराणां कृत्स्नेऽपि शस्त्रे सहस्रचतुष्टयं भवति ।
तत्रानुष्टुप्त्सम्पादने सति पञ्चविंशत्युत्तरशतसंख्याका अनुष्टुभो भवन्ति । लोकेऽपि
भूयसाऽधिकेन संख्याविशेषेण न्यूनं संख्यास्वरूपमाप्तं वै स्वीकृतमेव व्याप्तमेव ।
तद्यथा शते पञ्चाशत्संख्याऽन्तर्भवति । सहस्रादौ शतादिसंख्याऽन्तर्भवति । तस्मात्ष-
ट्त्रिंशदक्षरायां बृहत्यां द्वात्रिंशदक्षराया अनुष्टुभोऽन्तर्भावो युक्त इत्यर्थः ।
बृहत्यामनुष्टुभ्वन्तर्भावे कंचिन्मन्त्रमुदाहरति—
तदुक्तमृषिणा, इति ।
१ ग. °भागोऽन्त्राऽऽत्म° । २ ख. ग. घ. ङ. °नामेतेषां ।
१४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
स च मन्त्रः संहितायामेवमाम्नातः—
"वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ।
इन्द्रात्परि तन्वं ममे " इति ।
[ ऋ० सं० म० ८ सू० ७६ ऋ० १२ ]
अत्र मन्त्रद्रष्टा कश्चिदृषिः स्वयं मन्त्ररूपः सन्नेवं ब्रूते । अहं मन्त्रात्मा वाचमनुष्टुभं ब्रूयाम् । इन्द्रात्परमैश्वर्ययुक्ताद्बृहतीरूपात्प्राणात्तन्वं परिममे, तस्य चेन्द्रस्य तनुं शरीरं परितो निर्मितवानस्मि । बृहती तावद्यथोक्तध्यानानुसारेणेन्द्रशब्दाभिधेयस्य प्राणस्य शरीरभूता, तस्यां बृहत्यामन्नुष्टुभमन्तर्भाव्येन्द्रनिमित्तं तस्या अप्यनुष्टुभ इन्द्रशरीरत्वं संपादितवानस्मीत्यर्थः । कीदृशीं वाचमष्टापदीं चतुरक्षरैरष्टाभिः पादैरुपेतम् । तथा नवस्रक्तिमष्टाभ्यः पादेभ्य ऊर्ध्वं बृहतीत्वसंपत्तये पुनरप्येकेन चतुरक्षरेण पादेन योगे सति नवसंख्याकस्रक्तियुक्ता भवति । स्रक्तयः कोणास्तद्युक्ताम् । तथर्तस्पृशमृतं सत्यं प्राणं बृहत्यात्मकं स्पृशतीत्यृतस्पृक्, तादृशीम् । बृहत्यामन्तर्भावात्तद्रूपप्राणेस्पर्श उपपद्यते ।
एतस्य मन्त्रस्य प्रथमपादं व्याचष्टे—
वाचमष्टापदीमहमित्यष्टौ हि चतुरक्षराणि भवन्ति , इति ।
द्वात्रिंशदक्षरायामनुष्टुभि समभागैरष्टभिर्विभज्यमानायां चतुरक्षरपादा अष्टौ संपद्यन्ते ।
द्वितीयपादपूर्वभागं व्याचष्टे—
नवस्रक्तिमिति बृहती संपद्यमाना नवस्रक्ति , इति ।
पूर्वोक्ताऽष्टापदी या वाग्रूपाऽनुष्टुप्तैवान्येन चतुरक्षरपादेन संयोगे सति षट्त्रिंशदक्षरा बृहती संपद्यमाना सती नवस्रक्तिभिश्चतुरक्षरपादरूपैः कोणैरुपता भवति । नवस्रक्तीति विसर्गलोपश्छान्दसः ।
उत्तरभागं व्याचष्टे—
ऋतस्पृशमिति सत्यं वै वाग्वाचा स्पृष्टा , इति ।
येयमनुष्टुब्रूपा वागस्ति सेयमृचा बृहत्या स्पृष्टा संयुक्ता सती सत्यं कदाचिदपि बाधारहितं प्राणदेवं बृहतीरूपत्वेन ध्यातव्यं स्पृशतीति शेषः ।
वाचमष्टापदीम्०—ऋ० सं० म० ८ सू० ७६ ऋ० १२ । नवस्रक्तिम्०—ऋ० सं० म० ८ सू० ७६ ऋ० १२ ।
१ क. ॰णरूपस्य स्पृ । २ घ. ङ. प्राणरूपं ।